अथ साग्निचित्ये विशेषाः ॥
उखासम्भरणीयेष्टिः
उखासम्भरणीयेष्टिः ।
अस्या इष्टेः पञ्चदशसामिधेन्यः । वार्त्रघ्नावाज्यभागौ । अग्निर्ब्रह्मण्वान्, अग्निः क्षत्रवान्, अग्निः क्षत्रभृत् च प्रधानदेवताः । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च ।
आवाहने- अग्निमग्न आ३वह । सोममा३वह । अग्निं ब्रह्मण्वन्तमा३वह । अग्निं क्षत्रवन्तमाा३वह । अग्निं क्षत्रभृतमा३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।
ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहाग्निं ब्रह्मण्वन्तं स्वाहाग्निं क्षत्रवन्तं स्वाहाग्निं क्षत्रभृतं स्वाहा देवा आज्यपा इत्यादि ।
वार्त्रघ्नावाज्यभागौ- अग्निर्वृत्राणि जङ्घनत्, त्वं सोमासि सत्पतिः ।
अग्नेर्ब्रह्मण्वतः याज्यानुवाक्या-
एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत्ते चकृमा विदा वा ।
उत प्र णेष्यभि वस्यो अस्मान्त्सं नः सृज सुमत्या वाजवत्यो३म् ॥ (१ । ३१ । १८)
ये३ यजामहेऽग्निं ब्रह्मण्वन्तं ब्रह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत् ।
रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुच्छा३न् वौ३षट् ॥ (१० । ४ । ७)
अग्नेः क्षत्रवतः-
पुरूण्यग्ने पुरुधा त्वाया वसूनि राजन् वसुता ते अश्याम् ।
पुरूणि हि त्वे पुरुवार सन्त्यग्ने वसु विधते राजनि त्वो३म् ॥ (६ । १ । १३)
[[१४७]]
ये३ यजामहेऽग्निं क्षत्रवन्तं स चित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम् ।
चन्द्रं रयिं पुरुवीरं बृहन्तं चन्द्र चन्द्राभिर्गृणते युवस्वा वौ३षट् ॥ (६ । ६ । ७)
अग्नेः क्षत्रभृतः-
अग्निरीशे बृहतः क्षत्रियस्याग्निर्वाजस्य परमस्य रायः ।
दधाति रत्नं विधते यविष्ठो व्यानुषङ् मर्त्याय स्वधावो३म् ॥ (४ । १२ । ३)
ये३ यजामहेऽग्निं क्षत्रभृतम् अर्चामि ते सुमतिं घोष्यर्वाक्सं ते वावाता जरतामियं गीः ।
स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेरनु द्यू३ न्वौ३षट् ॥ (४ । ४ । ८)
ये३ यजामहेऽग्निं स्विष्टकृतमयाळग्निरग्नेः प्रियाधामान्ययाट् सोमस्य प्रियाधामान्ययाळग्नेर्ब्रह्मण्वतः प्रियाधामान्ययाडग्नेः क्षत्रवतः प्रियाधामान्ययाडग्नेः क्षत्रभृतः प्रियाधामान्ययाट् देवानामाज्यपानां प्रियाधामानि इत्यादि ।
सूक्तवाके- अग्निरिदं…, सोम इदं…, अग्निर्ब्रह्मण्वानिदं…, अग्निः क्षत्रवानिदं…, अग्निः क्षत्रभृदिदं…,
देवा आज्यपा इत्यादि । पौर्णमासवदन्यत् ।
वायव्यः पशुः ।
तस्यैन्द्राग्नवत् कल्पः । प्राजापत्यः पशुपुरोडाशः । विशेषस्तु-
अथावाहने- अग्निमग्न आ३वह । सोममा३वह । वायुं नियुत्वन्तमा३वह । वनस्पतिमा३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।
अध्रिगौ- मेधपतये मेधम् इति ।
वपायागे-
प्रशास्ता- आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार ।
उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयो३म् ॥ (७-९२-१)
होता यक्षद वायुं नियुत्वन्तं छागस्य वपाया मेदसो जुषतां हविर्होतर्यज ॥
होता- ये३ यजामहे पीवोअन्नाँ रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः ।
