षोळशी ।
सवनीयपशोः प्रागग्निष्टोमवत् । सवनीयास्त्रयः पशव आग्नेय ऐन्द्राग्न ऐन्द्रश्चेति । तत्र द्वौ छागौ तृतीयो मेषः ।
अथावाहने- आवह देवान् त्सुन्वते यजमानाय इत्यवसाय अग्निमग्न आ३वह । सोममा३वह । अग्निमावा३वह । इन्द्राग्नी आ३वह । इन्द्रमा३वह । वनस्पतिमा३वह । इन्द्रं वसुमन्तमा३वह । इन्द्रं रुद्रवन्तमा३वह । इन्द्रमादित्यवन्तमृभुवन्तं विभुमन्तं वाजवन्तं बृहस्पतिवन्तं विश्वदेव्यावन्तमा३वह । देवाँ आज्यपाँ आ३वहेत्यादि । अध्रिगौ विशेषः-दैव्याः शमितार आरभध्वमुत मनुष्या उपनयत मेध्यादुर आशासाना मेधपतिभ्यो मेधान् । प्रैभ्योऽग्निं भरत स्तृणीत बर्हिरन्वेनान् माता मन्यतामनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्यः । उदीचीनामेषां पदो निधत्तात् सूर्यं चक्षुर्गमयताद् वातं प्राणमन्ववसृजतादन्तरिक्षमसुं दिशः श्रोत्रं पृथिवीं शरीराणि । एकधैकधैषां त्वच आच्छ्यतात् पुरा पुरा नाभ्या अपिशसो वपा उत्खिदतादन्तरन्तरेवोष्माणं वारयध्वात् । श्येनमेषां वक्षांसि कृणुतात् प्रशसो बाहूञ्च्छला दोषाणि कश्यपे वांसानच्छिद्राः श्रोणीः कवषोरून्त्स्रे कपर्णाष्ठीवतः षड्विंशतिः षड्विंशतिरेषां र्वंक्रयस्ता अनुष्ठ्यो च्यावयताद् गात्रं गात्रमेषामनूनं कृणुतात् । ऊवध्यगोहं पार्थिवं खनतात् । (उपांशु) अस्ना रक्षः संसृजतात् । वनिष्ठूनेषां माराविष्टोरूकम्मन्यमाना नेद्वस्तोके तनये रवितारवत् (उपांशु) शमितारः । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३ उ (उपांशु) अपाप । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३ उ (उपांशु) अपाप । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३ उ (उपांशु) अपाप । शमितारो यदत्र सुकृतं कृणवथास्मासु तद्यद्दुष्कृतमन्यत्र तत् ।
आग्नेयस्य अग्निष्टोमसवनीयपशुवत्, ऐन्द्राग्नस्य तु निरूढवद् याज्यानुवाक्याप्रैषाः । अथेन्द्रस्य-
वपायागे प्रशास्ता- इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः ।
शूरो नृषाता शवसश्चकान आ गोमति व्रजे भजा त्वं नो३म् ॥ (७ । २७ । १)
होता यक्षदिन्द्रं मेषस्य वपाया मेदसो जुषतां हविर्होतर्यज ॥
होता- ये३ यजामह उरुं नो लोकमनु नेषि विद्वान्त्स्वर्वज्ज्योतिरभयं स्वस्ति ।
ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता३ वौ३षट् ॥ (६ । ४७ । ८)
पशुपुरोडाशे प्रशास्ता- य इन्द्र शुष्मो मघवन्ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः ।
त्वं हि दृळ्हा मघवन्विचेता अपा वृधि परिवृतं न राधो४म् ॥ (७ । २७ । २)
होता यक्षदिन्द्रं पुरोळाशस्य जुषतां हविर्होतर्यज ।
होता- ये३ यजामहे प्र स साहिषे पुरुहूत शत्रून् ज्येष्ठस्ते शुष्म इह रातिरस्तु ।
इन्द्राभर दक्षिणेना वसूनि पतिः सिन्धूनामसि रेवतीना३ं वौ३षट् ॥ [१० । १८० । १]
हविर्यागे प्रशास्ता- इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति ।
ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वो३म् ॥ [७ । २७ । ३]
[[१६४]]
होता यक्षदिन्द्रं मेषस्य हविष आददद्यमध्यतो मेद उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्यागृभः । घसन्नूनं घासे अज्राणां यवस प्रथमानां सुमत्क्षराणां शतरुद्रियाणामग्निष्वात्तानां पीवो पवसनानां पार्श्वतः श्रोणितः शितामत उत्सादतोङ्गादङ्गादवत्तानां करदेवेन्द्रो जुषतां हविर्होतर्यज ॥
होता- ये३ यजामहे स्वस्तये वाजिभिश्च प्रणेतः सं यन्महीरिष आसत्सि पूर्वीः ।
रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावा३ न्वौ३षट् ॥ (३ । ३० । १८)
वनस्पतियागे विशेषः– होता यक्षद्वनस्पतिमभि हि पिष्टतमया रभिष्टया रशनयाधित । यत्राग्नेराज्यस्य हविषः प्रियाधामानि यत्र सोमस्याज्यस्य हविषः प्रियाधामानि यत्राग्नेश्छागस्य हविषः प्रियाधामानि यत्रेन्द्राग्न्योश्छागस्य हविषः प्रियाधामानि यत्रेन्द्रस्य मेषस्य हविषः प्रियाधामानि यत्र वनस्पतेः प्रियापाथांसि यत्र देवानामाज्यपानां प्रियाधामानि यत्राग्नेर्होतुः प्रियाधामानि तत्रैतान् प्रस्तुत्येवोपस्त्युत्येवोपावस्रक्षद् रभीयस इव कृत्वीकरदेवं देवो वनस्पतिर्जुषतां हविर्होतर्यज ।
स्विष्टकृत्प्रैषे विशेषः- होता यक्षदग्निं स्विष्टकृतमयाळग्निरग्नेराज्यस्य हविषः प्रियाधामान्ययाट् सोमस्याज्यस्य हविषः प्रियाधामान्ययाळग्नेश्छागस्य हविषः प्रियाधामान्ययाळिन्द्राग्न्योश्छागस्यहविषः प्रियाधामान्ययाळिन्द्रस्य मेषस्य हविषः प्रियाधामान्ययाड् वनस्पतेः प्रियापाथांस्ययाड् देवानामाज्यपानां प्रियाधामानि यक्षदग्नेर्होतुः प्रियाधामानि यक्षत्स्वं महिमानामायजतामेज्या इषः कृणातु सो अध्वरा जातवेदा जुषतां हविर्होतर्यज ॥
केवलैन्द्रपक्षे अध्रिगुप्रभृति सर्वं तदनुसारेण कर्तव्यम् । आग्निमारुतशस्त्रानन्तरं त्रीण्युक्थशस्त्राणि ततः षोडशीशस्त्रम् । सा षोडशी द्विविधा- अविहृतो विहृतश्चेति । सामगा यदि नानदषोडशिसाम कुर्युस्तदा अविहृतः षोडशी शंस्तव्यः । यदि गौरिवीतं साम तदा विहृतषोडशी शंस्तव्यः ।
अविहृतषोडशीशस्त्रम् ।
नानदषोडशीस्तोत्रमेकविंशस्तोमम् । । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे
हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शोशो३ंसावो३म्
असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि ।
आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभो३म्
इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम् ।
ऋषीणां च स्तुतीरुप यज्ञं च मानुषाणो३म्
आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी ।
अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुनो३ं
शो३ंसावो३म् इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् ।
शुक्रस्य त्वाभ्यक्षरन् धारा ऋतस्य सादनो३म्
[[१६५]]
इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन ।
सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहो३ं
नकिष्ट्वद् रथीतरो हरी यदिन्द्र यच्छसे ।
नकिष्ट्वानु मज्मना नकिः स्वश्व आनशो३ं (१ । ८४ । १-६)
(तिस्रो गायत्र्यः)
शो३ंसावो३म् आ त्वा वहन्तु हरयो वृषणं सोमपीतये । इन्द्र त्वा सूरचक्षसो३म्
इमा धाना घृतस्नुवो हरी इहोप वक्षतः । इन्द्रं सुखतमे रथो३म्
इन्द्रं प्रातर्हवामह इन्द्रं प्रयत्यध्वरे । इन्द्रं सोमस्य पीतयो३म् (१ । १६ । १-३)
(तिस्रः पड्क्तयः)
उपो षु शृणुही गिरो मघवन् मातथा इव ।
यदा नः सूनृतावतः कर आदर्थयास इत् । योजा न्विन्द्र ते हरो३ं (१ । ८२ । १)
सुसंदृशं त्वा वयं मघवन् वन्दिषीमहि ।
प्र नूनं पूर्णवन्धुरः स्तुतो याहि वशाँ अनु । योजा न्विन्द्र ते हरो३ं
स घा तं वृषणं रथमधि तिष्ठाति गोविदम् ।
यः पात्रं हारियोजनं पूर्णमिन्द्र चिकेतति । योजा न्विन्द्र हरो३ं (१ । ८२ । ३-४)
(औष्णिहतृक्)
यदिन्द्र पृतनाज्ये देवास्त्वा दधिरे पुरः । आदित्ते हर्यता हरी ववक्षतो३ं
