०१ प्रातस्-सवनम्

प्रातरनुवाकः

अथ प्रातरनुवाकः

अथैतस्या रात्रेर्विवासकाले (अन्त्ये चतुर्थभागे) प्राग्वयसां प्रवादात् प्रातरनुवाकायामन्त्रितो वाग्यत आचम्य तीर्थेन प्रपद्याग्नीध्रीये दक्षिणं जान्वाच्याहुतिं जुहुयात्- आसन्यान्मा मन्त्रात् पाहि कस्याश्चिदभिशस्त्यै स्वाहा इति । आहवनीय एवमेव- वागग्रे गा अग्र एतु सरस्वत्यै वाचे स्वाहा इति प्रथमाम् ।

वाचं देवीं मनोनेत्रां विराजमुग्रां जैत्रीमुत्तमामेह भक्षाम् ।

तामादित्या नावमिवारुहेमानुमतां पथिभिः पारयन्तीं स्वाहा इति द्वितीयामाहुतिं जुहुयात् ।

हविर्धाने प्राप्य पूर्वस्यां द्वारि रराटीमभिमृशेत्- उर्वन्तरिक्षं विहि इति । दक्षिणेन पाणिना द्वार्ये स्थूणे पर्यायेणाभिमृशेत् सकृन्मन्त्रेण- देवी द्वारौ मा मा सन्ताप्तं लोकं मे लोककृतौ कृणुतम् इति । हविर्धानयोर्मध्यदेशं

[[८२]]

प्रपद्यान्तरेण युगधुरौ निरसनोपवेशने कृत्वोपविश्य प्रातर्यावभ्यो देवेभ्योऽनुब्रूहि इति प्रेषितो प्रातरनुवाकमनुब्रूयात् मन्द्रेण स्वरेणारोहणक्रमेणा ईडे द्यावापृथिवीयात् ।

हिम्, भूर्भुवःस्वरो३म्,

आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृतामृतं च ।

रायश्च स्थ स्वपत्यस्य पत्नीः सरस्वती तद्गृणते वयोधो३म् [१० । ३० । १२] इति त्रिः

आग्नेयः क्रतुः

गायत्रम्

उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये । आरे अस्मे च शृण्वतो३ं

यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु । अरक्षद् दाशुषे गयो३म्

उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि । धनञ्जयो रणेरणो३ं

यस्य दूतो असि क्षये वेषि हव्यानि वीतये । दस्मत् कृणोष्यध्वरो३ं

तमित् सुहव्यमङ्गिरः सुदेवं सहसो यहो । जना आहुः सुबर्हिषो३म्

आ च वहासि ताँ इह देवाँ उप प्रशस्तये । हव्या सुश्चन्द्र वीतयो३ं

न योरुपब्दिरश्वः शृण्वे रथस्य कच्चन । यदग्ने यासि दूत्यो३ं

त्वोतो वाज्यह्रयोऽभि पूर्वस्मादपरः । प्र दाश्वाँ अग्ने अस्थो३म्

उत द्युमत् सुवीर्यं बृहदग्ने विवाससि । देवेभ्यो देव दाशुषो३ं [१ । ७४ । १-९] [९]

जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् । हव्या जुह्वान आसनो३म्

अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम् । वोचेम ब्रह्म सानसो३ं

कस्ते जामिर्जनानामग्ने को दाश्वध्वरः । को ह कस्मिन्नसि श्रितो३ं

त्वं जामिर्जनानामग्ने मित्रो असि प्रियः । सखा सखिभ्य ईड्यो३ं

यजा नो मित्रावरुणा यजा देवाँ ऋतं बृहत् । अग्ने यक्षि स्वं दमो३म् [१ । ७५ । १-५] [१४]

अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि । विश्वासु धीषु वन्द्यो३म्

आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् । विश्वासु पृत्सु दुष्टरो३म्

आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् । मार्डीकं धेहि जीवसो३ं

प्र पूतास्तिग्मशोचिषे वाचो गोतमाग्नये । भरस्व सुम्नयुर्गिरो३ं

यो नो अग्नेऽभिदासत्यन्ति दूरे पदीष्ट सः । अस्माकमिद् वृधे भवो३ं

सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति । होता गृणीत उक्थ्यो३म् [१ । ७९ । ७-१२] [२०]

अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमो३म्

अग्निः पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत । स देवाँ एह वक्षतो३म्

[[८३]]

अग्निना रयिमश्नवत् पोषमेव दिवेदिवे । यशसं वीरवत्तमो३म्

अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि । स इद्देवेषु गच्छतो३म्

अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः । देवो देवेभिरागमो३ं

यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि । तवेत् तत् सत्यमङ्गिरो३म्

उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । नमो भरन्त एमसो३ं

राजन्तामध्वराणां गोपामृतस्य दीदिविम् । वर्धमानं स्वे दमो३ं

स नः पितेव सूनवेऽग्ने सूपायनो भव । सचस्वा नः स्वस्तयो३म् [१ । १ । १-९] [२९]

अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतो३म्

अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् । हव्यवाहं पुरुप्रियो३म्

अग्ने देवाँ इहा वह जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यो३ं

ताँ उशतो वि बोधय यदग्ने यासि दूत्यम् । देवैरा सत्सि बर्हिषो३ं

घृताहवन दीदिवः प्रति ष्म रिषतो दह । अग्ने त्वं रक्षस्विनो३म्

अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा । हव्यवाड् जुह्वास्यो३ं

कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे । देवममीवचातनो३ं

यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति । तस्य स्म प्राविता भवो३ं

यो अग्निं देववीतये हविष्माँ आविवासति । तस्मै पावक मृळयो३ं

स नः पावक दीदिवोऽग्ने देवाँ इहा वह । उप यज्ञं हविश्च नो३ं

स नः स्तवान आ भर गायत्रेण नवीयसा । रयिं वीरवतीमिषो३म्

अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः । इमं स्तोमं जुषस्व नो३ं [१ । १२ । १-१२] [४१]

वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते । सेमं नो अध्वरं यजो३ं

नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः । अग्ने दिवित्मता वचो३म्

आ हि ष्मा सूनवे पितापिर्यजत्यापये । सखा सख्ये वरेण्यो३म्

आ नो बर्ही रिशादसो वरेण्यो मित्रो अर्यमा । सीदन्तु मनुषो यथो३ं

पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च । इमा उ षु श्रुधी गिरो३ं

यच्चिद्धि शश्वता तना देवंदेवं यजामहे । त्वे इद्धूयते हवो३ं

प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः । प्रियाः स्वग्नयो वयो३ं

स्वग्नयो हि वार्यं देवासो दधिरे च नः । स्वग्नयो मनामहो३म्

अथा न उभयेषाममृत मर्त्यानाम् । मिथः सन्तु प्रशस्तयो३ं

विश्विभिरग्ने अग्निभिर्रिमं यज्ञमिदं वचः । चनो धाः सहसो यहो३म् [१ । २६ । १-१०] [५१]

[[८४]]

अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । सम्राजन्तमध्वराणो३ं

स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः । मीढ्वाँ अस्माकं बभूयो३ं

स नो दूराच्चासाच्च नि मर्त्यादघायोः । पाहि सदमिद् विश्वायो३म्

इममू षु त्वमस्माकं सनिं गायत्रेण नव्यांसम् । अग्ने देवेषु प्र वोचो३म्

आ नो भज परमेष्वा वाजेषु मध्यमेषु । शिक्षा वस्वो अन्तमस्यो३ं

विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ । सद्यो दाशुषे क्षरसो३ं

यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः । स यन्ता शश्वतीरिषो३ं

नकिरस्य सहन्त्य पर्येता कयस्य चित् । वाजो अस्ति श्रवाय्यो३ं

स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता । विप्रेभिरस्तु सनितो३ं

जराबोध तद्विविड्ढि विशेविशे यज्ञियाय । स्तोमं रुद्राय दृशीको३ं

स नो महाँ असि अनिमानो धूमकेतुः पुरुश्चन्द्रः । धिये वाजाय हिन्वतो३ं

स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः । उक्थैरग्निर्बृहद्भानो३ं [१ । २७ । १-१२] [६३]

आनुष्टुभम्

त्वमग्ने वसूँरिह रुद्राँ आदित्याँ उत । यजा स्वध्वरं जनं मनुजातं घृतप्रुषो३ं

श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः । तान् रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वहो३ं

प्रियमेधवदत्रिवज् जातवेदो विरूपवत् । अङ्गिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हवो३ं

महिकेरव ऊतये प्रियमेधा अहूषत । राजन्तमध्वराणामग्निं शुक्रेण शोचिषो३ं

घृताहवन सन्त्येमा उ षु श्रुधी गिरः । याभिः कण्वस्य सूनवो हवन्तेऽवसे त्वो३ं

त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः । शोचिष्केशं पुरुप्रियाग्ने हव्याय वोह्ळवो३ं

नि त्वा होतारमृत्विजं दधिरे वसुवित्तमम् । श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषो३म्

आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः । बृहद् भा बिभ्रतो हविरग्ने मर्ताय दाशुषो३ं

