०२ माध्यन्दिनं सवनम्

अथ माध्यन्दिनं सवनम्

ग्रावस्तुदभिष्टवनम्

ग्रावस्तुदभिष्टवनम् ।

अभि त्वा देव सवितरीशानं वार्याणाम् । सदावन् भागमीमहो३ं इति त्रिः [१ । २४ । ३]

युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।

वि होत्रा दधेवयुनाविदेक इन् मही देवस्य सवितुः परिष्टुतो३म् [५ । ८१ । १]

आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय । मह हस्ती दक्षिणेनो३म् [८ । ८२ । १]

मा चिदन्यद् विशंसत सखायो मारिषण्यत ।

इन्द्रमित् स्तोता वृषणं सचा सुते मुहुरुक्था च शंसतो३ं [८ । १ । १]

प्रैते वदन्तु ओर वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः ।

यदद्रयः पर्वताः साकमाशवः श्लोकं घोषं भरथेन्द्राय सोमिनो३म्

एते वदन्ति शतवत् सहस्रवदभि क्रन्दन्ति हरितेभिरासभिः ।

विष्ट्वी ग्रावाणः सुकृतः सुकृत्यया होतुश्चित् पूर्वे हविरद्यमाशतो३म्

एते वदन्त्यविदन्नना मधु न्यूङ्खयन्ते अधि पक्व आमिषि ।

वृक्षस्य शाखामरुणस्य बप्सतस्ते सूभर्वा वृषभाः प्रेमराविषो३ं

बृहद्वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तोऽविदन्नना मधु ।

संरभ्या धीराः स्वसृभिरनर्तिषुराघोषयन्तः पृथिवीमुपब्दिभो३ं

सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः ।

न्यङ्नि यन्त्युपरस्य निष्कृतं पुरू रेतो दधिरे सूर्यश्वितो३म्

उग्राइव प्रवहन्तः समायमुः साकं युक्ता वृषणो बिभ्रतो धुरः ।

यच्छ्वसन्तो जग्रसाना अराविषुः शृण्व एषां प्रोथतो अर्वतामिवो३ं

दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः ।

दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यो३ं

ते अद्रयो दशयन्त्रास आशवस्तेषामाधानं पर्येति हर्यतम् ।

त ऊ सुतस्य सोम्यस्यान्धसोंऽशोः पीयूषं प्रथमस्य भेजिरो३ं

ते सोमादो हरी इन्द्रस्य निंसतेंऽशुं दुहन्तो अध्यासते गवि ।

तेभिर्दुग्धं पपिवान्त्सोम्यं मध्विन्द्रो वर्धते प्रथते वृषायतो३ं

वृषा वो अंशुर्न किला रिषाथनेळावन्तः सदमित् स्थनाशिताः ।

रैवत्येव महसा चारवः स्थन यस्य देवा ग्रावाणो अजुषध्वमध्वरो३ं

तृदिला अतृदिलासो अद्रयोऽश्रमणा अशृथिता अमृत्यवः ।

[[११२]]

अनातुरा अजराः स्थामविष्णवः सुपीवसो अतृषिता अतृष्णजो३ं

ध्रुवा एव वः पितरो युगेयुगे क्षेमकामासः सदसो न युञ्जते ।

अजुर्यासो हरिषाचो हरिद्रव आ द्यां रवेण पृथिवीमशुश्रवो३ं

तदिद्वदन्त्यद्रयो विमोचने यामन्नञ्जस्पाइव घेदुपब्दिभिः ।

वपन्तो बीजमिव धान्याकृतः पृञ्चन्ति सोमं न मिनन्ति बप्सतो३म् [१० । ९४ । १-१३]

आ व ऋञ्जस ऊर्जां व्युष्टिष्विन्द्रं मरुतो रोदसी अनक्तन ।

उभे यथा नो अहनी सचाभुवा सदःसदो वरिवस्यात उद्भिदो३ं

तदु ज्येष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रिः सोतरि ।

विदद्ध्यर्यो अभिभूति पौंस्यं महो राये चित् तरुते यदर्वतो३ं

तदिद्ध्यस्य सवनं विवेरपो यथा पुरा मनवे गातुमश्रेत् ।

गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेमध्वरेष्वध्वराँ अशिश्रयो३म्

अप हत रक्षसो भङ्गुरावतः स्कभायत निर्ऋतिं सेधतामतिम् ।

आ नो रयिं सर्ववीरं सुनोतन देवाव्यं भरत श्लोकमद्रयो३ं

दिवश्चिदा वोऽमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः ।

वायोश्चिदा सोमरभस्तरेभ्योऽग्नेश्चिदर्च पितुकृत्तरेभ्यो३ं

भुरन्तु नो यशसः सोत्वन्धसो ग्रावाणो वाचा दिविता दिवित्मता ।

नरो यत्र दुहते काम्यं मध्वाघोषयन्तो अभितो मिथस्तुरो३ं

सुन्वन्ति सोमं रथिरासो अद्रयो निरस्य रसं गविषो दुहन्ति ते ।

दुहन्त्यूधरुपसेचनाय कं नरो हव्या न मर्जयन्त आसभो३म्

एते नरः स्वपसो अभूतन य इन्द्राय सुनुथ सोममद्रयः ।

वामंवामं वो दिव्याय धाम्ये वसुवसु वः पार्थिवाय सुन्वतो३ं [१० । ७६]

प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा । धूर्षु युज्यध्वं सुनुतो३ं

ग्रावाणो अप दुच्छुनामप सेधत दुर्मतिम् । उस्रां कर्तन भेषजो३ं

ग्रावाण उपरेष्वा महीयन्ते सजोषसः । वृष्णे दधतो वृष्ण्यो३ं

ग्रावाणः सविता नु वो देवः सुवतु धर्मणा । यजमानाय सुन्वतो३ं [१० । १७५]

स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । इन्द्राय पातवे सुतो३ं [९ । १ । १]

सुते अध्वरे अधि वाचमक्रता क्रीळयो न मातरं तुदन्तः ।

वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्तामद्रयश्चायमानो३म् [१० । ९४ । १४] इति त्रिः परिदध्यात् ।