यदा वृत्रं नदीवृतं शवसा वज्रिन्नवधीः । आदित्ते हर्यता हरी ववक्षतो३ं
यदा ते विष्णुरोजसा त्रीणि पदा विचक्रमे । आदित्ते हर्यता हरी ववक्षतो३ं (८ । १२ । २५-२७)
(बार्हततृक्)
अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः ।
जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथो३ं
हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः ।
विद्वांश्चिकित्वान् हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियो३ं
द्यामिन्द्रो हरिधायसं पृथिवीं हरिवर्पसम् ।
अधारयद्धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरो३म् (३ । ४४ । १-३)
(द्विपदा) आ धूर्ष्वस्मै दधाताश्वान् । इन्द्रो न वज्री हिरण्यबाहो३म् (७ । ३४ । ४)
(त्रिष्टुप्) ब्रह्मन्वीर ब्रह्मकृतिं जुषाणः । अर्वाचीनो हरिभिर्याहि तूयो३म्
अस्मिन्नू षु सवने मादयस्व । उप ब्रह्माणि शृणव इमा नो३म् (७ । २९ । २)
[[१६६]]
(द्विपदाः)
एष ब्रह्मा य ऋत्वियः । इन्द्रो नाम श्रुतो गृणो३ं
विस्रुतयो यथापथः । इन्द्र त्वद्यन्ति रातयो३ं
त्वामिच्छवसस्पते । यन्ति गिरो न संयतो३म् (आ. श्रौ. ६ । २ । ६)
(जगत्यः)
प्र ते महे विदथे शंसिषं हरी । प्र ते वन्वे वनुषो हर्यतं मदो३ं
घृतं न यो हरिभिश्चारु सेचते । आ त्वा विशन्तु हरिवर्पसं गिरो३ं
हरिं हि योनिमभि ये समस्वरन् । हिन्वन्तो हरी दिव्यं यथा सदो३म्
आ यं पृणन्ति हरिभिर्न धेनवः । इन्द्राय शूषं हरिवन्तमर्चतो३ं
सो अस्य वज्रो हरितो य आयसः । हरिर्निकामो हरिरा गभस्त्यो३ं
द्युम्नी सुशिप्रो हरिमन्युसायकः । इन्द्रे नि रूपा हरिता मिमिक्षिरो३ं (१० । ९६ । १-३)
(अतिच्छन्दास्तृक् द्वेधाकारम्)
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मः ।
तृपत् सोममपिबद्विष्णुना सुतं यथावशो३ं
स ईं ममाद महि कर्म कर्तवे महामुरुम् ।
सैनं सश्चद् देवो देवं सत्यमिन्द्रं सत्य इन्दो३म्
अध त्विषीमाँ अभ्योजसा क्रिविं युधाभवत् ।
आ रोदसी अपृणदस्य मज्मना प्र वावृधो३म्
अधत्तान्यं जठरे प्रेमरिच्यत ।
सैनं सश्चद् देवो देवं सत्यमिन्द्रं सत्य इन्दो३म्
साकं जातः क्रतुना साकमोजसा ववक्षिथ ।
साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणो३ं
दाता राधः स्तुवते काम्यं वसु ।
सैनं सश्चद् देवो देवं सत्यमिन्द्रं सत्य इन्दो३म् (२ । २२ । १-३)
(अतिच्छन्दास्तृक् अनुष्टुब्गायत्रीकारम्)
प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।
अभीके चिदु लोककृत् सङ्गे समत्सु वृत्रहो३म्
अस्माकं बोधि चोदिता नभन्तामन्यकेषाम् । ज्याका अधि धन्वसो३ं
त्वं सिन्धूँरवासृजोऽधराचो अहन्नहिम् ।
[[१६७]]
अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यो३ं
तं त्वा परि ष्वजामहे नभन्तामन्यकेषाम् । ज्याका अधि धन्वसो३ं
वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।
अस्तासि शत्रवे वधं यो न इन्द्र जिघांसतो३ं
या ते रातिर्ददिर्वसु नभन्तामन्यकेषाम् । ज्याका अधि धन्वसो३ं (१०-१३३-३)
(आनुष्टुभाः)
प्रचेतन प्रचेतयायाहि पिब मत्स्व ।
क्रतुश्छन्द ऋतं बृहत्सुम्न आ धेहि नो वसो३ं (आ.श्रौ.६ । २ । ९)
प्र प्र वस्त्रिष्टुभमिषं मन्दद्वीरायेन्दवे ।
धिया वो मेधसातये पुरंध्या विवासतो३ं
नदं व ओदतीनां नदं योयुवतीनाम् ।
पतिं वो अघ्न्यानां धेनूनामिषुध्यसो३ं
ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस्त्रिष्वा रोचने दिवो३म् (८ । ६९ । १-३)
अर्चत प्रार्चत प्रियमेधासो अर्चत ।
अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चतो३म्
अव स्वराति गर्गरो गोधा परि सनिष्वणत् ।
पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतो३म्
आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः ।
अपस्फुरं गृभायत सोममिन्द्राय पातवो३ं (८ । ६९ । ८-१०)
यो व्यतीँरफाणयत् सुयुक्ताँ उप दाशुषे ।
तक्वो नेता तदिद्वपुरुपमा यो अमुच्यतो३म्
अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः ।
भिनत् कनीन ओदनं पच्यमानं परो गिरो३ं
शो३ंसावो३म् अस्य मदे जरितरिन्द्रः सोमस्य मत्सत् । अस्य मदे जरितरिन्द्रोऽहिमहन् । अस्य मदे जरितरिन्द्रो वृत्रमहन् । अस्य मदे जरितरिन्द्रोऽपां वेगमैरयत् । अस्य मदे जरितरिन्द्रोऽजिन्वदजुवोऽपिन्वदपितः । अस्य मदे जरितरिन्द्र उदार्यं वर्णमतिरदवदासीद् विशो अस्तभ्नात् । अस्य मदे जरितरिन्द्र उद्द्यामस्तभ्नादप्रथयत् पृथिवीम् । अस्य मदे जरितरिन्द्रो दिवि सूर्यमैरयद् व्यन्तरिक्षमतिरत् । अस्य मदे जरितरिन्द्रः समुद्रान् प्रकुपिताँ अरम्णात् । अस्य मदे जरितरिन्द्र ऋश्याँ इव पम्फणतः पर्वतान् प्रकुपिताँ अरम्णात् । अस्य मदे जरितरिन्द्र इह श्रवदिह
[[१६८]]
सोमस्य मत्सत् । प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु । चित्रश्चित्राभिरूतिभिः । श्रवद्ब्रह्माण्यावसा गमो३म्
अर्भको न कुमारकोऽधि तिष्ठन् नवं रथम् ।
स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतो३ं (८ । ६९ । १३-१५)
शो३ंसावो३म् उद्यद् ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि ।
मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदो३म् ॥ (८ । ६९ । ७) इति त्रिः परिदध्यात् ।
एवाह्येवैवाहीन्द्र३ । एवा हि शक्रो वशी हि शक्रः । [आ.श्रौ.६ । २ । १२] इति शस्त्वा जपति ।
ये३ यजामह अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते ।
ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषञ्जठर आ वृषस्वा३ वौ३षट् ॥ (१० । ९६ । १३)
सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।
विहृतषोडशीशस्त्रम् ।
गौरिवीतषोडशीस्तोत्रमेकविंशस्तोमम् । । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे
हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शोशो३ंसावो३म्
इन्द्र जुषस्व प्रवहाऽयाहि शूर हरी इह ।
पिबा सुतस्य मतिर्न मध्वश्चकानश्चारुर्मदायो३म्
इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न ।
अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अस्थो३म्
इन्द्रस्तुराषाण्मित्रो न जघान वृत्रं यतिर्न ।
बिभेद वलं भृगुर्न ससाहे शत्रून् मदे सोमस्यो३ं
श्रुधी हवं न इन्द्रो न गिरो जुषस्व वज्री न ।
इन्द्र सयुग्भिर्दिद्युं न मत्स्वा मदाय महे रणायो३म्
आ त्वा विशन्तु कविर्न सुतास इन्द्र त्वष्टा न ।
पृणस्व कुक्षी सोमो नाविड्ढि शूर धिया हि यानो३ं
साधुर्न गृध्नुर्ऋभुर्नास्तेव शूरश्चमसो न ।
यातेव भीमो विष्णुर्न त्वेषः समत्सु क्रतुर्नो३म् [आ.श्रौ.६ । ३ । १]
आ त्वा वहन्तु हरय उपो षु शृणुही गिरः ।
वृषणं सोमपीतये मघवन् मातथा इवो३म्
इन्द्र त्वा सूरचक्षसो यदा नः सूनृतावतः ।
[[१६९]]
कर आदर्थयास इद् योजा न्विन्द्र ते हरो३ं
इमा धाना घृतस्नुवः सुसंदृशं त्वा वयम् ।
हरी इहोप वक्षतो मघवन् वन्दिषीमहो३म्
इन्द्रं सुखतमे रथे प्र नूनं पूर्णवन्धुरः ।