प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य । इहाद्य दैव्यं जनं बर्हिरा सादया वसो३म् [१ । ४५ । १-९] [७२]

त्रैष्टुभम्

अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् ।

यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छो३म्

अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् ।

समिद्धस्य रुशददर्शि पाजो महान् देवस्तमसो निरमोचो३ं

यदीं गणस्य रशनामजीगः शुचिरड्क्ते शुचिभिर्गोभिरग्निः ।

आद् दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभो३म्

[[८५]]

अग्निमच्छा देवयतां मनांसि चक्षूंषीव सूर्ये सं चरन्ति ।

यदीं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नो३ं

जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्वरुषो वनेषु ।

दमेदमे सप्त रत्ना दधानोऽग्निर्होता नि षसादा यजीयो३म्

अग्निर्होता न्यसीदद् यजीयानुपस्थे मातुः सुरभा उ लोके ।

युवा कविः पुरुनिःष्ठ ऋतावा धर्ता कृष्टीनामुत मध्य इद्धो३ं

प्र णु त्यं विप्रमध्वरेषु साधुमग्निं होतारमीळते नमोभिः ।

आ यस्ततान रोदसी ऋतेन नित्यं मृजन्ति वाजिनं घतेनो३ं

मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः ।

सहस्रशृङ्गो वृषभस्तदोजा विश्वाँ अग्ने सहसा प्रास्यन्यो३ं

प्र सद्यो अग्ने अत्येष्यन्यानाविर्यस्मै चारुतमो बभूथ ।

ईळेन्यो वपुष्यो विभावा प्रियो विशामतिथिर्मानुषीणो३ं

तुभ्यं भरन्ति क्षितयो यविष्ठ बलिमग्ने अन्तित ओत दूरात् ।

आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत् ते अग्ने महि शर्म भद्रो३म्

आद्य रथं भानुमो भानुमन्तमग्ने तिष्ठ यजतेभिः समन्तम् ।

विद्वान् पथीनामुर्व१न्तरिक्षमेह देवान् हविरद्याय वक्षो३म्

अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे ।

गविष्ठिरो नमसा स्तोममग्नौ दिवीव रुक्ममुरुव्यञ्चमश्रो३म् [५ । १ । १-१२] [८४]

अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।

चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चो३ं

स मह्ना विश्वा दुरितानि सह्वानग्निः ष्टवे दम आ जातवेदाः ।

स नो रक्षिषद् दुरितादवद्यादस्मान् गृणत उत नो मघोनो३ं

त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः ।

त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नो३म् [७ । १२ । १-३] [८७]

बार्हतम्

एना वो अग्निं नमसोर्जो नपातमा हुवे । प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतो३ं

स योजते अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः ।

सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानो३म्

उदस्य शोचिरस्थादाजुह्वानस्य मीह्ळुषः । उद् धूमासो अरुषासो दिविस्पृशः समग्निमिन्धते नरो३ं

[[८६]]

तं त्वा दूतं कृण्महे यशस्तमं देवाँ आ वीतये वह ।

विश्वा सूनो सहसो मर्तभोजना रास्व तद् यत् त्वेमहो३ं

त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे । त्वं पोता विश्ववार प्रचेता यक्षि वेषि च वार्यो३ं

कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि ।

आ न ऋते शिशीहि विश्वमृत्विजं सुशंसो यश्च दक्षतो३ं

त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः । यन्तारो ये मघवानो जनानामूर्वान् दयन्त गोनो३ं

येषामिळा घृतहस्ता दुरोण आँ अपि प्राता निषीदति ।

ताँस्त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रो३ं

स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः । अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदयो३ं

ये राधांसि ददत्यश्व्या मघा कामेन श्रवसो महः ।

ताँ अंहसः पिपृहि पर्तृभिष्ट्वं शतं पूर्भिर्यविष्ठ्यो३ं

देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचम् । उद् वा सिञ्चध्वमुप वा पृणध्वमादिद् वो देव ओहतो३ं

तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत ।

दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषो३म् [७ । १६ । १-१२] [९९]

औष्णिहम्

अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे धेहि जातवेदो महि श्रवो३ं

स इधानो वसुष्कविरग्निरीळेन्यो गिरा । रेवदस्मभ्यं पुर्वणीक दीदिहो३ं

क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः । स तिग्मजम्भ रक्षसो दह प्रतो३ं [१ । ७९ । ४-६] [१०२]

