॥ अथावभृतेष्टिः ॥
अवभृतेष्ट्या तिष्ठन्तश्चरन्ति । प्रयाजाद्यनुयाजान्ता । नास्यामिडा । न बर्हिष्मन्तौ प्रयाजानुयाजाः । उदकमनुस्पृशन् बहिः पश्चादवस्थाय स्रुगादापनमाह- अग्निर्होता वेत्त्वित्यादि बर्हिर्वर्जं त्रीन् प्रयाजान् यजति ।
उत्तमे प्रयाज- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहा वरुणं स्वाहा देवा आज्यपा इत्यादि ।
अप्सुमन्तावाज्यभागौ-
अप्स्वग्ने सधिष्ठव सौषधीरनुरुध्यसे । गर्भे सञ्जायसे पुनो३म् ॥ [८ । ४३ । ९]
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । अग्निं च विश्वशम्भुवो३म् ॥ [१० । ९ । ६] इति पुरोनुवाक्ये ।
प्रधानस्य-
वरुणस्य याज्यानुवाक्या-
अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः ।
क्षयन्नस्मभ्यमसुरप्रचेता राजन्नेनांसि शिश्रथः कृतानो३म् ॥ [१ । २४ । १४]
ये३ यजामहे वरुणमुदुत्तमं वरुण पाशमस्मदवाधमं विमध्यमं श्रथाय ।
अथा वयमादित्य व्रते तवानागसो अदितये स्यामा३ वौ३षट् ॥ [१ । २४ । १५]
आनिगदः स्विष्टकृत्-त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेळोऽव यासिसीष्ठाः ।
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्रमुमुग्ध्यस्मो३म् ॥ [४ । १ । ४]
ये३ यजामहेऽग्नीवरुणौ स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।
अव यक्ष्म नो वरुणं रराणो वीहि मृळीकं सुहवो न एधी३ वौ३षट् ॥ [४ । १ । ५]
नेडा । अनुयाजपक्षे बर्हिर्वर्जानुयाजाः ।
[[१४१]]
संस्थितायां पादानुदकान्तेवदद्युः- नमो नरुणायाभिष्टितो वरुणस्य पाशः । तत आचामन्ति- भक्षस्यावभृथोऽसि इति प्रोथ्य प्रष्ठीवन्ति (प्रोथनमिति उत्तरास्य शोधनार्थः क्रियाविशेषः । तं कृत्वा निष्ठीवेयुः । ) । शौचार्थमाचमनं कृत्वा, भक्षितस्यावभृतोऽसि । इति पुनरपः पीत्वा प्रोथ्य प्रगिरन्ति । । भक्षं कृतस्यावभृतोऽसि । पूर्ववत् प्रोथनप्रगिरणे । तत आचम्याप्लवन्ते-
आपो॑ अ॒स्मान् मा॒तरः॑ शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्वः॑ पुनन्तु ।
विश्वं॒ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरु॒दिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ॥ [१० । १७ । १०]
इ॒दमा॑पः॒ प्रव॑हत॒ यत्किञ्च॑ दुरि॒तं मयि॑ ।
यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥ [१ । २३ । २२]
सुमित्र्या न आप ओषधयो भवन्तु दुर्मित्रास्तस्मै सन्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः । इति स्नानं कुर्युः । अदीक्षिता एभिर्मन्त्रैरभ्युक्षेरन् स्नानं कुर्युरिति वा । उन्नेता सर्वानुदकादुन्नयति । उन्नेतरुन्नोन्नयोन्नेतर्वस्वो अभ्युनयानः इत्युन्नीयमाना जपन्ति ।
उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य॑न्त उत्त॒रम् ।
दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्महि॒ ज्योति॑रुत्त॒मम् ॥ [१ । ५० । १०]
इत्युदेत्य अस्पृष्ट्वा अनवेक्षमाणा असंस्पृशन्तः प्रत्यायन्तः समिधः कुर्वते तिस्रस्तिस्र एकैकः ।
