अत्यग्निष्टोमः ।
सर्वमग्निष्टोमवत् । आग्निमारुतादूर्ध्वं षोडशिशस्त्रम् । ततो मृगतीर्थसर्पणम् । ततोऽनुयाजादि यज्ञपुच्छम् ।
उक्थ्यम् ।
सवनीयपशोः प्रागग्निष्टोमवत् । न प्रवर्ग्यः । केवलोपसत् । सवनीयौ द्वौ पशू छागौ आग्नेय ऐन्द्राग्नश्च ।
अथावाहने- आवह देवान् त्सुन्वते यजमानाय इत्यवसाय अग्निमग्न आ३वह । सोममा३वह । अग्निमावा३वह । इन्द्राग्नी आ३वह । वनस्पतिमा३वह । इन्द्रं वसुमन्तमा३वह । इन्द्रं रुद्रवन्तमा३वह । इन्द्रमादित्यवन्तमृभुवन्तं विभुमन्तं वाजवन्तं बृहस्पतिवन्तं विश्वदेव्यावन्तमा३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।
अध्रिगौ विशेषः-दैव्याः शमितार आरभध्वमुत मनुष्या उपनयत मेध्यादुर आशासाना मेधपतिभ्यां मेधौ । प्राभ्यामग्निं भरत स्तृणीत बर्हिरन्वेनौ माता मन्यतामनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्यः । उदीचीनाँ अनयोः पदो निधत्तात् सूर्यं चक्षुर्गमयताद् वातं प्राणमन्ववसृजतादन्तरिक्षमसुं दिशः श्रोत्रं पृथिवीं शरीरे । एकधैकधानयोस्त्वचमाच्छ्यतात् पुरा पुरा नाभ्या अपिशसो वपे उत्खिदतादन्तरन्तरेवोष्माणं वारयध्वात् । श्येनमनयोर्वक्षसी कृणुतात् प्रशसो बाहूञ्च्छला दोषाणि कश्यपे वांसानच्छिद्राः श्रोणीः कवषोरून्त्स्रे कपर्णाष्ठीवतः षड्विंशतिः षड्विंशतिरनयोर्वंक्रयस्ता अनुष्ठ्यो च्यावयताद् गात्रं गात्रमनयोरनूनं कृणुतात् । ऊवध्यगोहं पार्थिवं खनतात् । (उपांशु) अस्ना रक्षः संसृजतात् । वनिष्ठू अनयोर्माराविष्टोरूकम्मन्यमाना नेद्वस्तोके तनये रवितारवत् (उपांशु) शमितारः । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३ उ (उपांशु) अपाप । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३ उ (उपांशु) अपाप । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३ उ (उपांशु) अपाप । शमितारो यदत्र सुकृतं कृणवथास्मासु तद्यद्दुष्कृतमन्यत्र तत् ।
[[१५५]]
आग्नेयस्य अग्निष्टोमसवनीयपशुवत्, ऐन्द्राग्नस्य तु निरूढवद् याज्यानुवाक्याप्रैषाः ।
वनस्पतियागे विशेषः- होता यक्षद्वनस्पतिमभि हि पिष्टतमया रभिष्टया रशनया धित । यत्राग्नेराज्यस्य हविषः प्रियाधामानि यत्र सोमस्याज्यस्य हविषः प्रियाधामानि यत्राग्नेश्छागस्य हविषः प्रियाधामानि यत्रेन्द्राग्न्योश्छागस्य हविषः प्रियाधामानि यत्र वनस्पतेः प्रियापाथांसि यत्र देवानामाज्यपानां प्रियाधामानि यत्राग्नेर्होतुः प्रियाधामानि तत्रैतं प्रस्तुत्येवोपस्तुत्येवोपावस्रक्षद् रभीयसाविव कृत्वीकरदेवं देवो वनस्पतिर्जुषतां हविर्होतर्यज ॥ स्विष्टकृत्प्रैषे विशेषः- होता यक्षदग्निं स्विष्टकृतमयाळग्निरग्नेराज्यस्य हविषः प्रियाधामान्ययाट् सोमस्याज्यस्य हविषः प्रियाधामान्ययाळग्नेश्छागस्य हविषः प्रियाधामान्ययाळिन्द्राग्न्योश्छागस्य हविषः प्रियाधामान्ययाड् वनस्पतेः प्रियापाथांस्ययाड् देवानामाज्यपानां प्रियाधामानि यक्षदग्नेर्होतुः प्रियाधामानि यक्षत्स्वं महिमानामायजतामेज्या इषः कृणातु सो अध्वरा जातवेदा जुषतां हविर्होतर्यज ॥
केवलैन्द्राग्नपक्षे अध्रिगुप्रभृति सर्वं निरूढवत् । आग्निमारुतान्ते होत्रकाणामुक्थ्यप्रयुक्तानि त्रीणि शस्त्राणि ।
मैत्रावरुणशस्त्रम् ।
साकमश्वं स्तोत्रमेकविंशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे
हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शोशो३ंसावो३म्
एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः । एभिर्वर्धास इन्दुभो३ं इति त्रिः
यत्र क्व च ते मनो दक्षं दधस उत्तरम् । तत्रा सदः कृणवसो३ं
नहि ते पूर्तमक्षिपद्भुवन्नेमानां वसो । अथा दुवो वनवसो३ं (६ । १६ । १६-१८)
शो३ंसावो३म् आग्निरगामि भारतो वृत्रहा पुरुचेतनः । दिवोदासस्य सत्पतो३ं
स हि विश्वानि पार्थिवा रयिं दाशन्महित्वना । वन्वन्नवातो अस्तृतो३ं
स प्रत्नवन्नवीयसाग्ने द्युम्नेन संयता । बृहत्ततन्थ भानुनो३ं (६ । १६ । १८-२१)
शो३ंसावो३ं चर्षणीधृतं मघवानमुक्थ्यम् । इन्द्रं गिरो बृहतीरभ्यनूषतो३ं
वावृधानं पुरुहूतं सुवृक्तिभिः । अमर्त्यं जरमाणं दिवे दिवो३ं
शतक्रतुमर्णवं शाकिनं नरम् । गिरो म इन्द्रमुप यन्ति विश्वतो३ं
वाजसनिं पूर्भिदं तूर्णिमप्तुरम् । धामसाचमभिषाचं स्वर्विदो३म्
आकरे वसोर्जरिता पनस्यते । अनेहसः स्तुभ इन्द्रो दुवस्यतो३ं
विवस्वतः सदन आ हि पिप्रिये । सत्रासाहमभिमातिहनं स्तुहो३म् (३ । ५१ । १-३)
अस्तभ्नाद् द्यामसुरो विश्ववेदाः । अमिमीत वरिमाणं पृथिव्यो३म्
आसीदद्विश्वा भुवनानि सम्राट् । विश्वेत्तानि वरुणस्य व्रतानो३म्
एवा वन्दस्व वरुणं बृहन्तम् । नमस्या धीरममृतस्य गोपो३ं
[[१५६]]
स नः शर्म त्रिवरूथं वि यंसत् । पातं नो द्यावापृथिवी उपस्थो३म्
इमां धियं शिक्षमाणस्य देव । क्रतुं दक्षं वरुण सं शिशाधो३ं
ययाति विश्वा दुरिता तरेम । सुतर्माणमधि नावं रुहेमो३म् (८ । ४२ । १-३)
इन्द्रावरुणा युवमध्वराय नः । विशे जनाय महि शर्म यच्छतो३ं
दीर्घप्रयज्युमति यो वनुष्यति । वयं जयेम पृतनासु दूढ्यो३ं
सम्राळन्यः स्वराळन्य उच्यते वाम् । महान्ताविन्द्रावरुणा महावसो३ं