जागतम्

जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे ।

घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचो३ं

यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समीधिरे ।

इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतो३म्

असंमृष्टो जायसे मात्रोः शुचिर्मन्द्रः कविरुदतिष्ठो विवस्वतः ।

घृतेन त्वावर्धन्नग्न आहुत धूमस्ते केतुरभवद् दिवि श्रितो३म्

अग्निर्नो यज्ञमुप वेतु साधुयाग्निं नरो वि भरन्ते गृहेगृहे ।

अनिर्दूतो अभवद्धव्यवाहनोऽग्निं वृणाना वृणते कविक्रतो३ं

तुभ्येदमग्ने मधुमत्तमं वचस्तुभ्यं मनीषा इयमस्तु शं हृदे ।

त्वां गिरः सिन्धुमिवावनीर्महीरा पृणन्ति शवसा वर्धयन्ति चो३ं

[[८७]]

त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने ।

स जायसे मथ्यमानः सहो महत् त्वामाहुः सहसस्पुत्रमङ्गिरो३म् [५ । ११ । १-६] [१०८]

पाङ्क्तम्

अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः ।

अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भरो३ं

सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः ।

समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भरो३म्

अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः ।

अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भरो३म्

आ ते अग्न इधीमहि द्युमन्तं देवाजरम् ।

यद्ध स्या ते पनीयसी समिद् दीदयति द्यवीषं स्तोतृभ्य आ भरो३म्

आ ते अग्न ऋचा हविः शुक्रस्य शोचिषस्पते ।

सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यं हूयत इषं स्तोतृभ्य आ भरो३ं

प्रो त्ये अग्नयोऽग्निषु विश्वं पुष्यन्ति वार्यम् ।

ते हिन्विरे त इन्विरे त इषण्यन्त्यानुषगिषं स्तोतृभ्य आ भरो३ं

तव त्ये अग्ने अर्चयो महि व्राधन्त वाजिनः ।

ये पत्वभिः शफानां व्रजा भुरन्त गोनामिषं स्तोतृभ्य आ भरो३ं

नवा नो अग्न आ भर स्तोतृभ्यः सुक्षितीरिषः ।

ती स्याम य आनृचुस्त्वादूतासो दमेदम इषं स्तोतृभ्य आ भरो३म्

उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि ।

उतो न उत् पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भरो३म्

एवाँ अग्निमजुर्यमुर्गीर्भिर्यज्ञेभिरानुषक् ।

दधदस्मे सुवीर्यमुत त्यदाश्वश्व्यमिषं स्तोतृभ्य आ भरो३ं [५ । ६ । १-१०] [११८]

उषस्यः क्रतुः

गायत्रम्

प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः । दिवो अदर्शि दुहितो३म्

अश्वेव चित्रारुषी माता गवामृतावरी । सखाभूदश्विनोरुषो३म्

उत सखास्यश्विनोरुत माता गवामसि । उतोषो वस्व ईशिषो३ं

यावयद्द्वेषसं त्वा चिकित्वित् सूनृतावरि । प्रति स्तोमैरभुत्स्महो३ं

[[८८]]

प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः । ओषा अप्रा उरु ज्रयो३म्

आपप्रुषी विभावरि व्यावर्ज्योतिषा तमः । उषो अनु स्वधामहो३म्

आ द्यां तनोषि रश्मिभिरान्तरिक्षमुरु प्रियम् । उषः शुक्रेण शोचिषो३म् [४ । ५२ । १-७] [१२५]

आनुष्टुभम्

उषो भद्रेभिरा गहि दिवश्चिद् रोचनादधि । वहन्त्वरुणप्सव उप त्वा सोमिनो गृहो३ं

सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम् । तेना सुश्रवसं जनं प्रावाद्य दुहितर्दिवो३ं

वयश्चित् ते पतत्रिणो द्विपच्चतुष्पदर्जुनि । उषः प्रारन्नृतूँरनु दिवो अन्तेभ्यस्परो३ं

व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् । तां त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषतो३म्[१ । ४९ । १-४][१२९]

त्रैष्टुभम्

इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।

यथा प्रसूता सवितुः सवायँ एवा रात्र्युषसे योनिमारो३ं

रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः ।

समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनानो३ं

समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे ।

न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपो३ं

भास्वती नेत्री सूनृतानामचेति चित्रा वि दुरो न आवः ।

प्रार्प्या जगद्व्यु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वो३ं

जिह्मश्ये३ चरितवे मघोन्याभोगय इष्टये राय उ त्वम् ।

दभ्रण् पश्यद्भ्य उर्विया विचक्ष उषा अजीगर्भुवनानि विश्वो३ं

क्षत्राय त्वं श्रवसे त्वं महीया इष्टये त्वमर्थमिव त्वमित्यै ।

विसदृशा जीविताभिप्रचक्ष उषा अजेगर्भुवनानि विश्वो३म्

एषा दिवो दुहिता प्रत्यदर्शि व्युच्छन्ती युवतिः शुक्रवासाः ।

विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्युच्छो३ं

परायतीनामन्वेति पाथ आयतीनां प्रथमा शश्वतीनाम् ।

व्युच्छन्ती जीवमुदीरयन्त्युषा मृतं कं चन बोधयन्तो३म्

उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य ।

यन्मानुषान् यक्ष्यमाणाँ अजीगस्तद् देवेषु चकृषे भद्रमप्नो३ं

कियात्या यत् समया भवाति या व्यूषुर्याश्च नूनं व्युच्छान् ।

अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषमन्याभिरेतो३म्

[[८९]]