दधिघर्मेण चरन्ति प्रवर्ग्यवांश्चेत् । तस्योक्तमृगावानं घर्मेण । इज्या भक्षिणश्च । होतर्वदस्व इत्युक्तः

[[११३]]

उत्तिष्ठाताव पश्यतेन्द्रस्य भागमृत्वियं यदि श्रातो जुहोतन यद्यश्रातो ममत्तनो४म् इत्याह ।

श्रातं हविः इत्युक्तोऽन्वाह-

श्रातं हविरोष्विन्द्र प्र याहि जगाम सूरो अध्व्नो विमध्यं

परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तो४म् ॥

दधिघर्मस्य यज इति प्रेषितः-

ये३ यजामहे श्रातं मन्य ऊधनि श्रातमग्नौ सुश्रातं मन्ये तदृतं नवीयो

माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज्जुषाणा३ वौ३षट् ॥ [१० । १७९]

अग्ने वीही३ वौ३षट् इति अनुवषट्कारः । दधिघर्मस्याग्ने वीही३ वौ३षट् इति वा । द्विर्वागोजः ।

मयि त्यदिन्द्रियं बृहन्मयि द्युम्नमुत क्रतुः । त्रिश्रुद्घर्मो विभातु मा आकूत्या मनसा सह । विराजा ज्योतिषा सह । तस्य दोहमशीय ते तस्य त इन्द्रपीतस्य त्रिष्टुप्छन्दस उपहूतस्योपहूतो भक्षयामि इति भक्षजपः ।

सवनीयानां पुरस्ताद्वोपरिष्टाद्वा पशुपुरोडाशेन चरन्ति ।

पशुपुरोडाशे प्रशास्ता- अग्ने त्वं पारया नव्यो अस्मान्त्स्वस्तिभिरति दुर्गाणि विश्वा ।

पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शंयो४म् ॥ [१ । १८९ । २]

होता यक्षदग्निं पुरोळाशस्य जुषतां हविर्होतर्यज ।

होता- ये३ यजामहे यथा विप्रस्य मनुषो हविर्भिर्देवो अयजः कविभिः कविः सन् ।

एवा होतः सत्यतर त्वमद्याग्ने मन्द्रया जुह्वा यजस्वा३ वौ३षट् ॥ [१ । ७६ । ५]

सवनीयपुरोडाशे प्रशास्ता- माध्यन्दिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कृष्वेह चारुम् ।

प्रयत् स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिरीट्टो३म् ॥ [३ । ५२ । ५]

होता यक्षदिन्द्रं हरिवाँ इन्द्रो धाना अत्तु पूषण्वान् करम्भं सरस्वतीवान् भारतीवान् परिवाप इन्द्रस्यापूपः । माध्यन्दिनस्य सवनस्य पुरोळाशाँ इन्द्रः प्रस्थितां जुषाणो वेतु होतर्यज ।

होता- ये३ यजामहे हरिवाँ इन्द्रो धाना अत्तु पूषण्वान् करम्भं सरस्वतीवान् भारतीवान् परिवाप इन्द्रस्यापूपः । माध्यन्दिनस्य सवनस्य पुरोळाशाँ इन्द्रः प्रस्थितां जुषाणो वेतू३ वौ३षट् ।

स्विष्टकृति प्रशास्ता- माध्यन्दिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व ।

अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीरो३म् । [३ । २८ । ४]

होता यक्षदग्निं पुरोळाशानां जुषतां हविर्होतर्यज ॥

होता- ये३ यजामहे हविरग्ने वीही३ वौ३षट् ॥

उन्नीयमानेभ्यः प्रेषितो मैत्रावरुणोऽनभिहिंकृत्य

[[११४]]

असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच ।

बोधामसि त्वा हर्यश्व यज्ञैर्बोधा नः स्तोममन्धसो मदेषो३म् इति त्रिः

प्र यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः ।

न्यु भ्रियन्ते यशसो गृभादा दूरउपब्दो वृषणो नृषाचो३ं

त्वमिन्द्र स्रवितवा अपस्कः परिष्ठिता अहिना शूर पूर्वीः ।

त्वद्वावक्रे रथ्यो न धेना रेजन्ते विश्वा कृत्रिमाणि भीषो३ं

भिमो विवेषायुभिरेषामपांसि विश्वा नर्याणि विद्वान् ।

इन्द्रः पुरो जर्हृषाणो वि दूधोद्वि वज्रहस्तो महिना जघानो३ं

न यातव इन्द्र जूजुवुर्नो न वन्दना शविष्ठ वेद्याभिः ।

स शर्धदर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुर्ऋतं नो३म्

अभि क्रत्वेन्द्र भूरध ज्मन् न ते विव्यङ् महिमानं रजांसि ।

स्वेना हि वृत्रं शवसा जघन्थ न शत्रुरन्तं विविदद्युता तो३ं

देवाश्चित्ते असुर्याय पूर्वेऽनु क्षत्राय ममिरे सहांसि ।

इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातो३ं

कीरिश्चिद्धि त्वामवसे जुहावेशानमिन्द्र सौभगस्य भूरेः ।

अवो बभूथ शतमूते अस्मे अभिक्षत्तिस्त्वावतो वरूतो३ं

सखायस्त इन्द्र विश्वह स्याम नमोवृधासो महिना यरुत्र ।

वन्वन्तु स्मा तेऽवसा समीकेऽभीतिमर्यो वनुषां शवांसो३ं

स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति ।

वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नो३म् । [७ । २१ । १-१०] इति त्रिः परिदध्यात् ।

होता यक्षदिन्द्रं माध्यन्दिनस्य सवनस्य निष्केवल्यस्य भागस्यात्तारं पातारं श्रोतारं हवमागन्तारमस्या धियोऽवितारं सुन्वतो यजमानस्य वृधम् । ओभा कुक्षी पृणतां वार्त्रघ्नं च माघोनं चेमे अस्मै शुक्रा मधुश्चुतः प्रस्थिता इन्द्राय सोमास्तां जुषतां वेतु पिबतु सोमं होतर्यज ।

होता- ये३ यजामहे पिबा सोममभि यमुग्र तर्द ऊर्वं गव्यं महि गृणान इन्द्र ।

वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रममित्रिया शवोभी३ र्वौ३षट् ॥ [६ । १७ । १]

