०३ तृतीयसवनम्

अथ तृतीयसवनम् उत्तमस्वरेण । आदित्यग्रहेण चरन्ति ।

[[१२६]]

प्रशास्ता- आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा शन्तमेन ।

अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणो३म् ॥ [७ । ५१ । १]

होता यक्षदादित्यान् प्रियान् प्रियधाम्नः प्रियव्रतान् महस्वसरस्यपतीनुरोरन्तरिक्षस्याध्यक्षान्त्स्वादित्यानवोदधतस्मै सुन्वते यजमानाय करन्नेवमादित्या जुषतां मदन्तां व्यन्तु पिबन्तु सोमं होतर्यज ॥

होता- ये३ यजामह आदित्यासो अदितिर्मादयन्तां मित्रो अर्यमा वरुणो रजिष्ठाः ।

अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोममवसे नो अद्या३ वौ३षट् ॥ [७ । ५१ । २]

नैनं ग्रहमीक्षेत हूयमानम् । नानुवषट्कारः । स्तुते आर्भवे पवमाने विहृत्याङ्गारन् मनोतादि पश्विडान्तं पशुकर्म । तत्र हविर्यागे प्रशास्ता- पायि नो अग्ने पायुभिरजस्रैरुत प्रिये सदन आ शुशुक्वान् ।

मा ते भयं जरितारं यविष्ठ नूनं विदन्मापरं सहस्वो३म् ॥ [१ । १८९ । ४]

होता यक्षदग्निं छागस्य हविष आददद्यमध्यतो मेद उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्यागृभः । घसन्नूनं घासे अज्राणां यवस प्रथमानां सुमत्क्षराणां शतरुद्रियाणामग्निष्वात्तानां पीवो पवसनानां पार्श्वतः श्रोणितः शितामत उत्सादतोङ्गादङ्गादवत्तानां करदेवाग्निर्जुषतां हविर्होतर्यज ॥

होता- ये३ यजामहे प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः ।

दक्षिणावाड् वाजिनी प्राच्येति हविर्भरन्त्यग्नये घृताची३ वौ३षट् ॥ [३ । ६ । १]

वनस्पतियागप्रैषे प्रशास्ता- होता यक्षद्वनस्पतिमभि हि पिष्टतमया रभिष्टया रशनयाधित । यत्राग्नेराज्यस्य हविषः प्रियाधामानि यत्र सोमस्याज्यस्य हविषः प्रियाधामानि यत्राग्नेश्छागस्य हविषः प्रियाधामानि यत्र वनस्पतेः प्रियापाथांसि यत्र देवानामाज्यपानां प्रियाधामानि यत्राग्नेर्होतुः प्रियाधामानि तत्रैतं प्रस्तुत्येवोपस्त्युत्येवोपावस्रक्षद् रभीयांसमिव कृत्वीकरदेवं देवो वनस्पतिर्जुषतां हविर्होतर्यज ।

स्विष्टकृत्प्रैषे प्रशास्ता- होता यक्षदग्निं स्विष्टकृतमयाळग्निरग्नेराज्यस्य हविषः प्रियाधामान्ययाट् सोमस्याज्यस्य हविषः प्रियाधामान्ययाळग्नेश्छागस्य हविषः प्रियाधामान्ययाड् वनस्पतेः प्रियापाथांस्ययाड् देवानामाज्यपानां प्रियाधामानि यक्षदग्नेर्होतुः प्रियाधामानि यक्षत्स्वं महिमानामायजतामेज्या इषः कृणातु सो अध्वरा जातवेदा जुषतां हविर्होतर्यज ॥ इति विशेषः ।

सवनीये प्रशास्ता- तृतीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः ।

ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभो३म् ॥ [३ । ५२ । ६]

होता यक्षदिन्द्रं हरिवाँ इन्द्रो धाना अत्तु पूषण्वान् करम्भं सरस्वतीवान् भारतीवान् परिवाप इन्द्रस्यापूपः । तृतीयस्य सवनस्य पुरोळाशाँ इन्द्रः प्रस्थितां जुषाणो वेतु होतर्यज ॥

होता- ये३ यजामहे हरिवाँ इन्द्रो धाना अत्तु पूषण्वान् करम्भं सरस्वतीवान् भारतीवान् परिवाप इन्द्रस्यापूपः । तृतीयस्य सवनस्य पुरोळाशाँ इन्द्रः प्रस्थितां जुषाणो वेतू३ वौ३षट् ॥

स्विष्टकृति प्रशास्ता- अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम् ।

[[१२७]]

अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तममृतेषु जागृवो३म् ॥ [३ । २८ । ५]

होता यक्षदग्निं पुरोळाशानां जुषतां हविर्होतर्यज ॥

होता- ये३ यजामहे हविरग्ने वीही३ वौ३षट् ॥

उन्नीयमानेभ्यः प्रेषितो मैत्रावरुणोऽनभिहिंकृत्य

इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत ।

अस्मिन् हि वः सवने रत्नधेयं गमन्त्विन्द्रमनु वो मदासो३म् इति त्रिः

आगन्नृभूणामिह रत्नधेयमभूत् सोमस्य सुषुतस्य पीतिः ।

सुकृत्यया यत् स्वपस्यया चँ एकम् विचक्र चमसं चतुर्धो३ं

व्यकृणोत चमसं चतुर्धा सःए वि शिक्षेत्यब्रवीत ।

अथैत वाजा अमृतस्य पन्थां गणं देवानामृभवः सुहस्तो३ं

किंमयः स्विच्चमसएष आस यं काव्येन चतुरो विचक्र ।

अथा सुनुध्वं सवनं मदाय पात ऋभवो मधुनः सोम्यस्यो३ं

शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम् ।

शच्या हरी धनुतरावतष्टेन्द्रवाहावृभवो वाजरत्नो३ं

यो वः सुनोत्यभिपित्वे अह्नां तीव्रं वाजासः सवनं मदाय ।

तस्मै रयिमृभवः सर्ववीरमा तक्षत वृषणो मन्दसानो३ं

प्रातः सुतमपिबो हर्यश्व माध्यन्दिनं सवनं केवलं ते ।

समृभुभिः पिबस्व रत्नधेभिः सकीँर्या इन्द्र चकृषे सुकृत्यो३ं

ये देवासो अभवता सुकृत्या श्येनाइवेदधि दिवि निषेद ।

ते रत्नं धात शवसो नपातः सौधन्वना अभवतामृतासो३ं

यत् तृतीयं सवनं रत्नधेयमकृणुध्वं स्वपस्या सुहस्ताः ।

तदृभवः परिषिक्तं व एतत् सं मदेभिरिन्द्रियेभिः पिबध्वो३म् [४ । ३५] इति त्रिः परिदध्यात् ।