विश्वे देवासः परमे व्योमनि । सं वामोजो वृषणा सं बलं दधो३म्
अन्वपां खान्यतृन्तमोजसा । सूर्यमैरयतं दिवि प्रभो३म्
इन्द्रावरुणा मदे अस्य मायिनः । अपिन्वतमपितः पिन्वतं धियो३ं
युवामिद्युत्सु पृतनासु वह्नयः । युवां क्षेमस्य प्रसवे मितज्ञवो३म्
ईशाना वस्व उभयस्य कारवः । इन्द्रावरुणा सुहवा हवामहो३म्
इन्द्रावरुणा यदिमानि चक्रथुः । विश्वा जातानि भुवनस्य मज्मनो३ं
क्षेमेण मित्रो वरुणं दुवस्यति । मरुद्भिरुग्रः शुभमन्य ईयतो३म्
महे शुल्काय वरुणस्य नु त्विषे । ओजो मिमाते ध्रुवमस्य यत् स्वो३म्
अजामिमन्यः श्नथयन्तमातिरत् । दभ्रेभिरन्यः प्र वृणोति भूयसो३ं
न तमंहो न दुरितानि मर्त्यम् । इन्द्रावरुणा न तपः कुतश्चनो३ं
यस्य देवा गच्छथो वीथो अध्वरम् । न तं मर्तस्य नशते परिह्वृतो३म्
अर्वाङ् नरा दैव्येनावसा गतम् । शृणुतं हवं यदि मे जुजोषथो३ं
युवोर्हि सख्यमुत वा यदाप्यम् । मार्डीकमिन्द्रावरुणा नि यच्छतो३म्
अस्माकमिन्द्रावरुणा भरेभरे । पुरोयोधा भवतं कृष्ट्योजसो३ं
यद्वां हवन्त उभये अध स्पृधि । नरस्तोकस्य तनयस्य सातिषो३म्
अस्मे इन्द्रो वरुणो मित्रो अर्यमा । द्युम्नं यच्छन्तु महि शर्म सप्रथो३म्
अवध्रं ज्योतिरदितेर्ऋतावृधः । देवस्य श्लोकं सवितुर्मनामहो३म् (७ । ८२ । १-१०)
आ वां राजानावध्वरे ववृत्याम् । हव्येभिरिन्द्रावरुणा नमोभो३म्
प्र वां घृताची बाह्वोर्दधाना । परि त्मना विषुरूपा जिगातो३ं
युवो राष्ट्रं बृहदिन्वति द्यौः । यौ सेतृभिररज्जुभिः सिनीथो३म्
परि नो हेळो वरुणस्य वृज्याः । उरुं न इन्द्रः कृणवदु लोको३ं
कृतं नो यज्ञं विदथेषु चारुम् । कृतं ब्रह्माणि सूरिषु प्रशस्तो३म्
उपो रयिर्दवजूतो न एतु । प्र ण स्पार्हाभिरूतिभिस्तिरेतो३म्
[[१५७]]
अस्मे इन्द्रावरुणा विश्ववारम् । रयिं धत्तं वसुमन्तं पुरुक्षो३म्
प्र य आदित्यो अनृता मिनाति । अमिता शूरो दयते वसूनो३ं
शो३ंसावो३म् इयमिन्द्रं वरुणमष्ट मे गीः । प्रावत्तोके तनये तूतुजानो३ं
सुरत्नासो देववीतिं गमेम । यूयं पात स्वस्तिभिः सदा नो३म् ॥ (७ । ८४ । १-५) इ्रति त्रिः परिदध्यात् ।
उक्थं वाचीन्द्राय देवेभ्यः इति शस्त्वा जपः ।
ये३ यजामह इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् ।
इदं वामन्धः परिषिक्तमस्मे आसद्यास्मिन् बर्हिषि मादयेथा३ं वौ३षट् ॥ (६ । ६८ । ११)
सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । स्वेन प्रातःसवनकीयेन समो भक्षविधिः ।
ब्राह्मणाच्छंसीशस्त्रम् ।
सोभरस्तोत्रमेकविंशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे
हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शोशो३ंसावो३ं
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । वाजे चित्रं हवामहो३ं
वाजे चित्रं हवामह उप त्वा कर्मन्नूतये स नो युवा । उग्रश्चक्राम यो धृषो३ं
उग्रश्चक्राम यो धृषत्त्वामिद्ध्यवितारं ववृमहे । सखाय इन्द्र सानसो३ं ॥ (८ । २१ । १-२)
शो३ंसावो३ं यो न इदमिदं पुरा प्र वस्य आनिनाय तमु वः स्तुषे । सखाय इन्द्रमूतयो३ं
सखाय इन्द्रमूतये हर्यश्वं सत्पतिं चर्षणीसहम् । स हि ष्मा यो अमन्दतो३ं
स हि ष्मा यो अमन्दता तु नः स वयति गव्यमश्व्यम् । स्तोतृभ्यो मघवा शतो३ं ॥ (८ । २१ । ९-१०)
शो३ंसावो३म् प्र मंहिष्ठाय बृहते बृहद्रये । सत्यशुष्माय तवसे मतिं भरो३म्
अपामिव प्रवणे यस्य दुर्धरम् । राधो विश्वायु शवसे अपावृतो३म्
अध ते विश्वमनु हासदिष्टये । आपो निम्नेव सवना हविष्मतो३ं
यत्पर्वते न समशीत हर्यतः । इन्द्रस्य वज्रः श्नथिता हिरण्ययो३म्
अस्मै भीमाय नमसा समध्वरे । उषो न शुभ्र आ भरा पनीयसो३ं
यस्य धाम श्रवसे नामेन्द्रियम् । ज्योतिरकारि हरितो नायसो३म्
इमे त इन्द्र ते वयं पुरुष्टुत । ये त्वारभ्य चरामसि प्रभूवसो३ं
नहि त्वदन्यो गिर्वणो गिरः सघत् । क्षोणीरिव प्रति नो हर्य तद्वचो३ं
भूरि त इन्द्र वीर्यं तव स्मसि । अस्य स्तोतुर्मघवन्काममा पृणो३म्
अनु ते द्यौर्बृहती वीर्यं ममे । इयं च ते पृथिवी नेम ओजसो३ं
त्वं तमिन्द्र पर्वतं महामुरुम् । वज्रेण वज्रिन्पर्वशश्चकर्तिथो३म्
[[१५८]]
अवासृजो निवृताः सर्तवा अपः । सत्रा विश्वं दधिषे केवलं सहो३म् (१ । ५७ । १-६)
उदप्रुतो न वयो रक्षमाणाः । वावदतो अभ्रियस्येव घोषो३ं
गिरिभ्रजो नोर्मयो मदन्तः । बृहस्पतिमभ्यर्का अनावो३ं
सं गोभिराङ्गिरसो नक्षमाणः । भग इवेदर्यमणं निनायो३ं
जने मित्रो न दम्पती अनक्ति । बृहस्पते वाजयाशूँरिवाजो३ं
साध्वर्या अतिथिनीरिषिराः । स्पार्हाः सुवर्णा अनवद्यरूपो३म्
बृहस्पतिः पर्वतेभ्यो वितूर्य । निर्गा ऊपे यवमिव स्थिविभ्यो३म्
आप्रुषायन्मधुन ऋतस्य योनिम् । अवक्षिपन्नर्क उल्कामिव द्यो३म्
बृहस्पतिरुद्धरन्नश्मनो गाः । भूम्या उद्नेव वि त्वचं बिभेदो३म्
अप ज्योतिषा तमो अन्तरिक्षात् । उद्नः शीपालमिव वात आजो३म्
बृहस्पतिरनुमृश्या वलस्य । अभ्रमिव वात आ चक्र आ गो३ं
यदा वलस्य पीयतो जसुं भेत् । बृहस्पतिरग्नितपोभिरर्को३ं
दद्भिर्न जिह्वा परिविष्टमादत् । आविर्निधीँरकृणोदुस्रियाणो३म्
बृहस्पतिरमत हि त्यदासाम् । नाम स्वरीणां सदने गुहा यो३म्
आण्डेव भित्त्वा शकुनस्य गर्भम् । उदुस्रियाः पर्वतस्य त्मनाजो३म्