अग्नेः समिदसि तेजोऽसि तेजो मे देहि इति प्रथमाम् । एधोऽस्येधिषीमहि इति द्वितीयाम् । समिदसि समेधीषीमहि इति तृतीयाम् । ततस्तीर्थेन प्रविश्य प्रत्यगुदगाहवनीयादवस्थायाहवनीयमुपतिष्ठन्ते-
आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।
पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ संसृ॑ज॒ वर्च॑सा ॥ [१ । २३ । २३]
ततः समिधोऽभ्यादधाति यथा गृहीतम् । अग्नेः समिदसि तेजोऽसि तेजो मेऽदाः स्वाहा इति प्रथमाम् । सोमस्य समिदसि दुरिष्टेर्मा पाहि स्वाहा इति द्वितीयाम् । पितॄणां समिदसि मृत्योर्मा पाहि स्वाहा इति तृतीयाम् ।
ततः संस्थाजपेनोपस्थानम् ।
उदयनीयेष्टिः ।
गार्हपत्य उदयनीयया चरन्ति । सा प्रायणीयावत् । अस्या इष्टेः पञ्चदशसामिधेन्यः । नाज्यभागौ । अग्निः, सोमः, सविता, पथ्या स्वस्तिः, अदितिश्च प्रधानदेवताः । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च ।
नमः प्रवक्त्रे इत्यादि प्रकृतिवत् सामिधेन्यः ।
आवाहने- (उपांशु) अग्निम् (उच्चैः) अग्न आ३वह । (उपांशु) सोमम् आ३वह । (उपांशु) सवितारम् आ३वह । (उपांशु) पथ्यां स्वस्तिम् आ३वह । (उपांशु) अदितिम् आ३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।
उत्तमे प्रयाजे- ये३ यजामहे स्वाहा स्वाहा (उपांशु) अग्निं स्वाहा (उपांशु) सोमं स्वाहा (उपांशु) सवितारं स्वाहा (उपांशु) पथ्यां स्वस्तिं (उपांशु) अदितिं स्वाहा देवा आज्यपा इत्यादि ।
[[१४२]]
प्रधानानां याज्यानुवाक्याः-
(उपांशु) आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोह्ळुम् ।
अग्निर्विद्वान् त्स यजात् सेदु होता सो अध्वरान् त्स ऋतून् कल्पयाति ओ३म् ॥ [१० । २ । ३]
ये३ यजामहे (उपांशु) अग्निमग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेमा३ वौ३षट् ॥ [१ । १८९ । १]
(उपांशु) या ते धामानि दिवि या पृथिव्यां या पर्वतेष्योषधीष्वप्सु ।
तेभिर्नो विश्वैः सुमना अहेळन् राजन् त्सोम प्रति हव्या गृभाय ओ३म् ॥ [१ । ९१ । ४]
ये३ यजामहे (उपांशु) सोमं त्वं सोम प्रचिकितो मनीषा त्वं रजिष्ठमनुनेषि पन्थाम् ।
तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीरा३ वौ३षट् ॥ [१ । ९१ । १]
(उपांशु) य इमा विश्वा जातान्या श्रावयति श्लोकेन । प्र च सुवाति सविता ओ३म् ॥ [५ । ८२ । ७]
ये३ यजामहे (उपांशु) सवितारमा विश्वदेवं सत्पतिं सूक्तैरद्या वृणीमहे ।
सत्यसवं सवितारा३ं वौ३षट् ॥ [५ । ८२ । ७]
(उपांशु) स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति ।
सा नो अमा सो अरणो निपातु स्वावेशा भवतु देवगोपा ओ३म् ॥
ये३ यजामहे (उपांशु) पथ्यां स्वस्तिं स्वस्ति नः पथ्यासु धन्वसु स्वस्त्यप्सु वृजने स्वर्वति ।
स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातना३ वौ३षट् ॥ [१० । ६३ । १६-१५]
(उपांशु) महीमूषु मातरं सुव्रतानामृतस्य पत्नीमवसे हुवेम ।
तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतीम् ओ३म् ॥
ये३ यजामहे (उपांशु) अदितिं सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् ।
दैवीं नावं स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तया३इ वौ३षट् ॥ [१० । ६३ । १०]