स्तुतो याहि वशाँ अनु योजा न्विन्द्र ते हरो३ं
इन्द्रं प्रातर्हवामहे स घा तं वृषणं रथम् ।
इन्द्रं प्रयत्यध्वरेऽधि तिष्ठाति गोविदो३म्
इन्द्रं सोमस्य पीतये यः पात्रं हारियोजनम् ।
पूर्णमिन्द्र चिकेतति योजा न्विन्द्र हरो३ं
यदिन्द्र पृतनाज्येऽयं ते अस्तु हर्यतः ।
देवास्त्वा दधिरे पुरः सोम आ हरिभिः सुतो३म्
आदित्ते ह जुषाण इन्द्र हरिभिर्न आ गहि ।
र्यता हरी ववक्षतुरा तिष्ठ हरितं रथो३ं
यदा वृत्रं नदीवृतं हर्यन्नुषसमर्चयः ।
शवसा वज्रिन्नवधीः सूर्यं हर्यन्नरोचयो३म्
आदित्ते ह विद्वांश्चिकित्वान् हर्यश्व वर्धसे ।
र्यता हरी ववक्षतुरिन्द्र विश्वा अभि श्रियो३ं
यदा ते विष्णुरोजसा द्यामिन्द्रो हरिधायसम् ।
त्रीणि पदा विचक्रमे पृथिवीं हरिवर्पसो३म्
आदित्ते हाधारयद्धरितोर्भूरि भोजनम् ।
र्यता हरी ववक्षतुर्ययोरन्तर्हरिश्चरो३म्
आ धूर्ष्वस्मै ब्रह्मन् वीर ब्रह्मकृतिं जुषाणः ।
दधाताश्वानर्वाचीनो हरिभिर्याहि तूयो३म्
इन्द्रो न वज्र्यस्मिन्नू षु सवने मादयस्व ।
हिरण्यबाहुरुप ब्रह्माणि शृणव इमा नो३म्
एष ब्रह्मा प्र ते महे विदथे शंसिषं हरी ।
य ऋत्वियः प्र ते वन्वे वनुषो हर्यतं मदो३ं
इन्द्रो नाम घृतं न यो हरिभिश्चारु सेचते ।
[[१७०]]
श्रुतो गृण आ त्वा विशन्तु हरिवर्पसं गिरो३ं
विस्रुतयो हरिं हि योनिमभि ये समस्वरन् ।
यथा पथो हिन्वन्तो हरी दिव्यं यथा सदो३म्
इन्द्र त्वद्या यं पृणन्ति हरिभिर्न धेनवः ।
न्ति रातय इन्द्राय शूषं हरिवन्तमर्चतो३ं
त्वामिच्छव सो अस्य वज्रो हरितो य आयसः ।
सस्पते हरिर्निकामो हरिरा गभस्त्यो३ं
यन्ति गिरो द्युम्नी सुशिप्रो हरिमन्युसायकः ।
न संयत इन्द्रे नि रूपा हरिता मिमिक्षिरो३ं
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मः ।
तृपत् सोममपिबद्विष्णुना सुतं यथावशो३ं
स ईं ममाद महि कर्म कर्तवे महामुरुम् ।
सैनं सश्चद् देवो देवं सत्यमिन्द्रं सत्य इन्दो३म्
अध त्विषीमाँ अभ्योजसा क्रिविं युधाभवत् ।
आ रोदसी अपृणदस्य मज्मना प्र वावृधो३म्
अधत्तान्यं जठरे प्रेमरिच्यत प्रचेतन ।
सैनं सश्चद् देवो देवं सत्यमिन्द्रं सत्य इन्दो३म्
साकं जातः क्रतुना साकमोजसा ववक्षिथ ।
साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणो३ं
दाता राधः स्तुवते काम्यं वसु प्रचेतय ।
सैनं सश्चद् देवो देवं सत्यमिन्द्रं सत्य इन्दो३म्
प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।
अभीके चिदु लोककृत् सङ्गे समत्सु वृत्रहो३म्
अस्माकं बोधि चोदितायाहि पिब मत्स्व ।
नभन्तामन्यकेषां ज्याका अधि धन्वसो३ं
त्वं सिन्धूँरवासृजोऽधराचो अहन्नहिम् ।
अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यो३ं
तं त्वा परि ष्वजामहे क्रतुश्छन्द ऋतं बृहत् ।
[[१७१]]
नभन्तामन्यकेषां ज्याका अधि धन्वसो३ं
वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।
अस्तासि शत्रवे वधं यो न इन्द्र जिघांसतो३ं
या ते रातिर्ददिर्वसु सुम्न आ धेहि नो वसो ।
नभन्तामन्यकेषां ज्याका अधि धन्वसो३ं
प्र प्र वस्त्रिष्टुभमिषं मन्दद्वीरायेन्दवे ।
धिया वो मेधसातये पुरंध्या विवासतो३ं
नदं व ओदतीनां नदं योयुवतीनाम् ।
पतिं वो अघ्न्यानां धेनूनामिषुध्यसो३ं
ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस्त्रिष्वा रोचने दिवो३म् (८ । ६९ । १-३)
अर्चत प्रार्चत प्रियमेधासो अर्चत ।
अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चतो३म्
अव स्वराति गर्गरो गोधा परि सनिष्वणत् ।
पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतो३म्
आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः ।
अपस्फुरं गृभायत सोममिन्द्राय पातवो३ं (८ । ६९ । ८-१०)
यो व्यतीँरफाणयत् सुयुक्ताँ उप दाशुषे ।
तक्वो नेता तदिद्वपुरुपमा यो अमुच्यतो३म्
अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः ।
भिनत् कनीन ओदनं पच्यमानं परो गिरो३ं
शो३ंसावो३म् अस्य मदे जरितरिन्द्रः सोमस्य मत्सत् । अस्य मदे जरितरिन्द्रोऽहिमहन् । अस्य मदे जरितरिन्द्रो वृत्रमहन् । अस्य मदे जरितरिन्द्रोऽपां वेगमैरयत् । अस्य मदे जरितरिन्द्रोऽजिन्वदजुवोऽपिन्वदपितः । अस्य मदे जरितरिन्द्र उदार्यं वर्णमतिरदवदासीद् विशो अस्तभ्नात् । अस्य मदे जरितरिन्द्र उद्द्यामस्तभ्नादप्रथयत् पृथिवीम् । अस्य मदे जरितरिन्द्रो दिवि सूर्यमैरयद् व्यन्तरिक्षमतिरत् । अस्य मदे जरितरिन्द्रः समुद्रान् प्रकुपिताँ अरम्णात् । अस्य मदे जरितरिन्द्र ऋश्याँ इव पम्फणतः पर्वतान् प्रकुपिताँ अरम्णात् । अस्य मदे जरितरिन्द्र इह श्रवदिह सोमस्य मत्सत् । प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु । चित्रश्चित्राभिरूतिभिः । श्रवद् ब्रह्माण्यावसा गमो३म्
अर्भको न कुमारकोऽधि तिष्ठन् नवं रथम् ।
[[१७२]]
स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतो३ं (८ । ६९ । १३-१५)
शो३ंसावो३म् उद्यद् ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि ।
मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदो३म् ॥ (८ । ६९ । ७) इति त्रिः परिदध्यात् ।
उक्थं वाचीन्द्राय देवेभ्यः । इति शस्त्वा जपति ।
ये३ यजामह एवाह्येवैवापाः पूर्वेषां हरिवः सुतानामेवाहीन्द्र३ अथो इदं सवनं केवलं ते ।
एवा हि शक्रो ममद्धि सोमं मधुमन्तमिन्द्र वशी हि शक्रः सत्रा वृषञ्जठर आ वृषस्वा३ वौ३षट् ॥ [आ.श्रौ.६ । ३ । १६]
सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।
विहृतेऽविहृते च आहृतं षोडशिपात्रं समुपहावं भक्षयन्ति । घर्मे च ये भक्षिणस्ते, मैत्रावरुणस्त्रयश्छन्दोगाः । प्रथमं होता भक्षयति । स्वव्यतिरिक्तान् भक्षिण उपहूय
इन्द्र षोडशिन्नोजस्विंस्त्वं देवेष्वस्योजस्वन्तमामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु ।
तस्य त इन्द्रपीतस्यानुष्टुप् छन्दस उपहूतस्योपहूतो भक्षयामि इति भक्षजपः । मैत्रावरुणोऽप्यनेनैव भक्षयति स्वव्यतिरिक्तान् भक्षिण उपहूय ।
विहृतस्य प्रतिगरे विशेषः- आ त्वा वहन्तु इत्यारभ्य प्रप्र वस्त्रिष्टुभम् इत्येत्पर्यन्तमनवाने- ओथामो दैवमदे, प्रणवे- मदामो दैवोमथ इति प्रतिगरौ भवतः । अन्यत् समानम् । ततो मृगतीर्थसर्पणमनूयाजादिकम् । सूक्तवकप्रैषे-
अग्निमद्य होयारमवृणीतायं सुन्वन् यजमानः पचन् पक्तीः पचन् पुरोळाशान् गृह्णन्नग्नय आज्यं गृह्णन्त्सोमायाज्यं बध्नन्नग्नय इन्द्राग्नोभ्यां छागौ बध्नन्निन्द्राय मेषं सुन्वन्निन्द्राय सोमं भृञ्जन् हरिभ्यां धानाः सूपस्था अद्य देवो वनस्पतिरभवदग्नय आज्येन सोमायाज्येनाग्नय इन्द्राग्निभ्यां छागाभ्यामिन्द्राय मेषेणेन्द्राय सोमेन हरिभ्यां धानाभिरद्यतं मेदस्तः प्रतिपचताग्रभीषुरवीवृधन्त पुरोळाशैरपादिन्द्रः सोमं गवाशिरं यवाशिरं तीव्रान्तं बहुदमध्यमुपोत्थामदाश्रौद्विमदाँ आनळवीवृधतां गूषैस्त्वामद्य ऋष आर्षेय ऋषीणां नपादवृणीतायं सुन्वन् यजमानो बहुभ्य आसङ्गतेभ्यः । एष मे देवेषु वसुवार्यायक्ष्यत इति ता या देवा देवदानान्यदुस्तान्यस्मा आ च शास्वा च गुरस्वेषितश्च होतरसि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रू३हि ॥