सोमस्याग्ने वीही३ वौ३षट् ॥ इत्यनुवषट्कारः । द्विर्वागोजः ।

प्रशास्तर्यज इति प्रेषितः प्रशस्ता-

ये३ यजामहे स ईं पाहि य ऋजीषी तरुत्रो यः शिप्रवान् वृषभो यो मतीनाम् ।

यो गोत्रभिद्वज्रभृद्यो हरिष्ठाः स इन्द्र चित्राँ अभि तृन्धि वाजा३ न्वौ३षट् ॥ [६ । १७ । २]

[[११५]]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

ब्रह्मन् यज इति प्रेषितो ब्राह्मणाच्छंसी-

ये३ यजामह एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः ।

आविःसूर्यं कृणुहि पीपिहीषो जहि शत्रूँरभि गा इन्द्र तृन्धी३ वौ३षट् ॥ [६ । १७ । ३]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

पोतर्यज इति प्रेषितः पोता-

ये३ यजामहेऽर्वाघेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय ।

उरुव्यचा जठर आवृषस्व पितेव नः शृणुहि हूयमाना३ वौ३षट् ॥ [१ । १०४ । ९]

नेष्टर्यज इति प्रेषितो नेष्टा-

ये३ यजामहे त्वायं सोमस्तमेह्यर्वाङ् शश्वत्तमं सुमना अस्य पाहि ।

अस्मिन् यज्ञे बर्हिष्या निषद्या दधिष्वेमम् जठर इन्दुमिन्द्रा३ वौ३षट् ॥ [३ । ३५ । ६]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

अच्छावाक यज इति प्रेषितोऽच्छावाकः-

ये३ यजामह इन्द्राय सोमाः प्रदिवो विदाना ऋभुर्येभिर्वृषपर्वा विहायाः ।

प्रयम्यमानान् प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णा३ वौ३षट् । [३ । ३६ । २]

अग्नीद्यज इति प्रेषितोऽग्नीत्-

ये३ यजामह आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै ।

समु प्रिया आववृत्रन् मदाय प्रदक्षिणिदभि सोमास इन्द्रा३ं वौ३षट् ॥ [३ । ३२ । १५]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

अथ होता आगतमध्वर्युम् अयाडग्नीत् इति पृच्छति । अयाट् इत्यध्वर्युः प्रत्याह । स भद्रमकर्यो नः सोमस्य पाययिष्यति इति होता जपति । इडोपाह्वानादि समानमानाराशंससादनात् । न त्विह द्विदेवत्या । एतस्मिन् काले दक्षिणा नीयन्ते । उन्नेष्यमाणासु दक्षिणासु आग्नीध्रीये आहुती जुह्वति ।

ददानीत्यग्निर्वदति वायुराह तथेति तत् । हन्तेति चन्द्रमाः सत्यमादित्यः सत्यमोमापस्तत् सत्यमाभरन् ।

दिशो यज्ञस्य दक्षिणा दक्षिणानां प्रियो भूयासं स्वाहा ।

प्राचि ह्येधि प्राचीं जुषाणा प्राच्याज्यस्य वेतु स्वाहा ।

विहारदेशमतीत्य नीतेषु दक्षिणाद्रव्येषु यत् प्राणि द्रव्यं तदनुमन्त्रयेत ।

क इदं कस्मा अदात् कामः कामायादात् कामो दाता कामः प्रतिग्रहीता कामं समुद्रमाविश कामेन त्वा प्रतिगृह्णामि कामैतत्ते वृष्टिरसि द्यौस्त्वा ददातु पृथिवी पतिगृह्णातु इति । अभिमृशेदप्राणि कन्यां च । प्रतिगृह्याग्नीध्रीयं प्राप्य हविरुच्छिष्टं सर्वे प्राश्नीयुः । प्राश्य प्रतिप्रसृप्य मरुत्वतीयेन ग्रहेण चरन्ति

[[११६]]

इन्द्राय मरुत्वते प्रेष्य इति प्रेषिते प्रशास्ता- इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य ।

तव प्रणीती तव शूर शर्मन्नाविवासन्ति कवयः सुयज्ञो३म् ॥ [३ । ५१ । ७]

होता यक्षदिन्द्रं मरुत्वन्तमिन्द्रो मरुत्वान् जुषतां वेतु पिबतु सोमं होतर्यज ॥

होता- ये३ यजामहे सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ।

जहि शत्रूँरप मृधो नुदस्वाथाभयं कृणुहि विश्वतो ना३ वौ३षट् ॥ [३ । ४७ । २]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

अध्वर्युं प्रतिप्रस्थातारं चोपहूय भक्षयित्वैतत् पात्रं मरुत्वतीयं शंसं शंसेत् ।

हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शो३ंसावो३म्

आ त्वा रथं यथितये सुम्याय वर्तयामसि ।

तुविकूर्मिमृतीषहमिन्द्र शविष्ठ सत्पतो३ं इति त्रिः

तुविशुष्म तुविक्रतो शचीवो विश्वया मते । आ पप्राथ महित्वनो३ं

यस्य ते महिना महः परिज्मायन्तमीयतुः । हस्ता वज्रं हिरण्ययो३ं [८ । ६८ । १-३]

शो३ंसावो३म् इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् । अनाभयिन् ररिमा तो३ं

नृभिर्धूत्तः सुतो अश्नैरव्यो वारैः परिपूतः । अश्वो न निक्तो नदीषो३ं

तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः । इन्द्र त्वास्मिन् त्सदमादो३ं [८ । २ । १-३]

शो३ंसावो३म् इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः ।

आ शन्तम शन्तमाभिरभिष्टिभिरास्वापे स्वापिभो३म्

आ स्वापे स्वापिभिराजितुरं सत्पतिं विश्वचर्षणिम् । कृधि प्रजास्वाभगो३ं

कृधि प्रजास्वाभगं प्र सू तिरा शचीभिर्ये त उक्थिनः । क्रतुं पुनत आनुषो३ं [८ । ५३ । ५-६]