प्रशास्ता-होता यक्षदिन्द्रं तृतीयस्य सवनस्य ऋभुमतो विभुमतो वाजवतो ब्रुहस्पतिवतो विश्वदेव्यावतः समस्यमदाः प्रातस्तना अग्मत संमाध्यन्दिनाः समिदातनास्तेषां समुक्षितानां गौर इव प्रगाह्यावृषायस्वायूया बाहुभ्यामुप याहि हरिभ्यां प्रप्रुथ्या शिप्रेनिष्यृथ्य ऋजीषमिमे अस्मै तीव्रा आशीर्वन्तः प्रस्थिता इन्द्राय सोमास्तां जुषतां वेतु पिबतु सोमं होतर्यज ॥

होता- ये३ यजामह इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वृषस्वा गभस्त्योः ।

धियेषितो मघवन् दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभी३ र्वौ३षट् ॥ [३ । ६० । ५]

[[१२८]]

प्रशास्तर्यज इति प्रेषितः प्रशस्ता-

ये३ यजामह इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रता ।

युवो रथो अध्वरं देववीतये प्रति स्वसरमुप याहि पीतया३इ वौ३षट् ॥ [६ । ६८ । १०]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

ब्रह्मन् यज इति प्रेषितो ब्राह्मणाच्छंसी-

ये३ यजामह इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन् यज्ञे मन्दसाना वृषण्वसू ।

आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छता३ं वौ३षट् ॥ [४ । ५० । १०]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

पोतर्यज इति प्रेषितः पोता-

ये३ यजामह आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः ।

सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसा३ वौ३षट् ॥ [१ । ८५ । ६]

नेष्टर्यज इति प्रेषितो नेष्टा-

ये३ यजामहेऽमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन ।

अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणा३ वौ३षट् ॥ [२ । ३६ । ३]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

अच्छावाक यज इति प्रेषितोऽच्छावाकः-

ये३ यजामह इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम् ।

आ वामन्धांसि मदिराण्यग्न्नुप ब्रह्माणि शृणुतं हवं मा३इ वौ३षट् । [६ । ६९ । ७]

अग्नीद्यज इति प्रेषितोऽग्नीत्-

ये३ यजामह इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।

भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तवा३ वौ३षट् ॥ [१ । ९४ । १]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

अथ होता आगतमध्वर्युम् अयाडग्नीत् इति पृच्छति । अयाट् इत्यध्वर्युः प्रत्याह । स भद्रमकर्यो नः सोमस्य

पाययिष्यति इति होता जपति । इडोपाह्वानादि समानमानाराशंससादनात् । सन्नेषु नाराशंसेषु मृदिष्ठात् पुरोडाशस्य तिस्रस्तिस्रः पिण्ड्यो दक्षिणतः प्रतिस्वंचमसेभ्यः स्वेभ्यः पितृभ्य उपास्येयुः अत्र पितरो मादयध्बं यथाभागमावृषायध्वम् इति । सव्यावृत आग्नीध्रीयं प्राप्य हविरुच्छिष्टं सर्वे प्राश्नीयुः । सावित्रेण ग्रहेन चरन्ति ।

प्रशास्ता- अभूद्देवः सविता वन्द्यो नु न इदानीमह्न उपवाच्यो नृभिः ।

वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधो३म् ॥ [४ । ५४ । १]

[[१२९]]

होता यक्षद्देवं सवितारं परामीवांसाविषत् पराघशंसं सुसावित्रमासाविषदस्मै सुन्वते यजमानाय करदेवं देवः सविता जुषतां मदतां वेतु पिबतु सोमं होतर्यज ॥

होता- ये३ यजामहे दमूना देवः सविता वरेण्यो दधद्रत्नादक्ष पितृभ्य आयुनि ।

पिबात् सोमममदन्नेनमिष्टयः परिज्मा चिद्रमते अस्य धर्मणी३ वौ३षट् ॥ नानुवषट्करोति । न भक्षयति ।

वैश्वदेवशस्त्रम्

वैश्वदेवशस्त्रम् ।

होता सर्वादिशो ध्यायेच्छंसिष्यन् । यस्यां द्वेष्यो न ताम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे

हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शोशो३ंसावो३ं

तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् ।

श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहो३म् इति त्रिः

अस्य हि स्वयशस्तरं सवितुः कच्चन प्रियम् । न मिनन्ति स्वराज्यो३ं

स हि रत्नानि दाशुषे सुवाति सविता भगः । तं भागं चित्रमीमहे ॥ (५ । ८२ । १-३)

शो३ंसावो३म् अद्या नो देव सवितः प्रजावत्सावीः सौभगम् । परा दुष्वप्न्यं सुवो३ं

विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं तन्न आ सुवो३म्

अनागसो अदितये देवस्य सवितुः सवे । विश्वा वामानि धीमहो३ं (५ । ८२ । ४-६)

शो३ंसावो३म् अभूद्देवः सविता वन्द्यो नु नः । इदानीमह्न उपवाच्यो नृभो३ं

वि यो रत्ना भजति मानवेभ्यः । श्रेष्ठं नो अत्र द्रविणं यथा दधो३ं

देवेभ्यो हि प्रथमं यज्ञियेभ्यः । अमृतत्वं सुवसि भागमुत्तमो३म्

आदिद्दामानं सवितर्व्यूर्णुषे । अनूचीना जीविता मानुषेभ्यो३म्

अचित्ती यच्चकृमा दैव्ये जने । दीनैर्दक्षैः प्रभूती पूरुषत्वतो३ं

देवेषु च सवितर्मानुषेषु च । त्वं नो अत्र सुवतादनागसो३ं

न प्रमिये सवितुर्दैव्यस्य तत् । यथा विश्वं भुवनं धारयिष्यतो३ं

यत्पृथिव्या वरिमन्ना स्वङ्गुरिः । वर्ष्मन् दिवः सुवति सत्यमस्य तो३म्

इन्द्रज्येष्ठान्बृहद्भ्यः पर्वतेभ्यः । क्षयाँ एभ्यः सुवसि पस्त्यावतो३ं

यथा यथा पतयन्तो वियेमिरे । एवैव तस्थुः सवितः सवाय तो३ं

शो३ंसावो३ं सविता देवः सोमस्य पिबतु । हिरण्यपाणिः सुजिह्वः । सुबाहुः स्वङ्गुरिः । त्रिरहन्त् सत्यसवनः । यः प्रासुवद्वसुधिती । उभे जोष्ट्री सवीमनि । श्रेष्ठं सावित्रमासुवम् । दोग्ध्रीं धेनुम् । वोह्ळारमनड्वाहम् । आशुं सप्तिम् । पुरन्धिं योषाम् । जिष्णुं रथेष्ठाम् । सभेयम् युवानम् । परामीवांसाविषत् पराघशंसम् । सविता देव इह श्रवदिह