स्विष्टकृदिसेदग्निरग्नीँरत्यस्त्वन्यान् यत्र वाजी तनयो वीळुपाणिः । सहस्रपाथा अक्षरा समोतो३म् ॥
ये३ यजामहेऽग्निं स्विष्टकृतमयाळग्निः (उपांशु) अग्नेः प्रियाधामान्ययाट् (उपांशु) सोमस्य प्रियाधामान्ययाट् (उपांशु) सवितुः प्रियाधामान्ययाट् (उपांशु) पथ्याः स्वस्तेः प्रियाधामान्ययाट् (उपांशु) अदितेः प्रियाधामान्ययाड् देवानामाज्यपानां प्रियाधामानि । …जुषतां हविः
सेदग्निर्यो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात् । सुजातासः परिचरन्ति वीरा३ वौ३षट् ॥
इळासूक्तवाकौ प्रकृतिवत् । सूक्तवाके विशेषः- (उपांशु) अग्निः इदं…, (उपांशु) सोमः इदं…, (उपांशु) सविता इदम्…, (उपांशु) पथ्या स्वस्तिः इदं…, (उपांशु) अदितिः इदं…, देवा आज्यपा इत्यादि । शंय्वन्ता सन्तिष्ठते ।
[[१४३]]
मैत्रावरुण्यानूबन्ध्या
तस्याग्नीषोमीयवत् प्रयोगः । सदस्येके उत्तरवेद्यामेके समामनन्ति ।
वपायागे-
प्रशास्ता- आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा ववृत्याम् ।
अस्माकं ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर्दिव्या सुपारो३म् ॥ (१ । १५२ । ७)
होता यक्षन्मित्रावरुणाविस्राया वपाया मेदसो जुषेतां हविर्होतर्यज ॥
होता- ये३ यजामहे युवं वस्त्राणि पीवसा वसाथे युवोरच्छिद्रा मन्तवो ह सर्गाः ।
अवातिरतमनृतानि विश्व ऋतेन मित्रावरुणा सचेथे३ वौ३षट् ॥ (१ । १५२ । १)
पुरोळाशयागे-
प्रशास्ता- आ यातं मित्रावरुणा सुशस्त्युप प्रिया नमसा हूयमाना ।
सं यावप्न स्थो अपसेव जनाञ् च्छ्रुधीयतश्चिद्यतथो महित्वो३म् ॥ (६ । ६७ । ३)
होता यक्षन्मित्रावरुणौ पुरोळाशस्य जुषेतां हविर्होतर्यज ॥
होता- ये३ यजामहे प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घृतेन ।
आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा३ वौ३षट् ॥ (७ । ६२ । ५)
हविर्यागे-
प्रशास्ता- आ नो मित्रावरुणा हव्यजुष्टिं घृतैर्गव्यूतिमुक्षतमिळाभिः ।
प्रति वामत्र वरमा जनाय पृणीतमुद्नो दिव्यस्य चारो३म् ॥ (७ । ६५ । ४)
होता यक्षन्मित्रावरुणावुस्राया हविष आत्तामद्य मध्यतो मेद उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्यागृभः । घस्तां नूनं घासे अज्राणां यवसप्रथमानां सुमत्क्षराणां शतरुद्रियाणामग्निष्वात्तानां पीवोपवसनानां पार्श्वतः श्रोणितः शितामत उत्सादतोऽङ्गादङ्गादवत्तानां करत एवं मित्रावरुणौ जुषेतां हविर्होतर्यज ॥
होता- ये३ यजामहे यद्बंहिष्ठं नातिविधे सुदानू अच्छिद्रं शर्म भुवनस्य गोपा ।
तेन नो मित्रावरुणावविष्टं सिषासन्तो जिगीवांसः स्यामा३ वौ३षट् ॥ (५ । ६२ । ९)
शूलोद्वासनादि संस्थाजपान्तं निरूढवत् । यदि अग्नीषोमीयस्थाने सवनीयस्थाने वा पश्वेकादशिनी प्रयुक्ता स्यात् तर्ह्यनूबन्ध्यायां वपायां हुतायां होतृमैत्रावरुणौ आग्नीध्रीयायतनं सदश्चोत्तरेण गत्वा पूर्वया द्वारा शालामुखीयं प्रविश्य तत्र त्वाष्ट्रेण पशुना चरन्ति । तं पशुं यूपाञ्जनादि पर्यग्निकरणान्तं कृत्वोत्सृजन्ति । यदि त्वधर्यव आज्येन समाप्नुयुस्तथैव होता कुर्यात् । आवाहने- अग्निमग्न आ३वह । सोममा३वह । त्वष्टारमा३वह । वनस्पतिमा३वह । देवाँ आज्यपाँ आ३वहेत्यादि । आज्येन समापने अनेकाः पक्ष भवन्ति । आज्यशब्देन संव्यवहारमात्रं कृत्वा पशुवदेव क्रियते इत्येकः पक्षः । संव्यवहारोऽपि पशुशब्देनेत्यपरः । इष्टिवदेवाज्येन त्वाष्ट्रयाग इत्येके । इष्टिपक्षेऽपि वपापुरोडाशहविःस्थानेषु त्रिःकृत्वः क्रियते इत्यपरः पक्षः । यद्यन्यत्यापि कुर्युः तस्य तस्यानुगुणमादेशानस्मदीयाः