शो३ंसावो३ं प्र नूनं ब्रह्मणस्पतिं मन्त्रं वदत्युक्थ्यम् ।

यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरो३ं

देवा ओकांसि चक्रिरे तमिद्वोचेमा विदथेषु शम्भुवम् । मन्त्रं देवा अनेहसो३ं

मन्त्रं देवा अनेहस्मिमां च वाचं प्रतिहर्यथा नरः । विश्वेद् वामा वो अश्नवो३ं [१ । ४० । ५-६]

शो३ंसावो३म् अग्निर्नेता भग इव क्षितीनाम् । दैवीनां देव ऋतुपा ऋतावो३ं

स वृत्रहा सनयो विश्ववेदाः । पर्षद्विश्वानि दुरिता गृणन्तो३ं [३ । २० । ४]

शो३ंसावो३ं त्वं सोम क्रतुभिः सुक्रतूर्भूः । त्वं दक्षैः सुदक्षो विश्ववेदो३ं

त्वं वृषा वृषत्वेभिर्महित्वा । द्युम्नेभिर्द्युम्न्यभवो नृचक्षो३ं [१ । ९१ । २]

शो३ंसावो३ं पिन्वन्त्यपो मरुतः सुदानवः । पयो घृतवद्विदथेष्वाभुवो३म्

अत्यं न मिहे विनयन्ति वाजिनम् । उत्सं दुहन्ति स्तनयन्तमक्षितो३ं [१ । ६४ । ६]

[[११७]]

शो३ंसावो३ं प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत । वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणो३म्

अभि प्र भर धृषता धृषन्मनः श्रवश्चित्ते असद्बृहत् ।

अर्षन्त्वापो जवसा वि मातरो हनो वृत्रं जया स्वो३ं [८ । ८९ । ३-४]

शो३ंसावो३ं जनिष्ठा उग्रः सहसे तुराय । मन्द्र ओजिष्ठो बहुलाभिमानो३म्

अवर्धन्निन्द्रं मरुतश्चिदत्त्र । माता यद्वीरं दधनद्धनिष्ठो३ं

द्रुहो निषत्ता पुशनी चिदेवैः । पुरूशंसेन वावृधुष्ट इन्द्रो३म्

अभीवृतेव ता महापदेन । ध्वान्तात् प्रपित्वादुदरन्त गर्भो३म्

ऋष्वा ते पादा प्र यज्जिगासि । अवर्धन् वाजा उत ये चिदत्रोप्३ं

त्वमिन्द्र सालाव्रुकान् त्सहस्रम् । आसन् दधिषे अश्विना ववृत्यो३ं

समना तूर्णिरुप याहि यज्ञम् । आ नासत्या सख्याय वक्षो३ं

वसाव्यामिन्द्र धारयः सहस्रा । अश्विना शूर ददतुर्मघानो३ं

मन्दमान ऋतादधि प्रजायै । सखिभिरिन्द्र इषिरेभिरर्थो३म्

आभिर्हि माया उप दस्युमागात् । मिहः प्र तम्रा अवपत् तमांसो३ं

सनामाना चिद्ध्वसयो न्यस्मै । अवाहन्निन्द्र उषसो यथा नो३म्

ऋष्वैरगच्छः सखिभिर्निकामैः । साकं प्रतिष्ठा हृद्या जघन्थो३ं

शो३ंसावो३म् इन्द्रो मरुत्वान् त्सोमस्य पिबतु । मरुत्स्तोत्रो मरुद्गणः । मरुत्सखा मरुद्वृधः । घ्नन् वृत्रा सृजदपः । मरुतामोजसा सह । य ईमेनं देवा अन्वमदन् । अप्तूर्ये वृत्रतूर्ये । शम्बरहत्ये गविष्टौ । अर्चन्तं गुह्या पदा । परमस्यां परावति । आदीं ब्रह्माणि वर्धयन् । अनाधृष्टान्योजसा । कृण्वन् देवेभ्यो दुवः । मरुद्भिः सखिभिः सह । इन्द्रो मरुत्वाँ इह श्रवदिह सोमस्य पिबतु । प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु । चित्रश्चित्राभिरूतिभिः । श्रवद्ब्रह्माण्यावसा गमो३ं

त्वं जघन्थ नमुचिं मखस्युम् । दासं कृण्वान ऋषये विमायो३ं

त्वं चकर्थ मनवे स्योनान् । पयो देवत्राञ्जसेव यानो३ं

त्वमेतानि पप्रिषे वि नाम । ईशान इन्द्र दधिषे गभस्तो३म्

अनु त्वा देवाः शवसा मदन्ति । उपरिबुध्नान् वनिनश्चकर्थो३ं

चक्रं यदस्याप्स्वा निषत्तम् । उतो तदस्मै मध्विच्चच्छद्यो३ं

पृथिव्यामतिषितं यदूधः । पयो गोष्वदधा ओषधीषो३म्

अश्वादियायेति यद्वदन्ति । ओजसो जातमुत मन्य एनो३ं

मन्योरियाय हर्म्येषु तस्थौ । यतः प्र जज्ञ इन्द्रो अस्य वेदो३ं

शो३ंसावो३ं वयः सुपर्णा उप सेदुरिन्द्रम् । प्रियमेधा ऋषयो नाधमानो३म्

[[११८]]

अप ध्वान्तमूर्णुहि पूर्धि चक्षुः । मुमुग्ध्यस्मान् निधयेव बद्धो३म् [१० । ७३ । १-११] इति अक्षिणी मृजानः परिदध्याद् ध्यायन्नेन आत्मनः । उक्थं वाचीन्द्राय शृण्वते त्वा इति शस्त्वा जपेत् ।

ये३ यजामहे ये त्वाहिहत्ये मघवन्नवर्धन् ये शाम्बरे हरिवो ये गविष्टौ ।

ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भी३ र्वौ३षट् ॥ [३ । ४७ । ४]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

निष्केवल्यशस्त्रम्

अथ निष्केवल्यशस्त्रम् ।

प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शो३ंसावो३म्

अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषो३म् इति त्रिः

ईशानमिन्द्र तस्थुषो न त्वावाँ अन्यो दिव्यो न पार्थिवः । न जातो न जनिष्यतो३ं

न जातो न जनिष्यतेऽश्वायन्तो मघवन्निन्द्र वाजिनः । गव्यन्तस्त्वा हवामहो३ं [७ । ३२ । २२-२३]