[[१३०]]

सोमस्य मत्सत् । प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु । चित्रश्चित्राभिरूतिभिः । श्रवद्ब्रह्माण्यावसा गमो३ं

ये ते त्रिरहन्त्सवितः सवासः । दिवे दिवे सौभगमासुवन्तो३म्

इन्द्रो द्यावापृथिवी सिन्धुरद्भिः । आदित्यैर्नो अदितिः शर्म यंसो३ं (४ । ५४ । १-६)

शो३ंसावो३म् एकया च दशभिश्च स्वभूते । द्वाभ्यामिष्टये विंशत्या चो३ं

तिसृभिश्च वहसे त्रिंशता च । नियुद्भिर्वायविह ता विमिञ्चो३ं

शो३ंसावो३ं प्र द्यावा यज्ञैः पृथिवी ऋतावृधा । मही स्तुषे विदथेषु प्रचेतसो३ं

देवेभिर्य देवपुत्रे सुदंससा । इत्था धिया वार्याणि प्रभूषतो३म्

उत मन्ये पितुरद्रुहो मनः । मातुर्महि स्वतवस्तद्धवीमभो३ं

सुरेतसा पितरा भूम चक्रतुः । उरु प्रजाया अमृतं वरीमभो३ं

ते सूनवः स्वपसः सुदंससः । मही जज्ञुर्मातरा पूर्वचित्तयो३ं

स्थातुश्च सत्यं जगतश्च धर्मणि । पुत्रस्य पाथः पदमद्वयाविनो३ं

ते मायिनो ममिरे सुप्रचेतसः । जामी सयोनी मिथुना समोकसो३ं

नव्यं नव्यं तन्तुमा तन्वते दिवि । समुद्रे अन्तः कवयः सुदीतयो३ं

शो३ंसावो३ं द्यावापृथिवी सोमस्य मत्सताम् । पिता च माता च । पुत्रश्च प्रजननं च । धेनुश्च वृषभश्च । धन्या च धिषणा च । सुरेताश्च सुदुघाश्च । शम्भूश्च मयोभूश्च । ऊर्जस्वती च पयस्वती च । रेतोधाश्च रेतोभृच्च । द्यावापृथिवी इह श्रुतामिह सोमस्य मत्सताम् । प्रेमां देवी देवहूतिमवतां देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवताम् । चित्रे चित्राभिरूतिभिः । श्रुतां ब्रह्माण्यावसा गमो३ं

तद्राधो अद्य सवितुर्वरेण्यम् । वयं देवस्य प्रसवे मनामहो३म्

अस्मभ्यं द्यावापृथिवी सुचेतुना । रयिं धत्तं वसुमन्तं शतग्विनो३ं [१ । १५९ । १-५]

शो३ंसावो३ं सुरूपकृत्नुमूतये सुदुघामिव गोदुहे । जुहूमसि द्यवि द्यवो३ं (१ । ४ । १)

शो३ंसावो३ं तक्षन्रथं सुवृतं विद्मनापसः । तक्षन्हरी इन्द्रवाहा वृषण्वसो३ं

तक्षन् पितृभ्यामृभवो युवद्वयः । तक्षन् वत्साय मातरं सचाभुवो३म्

आ नो यज्ञाय तक्षत ऋभुमद्वयः । क्रत्वे दक्षाय सुप्रजावतीमिषो३ं

यथा क्षयाम सर्ववीरया विशा । तन्नः शर्धाय धासथा स्विन्द्रियो३म्

आ तक्षत सातिमस्मभ्यमृभवः । सातिं रथाय सातिमर्वते नरो३ं

सातिं नो जैत्रीं सं महेत विश्वहा । जामिमजामिं पृतनासु सक्षणो३म्

ऋभुक्षणमिन्द्रमा हुव ऊतये । ऋभून् वाजान् मरुतः सोमपीतयो३म्

उभा मित्रावरुणा नूनमश्विना । ते नो हिन्वन्तु सातये धिये जिषो३म्

[[१३१]]

शो३ंसावो३म् ऋभवो देवा सोमस्य मत्सन् । विष्ट्वी स्वपसः । कर्मणा सुहस्ताः । धन्या धनिष्ठाः । शम्या शमिष्ठाः । ये धेनुं विश्वजुवं विश्वरूपामरक्षन् । अरक्षद्धेनुमभवद्विश्वरूपी । अयुञ्जत हरी अयुर्देवाँ उप । अबुध्नन्त्संकनीनामदन्तः । संवत्सरे स्वपसो यज्ञियं भागमायन् । ऋभवो देवा इह श्रवन्निह सोमस्य मत्सन् । प्रेमां देवा देवहूतिमवन्तु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवन्तु । चित्राश्चित्राभिरूतिभिः । श्रवन् ब्रह्माण्यावसा गमो३म्

ऋभुर्भराय सं शिशातु सातिम् । समर्यजिद्वाजो अस्माँ अ्रवष्टो३ं

तन्नो मित्रो वरुणो मामहन्ताम् । अदितिः सिन्धुः पृथिवी उत द्यो३ं (१ । १११ । १-५)

शो३ंसावो३म् अयं वेनश्चोदयत्पृश्निगर्भाः । ज्योतिर्जरायू रजसो विमानो३म्

इममपां सङ्गमे सूर्यस्य । शिशुं न विप्रा मतिभी रिहन्तो३ं (१० । १२३ । १)

शो३ंसावो३ं येभ्यो माता मधुमत्पिन्वते पयः । पीयूषं द्यौरदितिरद्रिबर्हो३म्

उक्थशुष्मान् वृषभरान्त्स्वप्नसः । ताँ आदित्याँ अनु मदा स्वस्तयो३ं (१० । ६३ । ३)

शो३ंसावो३म् एवा पित्रे विश्वदेवाय वृष्णे । यज्ञैर्विधेम नमसा हविर्भो३म्

बृहस्पते सुप्रजा वीरवन्तः । वयं स्याम पतयो रयीणो३ं (४ । ५० । ६)