ईयुष्टे ये पूर्वतरामपश्यन् व्युच्छन्तीमुषसं मर्त्यासः ।

अस्माभिरू नु प्रतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यो३ं

यावयद् द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती ।

सुमङ्गलीर्बिभ्रती देववीतिमिहाद्योषः श्रेष्ठतमा व्युच्छो३ं

शस्वत् पुरोगा व्युवास देव्यथो अद्येदं व्यावो मघोनी ।

अथो व्युच्छादुत्तराँ अनु द्यूनजरामृता चरति स्वधाभो३ं

व्य१ञ्जिभिर्दिव आतास्वद्यौदप कृष्णां निर्णिजं देव्यावः ।

प्रबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेनो३म्

आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना ।

ईयुषीणामुपमा शश्वतीनां विभातीनां प्रथमोषा व्यश्वो३म्

उदीर्ध्वं जीवो असुर्न आगादप प्रागात् तम आ ज्योतिरेति ।

आरैक् पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयो३ं

स्यूमना वाच उदियर्ति वह्निः स्तवानो रेभ उषसो विभातीः ।

अद्या तदुच्छ गृणते मघोन्यस्मे आयुर्नि दिदीहि प्रजावो३ं

या गोमतीरुषसः सर्ववीरा व्युच्छन्ति दाशुषे मर्त्याय ।

वायोरिव सूनृतानामुदर्के आ अश्वदा अश्नवत् सोमसुत्वो३ं

माता देवानामदितेरनीकं यज्ञस्य केतुर्बृहती वि भाहि ।

प्रशस्तिकृद् ब्रह्मणे नो व्यु१च्छा नो जने जनय विश्ववारो३ं

यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम् ।

तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यो३ं [१ । ११३ । १-२०] [१४९]

बार्हतम्

प्रत्यु अदर्श्यायत्यु१च्छन्ती दुहिता दिवः । अपो महि व्ययति चक्षसे तमो ज्योतिष्कृणोति सूनरो३म्

उदुस्रियाः सृजते सूर्यः सचाँ उद्यन्नक्षत्रमर्चिवत् ।

तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहो३ं

प्रति त्वा दुहितर्दिव उषो जीरा अभुत्स्महि । या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयो३म्

उच्छन्ती या कृणोषि मंहना महि प्रख्यै देवि स्वर्दृशे ।

तस्यास्ते रत्नभाज ईमहे वयं स्याम मातुर्न सूनवो३ं

तच्चित्रं राध आ भरोषो यद् दीर्घश्रुत्तमम् । यत् ते दिवो दुहितुर्मर्तभोजनं तद् रास्व भुनजामहो३ं

श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजाँ अस्मभ्यं गोमतः ।

[[९०]]

चोदयित्री मघोनः सूनृतावत्युषा उच्छदप स्रिधो३म् [७ । ८१ । १-६] [१५५]

औष्णिहम्

उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति । येन तोकं च तनयं च धामहो३म्

उषो अद्येह गोमत्यश्वावति विभावरि । रेवदस्मे व्युच्छ सूनृतावतो३ं

युक्ष्वा हि वाजिनीवत्यश्वाँ अद्यारुणाँ उषः । अथा नो विश्वा सौभगान्या वहो३म् [१ । ९२ । १३-१५] [१५८]

जागतम्

एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते ।

निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरो३म्

उदपप्तन्नरुणा भानवो वृथा स्वायुधो अरुषीर्गा अयुक्षत ।

अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयो३म्

अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः ।

इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वतो३म्

अधि पेशांसि वपते नृतूरिवापोर्णुते वक्ष उस्रेव बर्जहम् ।

ज्योतिर्विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्यु१षा आवर्तमो३ं [१ । ९२ । १-४] [१६२]