शो३ंसावो३म् अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः । समीचीनास ऋभवः समस्वरन् रुद्रा गृणन्त पूर्व्यो३ं

रुद्रा गृणन्त पूर्व्यमस्येदिन्द्रो वावृधे वृष्ण्यं शवः । मदे सुतस्य विष्णवो३ं

मदे सुतस्य विष्ण्व्यद्या तमस्य महिमानमायवः । अनुष्टुवन्ति पूर्वथो३ं [८ । ३ । ७-८]

शो३ंसावो३ं यद्वावान पुरुतमं पुराषाट् । आ वृत्रहेन्द्रो नामान्यप्रो३म्

अचेति प्रासहस्पतिस्तुविष्मान् । यदीमुश्मसि कर्तवे करत् तो३ं [१० । ७४ । ६]

शो३ंसावो३ं पिबा॑ सु॒तस्य॑ र॒सिनो॒ मत्स्वा॑ न इन्द्र॒ गोम॑तः ।

आ॒पिर्नो॑ बोधि सध॒माद्यो॑ वृ॒धे॒३॑ ऽस्माँ अ॑वन्तु ते॒ धियो३ं

भू॒याम॑ ते सुम॒तौ वा॒जिनो॑ व॒यं मा नः॑ स्तर॒भिमा॑तये ।

अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा नः॑ सु॒म्नेषु॑ यामयो३ं [८ । ३ । १-२]

शो३ंसावो३म् इन्द्रस्य नु वीर्याणि प्रवोचम् । यानि चकार प्रथमानि वज्रो३म्

अहन्नहिमन्वपस्ततर्द । प्र वक्षणा अभिनत् पर्वतानो३म्

अहन्नहिं पर्वते शिश्रियाणम् । त्वष्टास्मै वज्रं स्वर्यं ततक्षो३ं

वाश्रा इव धेनवः स्यन्दमानाः । अञ्जः समुद्रमव जग्मुरापो३ं

वृषायमाणोऽवृणीत सोमम् । त्रिकद्रुकेष्वपिबत् सुतस्यो३म्

आ सायकं मघवादत्त वज्रम् । अहन्नेनं प्रथमजामहीनो३ं

यदिन्द्राहन् प्रथमजा महीनाम् । आन्मायिनाममिनाः प्रोत मायो३म्

आत् सूर्यं जनयन् द्यामुषासम् । तादीत्ना शत्रुं न किला विवित्सो३म्

[[११९]]

अहन् वृत्रं वृत्रतरं व्यंसम् । इन्द्रो वज्रेण महता वधेनो३ं

स्कन्धांसीव कुलिशेना विवृक्णा । अहिः शयत उपपृक् पृथिव्यो३म्

अयोद्धेव दुर्मद आ हि जुह्वे । महावीरं तुविबाधमृजीषो३ं

नातारीदस्य समृतिं वधानाम् । सं रुजानाः पिपिष इन्द्रशत्रो३म्

अपादहस्तो अपृतन्यदिन्द्रम् । आस्य वज्रमधि सानौ जघानो३ं

वृष्णो वध्रिः प्रतिमानं बुभूषन् । पुरुत्रा वृत्रो अशयद्व्यस्तो३ं

नदं न भिन्नममुया शयानम् । मनो रुहाणा अति यन्त्यापो३ं

याश्चिद्वृत्रो महिना पर्यतिष्ठत् । तासामहिः पत्सुतःशीर्बभूवो३ं

शो३ंसावो३म् इन्द्रो देवः सोमं पिबतु । एकजानां वीरतमः । भूरिजानां तवस्तमः । हर्योःस्थाता । पृश्नेः प्रेता । वज्रस्य भर्ता । पुरां भेत्ता । अपां स्रष्टा । अपां नेता । सत्वनां नेता । निजघ्निर्दूरेश्रवाः । उपमातिकृद्दंसनावान् । इहोशन् देवो बभूवान् । इन्द्रो देव इह श्रवदिह सोमस्य पिबतु । प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु । चित्रश्चित्राभिरूतिभिः । श्रवद्ब्रह्माण्यावसा गमो३ं

नीचावया अभवद् वृत्रपुत्रा । इन्द्रो अस्या अव वधर्जभारो३म्

उत्तरा सूरधरः पुत्र आसीत् । दानुः शये सह वत्सा न धेनो३म्

अतिष्ठन्तीनामनिवेशनानाम् । काष्ठानां मध्ये निहितं शरीरो३ं

वृत्रस्य निण्यं विचर्न्त्यापः । दीर्घं तम आशयदिन्द्रशत्रो३ं

दासपत्नीरहिगोपा अतिष्ठन् । निरुद्धा आपः पणिनेव गावो३म्

अपां बिलमपिहितं यदासीत् । वृत्रं जघन्वाँ अप तद्ववारो३म्

अश्व्यो वारो अभवस्तदिन्द्र । सृके यत् त्वा प्रत्यहन् देव एको३म्

अजयो गा अजयः शूर सोमम् । अवासृजः सर्तवे सप्त सिन्धो३ं

नास्मै विद्युन्न तन्यतुः सिषेध । न यां मिहमकिरद्ध्रादुनिं चो३म्

इन्द्रश्च यद्युयुधाते अहिश्च । उतापरीभ्यो मघवा वि जिग्यो३म्

अहेर्यातारं कमपश्य इन्द्र । हृदि यत् तेजघ्नुषो भीरगच्छो३ं

नव च यन्नवतिं च स्रवन्तीः । श्येनो न भीतो अतरो रजांसो३ं

शो३ंसावो३म् इन्द्रो यातोऽवसितस्य राजा । शमस्य च शृङ्गिणो वज्रबाहो३ं

सेदु राजा क्षयति चर्षणीनाम् । अरान् न नेमिः परि ता बभूवो३म् [३ । ३२] इति त्रिः परिदध्यात् ।

उक्थं वाचीन्द्रायोपशृण्वते त्वा इति शस्त्वा जपेत् ।

ये३ यजामहे पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।

सोतुर्बाहुभ्यां सुयतो नार्वा३ वौ३षट् ॥ [७ । २२ । १]

[[१२०]]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

बृहत् पृष्ठे स्तोत्रियनुरूपौ-

हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शो३ंसावो३ं

त्वामिद्धि हवामहे साता वाजस्य कारवः । त्वां वृत्रेषिन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतो३ं इति त्रिः