शो३ंसावो३म् आ नो भद्राः क्रतवो यन्तु विश्वतः । अदब्धासो अपरीतास उद्भिदो३ं

देवा नो यथा सदमिद्वृधे । असन्नप्रायुवो रक्षितारो दिवे दिवो३ं

देवानां भद्रा सुमतिर्ऋजूयताम् । देवानां रातिरभि नो नि वर्ततो३ं

देवानां सख्यमुप सेदिमा वयम् । देवा न आयुः प्र तिरन्तु जीवसो३ं

तान्पूर्वया निविदा हूमहे वयम् । भगं मित्रमदितिं दक्षमस्रिधो३म्

अर्यमणं वरुणं सोममश्विना । सरस्वती नः सुभगा मयस्करतो३ं

तन्नो वातो मयोभु वातु भेषजम् । तन्माता पृथिवी तत्पिता द्यो३ं

तद्ग्रावाणः सोमसुतो मयोभुवः । तदश्विना शृणुतं धिष्ण्या युवो३ं

तमीशानुागतस्तस्थुषस्पतिम् । धियंजिन्वमवसे हूमहे वयो३म्

पूषा नो यथा वेदसामसद्वृधे । रक्षिता पायुरदब्धः स्वस्तयो३ं

स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदो३ं

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातो३म्

पृषदश्वा मरुतः पृश्निमातरः । शुभंयावानो विदथेषु जग्मयो३म्

अग्निजिह्वा मनवः सूरचक्षसः । विश्वे नो देवा अवसा गमन्निहो३म्

भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्ष्रभर्यजत्रो३ं

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायो३ं

[[१३२]]

शो३ंसावो३ं विश्वे देवाः सोमस्य मत्सन् । विश्वे वैश्वानराः । विश्वे हि विश्वमहसः । महि महान्तः । तक्वान्न्नेमतिथीवानः । आस्क्राः पचतवाहसः । वातात्मानो अग्निदूताः । ये द्यां च पृथिवीं चातस्थुः । अपश्च स्वश्च । ब्रह्म च क्षत्रं च । बर्हिश्च वेदिं च । यज्ञं चोरु चान्तरिक्षम् । ये स्थ त्रय एकादशाः । त्रयश्च त्रिंशच्च । त्रयश्च त्री च शता । त्रयश्च त्री च सहस्रा । तावन्तोऽभिपाचः । तावन्तोऽभिषाचः । तावतीः पत्नीः । तावतीर्ग्नाः । तावन्त उदरणे । तावन्तो निवेशने । अतो देवा भूयांसः स्थ । मा वो देवा अभिशसा मा परिशसा वृक्षि । विश्वे देवा इह श्रवन्निह सोमस्य मत्सन् । प्रेमां देवा देवहूतिमवन्तु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवन्तु । चित्राश्चित्राभिरूतिभिः । श्रवन् ब्रह्माण्यावसा गमो३ं

शतमिन्नु शरदो अन्ति देवाः । यत्रा नश्चक्रा जरसं तनूनो३म्

पुत्रासो यत्र पितरो भवन्ति । मा नो मध्या रीरिषतायुर्गन्तो३ं

शो३ंसावो३म् अदितिर्द्यौरदितिरन्तरिक्षम् । अदितिर्माता स पिता स पुत्रो३ं

विश्वे देवा अदितिः पञ्च जनाः । अदितिर्जातमदितिर्जनित्वो३म् इति द्विः पच्छः

अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।

विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वो३म् (१ । ८९ । १-१०) इति सकृदर्धर्चशो भूमिमुपस्पृशन् परिदद्यात् । उक्थं वाचीन्द्राय देवेभ्य आश्रुत्यै त्वा इति शस्त्वा जपेत् ।

ये३ यजामहे विश्वे देवाः शृणुतेमं हवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ ।

ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वा३ं वौ३षट् ॥ (६ । ५२ । १३)

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । सर्वभक्षाश्चमसाः ।

सौम्यचरुः

तं घृतयाज्याभ्यामुपांशूभयतः परियजन्ति । घृतस्य यजेत्युक्तः

ये३ यजामहे (उपांशु) घृताहवनो घृतपृष्ठो अग्निर्घृते श्रितो घृतम्वस्य धाम ।

घृतप्रुषस्त्वा हरितो वहन्तु घृतं पिबन् यजसि देव देवा३न् वौ३षट् ॥ [आ.श्रौ.५ । १९] इति पुरस्तात् ।

सौम्यस्य यजेत्युक्ते उच्चैः -

ये३ यजामहे त्वं सोम पितृभिः संविदानोऽनुद्यावापृथिवी आततन्थ ।

तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणा३ं वौ३षट् ॥ [८ । ४८ । १३]

पुनः घृतस्य यज इत्युक्ते उपांशु-

ये३ यजामह उरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि ।

घृतं घृतयोने पिब प्र प्र यज्ञपतिं तिरा३ वौ३षट् ॥ [आ.श्रौ.५ । १९]

[[१३३]]

घृतयागस्यानतरपक्षश्चेत् –

ये३ यजामह (उपांशु) अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा ।

दमे दमे सुष्टुतिर्वामियाना प्रति वां जिह्वा घृतमुच्चरण्या३ द्वौ३षट् ॥

अध्वर्युणाहृतं स्ॐयं पूर्वमुद्गातृभ्यो गृहीत्वावेक्षेत-

यत्ते चक्षुर्दिवि यत् सुपर्णे येनैकराज्यमजहिना ।

दीर्घं यच्चक्षुरदितेरनन्तं सोमो नृचक्षा मयि तद्दधातु इति । घृतप्लुत ईक्षमाणाः स्वच्छायां यदि न पश्येत् तदा- हृदिस्पृक् क्रतुस्पृग् वर्चोधा वर्चो अस्मासु धेहि ।

यन्मे मनो यमं गतं यद्वा मे अपरागतम् । राज्ञा सोमेन तद्वयमस्मासु धारयामसि ।

भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्ष्रभर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ [१ । ८९ । ८] इति च । अङ्गुष्ठेनोपकनिष्ठिकाभ्यामाज्येनाक्षिणी अज्य च्छन्दोगेभ्यः प्रयच्छेत् ।

पात्नीवतग्रहयाजनम्

पात्नीवतग्रहयाजनम्

विहृतेषु शालाकेष्वाग्नीध्रः पात्नीवतस्योपांशु यजति-

ये३ यजामह (उपांशु) ऐभिरग्ने सरथं याह्यर्वाङ् नानारथं वा विभवो ह्यश्वाः ।

पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्वा३ वौ३षट् ॥ (३ । ६ । ९) इति । आग्नीध्रो नेष्टुर्विसंस्थितसंवरेण नेष्टारमनुप्रपद्य तस्योपस्थ उपविश्य अध्वर्युमुपहूय भक्षयेत् पात्नीवतम् । अथ यथेतं सदस आग्नीध्रं प्रति निष्क्रामेत् ।

आग्निमारुत-शस्त्रम्

आग्निमारुतशस्त्रम् । (यज्ञायज्ञीयम्)