अश्नापिनद्धं मधु पर्यपश्यन् । मत्स्यं न दीन उदनि क्षियन्तो३ं
निष्टज्जभार चमसं न वृक्षात् । बृहस्पतिर्विरवेणा विकृत्यो३ं
सोषामविन्दत्स स्वः सो अग्निम् । सो अर्केण वि बबाधे तमांसो३म्
बृहस्पतिर्गोवपुषो वलस्य । निर्मज्जानं न पर्वणो जभारो३ं
हिमेव पर्णा मुषिता वनानि । बृहस्पतिनाकृपयद्वलो गो३म्
अनानुकृत्यमपुनश्चकार । यात्सूर्यामासा मिथ उच्चरातो३म्
अभि श्यावं न कृशनेभिरश्वम् । नक्षत्रेभिः पितरो द्यामपिंशो३ं
रात्र्यां तमो अदधुर्ज्योतिरहन् । बृहस्पतिर्भिनदद्रिं विदद् गो३म्
इदमकर्म नमो अ्रभ्रयाय । यः पूर्वीरन्वानोनवीतो३म्
बृहस्पतिः स हि गोभिः सो अश्वैः । स वीरेभिः स नृभिर्नो वयो धो३म् (१० । ६८ । १-१२)
अच्छा म इन्द्रं मतयः स्वर्विदः । सध्रीचीर्विश्वा उशतीरनूषतो३म्
परि ष्वजन्ते जनयो यथा पतिम् । मर्यं न शुन्ध्युं मघवानमूतयो३ं
न घा त्वद्रिगप वेति मे मनः । त्वे इत्कामं पुरुहूत शिश्रयो३ं
राजेव दस्म नि षदोऽधि बर्हिषि । अस्मिन्त्सु सोमेऽवपानमस्तु तो३ं
[[१५९]]
विषूवृदिन्द्रो अमतेरुत क्षुधः । स इद्रायो मघवा वस्व ईशतो३ं
तस्येदिमे प्रवणे सप्त सिन्धवः । वयो वर्धन्ति वृषभस्य शुष्मिणो३ं
वयो न वृक्षं सुपलाशमासदन् । सोमास इन्द्रं मन्दिनश्चमूषदो३म्
प्रैषामनीकं शवसा दविद्युतत् । विदत्स्वर्मनवे ज्योतिरार्यो३ं
कृतं न श्वघ्नी वि चिनोति देवने । संवर्गं यन्मघवा सूर्यं जयो३ं
न तत्ते अन्यो अनु वीर्यं शकत् । न पुराणो मघवन्नोत नूतनो३ं
विशं विशं मघवा पर्यशायत । जनानां धेना अवचाकशद्वृषो३ं
यस्याह शक्रः सवनेषु रण्यति । स तीव्रैः सोमैः सहते पृतन्यतो३म्
आपो न सिन्धुमभि यत्समक्षरन् । सोमास इन्द्रं कुल्याइव ह्रदो३ं
वर्धन्ति विप्रा महो अस्य सादने । यवं न वृष्टिर्दिव्येन दानुनो३ं
वृषा न क्रुद्धः पतयद्रजः स्वा । यो अर्यपत्नीरकृणोदिमा अपो३ं
स सुन्वते मघवा जीरदानवे । अविन्दज्ज्योतिर्मनवे हविष्मतो३म्
उज्जायतां परशुर्ज्योतिषा सह । भूया ऋतस्य सुदुघा पुराणवो३ं
वि रोचतामरुषो भानुना शुचिः । स्वर्ण शुक्रं शुशुचीत सत्पतो३ं
गोभिष्टरेमामतिं दुरेवाम् । यवेन क्षुधं पुरुहूत विश्वो३ं
वयं राजभिः प्रथमा धनानि । अस्माकेन वृजनेना जयेमो३ं
शो३ंसावो३म् बृहस्पतिर्नः परि पातु पश्चात् । उतोत्तरस्मादधरादघायो३म्
इन्द्रः पुरस्तादुत मध्यतो नः । सखा सखिभ्यो वरिवः कृणोतो३म् (१० । ४३ । १-११) इति त्रिः परिदध्यात् ।
उक्थं वाचीन्द्राय देवेभ्यः इति शस्त्वा जपति ।
ये३ यजामहे बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा ना३ वौ३षट् ॥ (७ । ९७ । १०)
सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । स्वेन प्रातःसवनकीयेन समो भक्षविधिः ।
अच्छावाकशस्त्रम् ।
नार्मेधस्तोत्रमेकविंशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे
हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शोशो३ंसावो३ं
अधा हीन्द्र गिर्वण उप त्वा कामान्महः ससृज्महे । उदेव यन्त उदभो३ं
वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि । वावृध्वांसं चिदद्रिवो दिवे दिवो३ं
युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे । इन्द्रवाहा वचोयुजो३ं (८ । ९८ । ७-९)
[[१६०]]
शो३ंसावो३म् इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः । मन्दानो अस्य बर्हिषो वि राजसो३ं
नूनं तदिन्द्र दद्धि नो यत्त्वा सुन्वन्त ईमहे । रयिं न श्चित्रमा भरा स्वर्विदो३ं
स्तोता यत्ते विचर्षणिरतिप्रशर्धयद् गिरः । वया इवानु रोहते जुषन्त यो३ं (८ । १३ । ४-६)
शो३ंसावो३म् ऋतुर्जनित्री तस्या अपस्परि । मक्षू जात आविशद्यासु वर्धतो३ं
तदाहना अभवत्पिप्युषी पयः । अंशोः पीयूषं प्रथमं तदुक्थ्यो३ं
सध्रीमा यन्ति परि बिभ्रतीः पयः । विश्वप्स्न्याय प्र भरन्त भोजनो३ं
समानो अध्वा प्रवतामनुष्यदे । यस्ताकृणोः प्रथमं सास्युक्थ्यो३म्
अन्वेको वदति यद्ददाति तत् । रूपा मिनन्तदपा एक ईयतो३ं
विश्वा एकस्य विनुदस्तितिक्षते । यस्ताकृणोः प्रथमं सास्युक्थ्यो३म्
प्रजाभ्यः पुष्टिं विभजन्त आसते । रयिमिव पृष्ठं प्रभवन्तमायतो३म
असिन्वन्दंष्ट्रैः पितुरत्ति भोजनम् । यस्ताकृणोः प्रथमं सास्युक्थ्यो३म्
अधाकृणोः पृथिवीं संदृशे दिवे । यो धौतीनामहिहन्नारिणक्पथो३ं
तं त्वा स्तोमेभिरुदभिर्न वाजिनम् । देवं देवा अजनन्त्सास्युक्थ्यो३ं
यो भोजनं च दयसे च वर्धनम् । आर्द्रादा शुष्कं मधुमद्दुदोहिथो३ं
स शेवधिं नि दधिषे विवस्वति । विश्वस्यैक ईशिषे सास्युक्थ्यो३ं
यः पुष्पिणीश्च प्रस्वश्च धर्मणा । अधि दाने व्यवनीरधारयो३ं
यश्चासमा अजनो दिद्युतो दिवः । उरुरूर्वा अभितः सास्युक्थ्यो३ं
यो नार्मरं सहवसुं निहन्तवे । पृक्षाय च दासवेशाय चावहो३म्
ऊर्जयन्त्या अपरिविष्टमास्यम् । उतैवाद्य पुरुकृत् सास्युक्थ्यो३ं
शतं वा यस्य दश साकमाद्यः । एकस्य श्रुष्टौ यद्ध चोदमाविथो३ं
अरज्जौ दस्यून्त्समुनब् दभीतये । सुप्राव्यो अभवः सास्युक्थ्यो३ं
विश्वेदनु रोधना अस्य पौंस्यम् । ददुरस्मै दधिरे कृत्नवे धनो३ं
षळस्तभ्ना विष्टिरः पञ्च संदृशः । परि परो अभवः सास्युक्थ्यो३ं