नरस्त्वां काष्ठास्वर्वतः स त्वं नश्चित्र वज्रहस्त धृष्णुया । महः स्तवानो अद्रिवो३ं

महस्तवानो अद्रिवो गामश्वं रथमिन्द्र सं किर । सत्रा वाजं न जिग्युषो३ं [६ । ४६ । १-२]

शो३ंसावो३ं त्वं ह्येहि चेरवे विदा भगम् वसुत्तये । उद्वावृषस्व मघवन् गविष्टय उदिन्द्राश्वमिष्टयो३म्

उदिन्द्राश्वमिष्टये त्वं पुरू शहस्राणि शतानि च । यूथा दानाय मंहसो३ं

यूथा दानाय मंहस आ पुरन्दरं चकृम विप्रवचसः । इन्द्रं गायन्तोऽवसो३म् [८ । ६१ । ७-८]

सामप्रगाथः- उ॒भयं॑ शृ॒णव॑च्च न॒ इन्द्रो॑ अ॒र्वागि॒दं वचः॑ ।

स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मो३ं

तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतुः॑ ।

उ॒तोप॒मानां॑ प्रथ॒मो निषी॑दसि॒ सोम॑कामं॒ हि ते मनो३म् । [८ । ६१ । १-२] अन्यत् सर्वं समानम् ।

मैत्रावरुणशस्त्रम् ।

प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शो३ंसावो३ं

कया नश्चित्र आ भुवदूती सदवृधः सखा । कया शचिष्ठया वृतो३ं इति त्रिः

कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । दृह्ळा चिदारुजे वसो३म्

अभी षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतिभो३ं [४ । ३१ । १-३]

शो३ंसावो३ं कया त्वं न ऊत्याभि प्र मन्दसे वृषन् । कया स्तोतृभ्य आ भरो३ं

कस्य वृषा सुते सचा नियुत्वान् वृषभो रणत् । वृत्रया सोमपीतयो३म्

अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम् । प्रयन्ता बोधि दाशुषो३ं [८ । ९३ । १९-२१]

शो३ंसावो३ं कस्तमिन्द्र त्वा वसुमा मर्त्यो दधर्षति ।

श्रद्धा इत् ते मघवन् पार्ये दिवि वाजी वाजं सिषासतो३म्

मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिय वसु ।

तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरितो३ं [७ । ३२ । १४-१५]

शो३ंसावो३ं सद्यो ह जातो वृषभः कनीनः । प्रभर्तुमावदन्धसः सुतस्यो३ं

साधोः पिब प्रतिकामं यथा ते । रसाशिरः प्रथमं सोम्यस्यो३ं

[[१२१]]

यज्जायथास्तदहरस्य कामे । अंशोः पीयूषमपिबो गिरिष्ठो३ं

तं ते माता परि योषा जनित्री । महः पितुर्दम आ सिञ्चदग्रो३म्

उपस्थाय मातरमन्नमैट्ट । तिग्ममपश्यमभि सोममूधो३ं

प्रयावयन्नचरद् गृत्सो अन्यान् । महानि चक्रे पुरुधप्रतीको३म्

उग्रस्तुराषाळभिभूत्योजाः । यथावशं तन्वं चक्र एषो३ं

त्वष्टारमिन्द्रो जनुषाभिभूय । आमुष्या सोममपिबच्चमूषो३ं

शुनं हुवेम मघवानमिन्द्रम् । अस्मिन् भरे नृतमं वाजसातो३ं

शृण्वन्तमुग्रमूतये समत्सु । घ्नन्तं वृत्राणि संजितं धनानो३म् [३ । ४७ । १-५]

एवा त्वामिन्द्र वज्रिन्नत्र । विश्वे देवासः सुहवास ऊमो३ं

महामुभे रोदसी वृद्धमृष्वम् । निरेकमिद्वृणते वृत्रहत्यो३म्

अवासृजन्त जिव्रयो न देवाः । भुवः स्म्राळिन्द्र सत्ययोनो३म्

अहन्ननिं परिशयानमर्णः । प्र वर्तनीररदो विश्वधेनो३म्

अतृप्णुवन्तं वियतमबुध्यम् । अबुध्यमाणं सुषुपाणमिन्द्रो३ं

सप्त प्रर्ति प्रवत आशयानम् । अहिं वज्रेण वि रिणा अपर्वो३म्

अक्षोदयच्छवसा क्षाम बुध्नम् । वार्ण वातस्तविषीभिरिन्द्रो३ं

दृह्ळान्यौभ्नादुशमान ओजः । अवाभिनत् ककुभः पर्वतानो३म्

अभि प्र दद्रुर्जनयो न गर्भम् । रथा इव प्र ययुः साकमद्रयो३म्

अतर्पयो विसृत उब्ज ऊर्मीन् । त्वं वृताँ अरिणा इन्द्र सिन्धो३ं

त्वं महीमवनिं विश्वधेनाम् । तुर्वीतये वय्याय क्षयन्तो३म्

अरमयो नमसैजदर्णः । सुतरणाँ अकृणोरिन्द्र सिन्धो३ं

प्राग्रुवो नभन्वो न वक्वाः । ध्वस्रा अपिन्वद् युवतीर्ऋतज्ञो३ं

धन्वान्यज्राँ अपृणक् तृषाणान् । अधोगिन्द्रः स्तर्यो दंसुपत्नो३ं

पूर्वीरुषसः शरदश्च गूर्ताः । वृत्रं जघन्वाँ असृजद्वि सिन्धो३ं

परिष्ठिता अतृणद्बद्बधानाः । सीरा इन्द्रः स्रवितवे पृथिव्यो३ं

वम्रीभिः पुत्रमग्रुवो अदानम् । निवेशनाद्धरिव आ जभर्थो३ं

व्यन्धो अख्याहिमाददानः । निर्भूदुखच्छित् समरन्त पर्वो३ं

प्र ते पूर्वाणि करणानि विप्र । आविद्वाँ आह विदुषे करांसो३ं

यथायथा वृष्ण्यानि स्वगूर्ता । अपांसि राजन् नर्याविवेषो३ं

शो३ंसावो३ं नू ष्टुत इन्द्र नू गृणानः । इषं जरित्रे नद्यो न पीपो३म्

[[१२२]]