ते वायवे समनसो वि तस्थुर्विश्वेन्नरः स्वपत्यानि चक्रू३ र्वौ३षट् ॥ (७-९१-३)
प्राजापत्यपशुपुरोळाशयागे-
प्रशास्ता- य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
यस्य च्छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेमो३म् ॥ (१०-१२१-२)
होता यक्षत् प्रजापतिं पुरोळाशस्य जुषेतां हविर्होतर्यज ॥
[[१४८]]
होता- ये३ यजामहे येन द्यौरुग्रा पृथिवी च दृळ्हा येन स्वः स्तभितं येन नाकः ।
यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेमा३ वौ३षट् ॥ (१०-१२१-५)
हविर्यागे-
प्रशास्ता- आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम् ।
वायो अस्मिन्त्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नो३म् ॥ (७-९२-५)
होता यक्षद् वायुं नियुत्वन्तं छागस्य हविष आददद्य मध्यतो मेद उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्यागृभः । घसन् नूनं घासे अज्राणां यवसप्रथमानां सुमत्क्षराणां शतरुद्रियाणामग्निष्वात्तानां पीवोपवसनानां पार्श्वतः श्रोणितः शितामत उत्सादतोऽङ्गादङ्गादवत्तानां करदेव वायुर्नियुत्वान् जुषतां हविर्होतर्यज ॥
होता- ये३ यजामहे प्र वायुमच्छा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम् ।
द्युतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्या३ वौ३षट् ॥ (६-४९-४)
वनस्पतियागे विशेषः- होता यक्षद्वनस्पतिमभि हि पिष्टतमया रभिष्टया रशनया धित । यत्राग्नेराज्यस्य हविषः प्रियाधामानि यत्र सोमस्याज्यस्य हविषः प्रियाधामानि यत्र वायोर्नियुत्वतश्छागस्य हविषः प्रियाधामानि यत्र वनस्पतेः प्रियापाथांसि यत्र देवानामाज्यपानां प्रियाधामानि यत्राग्नेर्होतुः प्रियाधामानि तत्रैतं प्रस्तुत्येवोपस्तुत्येवोपावस्रक्षद् रभीयसाविव कृत्वीकरदेवं देवो वनस्पतिर्जुषतां हविर्होतर्यज ॥
स्विष्टकृत्प्रैषे विशेषः- होता यक्षदग्निं स्विष्टकृतमयाळग्निरग्नेराज्यस्य हविषः प्रियाधामान्ययाट् सोमस्याज्यस्य हविषः प्रियाधामान्ययाड् वायोर्नियुत्वतश्छागस्य हविषः प्रियाधामान्ययाड् वनस्पतेः प्रियापाथांस्ययाड् देवानामाज्यपानां प्रियाधामानि यक्षदग्नेर्होतुः प्रियाधामानि यक्षत्स्वं महिमानामायजतामेज्या इषः कृणातु सो अध्वरा जातवेदा जुषतां हविर्होतर्यज ॥
सूक्तवाकप्रैषे- अग्निमद्य होतारमवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोळाशं गृह्णन्नग्नय आज्यं गृह्णन् त्सोमायाज्यं बध्नन् वायवे नियुत्वते छागं सूपस्था अद्य देवो वनस्पतिरभवदग्नय आज्येन सोमायाज्येन वायवे नियुत्वते छागेनाघत्तं मेदस्तः प्रतिपचताग्रभीदवीवृधत पुरोळाशेन त्वामद्यर्ष आर्षेय ऋषीणांनपादवृणीतायं यजमानो बहुभ्य आसङ्गतेभ्यः । एष मे देवेषु वार्यायक्ष्यत इति ता या देवा देवदानान्यदुस्तान्यस्मा आ च शास्वा च गुरस्वेषितश्च होतरसि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रू३हि ॥
होता- इदं द्यावापृथिवी इत्यदि अग्निरिदं…, सोम इदं…, वयुर्नियुत्वानिदं…, वनस्पतिरिदं…, देवा आज्यपा इत्यादि । अन्यत् सर्वं प्रकृतिवत् ।