सुप्रवाचनं तव वीर वीर्यम् । यदेकेन क्रतुना विन्दसे वसो३ं
जातूष्ठिरस्य प्र वयः सहस्वतः । या चकर्थ सेन्द्र विश्वास्युक्थ्यो३म्
अरमयः सरपसस्तराय कम् । तुर्वीतये च वय्याय च स्रुतो३ं
नीचा सन्तमुदनयः परावृजम् । प्रान्धं श्रोणं श्रवयन्त्सास्युक्थ्यो३म्
अस्मभ्यं तद्वसो दानाय राधः । समर्थयस्व बहु ते वसव्यो३म्
इन्द्र यच्चित्रं श्रवस्या अनु द्यून् । बृहद्वदेम विदथे सुवीरो३ं (२ । १३ । १-१३)
[[१६१]]
नू मर्तो दयते सनिष्यन् । यो विष्णव उरुगायाय दाशो३म्
प्र यः सत्राचा मनसा यजाते । एतावन्तं नर्यमाविवासो३ं
त्वं विष्णो सुमतिं विश्वजन्याम् । अप्रयुतामेवयावो मतिं दो३म्
पर्चो यथा नः सुवितस्य भूरेः । अश्वावतः पुरुश्चन्द्रस्य रायो३ं
त्रिर्दवः पृथिवीमेष एताम् । वि चक्रमे शतर्चसं महित्वो३म्
प्र विष्णुरस्तु तवसस्तवीयान् । त्वेषं ह्यस्य स्थविरस्य नामो३ं
वि चक्रमे पृथिवीमेष एताम् । क्षेत्राय विष्णुर्मनुषे दशस्यो३ं
ध्रुवासो अस्य कीरयो जनासः । उरुक्षितिं सुजनिमा चकारो३म्
प्र तत्ते अद्य शिपिविष्ट नाम । अर्यः शंसामि वयुनानि विद्वो३ं
तं त्वा गृणामि तवसमतव्यान् । क्षयन्तमस्य रजसः पराको३ं
किमित्ते विष्णो परिचक्ष्यं भूत् । प्र यद्ववक्षे शिपिविष्टो अस्मो३म्
मा वर्पो अस्मदप गूह एतत् । यदन्यरूपः समिथे बभूथो३ं
वषट् ते विष्णवास आ कृणोमि । तन्मे जुषस्व शिपिविष्ट हव्यो३ं
वर्धन्तु त्वा सुष्टुतयो गिरो मे । यूयं पात स्वस्तिभिः सदा नो३म् (७ । १०० । १-७)
भवा मित्रो न शेव्यो घृतासुतिः । विभूतद्युम्न एवया उ सप्रथो३म्
अधा ते विष्णो विदुषा चिदर्ध्यः । स्तोमो यज्ञश्च राध्यो हविष्मतो३ं
यः पूर्व्याय वेधसे नवीयसे । सुमज्जानये विष्णवे ददाशतो३ं
यो जातमस्य महतो महि ब्रवत् । सेदु श्रवोभिर्युज्यं चिदभ्यसो३ं
तमु स्तोतारः पूर्व्यं यथा विद । ऋतस्य गर्भं जनुषा पिपर्तनो३म्
आस्य जानन्तो नाम चिद्विवक्तन । महस्ते विष्णो सुमतिं भजामहो३ं
तमस्य राजा वरुणस्तमश्विना । क्रतुं सचन्त मारुतस्य वेधसो३ं
दाधार दक्षमुत्तममहर्विदम् । व्रजं च विष्णुः सखिवाँ अपोर्णुतो३म्
आ यो विवाय सचथाय दैव्यः । इन्द्राय विष्णुः सुकृते सुकृत्तरो३ं
वेधा अजिन्वत् त्रिषधस्थ आर्यम् । ऋतस्य भागे यजमानमाभजो३ं [१ । १५६ । १-६]
सं वां कर्मणा समिषा हिनोमि । इन्द्राविष्णू अपसस्पारे अस्यो३ं
जुषेथां यज्ञं द्रविणं च धत्तम् । अरिष्टैर्नः पथिभिः पारयन्तो३ं
या विश्वासां जनितारा मतीनाम् । इन्द्राविष्णू कलशा सोमधानो३म्
प्र वां गिरः शस्यमाना अवन्तु । प्र स्तोमासो गीयमानासो अर्को३म्