अकारि ते हरिवो ब्रह्म नव्यम् । धिया स्याम रथ्यः सदासो३म् [४ । १९ । १-११] इति त्रिः परिदध्यात् ।

उक्थं वाचीन्द्राय इति शस्त्वा जपः ।

ये३ यजामह उशन्नु षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः ।

पा इन्द्रस्य प्रति भृतस्य मध्वः समन्धसा ममदः पृष्ठ्येना३ वौ३षट् ॥ [४ । २० । ४]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

ब्राह्मणाच्छंसीशस्त्रम्

ब्राह्मणाच्छंसीशस्त्रम् ।

प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शो३ंसावो३ं

तं वो दस्ममृतीषहम् वसोर्मन्दानमन्धसः ।

अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहो३म् इति त्रिः

इन्द्रं गीर्भिर्नवामहे द्युक्षं सुदानुं तविषीभिरावृतम् । गिरिं न पुरुभोजसो३ं

गिरिं न पुरुभोजसं क्षुमन्तं वाजं शतिनं सहस्रिणम् । मक्षू गोमन्तमीमहो३ं [८ । ८८ । १-२]

शो३ंसावो३ं तत् त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये ।

येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथो३ं

येन प्रस्कण्वमाविथ येना समुद्रमसृजो महीरपः । तदिन्द्र वृष्णि ते शवो३ं

तदिन्द्र वृष्णि ते शवः सद्यः सो अस्य महिमा न संनशे । यं क्षोणीरनुचक्रदो३ं [८ । ३ । ९-१०]

शो३ंसावो३म् उदु त्ये मधुमत्तमा गिरः स्तोमास ईरते ।

सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथाइवो३ं

कण्वाइव भृगवः सूर्याइव विश्वमिद् धीतमानशुः ।

इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरो३ं [८ । ३ । १५-१६]

शो३ंसावो३म् इन्द्रः पुर्भिदातिरद्दासमर्कैः । विदद्वसु दयमानो वि शत्रो३ं

ब्रह्मजूतस्तन्वा वावृधानः । भूरिदात्र आपृणद् रोदसीैभो३ं

मखस्य ते तविषस्य प्र जूतिम् । इयर्मि वाचममृताय भूषो३म्

इन्द्र क्षितीनामसि मानुषीणाम् । विशां दैवीनामुत पूर्वयावो३म्

इन्द्रो वृत्रमवृणोच्छर्धनीतिः । प्र मायिनाममिनाद्वर्पणीतो३म्

अहन् व्यंसमुशधग्वनेषु । आविर्धेना अकृणोद्राम्याणो३म्

इन्द्रः स्वर्षा जनयन्नहानि । जिगायोशिग्भिः पृतना अभिष्टो३ं

प्रारोचयन्मनवे केतुमह्नाम् । अविन्दज्ज्योतिर्बृहते रणायो३म्

इन्द्रस्तुजो बर्हणा आ विवेश । नृवद्दधानो नर्या पुरूणो३म्

[[१२३]]

अचेतयद्धिय इमा जरित्रे । प्रेमं वर्णमतिरच्छुक्रमासो३ं

महो महानि पनयन्त्यस्य । इन्द्रस्य कर्म सुकृता पुरूणो३ं

वृजनेन वृजिनान् त्सं पिपेष । मायाभिर्दस्यूँरभिभूत्योजो३ं

युधेन्द्रो मह्ना वरिवश्चकार । देवेभ्यः सत्पतिश्चर्षणिप्रो३ं

विवस्वतः सदने अस्य तानि । विप्रा उक्थेभिः कवयो गृणन्तो३ं

सत्रासाहं वरेण्यं सहोदाम् । ससवांसं स्वरपश्च देवो३ं

ससान यःपृथिवी द्यामुतेमाम् । इन्द्रं मदन्त्यनु धीरणासो३ं

ससानात्याँ उत सूर्यं ससान । इन्द्रः ससान पुरुभोजसं गो३ं

हिरण्ययमुत भोगं ससान । हत्वी दस्यून प्रार्यं वर्णमावो३म्

इन्द्र ओषधीरसनोदहानि । वनस्पतीँरसनोदन्तरिक्षो३ं

बिभेद वलं नुनुदे विवाचः । अथाभवद्दमिताभिक्रतूनो३ं

शुनं हुवेम मघवानमिन्द्रम् । अस्मिन् भरे नृतमं वाजसातो३ं

शृण्वन्तमुग्रमूतये समत्सु । घ्नन्तं वृत्राणि संजितं धनानो३म् [३ । ३४]

उदु ब्रह्माण्यैरत श्रवस्या । इन्द्रं समर्ये महया वसिष्ठो३म्

आ यो विश्वानि शवसा ततान । उपश्रोता म ईवतो वचांसो३म्

अयामि घोष इन्द्र देवजामिः । इरज्यन्त यच्छुरुधो विवोचो३ं

न हि त्वमायुश्चिकिते जनेषु । तानीदंहांस्यति पर्ष्यस्मो३ं

युजे रथं गवेषणं हरिभ्याम् । उप ब्रह्माणि जुजुषाणमस्थो३ं

वि बाधिष्ट स्य रोदसी महित्वा । इन्द्रो वृत्राण्यप्रती जघन्वो३म्

आपश्चित् पिप्युः स्तर्यो न गावः । नक्षन्नृतं जरितारस्त इन्द्रो३ं

याहि वायुर्न नियुतो नो अच्छा । त्वं हि धीभिर्दयसे वि वाजो३ं

ते त्वा मद इन्द्र मादयन्तु । शुष्मिणं तुविराधसो जरित्रो३म्

एको देवत्रा दयसे हि मर्तान् । अस्मिञ्च्छूर सवने मादयस्वो३ं

शो३ंसावो३म् एवेदिन्द्रं वृषणं वज्रबाहुम् । वसिष्ठासो अभ्यर्चन्त्यर्को३ं

स नः स्तुतो वीरवद्धातु गोमत् । यूयं पात स्वस्तिभिः सदा नो३म् ॥ [७ । २३] इति त्रिः परिदध्यात् ।