दीक्षणीयेष्टिः
दीक्षणीयेष्टिः ।
अस्या इष्टेः सप्तदशसामिधेन्यः । वार्त्रघ्नावाज्यभागौ । अग्नाविष्णू , वैश्वानरः, आदित्याः सरस्वती अदितिर्वा प्रधानदेवताः । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च ।
[[१४९]]
आवाहने- अग्निमग्न आ३वह । सोममा३वह । (उपांशु) अग्नाविष्णू आ३वह । (उपांशु) वैश्वानरम् आ३वह । (उपांशु) आदित्यान् आ३वह । (उपांशु) सरस्वतीम् (अदितिम् वा) आ३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।
उत्तमे प्रयाजे- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहा (उपांशु) अग्नाविष्णू स्वाहा (उपांशु) वैश्वानरं स्वाहा (उपांशु) आदित्यान् स्वाहा (उपांशु) सरस्वतीं (अदितिम् वा) स्वाहा देवा आज्यपा इत्यादि ।
वार्त्रघ्नावाज्यभागौ- अग्निर्वृत्राणि जङ्घनत्, त्वं सोमासि सत्पतिः ।
अग्नाविष्ण्वोर्याज्यानुवाक्या-
(उपांशु) अग्निर्मुखं प्रथमो देवतानां सङ्गतानामुत्तमो विष्णुरासीत् ।
यजमानाय परिगृह्य देवान् दीक्षयेदं हविरागच्छतं नः ओ३म् ॥
ये३ यजामहे (उपांशु) अग्नाविष्णू अग्निश्च विष्णो तप उत्तमं महो दीक्षापालाय वनतं हि शक्रा ।
विश्वैर्देवैर्यज्ञियैः संविदानौ दीक्षामस्मै यजमानाय धत्ता३ं वौ३षट् ॥
वैश्वानरस्य-
(उपांशु) वैश्वानरो अजीजनदग्निर्नो नव्यसीं मतिम् । क्ष्मया वृधान ओजसा ओ३म् ॥
ये३ यजामहे (उपांशु) पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीराविवेश ।
वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्ता३ं वौ३षट् ॥ [१ । ९७ । २]
आदित्यानाम्-
धारयन्त आदित्यासो जगत् स्था देवा विश्वस्य भुवनस्य गोपाः ।
दीर्घाधियो रक्षमाणा असुर्यमृतावानश्चयमाना ऋणानो३म् ॥ (२-२७-४)
ये३ यजामहे (उपांशु) विद्यामादित्या अवसो वो अस्य यदर्यमन् भय आ चिन्मयोभु ।
युष्माकं मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्या३ं वौ३षट् ॥ (२-२७-५)
सरस्वत्याः-
पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसो३म् ॥ [१ । ३ । १०]
ये३ यजामहे पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् ।
ग्नाभिरच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसा३द् वौ३षट् ॥ [६ । ४९ । ७]
पक्षे अदित्याः-
उत त्वामदिते मह्यं देव्युपब्रुवे । सुमृळीकामभिष्टयो३म् ॥ [८ । ६७ । १०]
ये३ यजामहे मही मूषु मातरं सुव्रतानामृतस्य पत्नीमवसे हुवेम ।
तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीती३ं वौ३षट् ॥
स्विष्टकृतः याज्यानुवाक्या-
प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वां शश्वन्त उपयन्ति वाजो३म् ॥ [७ । १ । ३]
[[१५०]]
ये३ यजामहेऽग्निं स्विष्टकृतमयाळग्निरग्नेः प्रियाधामान्ययाट् सोमस्य प्रियाधामान्ययाट् (उपांशु) अग्नाविष्ण्वोः प्रियाधामान्ययाट् (उपांशु) वैश्वानरस्य प्रियाधामान्ययाट् (उपांशु) आदित्यानाम् प्रियाधामान्ययाट् (उपांशु) सरस्वत्याः (अदित्याः वा) प्रियाधामान्ययाड् देवानामाज्यपानां प्रियाधामानि । …जुषतां हवि-
रिमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ । प्रति न ईं सुरभीणि व्यन्तू३ वौ३षट् ॥ [७ । १ । १८]