[[१४४]]
कुर्युः । आज्येन क्रियमाणे पशुवत्क्रियायां निपातान् पशुवदेव ब्रूयात् । यद्यनूबन्ध्ये पशुपुरोडाशमनु देविकाहवींषि निर्वपेयुस्तर्हि धातानुमती राका सिनीवाली कुहू इति देवताक्रमः । देवीनां चेत् सूर्यो द्यौरुषा गौः पृथिवी इति । धात्रादीनां याज्यापुरोनुवाक्याः । नात्रदेवतादेशः ।
(उपांशु) धाता ददातु दाशुषे प्राचीं जीवातुमक्षिताम् ।
वयं देवस्य धीमहि सुमतिं वाजिनीवतः ओ३म् ॥ [आ.श्रौ.६ । १४ । १६]
ये३ यजामहे (उपांशु) धाता प्राजानामुत राय ईशे धातेदं विश्वं भुवनं जजान ।
धाता कृष्टीरनिमिषाभिचष्टे धात्र इद्धव्यं घृतवज्जुहोता३ वौ३षट् ॥ [आ.श्रौ.६ । १४ । १६]
अनुमत्याः- (उपांशु) अनुनोद्यामनुमतिर्यज्ञं देवेषु मन्यताम् ।
अग्निश्च हव्यवाहनो भवतं दाशुषे मयः ओ३म् ॥
ये३ यजामहे(उपांशु) अन्विदनुमते त्वं मन्यासै शं च नस्कृधि ।
क्रत्वे दक्षाय नो हिनु प्र ण आयूंषि तारिषाद्३ वौ३षट् ॥
राकायाः- (उपांशु) राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।
सीव्यत्वपः सूच्या च्छिद्यमानया दधातु वीरं शतदायमुक्थ्यम् ओ३म् ॥ [२ । ३२ । ४]
ये३ यजामहे (उपांशु) यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि ।
ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा३ वौ३षट् ॥ [२ । ३२ । ५]
सिनीवाल्याः- (उपांशु) सिनीवालि पृथुष्टुके या देवानामसि स्वसा ।
जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्डि नः ओ३म् ॥ [२ । ३२ । ६]
ये३ यजामहे (उपांशु) या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी ।
तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतना३ वौ३षट् ॥ [२ । ३२ । ७]
कुह्वाः- (उपांशु) कुहूमहं सुवृतं विद्मनापसमस्मिन् यज्ञे सुहवां जोहवीमि ।
सा नो ददातु श्रवणं पितॄणां तस्यै ते देवि हविषा विधेम ओ३म् ॥
ये३ यजामहे (उपांशु) कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषः शृणोतु ।
सं दाशुषे किरतु भूरि वामं रायस्पोषं यजमाने दधातू३ वौ३षट् ॥
सूर्यादीनां देवीनां याज्यापुरोनुवाक्याः-
(उपांशु) तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् ओ३म् ॥ [१ । ५० । ४]
ये३ यजामहे (उपांशु) चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तथुषश्चा३ वौ३षट् ॥ [१ । ११५ । १]
दिवः-(उपांशु) स्मत्पुरंधिर्न आ गहि विश्वतोधीर्न ऊतये ।
[[१४५]]
दिवो अमुष्य शासतो दिवं यय दिवावसो ओ३म् ॥ (८ । ३४ । ६)
ये३ यजामहे (उपांशु) आ नो याहि महेमते सहस्रोते शतामघ ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ३ वौ३षट् ॥ (८ । ३४ । ७)