होता- इदं द्यावापृथिवी इत्यदि अग्निरिदं…, सोम इदं…, अग्निरिदं…, इन्द्राग्नी इदं…, इन्द्र इदं…, वनस्पतिरिदं…, इन्द्रो वसुमानिदं…, इन्द्रो रुद्रवानिदं…, इन्द्र आदित्यवानृभुमान् विभुमान् बृहस्पतिवान् विश्वदेव्यावानिदं…, देवा आज्यपा इत्यादि । शंयुवाकादि यज्ञपुच्छं समानमान्तम् । सन्तिष्ठते षोडशी ॥
[[१७३]]
वाजपेयः
अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् ।
दूरेदृशं गृहपतिमथर्युम् ॥ (७-१-१)
तमग्निमस्ते वसवो न्यृण्वन्सुप्रतिचक्षमवसे कुतश्चित् ।
दक्षाय्यो यो दम आस नित्यः ॥ (७-१-२)
प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ ।
त्वां शश्वन्त उप यन्ति वाजाः ॥ (७-१-३)
प्र ते अग्नयोऽग्निभ्यो वर्निः सुवीरासः शोशुचन्त द्युमन्तः ।
यत्रा नरः समासते सुजाताः ॥ (७-१-४)
दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य प्रशस्तम् ।
न यं यावा तरति यातुमावान् ॥ (७-१-५)
उप यमेति युवतिः सुदक्षं दोषा वस्तोर्हविष्मती घृताची ।
उप स्वैनमरमतिर्वसूयुः ॥ (७-१-६)
विश्वा अग्नेऽप दहारातीर्यभिस्तपोभिरदहो जरूथम् ।
प्र निस्वरं चातयस्वामीवाम् ॥ (७-१-७)
आ यस्ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक ।
उतो न एभि स्तवथैरिह स्याः ॥ (७-१-८)
वि ये ते अग्ने भेजिरे अनीकं मर्ता नरः पित्र्यासः पुरुत्रा ।
उतो न एभिः सुमना इह स्याः ॥ (७-१-९)
इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीरभि सन्तु मायाः ।
ये मे धियं पनयन्त प्रशस्ताम् ॥ (७-१-१०)
मा शूने अग्ने नि षदाम नृणां माशेषसोऽवीरता परि त्वा ।
प्रजावतीषु दुर्यासु दुर्य ॥ (७-१-११)
यमश्वी नित्यमुपयाति यज्ञं प्रजावन्त्स्वपत्यं क्षयोः ।
स्वजन्मना शेषसा वावृधानम् ॥ (७-१-१२)
पाहि नो अग्ने रक्षसो अजुष्टात्पाहि धूर्तेरररुषो अघायोः ।
त्वा युजा पृतनायूँरभि ष्याम् ॥ (७-१-१३)
सेदग्निरग्नीँरत्यस्त्वन्यान्यत्र वाजी तनयो वीळुपाणिः ।
[[१७४]]
सहस्रपाथा अक्षरा समेति ॥ (७-१-१४)
सेदग्निर्यो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात् ।
सुजातासः परि चरन्ति वीराः ॥ (७-१-१५)
अयं सो अग्निराहुतः पुरुत्रा यमीशानः समिदिन्धे हविष्मान् ।
परि यमेत्यध्वरेषु होता ॥ (७-१-१६)
त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या ।
उभा कृण्वन्तो वहतू मियेधे ॥ (७-१-१७)
इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ ।
प्रति न ईं सुरभीणि व्यन्तु ॥ (७-१-१८)
मा नो अग्नेऽवीरते परा दा दुर्वाससेऽमतये मा नो अस्यै ।
मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः ॥ (७-१-१९)
नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः ।
रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥ (७-१-२०)
त्वमग्ने सुहवो रण्वसंदृक्सुदीती सूनो सहसो दिदीहि ।
मा त्वे सचा तनये नित्य आ धङ् मा वीरो अस्मन्नर्यो वि दासीत् ॥ (७-१-२१)
मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्वग्निषु प्र वोचः ।
मा ते अस्मान्दुर्मतयो भृमाच्चिद्देवस्य सूनो सहसो नशन्त ॥ (७-१-२२)
स मर्तो अग्ने स्वनीक रेवानमर्त्ये य आजुहोति हव्यम् ।
स देवता वसुवनिं दधाति यं सूरिरर्थी पृच्छमान एति ॥ (७-१-२३)
महो नो अग्ने सुवितस्य विद्वान्रयिं सूरिभ्य आ वहा बृहन्तम् ।
येन वयं सहसावन्मदेमाविक्षितास आयुषा सुवीराः ॥ (७-१-२४)
नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः ।
रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥ (७-१-२५)
अग्न इन्द्रश्च दाशुषो दुरोणे सुतावतो यज्ञमिहोप यातम् ।
अमर्धन्ता सोमपेयाय देवा ॥ (३-२५-४)
ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य ।
[[१७५]]
महि वां क्षत्रं देवेषु ॥ (५-६८-३)
ऋतमृतेन सपन्तेषिरं दक्षमाशाते ।
अद्रुहा देवौ वर्धेते ॥ (५-६८-४)
वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः ।
बृहन्तं गर्तमाशाते ॥ (५-६८-५)
ता वां सम्यगद्रुह्वाणेषमश्याम धायसे ।
वयं ते रुद्रा स्याम ॥ (५-७०-२)
पातं नो रुद्रा पायुभिरुत त्रायेथां सुत्रात्रा ।
तुर्याम दस्यून्तनूभिः ॥ (५-७०-३)
मा कस्याद्भुतक्रतू यक्षं भुजेमा तनूभिः ।
मा शेषसा मा तनसा ॥ (५-७०-४)
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे । जुहूमसि द्यवि द्यवि ॥ (१-४-१)
उप नः सवना गहि सोमस्य सोमपाः पिब । गोदा इद्रेवतो मदः ॥ (१-४-२)
अथा ते अन्तमानां विद्याम सुमतीनाम् । मा नो अति ख्य आ गहि ॥ (१-४-३)
अयमु ते समतसि कपोत इव गर्भधिम् । वचस्तच्चिन्नोहसे ॥ (१-३०-४)
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते । विभूतिरस्तु सूनृता ॥ (१-३०-५)
ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो । समन्येषु ब्रवावहै ॥ (१-३०-६)
तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत् ।
कृष्णा कृणोति जिह्वया ॥ (६-६०-१०)
य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः ।
द्युम्नाय सुतरा अपः ॥ (६-६०-११)
ता नो वाजवतीरिष आशून् पिपृतमर्वतः ।
इन्द्रमग्निं च वोळ्हवे ॥ (६-६०-१२)
आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम् ।
रसा दधीत वृषभम् ॥ (८-७२-१३)
[[१७६]]
ते जानत स्वमोक्यं सं वत्सासो न मातृभिः ।
मिथो नसन्त जामिभिः ॥ (८-७२-१४)
उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि ।
इन्द्रे अग्ना नमः स्वः ॥ (८-७२-१५)
कया शुभा सवयसः सनीळाः समान्या मरुतः सं मिमिक्षुः ।
कया मती कुत एतास एतेऽर्चन्ति शुष्मं वृषणो वसूया ॥ (१-१६५-१)
कस्य ब्रह्माणि जुजुषुर्युवानः को अध्वरे मरुत आ ववर्त ।
श्येनाँ इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम ॥ (१-१६५-२)
कुतस्त्वमिन्द्र माहिनः सन्न एको यासि सत्पते किं त इत्था ।
सं पृच्छसे समराणः शुभानैर्वोचेस्तन्नो हरिवो यत्ते अस्मे ॥ (१-१६५-३)
ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः ।
आ शासते प्रति हर्यन्त्युक्थेमा हरी वहतस्ता नो अच्छ ॥ (१-१६५-४)
अतो वयमन्तमेभिर्युजानाः स्वक्षत्रेभिस्तन्वः शुम्भमानाः ।
महोभिरेताँ उप युज्महे न्विन्द्र स्वधामनु हि नो बभूथ ॥ (१-१६५-५)
क्व स्या वो मरुतः स्वधासीद्यन्मामेकं समधत्ताहिहत्ये ।
अहं ह्य् ऊग्रस्तविषस्तुविष्मान्विश्वस्य शत्रोरनमं वधस्नैः ॥ (१-१६५-६)
भूरि चकर्थ युज्येभिरस्मे समानेभिर्वृषभ पौंस्येभिः ।
भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद्वशाम ॥ (१-१६५-७)
वधीं वृत्रं मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् ।
अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः ॥ (१-१६५-८)