इन्द्राविष्णू मदपती मदानाम् । आ सोमं यातं द्रविणो दधानो३ं
[[१६२]]
सं वामञ्जन्त्वक्तुभिर्मतीनाम् । सं स्तोमासः शस्यमानास उक्थो३म्
आ वामश्वासो अभिमातिषाहः । इन्द्राविष्णू सधमादो वहन्तो३ं
जुषेथां विश्वा हवना मतीनाम् । उप ब्रह्माणि शृणुतं गिरो मो३म्
इन्द्राविष्णू तत्पनयाय्यं वाम् । सोमस्य मद उरु चक्रमाथो३म्
अकृणुतमन्तरिक्षं वरीयः । अप्रथतं जीवसे नो रजांसो३म्
इन्द्राविष्णू हविषा वावृधाना । अग्राद्वाना नमसा रातहव्यो३ं
घृतासुती द्रविणं धत्तमस्मे । समुद्र स्थः कलशः सोमधानो३म्
इन्द्राविष्णू पिबतं मध्वो अस्य । सोमस्य दस्रा जठरं पृणेथो३म्
आ वामन्धांसि मदिराण्यग्मन् । उप ब्रह्माणि शृणुतं हवं मो३म्
शो३ंसावो३म् उभा जिग्यथुर्न परा जयेथे । न परा जिग्ये कतरश्चनैनो३म्
इन्द्रश्च विष्णो यदपस्पृधेथाम् । त्रेधा सहस्रं वि तद्येरयेथो३म् ॥ (६ । ६९ । १-८) इति त्रिः परिदध्यात् ।
उक्थं वाचीन्द्राय देवेभ्यः इति शस्त्वा जपति ।
ये३ यजामह इन्द्राविष्णू मदपती मदानामा सोमं यातं द्रविणो दधाना ।
सं वामञ्जन्त्वक्तुभिर्मतीनां सं स्तोमासः शस्यमानास उक्थै३ र्वौषट् ॥ (६ । ६९ । ३)
सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । स्वेन प्रातःसवनकीयेन समो भक्षविधिः ।
ततो मृगतीर्थसर्पणं ततोऽनुयाजदि । सूक्तवकप्रैषे-
अग्निमद्य होयारमवृणीतायं सुन्वन् यजमानः पचन् पक्तीः पचन् पुरोळाशान् गृह्णन्नग्नय आज्यं गृह्णन्त्सोमायाज्यं बध्नन्नग्नय इन्द्राग्नोभ्यां छागौ सुन्वन्निन्द्राय सोमं भृञ्जन् हरिभ्यां धानाः सूपस्था अद्य देवो वनस्पतिरभवदग्नय आज्येन सोमायाज्येनाग्नय इन्द्राग्निभ्यां छागाभ्यामिन्द्राय सोमेन हरिभ्यां धानाभिरद्यतं मेदस्तः प्रतिपचताग्रभीषुरवीवृधन्त पुरोळाशैरयाडिन्द्रः सोमं गवाशिरं यवाशिरं तीव्रान्तं बहुदमध्यमुपोत्थामदाश्रौद्विमदाँ आनळवीवृधतां गूषैस्त्वामद्य ऋष आर्षेय ऋषीणां नपादवृणीतायं सुन्वन् यजमानो बहुभ्य आसङ्गतेभ्यः । एष मे देवेषु वसुवार्यायक्ष्यत इति ता या देवा देवदानान्यदुस्तान्यस्मा आ च शास्वा च गुरस्वेषितश्च होतरसि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रू३हि ॥
होता- इदं द्यावापृथिवी इत्यदि अग्निरिदं…, सोम इदं…, अग्निरिदं…, इन्द्राग्नी इदं…, वनस्पतिरिदं…, इन्द्रो वसुमानिदं…, इन्द्रो रुद्रवानिदं…, इन्द्र आदित्यवानृभुमान् विभुमान् बृहस्पतिवान् विश्वदेव्यावानिदं…, देवा आज्यपा इत्यादि । शंयुवाकादि यज्ञपुच्छं समानमान्तम् । समाप्तमुक्थ्यम् ॥
[[१६३]]