स्तोत्रोपाकरणकालादारभ्य प्रावृतशिरस्का भवेयुः । अथ होता स्वभ्यग्रम् (सत्वरितम्) आग्निमारुतं शंसेत् । तस्याद्यामृचमृगावानं शंसेत् । यदि असा पच्छः शस्या भवेत्तदा पादे पादेऽवसायानुच्छ्वसन्नेव शंसेत् ।

प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शोशो३ंसावो३म्

वैश्वानराय पृथुपाजसे विपः । रत्ना विधन्त धरुणेषु गातवो३म्

अग्निर्हि देवाँ अमृतो दुवस्यति । अथा धर्माणि सनता न दूदुषो३म् इति त्रिः

अन्तर्दूतो रोदसी दस्म ईयते । होता निषत्तो मनुषः पुरोहितो३ं

क्षयं बृहन्तं परि भूषति द्युभिः । देवेभिरग्निरिषितो धियावसो३ं

केतुं यज्ञानां विदथस्य साधनम् । विप्रासो अग्निं महयन्त चित्तिभो३म्

अपांसि यस्मिन्नधि संदधुर्गिरः । तस्मिन्त्सुम्नानि यजमान आ चको३म्

पिता यज्ञानामसुरो विपश्चिताम् । विमानमग्निर्वयुनं च वाघतो३म्

आ विवेश रोदसी भूरिवर्पसा । पुरुप्रियो भन्दते धामभिः कवो३ं

[[१३४]]

चन्द्रमग्निं चन्द्ररथं हरिव्रतम् । वैश्वानरमप्सुषदं स्वर्विदो३ं

विगाहं तूर्णिं तविषीभिरावृतम् । भूर्णिं देवास इह सुश्रियं दधो३म्

अग्निर्देवेभिर्मनुषश्च जन्तुभिः । तन्वानो यज्ञं पुरुपेशसं धियो३ं

रथीरन्तरीयते साधदिष्टिभिः । जीरो दमूना अ्रभशस्तिचातनो३म्

अग्ने जरस्व स्वपत्य आयुनि । ऊर्जा पिन्वस्व समिषो दिदीहि नो३ं

वयांसि जिन्व बृहतश्च जागृवे । उशिग् देवानामसि सुक्रतुर्विपो३ं

विश्पतिं यह्वमतिथिं नरः सदा । यन्तारं धीनामुशिजं च वाघतो३म्

अध्वराणां चेतनं जातवेदसम् । प्र शंसन्ति नमसा जूतिभिर्वृधो३ं

विभावा देवः सुरणः परि क्षितीः । अग्निर्बभूव शवसा सुमद्रथो३ं

तस्य व्रतानि भूरिपोषिणो वयम् । उप भूषेम दम आ सुवृक्तिभो३ं

वैश्वानर तव धामान्या चके । येभिः स्वर्विदभवो विचक्षणो३ं

जात आपृणो भुवनानि रोदसी । अग्ने ता विश्वा परिभूरसि त्मनो३ं

शो३ंसावो३म् अग्निर्वैश्वानरः सोमस्य मत्सत् । विश्वेषां देवानां समित् । अजस्रं दैव्यं ज्योतिः । यो विड्भ्यो मानुषीभ्यो अदीदेत् । द्युषु पूर्वेषु दिद्युतानः । अजर उषसामनीके । आ योद्यां भात्या पृथिवीम् । ओर्वन्तरिक्षम् । ज्योतिषा यज्ञाय शर्म यंसत् । अग्निर्वैश्वानर इह श्रवदिह सोमस्य मत्सत् । प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु । चित्रश्चित्राभिरूतिभिः । श्रवद्ब्रह्माण्यावसा गमो३ं

वैश्वानरस्य दंसनाभ्यो बृहत् । अरिणादेकः स्वपस्यया कवो३म्

उभा पितरा महयन्नजायत । अग्निर्द्यावापृथिवी भूरिरेतसो३ं (३ । ३ । १-११)

शो३ंसावो३ं शं नः करत्यर्वते सुगं मेषाय मेष्ये । नृभ्यो नारिभ्यो गवो३ं (१-४३-६)

शो३ंसावो३म् प्रत्वक्षसः प्रतवसो विरप्शिनः । अनानता अविथुरा ऋजीषिणो३ं

जुष्टतमासो नृतमासो अञ्जिभिः । व्यानज्रे केचिदुस्रा इव स्तृभो३म्

उपह्वरेषु यदचिध्वं ययिम् । वय इव मरुतः केन चित्पत्थो३ं

श्चोतन्ति कोशा उप वो रथेष्वा । घृतमुक्षता मधुवर्णमर्चतो३म्

प्रैषामज्मेषु विथुरेव रेजते । भूमिर्यामेषु यद्ध युञ्जते शुभो३ं

ते क्रीळयो धुनयो भ्राजदृष्टयः । स्वयं महित्वं पनयन्त धूतयो३ं

स हि स्वसृत्पृषदश्वो युवा गणः । अया ईशानस्तविषीभिरावृतो३म्

असि सत्य ऋणयावानेद्यः । अस्या धियः प्राविताथा वृषा गणो३म्

पितुः प्रत्नस्य जन्मना वदामसि । सोमस्य जिह्वा प्र जिगाति चक्षसो३ं

यदीमिन्द्रं शम्यृक्वाण आशत । आदिन्नामानि यज्ञियानि दधिरो३ं

[[१३५]]

शो३ंसावो३म् मरुतो देवाः सोमस्य मत्सन् । सुष्टुभः स्वर्काः । अर्कस्तुभो बृहद्वयसः । शूरा अनाधृष्टरथाः । त्वेषासः पृश्निमातरः । शुभ्रा हिरण्यखादयः । तवसो भन्ददिष्टयः । नभस्या वर्षनिर्णिजः । मरुतो देवा इह श्रवन्निह सोमस्य मत्सन् । प्रेमां देवा देवहूतिमवन्तु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवन्तु । चित्राश्चित्राभिरूतिभिः । श्रवन् ब्रह्माण्यावसा गमो३ं

श्रियसे कं भानुभिः सं मिमिक्षिरे । ते रश्मिभिस्त ऋक्वभिः सुखादयो३ं

ते वाशीमन्त इष्मिणो अभीरवः । विद्रे प्रियस्य मारुतस्य धाम्नो३ं (१ । ८७ । १-६)

शो३ंसावो३ं यज्ञा यज्ञा वो अग्नये गिरा गिरा च दक्षसे ।

प्र प्र वयममृतं जातवेदसम् प्रियं मित्रं न शंसिषो३म्

प्रियं मित्रं न शंसिषमूर्जो नपातं स हिनायमस्मयुः । दाशेम हव्यदातयो३ं

दाशेम हव्यदातये भुवद्वाजेष्वविता भुवद्वृधः । उत त्राता तनूनो३ं (६ । ४८ । १-२)