उक्थं वाचीन्द्राय इति शस्त्वा जपः ।

ये३ यजामह ऋजीषी वज्री वृषभस्तुराषाट्छुष्मी राजा वृत्रहा सोमपावा ।

युक्वा हरिभ्यामुप यासदर्वाङ् माध्यन्दिने सवने मत्सदिन्द्रा३ वौ३षट् ॥ [५ । ४०४]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

[[१२४]]

बृहत्पृष्ठे स्तोत्रियः ।

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।

यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षतो३ं

सहस्रेणेव शिक्षति शतानीकेव प्र जिगाति धृष्णुया । हन्ति वृत्राणि दाशुषो३ं

हन्ति वृत्राणि दाशुषे गिरेरिव प्र रसा अस्य पिन्विरे । दत्राणि पुरुभोजसो३म् अन्यत् सर्वं समान्म् ।

अच्छावाकशस्त्रम्

अच्छावाकशस्त्रम् ।

प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शो३ंसावो३ं

तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये ।

बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणो३ं इति त्रिः

हुवे भरं न कारिणं न यं दुध्रा वरन्ते न स्थिरा मुरः । मदे सुशिप्रमन्धसो३ं

मदे सुशिप्र मन्धसो य आदृत्या शशमानाय सुन्वते । दाता जरित्र उक्थ्यो३म् [८ । ६६ । १-२]

शो३ंसावो३ं तरणिरित् सिषासति वाजं पुरन्ध्या युजा ।

आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वो३ं

नेमिं तष्टेव सुद्र्वं न दुष्टुती मर्त्यो विन्दते वसु । न स्रेधन्तं रयिर्नशो३ं

न स्रेधन्तं रयिर्नशत् सुशक्तिरिन्मघवन् तुभ्यं मावते । देष्णं यत् पार्ये दिवो३ं [७ । ३२ । २०-२१]

शो३ंसावो३म् उदिन्वस्य रिच्यतेंऽशो धनं न जिग्युषः ।

य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनो३ं

मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञेयेष्वा ।

पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवो३ं [७ । ३२ । १२-१३]

शो३ंसावो३ं भूय इद्वावृधे वीर्याय । एको अजुर्यो दयते वसूनो३ं

प्ररिरिचे दिव इन्द्रः पृथिव्याः । अर्धमिदस्य प्रति रोदसी उभो३म्

अधा मन्ये बृहदसुर्यमस्य । यानि दाधार नकिरा मिनातो३ं

दिवेदिवे सूर्यो दर्शतो भूत् । वि सद्मान्युर्विया सुक्रतुर्धो३म्

अद्या चिन्नू चित् तदपो नदीनाम् । यदाभ्यो अरदो गातुमिन्द्रो३ं

नि पर्वता अद्मसदो न सेदुः । त्वया दृह्ळानि सुक्रतो रजांसो३ं

सत्यमित् तन्न त्वावाँ अन्यो अस्ति । इन्द्र देवो न मर्त्यो ज्यायो३म्

अहन्नहिं परिशयानमर्णः । अवासृजो अपो अच्छा समुद्रो३ं

[[१२५]]

त्वमपो वि दुरो विषूचीः । इन्द्र दृह्ळमरुजह् पर्वतस्यो३ं

राजाभवो जगतश्चर्षणीनाम् । साकं सूर्यं जनयन् द्याम्नुषासो३म् [६ । ३०]

इमामू षु प्रभृतिं सातये धाः । शश्वच्छश्वदूतिभिर्यादमानो३ं

सुतेसुते वावृधे वर्धनेभिः । यः कर्मभिर्महद्भिः सुश्रुतो भो३म्

इन्द्राय सोमाः प्रदिवो विदानाः । ऋभुर्येभिर्वृषपर्वा विहायो३ं

प्रयम्यमानान् प्रति षू गृभाय । इन्द्र पिब वृषधूतस्य वृष्णो३ं

पिबा वर्धस्व तव घा सुतासः । इन्द्र सोमासः प्रथमा उतेमो३ं

यथापिबः पूर्व्या इन्द्र सोमान् । एवा पाहि पन्यो अद्या नवीयो३ं

महाँ अमत्रो वृजने विरप्शी । उग्रं शवः पत्यते धृष्ण्वोजो३ं

नाह विव्याच पृथिवी चनैनम् । यत् सोमासो हर्यश्व ममन्दो३ं

महाँ उग्रो वावृधे वीर्याय । समाचक्रे वृषभः काव्येनो३म्

इन्द्रो भगो वाजदा अस्य गावः । प्रजायन्ते दक्षिणा अस्य पूर्वो३ं

प्र यत् सिन्धवः प्रसवं यथायन् । आपः समुद्रं रथ्येव जग्मो३म्

अतश्चिदिन्द्रः सदसो वरीयान् । यदीं सोमः पृणाति दुग्धो अंशो३ं

समुद्रेण सिन्धवो यादमानाः । इन्द्राय सोमं सुषुतं भरन्तो३म्

अंशुं दुहन्ति हस्तिनो भरित्रैः । मध्वः पुनन्ति धारया पवित्रो३ं

ह्दाइव कुक्षयः सोमधानाः । समी विव्याच सवना पुरूणो३म्

अन्ना यदिन्द्रः पथमा व्याश । वृत्रं जघन्वाँ अवृणीत सोमो३म्

आ तू भर माकिरेतत् परिष्ठात् । विद्मा हि त्वा वसुपतिं वसूनो३म्

इन्द्र यत्ते माहिनं दत्रमस्ति । अस्मभ्यं तद्धर्यश्व प्र यन्धो३ं

शो३ंसावो३ं शुनं हुवेम मघवानमिन्द्रम् । अस्मिन् भरे नृतमं वाजसातो३ं

शृण्वन्तमुग्रमूतये समत्सु । घ्नन्तं वृत्राणि संजितं धनानो३म् [३ । ३६] इति त्रिः परिदध्यात् ।

उक्थं वाचीन्द्राय इति शस्त्वा जपः ।

ये३ यजामहे पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे ।

यथापिबः पूर्व्या इन्द्र सोमाँ एवा पाहि पन्यो अद्या नवीया३ न्वौ३षट् ॥ [३ । ३६ । ३]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।