सूक्तवाके- अग्निरिदं…, सोम इदं…, (उपांशु) अग्नाविष्णू इदं हविरजुषेतामवीवृधेतां महोज्यायोऽक्राताम् । (उपांशु) वैश्वानरः इदं…, (उपांशु) आदित्याः इदं…, (उपांशु) सरस्वती (अदितिः वा) इदं…, देवा आज्यपा इत्यादि ।
प्रथमस्यामुपसदि वृत्तायां चित्यग्निभ्यः प्रणीयमानेभ्यः इति प्रेषितः पुरीष्यचितयेन्वाह यदि होता दीक्षितश्चेत् । अदीक्षिते यजमानो ब्रूयात् । सम्प्रैषात् पश्चात् पदमत्रेऽवस्थाय हिम् भूर्भुवःस्वरो ३म् । इत्यभिहिंकृत्य
पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः ।
जुषन्तां यज्ञमद्रुहोऽनमीवा इषो महो३म् ॥ (३-२२-४) इत्युपांशु सप्रणवां त्रिरुक्त्वा व्रजत्स्वनुव्रजेत् । अनुवचनारम्भस्थाने स्थित्वा भूर्भुवःस्वः इति वाचं विसृज्य ततः प्रणयत इति सम्प्रैषं ब्रूयात् । सञ्चितेऽग्नौ छन्दोगैरनुगाने कृते पश्चादग्निपुच्छस्य निरसनोपवेशने कृत्वा अभिहिंकृत्य मध्यमया वाचा
अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् ।
अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नामो३म् ॥ (३-२६-७) इति त्रिः शंसेत् ।
एतस्मिन्नेवासने अग्निप्रणयनीयानन्तरं वैश्वानरीयेष्टिः ।
अग्नेर्वैश्वानरस्य याज्यानुवाक्या-
वैश्वानरो अजीजनदग्निर्नो नव्यसीं मतिम् । क्ष्मया वृधान ओजसा ओ३म् ॥
ये३ यजामहे पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीराविवेश ।
वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्ता३ं वौ३षट् ॥ [१ । ९७ । २]
कृत्स्नेष्टिपक्षे- सप्तदशसामिधेन्यः । वार्त्रघ्नावाज्यभागौ । अग्निर्वैश्वानरः प्रधानदेवता । न स्विष्टकृत् । प्रयाजानूयाजाश्च विद्यन्ते । तीर्थेन प्रविश्यानिपुच्छस्य पश्चादवस्थाय नमः पवक्त्रे इत्यादि ।
आवाहने- अग्निमग्न आ३वह । सोममा३वह । अग्निं वैश्वानरम् आ३वह । आवह जातवेद इत्यादि ।
उत्तमे प्रयाजे- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहाग्निं वैश्वानरं स्वाहा जुषाणा इत्यादि । उभयत्र देवाँ आज्यपाँ इत्यस्य लोपः ।
वार्त्रघ्नावाज्यभागौ- अग्निर्वृत्राणि जङ्घनत्, त्वं सोमासि सत्पतिः । पूर्वोक्तयाजुआनुवाक्या । स्विष्टकृदादि लुप्यते आ सूक्तवाकात् । सूक्तवाके- अग्निरिदं…, सोम इदं…, अग्निर्वैश्वानर इदं…, अस्यामृधेत् इत्यादि इष्टिशेषः संस्थाजपवर्जम् ।
[[१५१]]
पशुपुरोडाशस्विष्टकितः पुरस्ताद् यदि देवसूनां हवींष्यन्वायातयेयुस्तदा अग्निर्गृहपतिः, सोमो वनस्पतिः, सविता सत्यप्रसवः, बृहस्पतिर्वाचस्पतिः, इन्द्रो ज्येष्ठः, मित्रः सत्यः, वरुणो धर्मपतिः, रुद्रः पशुमान् पशुपतिर्वा ।
तेषाम् उपांशु याज्यानुवाक्या देवतादेशवर्जम् ।
अग्नेर्गृहपतेः-
त्वमग्ने बृहद्वयो दधासि देव दाशुषे । कविर्गृहपतिर्युवा ॐ ॥ (८-१०२-१)
ये३ यजामहे हव्यवाळग्निरजरः पिता नो विभुर्विभावा सुदृशीको अस्मे ।
सुगार्हपत्याः समिषो दिदीह्यस्मद्र्यक् सं मिमीहि श्रवांसी३ वौ३षट् ॥ [५ । ४ । २]
सोमस्य वनस्पतेः-
त्वं च सोम नो वशो जीवातुं न मरामहे । प्रियस्तोत्रो वनस्पतिः ॐ ॥ (१-९१-६)