अनुत्तमा ते मघवन्नकिर्नु न त्वावाँ अस्ति देवता विदानः ।
न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥ (१-१६५-९)
एकस्य चिन्मे विभ्वस्त्वोजो या नु दधृष्वान्कृणवै मनीषा ।
अहं ह्य् ऊग्रो मरुतो विदानो यानि च्यवमिन्द्र इदीश एषाम् ॥ (१-१६५-१०)
अमन्दन्मा मरुत स्तोमो अत्र यन्मे नरः श्रुत्यं ब्रह्म चक्र ।
इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस्तन्वे तनूभिः ॥ (१-१६५-११)
[[१७७]]
एवेद्येते प्रति मा रोचमाना अनेद्यः श्रव एषो दधानाः ।
संचक्ष्या मरुतश्चन्द्रवर्णा अच्छान्त मे च्छदयाथा च नूनम् ॥ (१-१६५-१२)
को न्वत्र मरुतो मामहे वः प्र यातन सखीँरच्छा सखायः ।
मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म ऋतानाम् ॥ (१-१६५-१३)
आ यद्दुवस्याद्दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा ।
ओ षु वर्त्त मरुतो विप्रमच्छेमा ब्रह्माणि जरिता वो अर्चत् ॥ (१-१६५-१४)
एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनुाीरदानुम् ॥ (१-१६५-१५)
त्वामिद्धि हवामहे साता वाजस्य कारवः ।
त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥ (६-४६-१)
स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः ।
गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥ (६-४६-२)
तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः ।
सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥ (१०-१२०-१)
वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।
अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥ (१०-१२०-२)
त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यद्येते त्रिर्भवन्त्यूमाः ।
स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥ (१०-१२०-३)
इति चिद्धि त्वा धना जयन्तं मदे मदे अनुमदन्ति विप्राः ।
ओजीयो धृष्णो स्थिरमा तनुष्व मा त्वा दभन्यातुधाना दुरेवाः ॥ (१०-१२०-४)
त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।
चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥ (१०-१२०-५)
स्तुषेय्यं पुरुवर्पसमृभ्वमिनतममाप्त्यमाप्त्यानाम् ।
आ दर्षते शवसा सप्त दानून्प्र साक्षते प्रतिमानानि भूरि ॥ (१०-१२०-६)
नि तद्दधिषेऽवरं परं च यस्मिन्न आविथावसा दुरोणे ।
आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि ॥ (१०-१२०-७)
[[१७८]]
इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषमग्रियः स्वर्षाः ।
महो गोत्रस्य क्षयति स्वराजो दुरश्च विश्वा अवृणोदप स्वाः ॥ (१०-१२०-८)
एवा महान्बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।
स्वसारो मातरिभ्वरीररिप्रा हिन्वन्ति च शवसा वर्धयन्ति च ॥ (१०-१२०-९)
बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् ।
सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि ॥ (४-५०-४)
बृहस्पतिः समजयद्वसूनि महो व्रजान्गोमतो देव एषः ।
अपः सिषासन्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ॥ (६-७३-३)
त्वामीळते अजिरं दूत्याय हविष्मन्तः सदमिन्मानुषासः ।
यस्य देवैरासदो बर्हिरग्नेऽहान्यस्मै सुदिना भवन्ति ॥ (७-११-२)
अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः ।
त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्न अमृतस्य नाभिम् ॥ (३-१७-४)
तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् ।
श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि ॥ (५-८२-१)
अस्य हि स्वयशस्तरं सवितुः कच्चन प्रियम् ।
न मिनन्ति स्वराज्यम् ॥ (५-८२-२)
स हि रत्नानि दाशुषे सुवाति सविता भगः ।
तं भागं चित्रमीमहे ॥ (५-८२-३)
अद्या नो देव सवितः प्रजावत्सावीः सौभगम् ।
परा दुष्वप्न्यं सुव ॥ (५-८२-४)
विश्वानि देव सवितर्दुरितानि परा सुव ।
यद्भद्रं तन्न आ सुव ॥ (५-८२-५)
अनागसो अदितये देवस्य सवितुः सवे ।
विश्वा वामानि धीमहि ॥ (५-८२-६)
[[१७९]]
तद्देवस्य सवितुर्वार्यं महद्वृणीमहे असुरस्य प्रचेतसः ।
च्छर्दिर्यन दाशुषे यच्छति त्मना तन्नो महाँ उदयान्देवो अक्तुभिः ॥ (४-५३-१)
दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिं प्रति मुञ्चते कविः ।
विचक्षणः प्रथयन्न आपृणन्नुर्वजीजनत्सविता सुम्नमुक्थ्यम् ॥ (४-५३-२)
आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे ।
प्र बाहू अस्राक्सविता सवीमनि निवेशयन्प्रसुवन्न अक्तुभिर्जगत् ॥ (४-५३-३)
अदाभ्यो भुवनानि प्रचाकशद्व्रतानि देवः सविताभि रक्षते ।
प्रास्राग्बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति ॥ (४-५३-४)
त्रिरन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस्त्रीणि रोचना ।
तिस्रो दिवः पृथिवीस्तिस्र इन्वति त्रिभिर्वर्तैरभि नो रक्षति त्मना ॥ (४-५३-५)
बृहत्सुम्नः प्रसवीता निवेशनो जगत स्थातुरुभयस्य यो वशी ।
स नो देवः सविता शर्म यच्छत्वस्मे क्षयाय त्रिवरूथमंहसः ॥ (४-५३-६)
आगन्देव ऋतुभिर्वर्धतु क्षयं दधातु नः सविता सुप्रजामिषम् ।
स नः क्षपाभिरहभिश्च जिन्वतु प्रजावन्तं रयिमस्मे समिन्वतु ॥ (४-५३-७)
एकया प्रतिधापिबत्साकं सरांसि त्रिंशतम् ।
इन्द्रः सोमस्य काणुका ॥ (८-७७-४)
घृतेन द्यावापृथिवी अभीवृते घृतश्रिया घृतपृचा घृतावृधा ।
उर्वी पृथ्वी होतृवूर्ये पुरोहिते ते इद्विप्रा ईळते सुम्नमिष्टये ॥ (६-७०-४)
मधु नो द्यावापृथिवी मिमिक्षतां मधुश्चुता मधुदुघे मधुव्रते ।
दधाने यज्ञं द्रविणं च देवता महि श्रवो वाजमस्मे सुवीर्यम् ॥ (६-७०-५)
ऊर्जं नो द्यौश्च पृथिवी च पिन्वतां पिता माता विश्वविदा सुदंससा ।
संरराणे रोदसी विश्वशम्भुवा सनिं वाजं रयिमस्मे समिन्वताम् ॥ (६-७०-६)
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे । जुहूमसि द्यवि द्यवि ॥ (१-४-१)
अनश्वो जातो अनभीशुरुक्थ्यो रथस्त्रिचक्रः परि वर्तते रजः ।
महत्तद्वो देव्यस्य प्रवाचनं द्यामृभवः पृथिवीं यच्च पुष्यथ ॥ (४-३६-१)
रथं ये चक्रुः सुवृतं सुचेतसोऽविह्वरन्तं मनसस्परि ध्यया ।
ताँ ऊ न्वस्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि ॥ (४-३६-२)
तद्वो वाजा ऋभवः सुप्रवाचनं देवेषु विभ्वो अभवन्महित्वनम् ।
जिव्री यत्सन्ता पितरा सनाजुरा पुनर्युवाना चरथाय तक्षथ ॥ (४-३६-३)
[[१८०]]
एकं वि चक्र चमसं चतुर्वयं निश्चर्मणो गामरिणीत धीतिभिः ।
अथा देवेष्वमृतत्वमानश श्रुष्टी वाजा ऋभवस्तद्व उक्थ्यम् ॥ (४-३६-४)
ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यमजीजनन्नरः ।
विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासोऽवथा स विचर्षणिः ॥ (४-३६-५)
स वाज्यर्वा स ऋषिर्वचस्यया स शूरो अस्ता पृतनासु दुष्टरः ।
स रायस्पोषं स सुवीर्यं दधे यं वाजो विभ्वाँ ऋभवो यमाविषुः ॥ (४-३६-६)
श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ऋभवस्तं जुजुष्टन ।