शो३ंसावो३ं देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचम् ।

उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहतो३म्

आदिद्वो देव ओहते तं होतारमध्वरस्य प्रचेतसम् । वह्निं देवा अकृण्वतो३ं

वह्निं देवा अकृण्वत दधाति रत्नं विधते सुवीर्यम् । अग्निर्जनाय दाशुषो३ं (७ । १६ । ११-१२)

शो३ंसावो३म् प्र तव्यसीं नव्यसीं धीतिमग्नये । वाचो मतिं सहसः सूनवे भरो३म्

अपां नपाद्यो वसुभिः सह प्रियः । होता पृथिव्यां न्यसीददृत्वियो३ं

स जायमानः परमे व्योमनि । आविरग्निरभवन्मातरिश्वनो३म्

अस्य क्रत्वा समिधानस्य मज्मना । प्र द्यावा शोचिः पृथिवी अरोचयो३म्

अस्य त्वेषा अजरा अस्य भानवः । सुसंदृशः सुप्रतीकस्य सुद्युतो३म्

भात्वक्षसो अत्यक्तुर्न सिन्धवः । अग्ने रेजन्ते अससन्तो अजरो३ं

यमेरिरे भृगवो विश्ववेदसम् । नाभा पृथिव्या भुवनस्य मज्मनो३म्

अग्निं तं गीर्भिर्हिनुहि स्व आ दमे । य एको वस्वो वरुणो न राजतो३ं

न यो वराय मरुतामिव स्वनः । सेनेव सृष्टा दिव्या यथाशनो३म्

अग्निर्जम्भैस्तिगितैरत्ति भर्वति । योधो न शत्रून्त्स वना न्यृञ्जतो३ं

कुविन्नो अग्निरुचथस्य वीरसत् । वसुष्कुविद्वसुभिः काममावरो३ं

चोदः कुवित्तुतुज्यात्सातये धियः । शुचिप्रतीकं तमया धिया गृणो३ं

घृतप्रतीकं व ऋतस्य धूर्षदम् । अग्निं मित्रं न समिधान ऋञ्जतो३म्

इन्धानो अक्रो विदथेषु दीद्यत् । शुक्रवर्णामुदु नो यंसते धियो३ं

[[१३६]]

शो३ंसावो३म् अग्निर्जातवेदाः सोमस्य मत्सत् । स्वनीकश्चित्रभानुः । अप्रोषिवान् गृहपतिः । तिरस्तमांसि दर्शतः । घृताहवन ईड्यः । बहुलवर्मास्तृतयज्वा । प्रतीत्या शत्रून् जेतापराजितः । अग्ने जातवेदोऽभिद्युम्नमभि सह आयच्छस्व । समेद्धारं स्तोतारमंहसस्पाहि । अग्निर्जातवेदा इहश्रवदिह सोमस्य मत्सत् । प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु । चित्रश्चित्राभिरूतिभिः । श्रवद्ब्रह्माण्यावसा गमो३म्

अप्रयुच्छन्नप्रयुच्छद्भिरग्ने । शिवेभिर्नः पायुभिः पाहि शग्मो३म्

अदब्धेभिरदृपितेभिरिष्टे । अनिमिषद्भिः परि पाहि नो जो३ं (१ । १४३ । १-८)

अथापोहिष्ठीये वियतं स्थित्वा स्थित्वा अपश्चोपस्पृशञ्च्छंसेत् । उद्गात्रादिष्वन्वारब्धेष्वपावृतशिरस्कः

शो३ंसावो३म् आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसो३ं

यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरो३ं

तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नो३ं (१० । ९ । १-३)

शो३ंसावो३म् उत नोऽहिर्बुध्न्यः शृणोतु । अज एकपात्पृथिवी समुद्रो३ं

विश्वे देवा ऋतावृधो हुवानाः । स्तुता मन्त्राः कविशस्ता अवन्तो३ं (६ । ५० । १४)

शो३ंसावो३म् देवानां पत्नीरुशतीरवन्तु नः । प्रावन्तु नस्तुजये वाजसातयो३ं

याः पार्थिवासो या अपामपि व्रते । ता नो देवीः सुहवाः शर्म यच्छतो३म्

उत ग्ना व्यन्तु देवपत्नीः । इन्द्राण्यग्नाय्यश्विनी रो३म्

आ रोदसी वरुणानी शृणोतु । व्यन्तु देवीर्य ऋतुर्जनीनो३ं (५ । ४६ । ७-८)

शो३ंसावो३ं राकामहं सुहवां सुष्टुती हुवे । शृणोतु नः सुभगा बोधतु त्मनो३ं

सीव्यत्वपः सूच्या च्छिद्यमानया । ददातु वीरं शतदायमुक्थ्यो३ं

यास्ते राके सुमतयः सुपेशसः । याभिर्ददासि दाशुषे वसूनो३ं

ताभिर्नो अद्य सुमना उपागहि । सहस्रपोषं सुभगे रराणो३ं (२ । ३२ । ४-५)

शो३ंसावो३म् पावीरवी कन्या चित्रायुः । सरस्वती वीरपत्नी धियं धो३ं

ग्नाभिरच्छिद्रं शरणं सजोषाः । दुराधर्षं गृणते शर्म यंसो३ं । (६ । ४९ । ७)

शो३ंसावो३म् इमं यम प्रस्तरमा हि सीद । अङ्गिरोभिः पितृभिः संविदानो३म्

आ त्वा मन्त्राः कविशस्ता वहन्तु । एना राजन्हविषा मादयस्वो३ं (१० । १४ । ४)

शो३ंसावो३म् मातली कव्यैर्यमो अङ्गिरोभिः । बृहस्पतिर्ऋक्वभिर्वावृधानो३ं

यांश्च देवा वावृधुर्य च देवान् । स्वाहान्ये स्वधयान्ये मदन्तो३ं (१० । १४ । ३)

शो३ंसावो३म् उदीरतामवर उत्परासः । उन्मध्यमाः पितरः सोम्यासो३म्

असुं य ईयुरवृका ऋतज्ञाः । ते नोऽवन्तु पितरो हवेषो३ं (१० । १५ । १)

[[१३७]]

शो३ंसावो३म् आहं पितॄन्सुविदत्राँ अवित्सि । नपातं च विक्रमणं च विष्णो३म्

बर्हिषदो ये स्वधया सुतस्य । भजन्त पित्वस्त इहागमिष्ठो३ं (१० । १५ । ३)