ये३ यजामहे ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् ।
श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभा३ न्वौ३षट् ॥ (९-९६-६)
सवितुः सत्यप्रसवस्य-
आ विश्वदेवं सत्पतिं सूक्तैरद्या वृणीमहे । सत्यसवं सवितारम् ॐ ॥ [५ । ८२ । ७]
ये३ यजामहे न प्रमिये सवितुर्दैव्यस्य तद्यथा विश्वं भुवनं धारयिष्यति ।
यत्पृथिव्या वरिमन्ना स्वङ्गुरिर्वर्ष्मन् दिवः सुवति सत्यमस्य ता३ द्वौ३षट् ॥ (४-५४-४)
बृहस्पतेर्वाचस्पतेः-
बृहस्पते प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं दधानाः ।
यदेषां श्रेष्ठं यदरिप्रमासीत् प्रेणा तदेषां निहितं गुहाविः ॐ ॥ (१०-७१-१)
ये३ यजामहे हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन् ।
बृहस्पतिरभिकनिक्रदद् गा उत प्रास्तौदुच्च विद्वाँ अगाया३ द्वौ३षट् ॥ (१०-६७-३)
इन्द्रस्य ज्येष्ठस्य-
प्र स साहिषे पुरुहूत शत्रून् ज्येष्ठस्ते शुष्म इह रातिरस्तु ।
इन्द्राभर दक्षिणेना वसूनि पतिः सिन्धूनामसि रेवतीनाम् ॐ । [१० । १८० । १]
ये३ यजामहे भुवस्त्वमिन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियः ।
भुवो नॄँः श्च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणा३ इ वौ३षट् ॥ [१० । ५० । ४]
मित्रस्य सत्यस्य-
अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पृथिव्याः ।
आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम ॐ ॥ (३-५९-३)
ये३ यजामहे प्र स मित्र मर्तो अस्तु प्रयस्वान् यस्त आदित्य शिक्षति व्रतेन ।
[[१५२]]
न हन्यते न जीयते त्वोतो नैनमंहो अश्नोत्यन्तितो न दूरा३ द्वौ३षट् ॥ (३-५९-२)
वरुणस्य धर्मपतेः-
त्वां नष्टवान् महिमाय पृच्छते त्वया बद्धो मुमुक्षते ।
त्वं विश्वस्माद् भुवनात् पासि धर्मणा सूर्यात् पासि धर्मणा ॐ ॥ [आ.श्रौ.४ । ११ । ६]
ये३ यजामहे यत्किञ्चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि ।
अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्माद्येनसो देव रीरिषा३ वौ३षट् ॥ (७-८९-५)
रुद्रस्य पशुमतः पशुपतेर्वा-
उप ते स्तोमान् पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे ।
भद्रा हि ते सुमतिर्मृळयत्तमाथा वयमव इत्ते वृणीमहे ॐ ॥ (१-११४-९)
ये३ यजामहे आरे ते गोघ्नमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु ।
मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हा३ वौ३षट् ॥ (१-११४-१०)
सर्वपृष्ठेष्टिः ।
यद्यु वै सर्वपृष्ठान्यन्वायातयेयुः अग्निर्गायत्रस्त्रिवृद् राथन्तरो वासन्तिकः, इन्द्रस्त्रैष्टुभः पञ्चदशो बार्हतो ग्रैष्मः, विश्वेदेवा जागताः सप्तदशा वैरूपा वार्षिका, मित्रावरुनावानुष्टुभावेकविंशौ वैराजौ शारदौ, बृहस्पतिः पाड्क्तस्त्रिणवः शाक्वरोहैमन्तिकः, सवितातिच्छन्दास्त्रयस्त्रिंशो रैवतः शैशिरः, अदितिर्विष्णुपत्नी, अनुमतिः, वैश्वानरः, कः इति प्रधानदेवताः । उपांशु याज्यानुवाक्या देवतादेशवर्जम् ।
अग्नेः-
समिद्दिशमाशयानः स्वर्विन् मधुरेतो माधवः पात्वस्मान् ।
अग्निर्देवो दुष्टरीतुरदाभ्य इदं क्षत्रं ददातु पात्वस्मान् ॐ ॥