पाड्क्तम्

महे नो अद्य बोधयोषो राये दिवत्मती ।

यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृतो३ं

या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः ।

सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृतो३ं

सा नो अद्या भरद्वसुर्व्युच्छा दुहितर्दिवः ।

यो व्यौच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृतो३म्

अभि ये त्वा विभावरि स्तोमैर्गृणन्ति वह्नयः ।

मघैर्मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृतो३ं

यच्चिद्धि ते गणा इमे छदयन्ति मघत्तये ।

परि चिद् वष्टयो दधुर्ददतो राधो अह्रयं सुजाते अश्वसूनृतो३म्

ऐषु धा वीरवद् यश उषो मघोनि सूरिषु ।

ये नो राधांस्यह्रया मघवानो अरासत सुजाते अश्वसूनृतो३ं

तेभ्यो द्युम्नं बृहद् यश उषो मघोन्या वह ।

ये नो राधांस्यश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृतो३म्

[[९१]]

उत नो गोमतीरिष आ वहा दुहितर्दिवः ।

साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिरर्चिभिः सुजाते अश्वसूनृतो३ं

व्युच्छा दुहितर्दिवो मा चिरं तनुथा अपः ।

नेत् त्वा स्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसूनृतो३म्

एतावद् वेदुषस्त्वं भूयो वा दातुमर्हसि ।

या स्तोतृभ्यो विभावर्युच्छन्ती न प्रमीयसे सुजाते अश्वसूनृतो३ं [५ । ७९ । १-१०] [१७२]

आश्विनः क्रतुः

गायत्रम्

एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः । स्तुषे वामश्विना बृहो३ं

या दस्रा सिन्धुमातरा मनोतरा रयीणाम् । धिया देवा वसुविदो३ं

वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि । यद् वां रथो विभिष्पतो३ं

हविषा जारो अपां पिपर्ति पपुरिर्नरा । पिता कुटस्य चर्षणो३म्

आदारो वा मतीनां नासत्या मतवचसा । पातं सोमस्य धृष्णुयो३ं

य नः पीपरदश्विना ज्योतिष्मती तमस्तिरः । तामस्मे रासाथामिषो३म्

आ नो नावा मतीनां यातं पाराय गन्तवे । युञ्जाथामश्विना रथो३म्

अरित्रं वां दिवस्पृथु तीर्थे सिन्धूनां रथः । धिया युयुज्र इन्दवो३ं

दिवस्कण्वास इन्दवो वसु सिन्धूनां पदे । स्वं वव्रिं कुह धित्सथो३म्

अभूदु भा उ अंशवे हिरण्यं प्रति सूर्यः । व्यख्यज्जिह्वयासितो३म्

अभूदु पारमेतवे पन्था ऋतस्य साधुया । अदर्शि वि स्रुतिर्दिवो३ं

तत्तदिदश्विनोरवो जरिता प्रति भूषति । मदे सोमस्य पिप्रतो३ं

वावसाना विवस्वति सोमस्य पीत्वा गिरा । मनुष्वच्छम्भू आ गतो३ं

युवोरुषा अनु श्रियं परिज्मनोरुपाचरत् । ऋता वनथो अक्तुभो३म्

उभा पिबतमश्विनोभा नः शर्म यच्छतम् । अविद्रियाभिरूतिभो३ं [१ । ४६ । १-१५] [१८७]

आनुष्टुभम्

यदद्य स्थः परावति यदर्वावत्यश्विना । यद् वा पुरू पुरुभुजा यदन्तरिक्ष आ गतो३म्

इह त्या पुरुभूतमा पुरू दंसांसि बिभ्रता । वरस्या याम्यध्रिगू हुवे तुविष्टमा भुजो३म्

ईर्मान्यद् वपुषे वपुश्चक्रं रथस्य येमथुः । पर्यन्या नाहुषा युगा मह्ना रजांसि दीयथो३ं

तदू षु वामेना कृतं विश्वा यद् वामनु ष्टवे । नाना जातावरेपसा समस्मे बन्धुमेयथो३म्

आ यद् वां सूर्या रथं तिष्ठद् रघुष्यदं सदा । परि वामरुषा वयो घृणा वरन्त आतपो३ं

[[९२]]

युवोरत्रिश्चिकेतति नरा सुम्नेन चेतसा । घर्मं यद् वामरेपसं नासत्यास्ना भुरण्यतो३म्

उग्रो वां ककुहो ययिः शृण्वे यामेषु संतनिः । यद् वां दंसोभिरश्विनात्रिर्नराववर्ततो३ं

मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी । यत् समुद्राति पर्षथः पक्वाः पृक्षो भरन्त वो३ं

सत्यमिद् वा उ अश्विना युवामाहुर्मयोभुवा । ता यामन् यामहूतमा यामन्ना मृळयत्तमो३म्

इमा ब्रह्माणि वर्धनाश्विभ्यां सन्तु शन्तमा । या तक्षाम रथाँ इवावोचाम बृहन्नमो३म् [५ । ७३ । १-१०] [१९७]