शो३ंसावो३म् इदं पितृभ्यो नमो अस्त्वद्य । ये पूर्वासो य उपरास ईयो३ं

ये पार्थिवे रजस्या निषत्ताः । ये वा नूनं सुवृजनासु विक्षो३ं (१० । १५ । २)

शो३ंसावो३ं स्वादुष्किलायं मधुमाँ उतायम् । तीव्रः किलायं रसवाँ उतायो३म्

उतो न्वस्य पपिवांसमिन्द्रम् । न कश्चन सहत आहवेषो३म्

अयं स्वादुरिह मदिष्ठ आस । यस्येन्द्रो वृत्रहत्ये ममादो३म्

पुरूणि यश्चौत्ना शम्बरस्य । वि नवतिं नव च देह्यो हो३म्

अयं मे पीत उदियर्ति वाचम् । अयं मनीषामुशतीमजीगो३म्

अयं षळुर्वीरमिमीत धीरः । न याभ्यो भुवनं कच्चनारो३म्

अयं स यो वरिमाणं पृथिव्याः । वर्ष्माणं दिवो अकृणोदयं सो३म्

अयं पीयूषं तिसृषु प्रवत्सु । सोमो दाधारोर्वन्तरिक्षो३ं (६ । ४७ । १-४)

शो३ंसावो३म् ययो रोजसा स्कभिता रजांसि । वीर्येभिर्वीरतमा शविष्ठो३ं

या पत्येते अप्रतीता सहोभिः । विष्णू अगन् वरुणा पूर्वहूतो३ं

विष्णोर्नु कं वीर्याणि प्र वोचम् । यः पार्थिवानि विममे रजांसो३ं

यो अस्कभायदुत्तरं सधस्थम् । विचक्रमाणस्त्रेधोरुगायो३ं (१ । १५४ । १)

शो३ंसावो३ं तन्तुं तन्वन्रजसो भानुमन्विहि । ज्योतिष्मतः पथो रक्ष धिया कृतो३म्

अनुल्बणं वयत जोगुवामपः । मनुर्भव जनया दैव्यं जनो३ं (१० । ५३ । ६)

शो३ंसावो३म् एवा न इन्द्रो मघवा विरप्शी । करत्सत्या चर्षणीधृदनर्वो३ं

त्वं राजा जनुषां धेह्यस्मे । अधि श्रवो माहिन्यज्जरित्रो३म् (४ । १७ । २०) भूमिमुपस्पृशन्नस्या ऋचो मध्यमे वचन उत्तमं पादमवशिष्य स्थित्वा उत्तमेन वचनेन ध्रुवावनयनं काङ्क्षेत् । उक्थं वाचीन्द्राय देवेभ्य आश्रुताय त्वा इति शस्त्वा जपेत् ।

ये३ यजामहेऽग्ने मरुद्भिः शुभयद्भिर्ऋक्वभिः सोमं पिब मन्दसानो गणश्रिभिः ।

पावकेभिर्विश्वमिन्वेभिरायुभिर्वैश्वानर प्रदिवा केतुना सजू३ र्वौ३षट् ॥ (५ । ६० । ८)

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

पाशुकं कर्म

अथानूयाजादि सूक्तवाके विशेषः -

[[१३८]]

प्रशास्ता-अग्निमद्य होयारमवृणीतायं सुन्वन् यजमानः पचन् पक्तीः पचन् पुरोळाशान् गृह्णन्नग्नय आज्यं गृह्णन्त्सोमायाज्यं बध्नन्नग्नये छागं सुन्वन्निन्द्राय सोमं भृञ्जन् हरिभ्यां धानाः सूपस्था अद्य देवो वनस्पतिरभवदग्नय आज्येन सोमायाज्येनाग्नये छागेनेन्द्राय सोमेन हरिभ्यां धानाभिरघत्तं मेदस्तः प्रतिपचताग्रभीदवीवृधत पुरोळाशैरपादिन्द्रः सोमं गवाशिरं यवाशिरं तीव्रान्तं बहुदमध्यमुपोत्थामदाश्रौद्विमदाँ आनळवीवृधतां गूषैस्त्वामद्य ऋष आर्षेय ऋषीणां नपादवृणीतायं सुन्वन् यजमानो बहुभ्य आसङ्गतेभ्यः । एष मे देवेषु वसुवार्यायक्ष्यत इति ता या देवा देवदानान्यदुस्तान्यस्मा आ च शास्वा च गुरस्वेषितश्च होतरसि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रू३हि ॥

होता- इदं द्यावापृथिवी इत्यदि अग्निरिदं…, सोम इदं…, अग्निरिदं…, वनस्पतिरिदं…, इन्द्रो वसुमानिदं…, इन्द्रो रुद्रवानिदं…, इन्द्र आदित्यवानृभुमान् विभुमान् बृहस्पतिवान् विश्वदेव्यावानिदं…, देवा आज्यपा इत्यादि । अस्यामृधेद्धोत्रायां देवङ्गमायामाशास्तेऽयं सुन्वन् यजमानः अत्र नामादेशः कर्तव्यः । आयुराशास्ते इत्यादि । शंयुवाकः । वाजिनयागः ।

हारियोजनम्

अथ हारियोजनम् ।

प्रशास्ता- अपाः सोममस्तमिन्द्र प्रयाहि कल्याणीर्जाया सुरणं गृहे ते ।

यत्रा रथस्य बृहतो निदानं विमोचनं वाजिनो दक्षिणावतो३म् ॥ [३ । ५३ । ६]

धाना सोमानामिन्द्राद्धि च पिब च बब्धान्तं हरीधाना उप ऋजीषं जिघ्रतामा रथचर्षणे सिञ्चस्व यत्त्वा पृच्छाद्विशन्पत्नीः क्वामीमदथा इत्यस्मिन् त्सुन्वति यजमाने तस्मै किमराथाः सुष्टु सुवीर्यं यज्ञस्यागुर उदृचं यद्यदृचीकमतोतो तत्तथा भूद्धोतर्यज ॥

होता- ये३ यजामहे युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः ।

उत्त्वा सुतासो रभसा अमन्दिषुः पूषण्वान् वज्रिन्त्समु पत्न्यामदा३ वौ३षट् ॥ (१ । ८२ । ६)

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

आहृतमुन्नेत्रा द्रोणकलशमिळामिव प्रतिगृह्योपहवमिष्ट्वावेक्षेत-

हरिवतस्ते हारियोजनस्य स्तुतस्तोमस्य शस्तोक्थस्येष्टयजुषो यो भक्षो गोसनिरश्वसनिस्तस्य त उपहूतस्योपहूतो भक्षयामि इति प्राणभक्षं भक्षयित्वा प्रतिप्रदाय द्रोणकलशमात्मानमाप्याय्य होता उदायुषा इत्येतेनोपोत्थाय उत्तरेण सर्वान् धिष्णियान् गत्वा पूर्वय द्वारा निष्क्रामत्येवमेव होत्रकाः । अच्छावाकस्त्व्परया द्वारा निष्क्रामति । विनिसृप्य आग्नीध्रीये विनिःसृप्ताहुती जुह्वति-

अयं पीत इन्दुरिन्द्रं मदेधादयं विप्रो वाचमर्चन्नियच्छन् ।

अयं कस्यचिद्द्रुहतादभीके सोमो राजा न सखायं रिषेधात् स्वाहा । सोमायेदं न मम इति यजमानः ।

इदं राधो अग्निना दत्तमागाद्यशो भर्गः सह ओजो बलं च ।

दीर्घायुत्वाय शतशारदाय प्रतिगृभ्णामि महते वीर्याय स्वाहा । अग्नय इदं .