रथन्तरं सामभिः पात्वस्मान् गायत्री छन्दसां विश्वरूपा ।
त्रिवृन्नो विष्ठया स्तोमो अह्नां समुद्रो वात इदमोजः पिपर्तू३ वौ३षट् ॥
इन्द्रस्य-
उग्रा दिशामभिभूतिर्वयोधाः शुचिः शुक्रेऽहन्योजसीनाम् ।
इन्द्राधिपतिः पिपृतादतो नो महि क्षत्रं विश्वतो धारयेदम् ॐ ॥
ये३ यजामहे बृहत्साम क्षत्रभृद् वृद्धवृष्ण्यं त्रिष्टुभौजः शुभितमुग्रवीरम् ।
इन्द्रः स्तोमेन पञ्चदशेन मध्यमिदं वातेन सगरेण रक्षा३ वौ३षट् ॥
विश्वेषां देवानाम्-
प्राची दिशां सहयशा यशस्वती विश्वेदेवाः प्रावृषाह्नां स्वर्वती ।
[[१५३]]
इदं क्षत्रं दुष्टरमस्त्वोजोऽनाधृष्यं सहस्यं सहस्वत् ॐ ॥
ये३ यजामहे वैरूपे सामन्निह तच्छकेयं जगत्येनं विक्ष्वावेशयानि ।
विश्वेदेवाः सप्तदशेन वर्च इदं क्षत्रं सलिलवातमुग्रा३ं वौ३षट् ॥
मित्रावरुणयोः-
धर्त्री दिशां क्षत्रमिदं दाधारोपस्थाशानां मित्रवदस्त्वोजः ।
मित्रावरुणा शरदाह्नां चिकित्वमस्मै राष्ट्राय महि शर्म यच्छतम् ॐ ॥
ये३ यजामहे वैराजे सामन्नधि मे मनीषानुष्टुभा सम्भृतं वीर्यं सहः ।
इदं क्षत्रं मित्रवदार्द्रदातुं मित्रावरुणा रक्षतमाधिपत्या३इ वौ३षट् ॥
बृहस्पतेः-
सम्राड् दिशांसहसाम्नी सहस्वत् पृतुर्हेमन्तो विष्ठया नः पिपर्तु ।
अवस्यु वाता बृहती तु शक्वरीमं यज्ञमवतु नो घृताची ॐ ॥
ये३ यजामहे स्वर्वती सुदुघा नः पयस्वती दिशां देव्यवतु नो घृताची ।
त्वं गोपाः पुर एतोत पश्चाद् बृहस्पते याम्यां युङ्धि वाचा३ं वौ३षट् ॥
सवितुः-
ऊर्ध्वा दिशां रन्तिराशौषधीनां संवत्सरेण सविता नो अह्नाम् ।
रेवत्सामातिच्छन्दा उ च्छन्दोऽजातशत्रुः स्योना नो अस्तु ॐ ॥
ये३ यजामहे स्तोम त्रयस्त्रिंशे भुवनस्य पत्नि विवस्वद् वाते अभि नो गृणीहि ।
घृतवेती सवितुराधिपत्ये पयस्वती रन्तिराशा नो अस्तू३ वौ३षट् ॥
अदित्याः विष्णुपत्न्याः-
ध्रुवा दिशां विष्णुपत्न्यघोरास्येशाना सहसो या मनोता ।
बृहस्पतिर्मातरिश्वोत वायुः सन्ध्वाना वाता अभि नो गृणन्तु ॐ ॥
ये३ यजामहे विष्टम्भो दिवो धरुणः पृथिव्या अस्येशानाजगतो विष्णुपत्नी ।
व्यचस्वतीषयन्ती सुभूतिः शिवा नो अस्त्वदितेरुपस्था३इ वौ३षट् ॥
अनुमत्याः-
अनुनोद्यामनुमतिर्यज्ञं देवेषु मन्यताम् ।
अग्निश्च हव्यवाहनो भवतं दाशुषे मयः ॐ ॥
ये३ यजामहेऽन्विदनुमते त्वं मन्यासै शं च नस्कृधि ।
क्रत्वे दक्षाय नो हिनु प्र ण आयूंषि तारिषाद्३ वौ३षट् ॥
वैश्वानरस्य-
[[१५४]]
वैश्वानरो अजीजनदग्निर्नो नव्यसीं मतिम् । क्ष्मया वृधान ओजसा ओ३म् ॥
ये३ यजामहे पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीराविवेश ।
वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्ता३ं वौ३षट् ॥ [१ । ९७ । २]
कस्य-
को अद्य युड्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।
आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्यामृणधत् स जीवात् ॐ ॥ (१-८४-१६) ये३ यजामहे क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति ।
कस्तोकाय क इभायोत रायेऽधि ब्रवत्तन्वे को जनाया३ वौ३षट् ॥ (१-८४-१७)
समनं पशुपुरोडाशस्विष्टकृदादि ।