उषसः- (उपांशु) आ द्यां तनोषि रश्मिभिरान्तरिक्षमुरु प्रियम् । उषः शुक्रेण शोचिषा ओ३म् ॥ (४ । ५२ । ७)
ये३ यजामहे (उपांशु) आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना ।
ईयुषीणामुपमा शश्वतीनां विभातीनां प्रथमोषा व्यश्वै३ द्वौ३षट् ॥ (१ । ११३ । १५)
गोः- (उपांशु) न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुप यन्ति ता अभि ।
उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ओ३म् ॥ (६ । २८ । ४)
ये३ यजामहे (उपांशु) न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति ।
देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सहा३ वौ३षट् ॥ (६ । २८ । ३)
पृथिव्याः- (उपांशु) बळित्था पर्वतानां खिद्रं बिभर्षि पृथिवि ।
प्र या भूमिं प्रवत्वति मह्ना जिनोषि महिनि ओ३म् ॥ (५ । ८४ । १)
ये३ यजामहे (उपांशु) दृळ्हा चिद्या वनस्पतीन् क्ष्मया दर्धर्ष्योजसा ।
यत्ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टया३ वौ३षट् ॥ (५ । ८४ । ३)
मैत्रावरुण्यामिक्षा ।
अनूबन्ध्यास्थाने पश्वलाभे पयस्या मैत्रावरुण्या कर्तव्या । आज्यभागप्रभृति वाजिनान्ता । स्थानाचमने कृत्वा तीर्थेन प्रविश्य उत्तरवेदिसमीपे निरसनोपवेशने कृत्वा स्रुगादापनम् । वार्त्रघ्नावज्यभागौ । प्रधानस्य-
आ नो मित्रावरुणा हव्यजुष्टिं घृतैर्गव्यूतिमुक्षतमिळाभिः ।
प्रति वामत्र वरमा जनाय पृणीतमुद्नो दिव्यस्य चारो३म् ॥ (७ । ६५ । ४)
ये३ यजामहे मित्रावरुणौ यद्बंहिष्ठं नातिविधे सुदानू अच्छिद्रं शर्म भुवनस्य गोपा ।
तेन नो मित्रावरुणावविष्टं सिषासन्तो जिगीवांसः स्यामा३ वौ३षट् ॥ (५ । ६२ । ९)
प्रकृत्या संयाज्ये अनिगदे । वाजिनयागः । कर्मिणो वाजिनं भक्षयेयुः । अथाध्वर्युप्रत्ययानुसारेण प्रधानप्रभृतीडान्ता भवति । देविकाहवींषि तु पूर्ववत् । संस्थितायां सर्वप्रायश्चित्तनि हुत्वा संस्थाजपेनोपतिष्ठेत ।
उदवसानीयेष्टिः ।
अस्या इष्टेः पञ्चदशसामिधेन्यः । वार्त्रघ्नावाज्यभागौ । अग्निः प्रधानदेवता । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च ।
आवाहने- अग्निमग्न आ३वह । सोममा३वह । अग्निमा३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।
[[१४६]]
उत्तमे प्रयाजे- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहाग्निं स्वाहा देवा आज्यपा इत्यादि ।
वार्त्रघ्नावाज्यभागौ- अग्निर्वृत्राणि जङ्घनत्, त्वं सोमासि सत्पतिः ।
अग्नेर्याज्यानुवाक्याः-
अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः । रथीर्ऋतस्य बृहतो बभूथो३म् ॥ (४ । १० । २)
ये३ यजामहेऽग्निमाभिष्टे अद्य गीर्भिर्गृणन्तोऽग्ने दाशेम ।
प्र ते दिवो न स्तनयन्ति शुष्मा३ वौ३षट् ॥ (४ । १० । ४)
स्विष्टकृति- एभिर्नो अर्कैर्भवा नो अर्वाङ् स्वर्ण ज्योतिः । अग्ने विश्वेभिः सुमना अनीको३म् ॥ (४ । १० । ३)
अयाळग्नेः प्रियाधामानि…, जुषतां हविर्
अग्ने तमद्याऽश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् । ऋध्यामा त ओहै३ र्वौ३षट् ॥ (४ । १० । १) सूक्तवाके- अग्निरिदं…, सोम इदं…, अग्निरिदं…, इत्यादि । शेषं प्रकृतिवत् ॥
इत्यग्निष्टोमप्रयोगः ॥