[[१३९]]

आहवनीये षट्शकलान्यभ्यादधाति- देवकृतस्यैनसोऽवयजनमसि स्वाहा । पितृकृतस्यैनसोऽवयजनमसि स्वाहा । मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा । आत्मकृतस्यैनसोऽवयजनमसि स्वाहा । एनस एनसोऽवयजनमसि स्वाहा । यद्वो देवाश्चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनम् ।

अरावा यो नो अभि दुच्छुनायते तस्मिन् तदेनो वसवो नि धेतन स्वाहा ॥ (१० । ३७ । १२)

द्रोणकलशाद्धाना गृहीत्वा अवेक्षेरन् – आपूर्याः स्थामापूरयत प्रजया च धनेन च ।

इन्द्रस्य कामदुघाः स्थ कामान् मे धुङ्ग्ध्वम् प्रजाँश्च पशूँश्च इति । तूष्णीमवघ्रायान्तःपरिधिदेशे निवपेयुः । विनिःसृओताहुति प्रभृति एतावत् सर्वैः कर्तव्यम् । तेषां मध्ये ये चमसिनस्ते प्रत्येत्य सव्यावृतो भूत्वा तीर्थदेशे पूर्णाश्चमसातान् व्रजन्ति । स्वस्वचमसात् पश्चादुपविश्य हरिततृणानि दूर्वानि विमृज्य दूर्वारसयुक्ता अपो गृहीत्वा ताभिरद्भिः स्वं स्वमात्मानं दक्षिणैः पाणिभिरप्रदक्षिणं , सव्यैर्वा पाणिभिः प्रदक्षिणं पर्युक्षन्ते- स्वधा पित्रे स्वधा पितामहाय स्वधा प्रपितामहाय इति । जीवत्पितृकस्य न पर्युक्षणम् । पाणींश्चमसेष्ववधाय-

अप्सु धूतस्य देव सोम ते मतिविदो नृभिः सुतस्य स्तुतस्तोमस्य शस्तोक्थस्येष्टयजुषो यो भक्षो गोसनिरश्वसनिस्तस्य त उपहूतस्योपहूतो भक्षयामि इति प्राणभक्षान् भक्षयित्वा

माहं प्रजां परासिचं या नः सयावरी स्थन । समुद्रे वो निनयानि स्वं पाथो अपीथ ॥ इत्येतेनाभ्यात्मं स्वचमसस्था अपो भूमौ निनीयात् ।

अच्छायं वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः ।

उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः ॥ (७ । ३६ । ९) इत्येतया भूमौ निषिक्ता आपोऽभिमृशन्ति ।

दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।

सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत् ॥ (४ । ३९ । ६) इत्याध्रीये दधिद्रप्सान् प्राश्य सख्यानि विसृजन्ते परस्परं हस्तसंस्पर्शनेन-

उभा कवी युवाना सत्यादा धर्मणस्पती ।

परि सत्यस्य धर्मणा वि सख्यानि सृजामहै ॥ इति ।

वेदग्रहणादि पत्नीसंयाजैश्चरित्वा वेदस्तरणं कृत्वाकृत्वा वा सर्वप्रायश्चित्तनि जुहुयादितरैरन्वारब्धः । न संस्थाजपः । अनुबन्ध्याया अकरणपक्षे पशुकर्तृभिः हृगयशूलोद्वासनमत्रैव कर्तव्यम् । तीर्थेन निष्क्रम्याग्निपशुकेतनान्यव्यवयन्तो हृदयशूलमुपोयमानमनुमन्त्रयेरन्- शुगसि योऽस्मान् द्वेष्टि यच्च वयं द्विष्मस्तमभिशोच इति । तस्योपरिष्टादप उपस्पृशन्ति-

द्वीपे राज्ञो वरुणस्य गृहो मितो हिरण्ययः ।

स नो धृतव्रतो राजा धाम्नो धाम्न इह मुञ्चतु ॥

धाम्नो धाम्न्नो राजन्नितो वरुण नो मुञ्च ।

यदापो अघ्निया इति वरुणेति शपामह ततो वरुण नो मुञ्च ।

[[१४०]]

मयि वापो मोषधीर्हिंसीरतो विश्वव्यचा अभूस्त्वेतो वरुण नो मुञ्च ॥

सुमित्र्या न आप ओषधयो भवन्तु दुर्मित्रास्तस्मै सन्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥ इति ।

अस्पृष्ट्वानवेक्षमाणा हृदयशूलम् परस्परमसंस्पृशन्तः प्रत्यायन्तः सर्वे तिस्रस्तिस्रः समिधो गृह्णीयुः एकैकः ।

अग्नेः समिदसि तेजोऽसि तेजो मे देहि इति प्रथमाम् । एधोऽस्येधिषीमहि इति द्वितीयाम् । समिदसि समेधीषीमहि इति तृतीयाम् । ततस्तीर्थेन प्रविश्य प्रत्यगुदगाहवनीयादवस्थायाहवनीयमुपतिष्ठन्ते-

आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।

पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ संसृ॑ज॒ वर्च॑सा ॥ [१ । २३ । २३] इति ।

ततः समिधोऽभ्यादधाति यथा गृहीतम् । अग्नेः समिदसि तेजोऽसि तेजो मेऽदाः स्वाहा इति प्रथमाम् । सोमस्य समिदसि दुरिष्टेर्मा पाहि स्वाहा इति द्वितीयाम् । पितॄणां समिदसि मृत्योर्मा पाहि स्वाहा इति तृतीयाम् । अथावभृतं व्रजन्ति । व्रजन्तः साम्नो निधनमुपयन्ति । ए२३ विश्वं समत्रिणं दह३४५ इति । मैत्रावरुणो दण्डमाहरति ।