धीरासो हि ष्ठा कवयो विपश्चितस्तान्व एना ब्रह्मणा वेदयामसि ॥ (४-३६-७)
यूयमस्मभ्यं धिषणाभ्यस्परि विद्वांसो विश्वा नर्याणि भोजना ।
द्युमन्तं वाजं वृषशुष्ममुत्तममा नो रयिमृभवस्तक्षता वयः ॥ (४-३६-८)
इह प्रजामिह रयिं रराणा इह श्रवो वीरवत्तक्षता नः ।
येन वयं चितयेमात्यन्यान्तं वाजं चित्रमृभवो ददा नः ॥ (४-३६-९)
अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।
इममपां सङ्गमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥ (१०-१२३-१)
येभ्यो माता मधुमत्पिन्वते पयः पीयूषं द्यौरदितिरद्रिबर्हाः ।
उक्थशुष्मान्वृषभरान्स्वप्नसस्ताँ आदित्याँ अनु मदा स्वस्तये ॥ (१०-६३-३)
एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः ।
बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥ (४-५०-६)
परावतो ये दिधिषन्त आप्यं मनुप्रीतासो जनिमा विवस्वतः ।
ययातेर्य नहुष्यस्य बर्हिषि देवा आसते ते अधि ब्रुवन्तु नः ॥ (१०-६३-१)
विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः ।
ये स्थ जाता अदितेरद्भ्यस्परि ये पृथिव्यास्ते म इह श्रुता हवम् ॥ (१०-६३-२)
येभ्यो माता मधुमत्पिन्वते पयः पीयूषं द्यौरदितिरद्रिबर्हाः ।
उक्थशुष्मान्वृषभरान्स्वप्नसस्ताँ आदित्याँ अनु मदा स्वस्तये ॥ (१०-६३-३)
नृचक्षसो अनिमिषन्तो अर्हणा बृहद्देवासो अमृतत्वमानशुः ।
ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणं वसते स्वस्तये ॥ (१०-६३-४)
सम्राजो ये सुवृधो यज्ञमाययुरपरिह्वृता दधिरे दिवि क्षयम् ।
ताँ आ विवास नमसा सुवृक्तिभिर्महो आदित्याँ अदित्स्विस्तये ॥ (१०-६३-५)
को व स्तोमं राधति युाुजोषथ विश्वे देवासो मनुषो यति ष्ठन ।
[[१८१]]
को वोऽध्वरं तुविजाता अरं करद्यो नः पर्षदत्यंहः स्वस्तये ॥ (१०-६३-६)
येभ्यो होत्रां प्रथमामायेजे मनुः समिद्धाग्निर्मनसा सप्त होतृभिः ।
त आदित्या अभयं शर्म यच्छत सुगा नः कर्त सुपथा स्वस्तये ॥ (१०-६३-७)
य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर्जगतश्च मन्तवः ।
ते नः कृतादकृताद्येनसस्पर्यद्या देवासः पिपृता स्वस्तये ॥ (१०-६३-८)
भरेष्विन्द्रं सुहवं हवामहेंऽहोमुचं सुकृतं दैव्युानम् ।
अग्निं मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये ॥ (१०-६३-९)
सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् ।
दैवीं नावं स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये ॥ (१०-६३-१०)
विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुतः ।
सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये ॥ (१०-६३-११)
अपामीवामप विश्वामनाहुतिमपारातिं दुर्विदत्रामघायतः ।
आरे देवा द्वेषो अस्मद्युयोतनोरु णः शर्म यच्छता स्वस्तये ॥ (१०-६३-१२)
अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर्जायते धर्मणस्परि ।
यमादित्यासो नयथा सुनीतिभिरति विश्वानि दुरिता स्वस्तये ॥ (१०-६३-१३)
यं देवासोऽवथ वाजसातौ यं शूरसाता मरुतो हिते धने ।
प्रातर्यावाणं रथमिन्द्र सानसिमरिष्यन्तमा रुहेमा स्वस्तये ॥ (१०-६३-१४)
स्वस्ति नः पथ्यासु धन्वसु स्वस्त्यप्सु वृजने स्वर्वति ।
स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन ॥ (१०-६३-१५)
स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति ।
सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ॥ (१०-६३-१६)
एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी ।
ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥ (१०-६३-१७)
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥ (१-८९-१०)
विश्वे देवाः शृणुतेमं हवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ ।
ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम् ॥ (६-५२-१३)
[[१८२]]
वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि ।
द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति ॥ (३-२-१)
स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत्पुत्र ईड्यः ।
हव्यवाळग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः ॥ (३-२-२)
क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निुानयन्त चित्तिभिः ।
रुरुचानं भानुना ज्योतिषा महामत्यो वाजं सनिष्यन्नुप ब्रुवे ॥ (३-२-३)
आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजमृग्मियम् ।
रातिं भृगूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा ॥ (३-२-४)
अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वृक्तबर्हिषः ।
यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिमपसाम् ॥ (३-२-५)
पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरः ।
अग्ने दुव इच्छमानास आप्यमुपासते द्रविणं धेहि तेभ्यः ॥ (३-२-६)
आ रोदसी अपृणदा स्वर्महज्जातं यद्येनमपसो अधारयन् ।
सो अध्वराय परि णीयते कविरत्यो न वाजसातये चनोहितः ॥ (३-२-७)
नमस्यत हव्यदात्स्विध्वरं दुवस्यत दम्युाातवेदसम् ।
रथीर्ऋतस्य बृहतो विचर्षणिरग्निर्दवानामभवत्पुरोहितः ॥ (३-२-८)
तिस्रो यह्वस्य समिधः परिज्मनोऽग्नेरपुनन्नुशिजो अमृत्यवः ।
तासामेकामदधुर्मर्त्ये भुजमु लोकमु द्वे उप जामिमीयतुः ॥ (३-२-९)
विशां कविं विश्पतिं मानुषीरिषः सं सीमकृण्वन्स्वधितिं न तेजसे ।
स उद्वतो निवतो याति वेविषत्स गर्भमेषु भुवनेषु दीधरत् ॥ (३-२-१०)
स जिन्वते जठरेषु प्रजज्ञिवान्वृषा चित्रेषु नानदन्न सिंहः ।
वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे ॥ (३-२-११)
वैश्वानरः प्रत्नथा नाकमारुहद्दिवस्पृष्ठं भन्दमानः सुमन्मभिः ।
स पूर्ववज्जनयञ्जन्तवे धनं समानमज्मं पर्येति जागृविः ॥ (३-२-१२)
ऋतावान्यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि क्षयम् ।
[[१८३]]
तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे ॥ (३-२-१३)
शुचिं न यामन्निषिरं स्वर्दृशं केतुं दिवो रोचनस्थामुषर्बुधम् ।
अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिन्बृहत् ॥ (३-२-१४)
मन्द्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिम् ।
रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद्राय ईमहे ॥ (३-२-१५)
शं नः करत्यर्वते सुगं मेषाय मेष्ये ।
नृभ्यो नारिभ्यो गवे ॥ (१-४३-६)
धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास्तविषीभिरर्चिनः ।
अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अप गा अवृण्वत ॥ (२-३४-१)
द्यावो न स्तृभिश्चितयन्त खादिनो व्यभ्रिया न द्युतयन्त वृष्टयः ।
रुद्रो यद्वो मरुतो रुक्मवक्षसो वृषाजनि पृश्ण्याः शुक्र ऊधनि ॥ (२-३४-२)
उक्षन्ते अश्वाँ अत्याँ इवाजिषु नदस्य कर्णैस्तुरयन्त आशुभिः ।
हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः ॥ (२-३४-३)
पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः ।
पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः ॥ (२-३४-४)
इन्धन्वभिर्धनुभी रप्शदूधभिरध्वस्मभिः पथिभिर्भरजदृष्टयः ।
आ हंसासो न स्वसराणि गन्तन मधोर्मदाय मरुतः समन्यवः ॥ (२-३४-५)
आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन ।
अश्वामिव पिप्यत धेनुमूधनि कर्ता धियुारित्रे वाजपेशसम् ॥ (२-३४-६)
तं नो दात मरुतो वाजिनं रथ आपानं ब्रह्म चितयद्दिवे-दिवे ।
इषं स्तोतृभ्यो वृजनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः ॥ (२-३४-७)
यद्युञ्जते मरुतो रुक्मवक्षसोऽश्वान्रथेषु भग आ सुदानवः ।
धेनुर्न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीमिषम् ॥ (२-३४-८)
यो नो मरुतो वृकताति मर्त्यो रिपुर्दधे वसवो रक्षता रिषः ।
वर्तयत तपुषा चक्रियाभि तमव रुद्रा अशसो हन्तना वधः ॥ (२-३४-९)
चित्रं तद्वो मरुतो याम चेकिते पृश्न्या यदूधरप्यापयो दुहुः ।
यद्वा निदे नवमानस्य रुद्रियास्त्रितं जराय जुरतामदाभ्याः ॥ (२-३४-१०)
तान्वो महो मरुत एवयाव्नो विष्णोरेषस्य प्रभृथे हवामहे ।
हिरण्यवर्णान्ककुहान्यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे ॥ (२-३४-११)
[[१८४]]
ते दशग्वाः प्रथमा यज्ञमूहिरे ते नो हिन्वन्तूषसो व्युष्टिषु ।
उषा न रामीररुणैरपोर्णुते महो ज्योतिषा शुचता गोअर्णसा ॥ (२-३४-१२)
ते क्षोणीभिररुणेभिर्नाञ्जिभी रुद्रा ऋतस्य सदनेषु वावृधुः ।
निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे सुपेशसम् ॥ (२-३४-१३)
ताँ इयानो महि वरूथमूतय उप घेद्येना नमसा गृणीमसि ।
त्रितो न यान्पञ्च होतॄनभिष्टय आववर्तदवराञ्चक्रियावसे ॥ (२-३४-१४)
यया रध्रं पारयथात्यंहो यया निदो मुञ्चथ वन्दितारम् ।
अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु ॥ (२-३४-१५)
त्वं नश्चित्र ऊत्या वसो राधांसि चोदय ।
अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥ (६-४८-९)
पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः ।
अग्ने हेळांसि दैव्या युयोधि नोऽदेवानि ह्वरांसि च ॥ (६-४८-१०)
अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य ।
आ दाशुषे जातवेदो वहा त्वमद्या देवाँ उषर्बुधः ॥ (१-४४-१)
जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् ।
सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥ (१-४४-२)
यज्ञा यज्ञा वो अग्नये गिरा गिरा च दक्षसे ।
प्र प्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् ॥ (६-४८-१)
ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये ।
भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम् ॥ (६-४८-२)
देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचम् ।
उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥ (७-१६-११)
तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत ।
दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥ (७-१६-१२)
त्वमग्ने प्रथमो अङ्गिरा ऋषिर्दवो देवानामभवः शिवः सखा । तव व्रते कवयो विद्मनापसोऽजायन्त मरुतो भ्राजदृष्टयः ॥ (१-३१-१)
त्वमग्ने प्रथमो अङ्गिरस्तमः कविर्दवानां परि भूषसि व्रतम् । विभुर्विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिदायवे ॥ (१-३१-२)
[[१८५]]
त्वमग्ने प्रथमो मातरिश्वन आविर्भव सुक्रतूया विवस्वते । अरेजेतां रोदसी होतृवूर्येऽसघ्नोर्भारमयजो महो वसो ॥ (१-३१-३)
त्वमग्ने मनवे द्यामवाशयः पुरूरवसे सुकृते सुकृत्तरः । श्वात्रेण यत्पित्रोर्मुच्यसे पर्या त्वा पूर्वमनयन्न आपरं पुनः ॥ (१-३१-४)
त्वमग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः । य आहुतिं परि वेदा वषट्कृतिमेकायुरग्रे विश आविवाससि ॥ (१-३१-५)
त्वमग्ने वृजिनवर्तनिं नरं सक्मन् पिपर्षि विदथे विचर्षणे । यः शूरसाता परितक्म्ये धने दभ्रेभिश्चित्समृता हंसि भूयसः ॥ (१-३१-६)
त्वं तमग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवे दिवे । यस्तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च सूरये ॥ (१-३१-७)
त्वं नो अग्ने सनये धनानां यशस्कारुं कृणुहि स्तवानः । ऋध्याम कर्मापसा नवेन देवैर्द्यावापृथिवी प्रावतं नः ॥ (१-३१-८)
त्वं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जागृविः । तनूकृद्बोधि प्रमतिश्च कारवे त्वं कल्याण वसु विश्वमोपिषे ॥ (१-३१-९)
त्वमग्ने प्रमतिस्त्वं पितासि नस्त्वं वयस्कृत्तव जामयो वयम् । सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपामदाभ्य ॥ (१-३१-१०)
त्वामग्ने प्रथममायुमायवे देवा अकृण्वन्नहुषस्य विश्पतिम् । इळामकृण्वन्मनुषस्य शासनीं पितुर्यत्पुत्रो ममकस्य जायते ॥ (१-३१-११)
त्वं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य । त्राता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव व्रते ॥ (१-३१-१२)
त्वमग्ने यज्यवे पायुरन्तरोऽनिषङ्गाय चतुरक्ष इध्यसे । यो रातहव्योऽवृकाय धायसे कीरेश्चिन्मन्त्रं मनसा वनोषि तम् ॥ (१-३१-१३)
त्वमग्न उरुशंसाय वाघते स्पार्हं यद्रेक्णः परमं वनोषि तत् । आध्रस्य चित्प्रमतिरुच्यसे पिता प्र पाकं शास्सि प्र दिशो विदुष्टरः ॥ (१-३१-१४)
त्वमग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतं परि पासि विश्वतः । स्वादुक्षद्मा यो वसतौ स्योनकृज्जीवयाजं यजते सोपमा दिवः ॥ (१-३१-१५)
इमामग्ने शरणिं मीमृषो न इममध्वान्यमगाम दूरात् । आपिः पिता प्रमतिः सोम्यानां भृमिरस्य् ऋषिकृन्मर्त्यानाम् ॥ (१-३१-१६)
[[१८६]]
मनुष्वदग्ने अङ्गिरस्वदङ्गिरो ययातिवत्सदने पूर्ववच्छुचे । अच्छ याह्या वहा दैव्युानमा सादय बर्हिषि यक्षि च प्रियम् ॥ (१-३१-१७)
एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत्ते चकृमा विदा वा । उत प्र णेष्यभि वस्यो अस्मान्सं नः सृज सुमत्या वाजवत्या ॥ (१-३१-१८)
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
महे रणाय चक्षसे ॥ (१०-९-१)
यो वः शिवतमो रसस्तस्य भाजयतेह नः ।
उशतीरिव मातरः ॥ (१०-९-२)
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥ (१०-९-३)
उत नोऽहिर्टाुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः ।
विश्वे देवा ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता अवन्तु ॥ (६-५०-१४)
देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये ।
याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छत ॥ (५-४६-७)
उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट् ।
आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम् ॥ (५-४६-८)
राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।
सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥ (२-३२-४)
यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि ।
ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥ (२-३२-५)
पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् ।
ग्नाभिरच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् ॥ (६-४९-७)
इमं यम प्रस्तरमा हि सीदाङ्गिरोभिः पितृभिः संविदानः ।
आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व ॥ (१०-१४-४)
मातली कव्यैर्यमो अङ्गिरोभिर्टाृहस्पतिर्ऋक्वभिर्वावृधानः ।
यांश्च देवा वावृधुर्य च देवान्स्वाहान्ये स्वधयान्ये मदन्ति ॥ (१०-१४-३)
उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः ।
असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥ (१०-१५-१)
आहं पितॄन्सुविदत्राँ अवित्सि नपातं च विक्रमणं च विष्णोः ।
[[१८७]]
बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥ (१०-१५-३)
इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः ।
ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥ (१०-१५-२)
स्वादुष् किलायं मधुमाँ उतायं तीव्रः किलायं रसवाँ उतायम् ।
उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥ (६-४७-१)
अयं स्वादुरिह मदिष्ठ आस यस्येन्द्रो वृत्रहत्ये ममाद ।
पुरूणि यश् च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन् ॥ (६-४७-२)
अयं मे पीत उदियर्ति वाचमयं मनीषामुशतीमजीगः ।
अयं षळ् उर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे ॥ (६-४७-३)
अयं स यो वरिमाणं पृथिव्या वर्ष्माणं दिवो अकृणोदयं सः ।
अयं पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्वन्तरिक्षम् ॥ (६-४७-४)
ययो रोजसा स्कभिता रजांसि । वीर्येभिर्वीरतमा शविष्ठो३ं
या पत्येते अप्रतीता सहोभिः । विष्णू अगन् वरुणा पूर्वहूतो३ं
विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि ।
यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥ (१-१५४-१)
तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान् । अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्युानम् ॥ (१०-५३-६)
एवा न इन्द्रो मघवा विरप्शी करत्सत्या चर्षणीधृदनर्वा ।
त्वं राजा जनुषां धेह्यस्मे अधि श्रवो माहिन्यज्जरित्रे ॥ (४-१७-२०)
अग्ने मरुद्भिः शुभयद्भिर्ऋक्वभिः सोमं पिब मन्दसानो गणश्रिभिः ।
पावकेभिर्विश्वमिन्वेभिरायुभिर्वैश्वानर प्रदिवा केतुना सजूः ॥ (५-६०-८)
गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः । ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥ (१-१०-१)
यत्सानोः सानुमारुहद्भूर्यस्पष्ट कर्त्वम् । तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥ (१-१०-२)
युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥ (१-१०-३)
आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः ।
अभि त्वा समनूषतेन्द्र वत्सं न मातरः ॥ (८-९५-१)
[[१८८]]
आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः ।
पिबा त्वस्यान्धस इन्द्र विश्वासु ते हितम् ॥ (८-९५-२)
पिबा सोमं मदाय कमिन्द्र श्येनाभृतं सुतम् ।
त्वं हि शश्वतीनां पती राजा विशामसि ॥ (८-९५-३)
प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् ।
तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥ (७-१००-५)
किमित्ते विष्णो परिचक्ष्यं भूत्प्र यद्ववक्षे शिपिविष्टो अस्मि ।
मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥ (७-१००-६)
वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् ।
वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥ (७-१००-७)
प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥ (१-१५४-२)
प्र विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वृष्णे ।
य इदं दीर्घं प्रयतं सधस्थमेको विममे त्रिभिरित्पदेभिः ॥ (१-१५४-३)
यस्य त्री पूर्णा मधुना पदान्यक्षीयमाणा स्वधया मदन्ति ।
य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ॥ (१-१५४-४)
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः
स बुध्निया उपमा अस्य विष्ठाघ् सतश्च योनिमसतश्च विवो३म् ॥
यत्ते दित्सु प्रराध्यं मनो अस्ति श्रुतं बृहत् ।
तेन दृळ्हा चिदद्रिव आ वाजं दर्षि सातये ॥ (५-३९-३)
त्वामिच्छवसस्पते कण्वा उक्थेन वावृधुः ।
त्वां सुतास इन्दवः ॥ (८-६-२१)
तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदम् ।
प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तमनु यासु वर्धसे ॥ (५-४४-१)
श्रिये सुदृशीरुपरस्य याः स्वर्विरोचमानः ककुभामचोदते ।
[[१८९]]
सुगोपा असि न दभाय सुक्रतो परो मायाभिर्ऋत आस नाम ते ॥ (५-४४-२)
अत्यं हविः सचते सच्च धातु चारिष्टगातुः स होता सहोभरिः ।
प्रसर्स्राणो अनु बर्हिर्वृषा शिशुर्मध्ये युवाजरो विस्रुहा हितः ॥ (५-४४-३)
प्र व एते सुयुजो यामन्निष्टये नीचीरमुष्मै यम्य ऋतावृधः ।
सुयन्तुभिः सर्वशासैरभीशुभिः क्रिविर्नामानि प्रवणे मुषायति ॥ (५-४४-४)
संजर्भुराणस्तरुभिः सुतेगृभं वयाकिनं चित्तगर्भासु सुस्वरुः ।
धारवाकेष्वृजुगाथ शोभसे वर्धस्व पत्नीरभि जीवो अध्वरे ॥ (५-४४-५)
यादृग् एव ददृशे तादृगुच्यते सं च्छायया दधिरे सिध्रयाप्स्वा ।
महीमस्मभ्यमुरुषामुरु ज्रयो बृहत्सुवीरमनपच्युतं सहः ॥ (५-४४-६)
वेत्यग्रुर्जनिवान्वा अति स्पृधः समर्यता मनसा सूर्यः कविः ।
घ्रंसं रक्षन्तं परि विश्वतो गयमस्माकं शर्म वनवत्स्वावसुः ॥ (५-४४-७)
ज्यायांसमस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु नाम ते ।
यादृश्मिन् धायि तमपस्यया विदद्य उ स्वयं वहते सो अरं करत् ॥ (५-४४-८)
समुद्रमासामव तस्थे अग्रिमा न रिष्यति सवन्यस्मिन्न आयता ।
अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर्विद्यते पूतबन्धनी ॥ (५-४४-९)
स हि क्षत्रस्य मनसस्य चित्तिभिरेवावदस्य यजतस्य सध्रेः ।
अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठं वाजं विदुषा चिदर्ध्यम् ॥ (५-४४-१०)
श्येन आसामदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य मायिनः ।
समन्यमन्यमर्थयन्त्येतवे विदुर्विषाणं परिपानमन्ति ते ॥ (५-४४-११)
सदापृणो यजतो वि द्विषो वधीद्बाहुवृक्तः श्रुतवित्तर्यो वः सचा ।
उभा स वरा प्रत्येति भाति च यदीं गणं भजते सुप्रयावभिः ॥ (५-४४-१२)
सुतम्भरो यजमानस्य सत्पतिर्विश्वासामूधः स धियामुदञ्चनः ।
भरद्धेनू रसवच् च्छिश्रिये पयोऽनुब्रुवाणो अध्येति न स्वपन् ॥ (५-४४-१३)
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद् व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥ (४-४०-५)
बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥ (७-९७-१०)
विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥ (१०-१७०-१)
[[१९०]]