त्रैष्टुभम्

आ भात्यग्निरुषसामनीकमुद् विप्राणां देवया वाचो अस्थुः ।

अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छो३ं

न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह ।

दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्तिं दाशुषे शम्भविष्ठो३म्

उता यातं सङ्गवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य ।

दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततानो३म् ॥

इदं हि वां प्रदिवि स्थानमोक इमे गृहा अश्विनेदं दुरोणम् ।

आ नो दिवो बृहतः पर्वतादाद्भ्यो यातमिषमूर्जं वहन्तो३ं

समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।

आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानो३म् [५ । ७६ । १-५] [२०२]

अतारिष्म तमसस्पारमस्य प्रति स्तोमं देवयन्तो दधानाः ।

पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गो३ं

न्यु प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च ।

अश्नीतं मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वो३म्

अहेम यज्ञं पथामुराणा इमां सुवृक्तिं वृषणा जुषेथाम् ।

श्रुष्टीवेव प्रेषितो वामबोधि प्रति स्तोमैर्जरमाणो वसिष्ठो३म्

उप त्या वह्नी गमतो विशं नो रक्षोहणा संभृता वीळुपाणी ।

समन्धांस्यग्मग मत्सराणि मा नो मर्धिष्टमो गतं शिवेनो३म्

आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् ।

आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नो३म् [७ । ७३ । १-५] [२०७]

बार्हतम्

इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथो३ं

युवं चित्रं ददथुर्जनं नरा चोदेथां सूनृतावते ।

[[९३]]

अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधो३म्

आ यातमुप भूषतं मध्वः पिबतमश्विना । दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टमा गतो३म्

अश्वासो ये वामुप दाशुषो गृहं युवां दीयन्ति बिभ्रतः

मक्षूयुभिर्नरा हयेभिरश्विना देवा यातमस्मयो३म्

अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः । ता यंसतो मघवद्भ्यो ध्रुवं यशश्छर्दिरस्मभ्यं नासत्यो३ं

प्र ये ययुरवृकासो रथा इव नृपातारो जनानाम् ।

उत स्वेन शवसा शूशुवुर्नर उत क्षियन्ति सुक्षितो३म् [७ । ७४ । १-६] [२१३]

औष्णिहम्

अश्विना वर्तिरस्मदा गोमद् दस्रा हिरण्यवत् । अर्वाग्रथं समनसा नि यच्छतो३ं

यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः । आ न ऊर्जं वहतमश्विना युवो३म्

एह देवा मयोभुवा दस्रा हिरण्यवर्तनी । उषर्बुधो वहन्तु सोमपीतयो३म् [१ । ९२ । १६-१८] [२१६]

जागतम्

अबोध्यग्निर्ज्म उदेति सूर्यो व्यु१षाश्चन्द्रा मह्यावो अर्चिषा ।

आयुक्षातामश्विना यातवे रथं प्रासावीद् देवः सविता जगत् पृथो३ं

यद् युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् ।

अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहो३म्

अर्वाङ् त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः ।

त्रिवन्धुरो मघवा विष्वसौभगः शं न आ वक्षद् द्विपदे चतुष्पदो३म्

आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम् ।

प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवो३ं

युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः ।

युवमग्निं च वृषणावपश्च वनस्पतीँरश्विनावैरयेथो३ं

युवं ह स्थो भिषजा भेषजेभिरथो ह स्थो रथ्या३ राथ्येभिः ।

अथो ह क्षत्रमधि धत्थ उग्रा यो वां हविष्मान् मनसा ददाशो३म् [१ । १५७ । १-६] [२२२]

ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये ।

याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतो३ं

युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे ।

याभिर्धियोऽवथः कर्मन्निष्टये ताभिरू षु ऊतिभिरश्विना गतो३ं

युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना ।

[[९४]]

याभिर्धेनुमस्वं पिन्वथो नरा ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्विभूषति ।

याभिस्त्रिमन्तुरभवद् विचक्षणस्ताभिरू षु ऊतिभिरश्विना गतो३ं

याभी रेभं निवृतं सितमद्भ्य उद् वन्दनमैरयतं स्वर्दृशे ।

याभिः कण्वं प्र सिषासन्तमावतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिरन्तकं जसमानमारणे भुज्युं याभिरव्यथिभिर्जिजिन्वथुः ।

याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः शुचन्ति धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये ।

याभिः पृश्निगुं पुरुकुत्समावतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः शचीभिर्वृषणा परावृजं प्रान्धं श्रोणं चक्षस एतवे कृथः ।

याभिर्वर्तिकां ग्रसिताममुञ्चतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम् ।

याभिः कुत्सं श्रुतर्यं नर्यमावतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिर्विश्पलां धनसामथर्व्यं सहस्रमीह्ळ् आजावजिन्वतम् ।

याभिर्वशमश्व्यं प्रेणिमावतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् ।

कक्षीवन्तं स्तोतारं याभिरावतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे ।

याभिस्त्रिशोक उस्रिया उदाजत ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः सूर्यं परियाथः परावति मन्धातारं क्षैत्रपत्येष्वावतम् ।

याभिर्विप्रं प्र भरद्वाजमावतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतम् ।

याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः ।

याभिर्व्यश्वमुत पृथिमावतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः ।

याभिः शारीराजतं स्यूमरश्मये ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना ।

याभिः शर्यातमवथो महाधने ताभिरू षु ऊतिभिरश्विना गतो३ं

[[९५]]

याभिरङ्गिरो मनसा निरण्यतोऽग्रं गच्छतो विवरे गो अर्णसः ।

याभिर्मनुं शूरमिषा समावतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः पत्नीर्विमदाय न्यूहथुरा घ वा याभिररुणीरशिक्षितम् ।

याभिः सुदास ऊहथुः सुदेव्यं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम् ।

ओम्यावतीं सुभरामृतस्तुभं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः कृशानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम् ।

मधु प्रियं भरथो यत् सरड्भ्यस्ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिर्नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः ।

याभी रथाँ अवथो याभिरर्वतस्ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः कुत्समार्जुनेयं शतक्रतू प्र तुर्वीतिं प्र च दभीतिमावतम् ।

याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिरू षु ऊतिभिरश्विना गतो३म्

अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषाम् ।

अद्यूत्येऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातो३ं

द्युभिरक्तुभिः परिपातमस्मानरिष्टेभिरश्विना सौभगेभिः ।

तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यो३ं [१ । ११२ । १-२५] [२४७] ईडेद्यावीयमावर्तयेदातमसोपघातात् । तमसोपहत आसनदुत्सृप्य द्युभिरक्तुभिरित्युत्तमऋगन्तेन मन्द्रस्योत्तमेन यमेन प्रतिप्रियतममित्युपसन्तनुयान्मध्यमप्रथमयमेन । अस्मिन् सूक्ते मध्यमस्वरं सर्वं प्रयुञ्जीत ।

पाड्क्तम्

प्रति प्रियतमं रथं वृषणं वसुवाहनम् ।

स्तोता वामश्विनावृषिः स्तोमेन प्रति भूषति माध्वी मम श्रुतं हवो३म्

अत्यायातमश्विना तिरो विश्वा अहं सना ।

दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम श्रुतं हवो३म्

आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम् ।

रुद्रा हिरण्यवर्तनी जुषाणा वाजीनीवसू माध्वी मम श्रुतं हवो३ं

सुष्टुभो वां वृषण्वसू रथे वाणीच्याहिता ।

उत वां ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम श्रुतं हवो३ं

बोधिन्मनसा रथ्येषिरा हवनश्रुता ।

विभिश्च्यवानमश्विना नि याथो अद्वयाविनं माध्वी मम श्रुतं हवो३म्

[[९६]]

आ वाम् नरा मनोयुजोऽश्वासः प्रुषितप्सवः ।

वयो वहन्तु पीतये सह सुम्नेभिरश्विना माध्वी मम श्रुतं हवो३म्

अश्विनावेह गच्छतं नासत्या मा वि वेनतम् ।

तिरश्चिदर्यया परि वर्तिर्यातमदाभ्या माध्वी मम श्रुतं हवो३म्

अस्मिन् यज्ञे अदाभ्या जरितारं शुभस्पती ।

अवस्युमश्विना युवं गृणन्तमुप भूषथो माध्वी मम श्रुतं हवो३म् पुनरुत्सृप्य द्वार्ये स्थूणे अन्तरेणासीनो मध्यमस्योत्तमयमेन उत्तमऋगन्तमुत्तमस्य प्रथमं यममादायारोहक्रमेणैवोत्तमं स्वरं तस्यामेवर्चि सर्वं प्रयुज्य परिदध्यात् ।

अभूदुषा रुशत्पशुराग्निरधाय्यृत्वियः ।

अयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवो३म् [५ । ७५ । १-९] [२५६] इति । परिहिते

अपयिष्य होतः इत्यध्वर्युणोक्तोऽनभिहिङ्कृत्यापोनप्त्रीया अन्वाहेषच्छनैस्तरां परिधानीयायाः (उत्तमस्य चतुर्थयमेन) । प्रथमामृचमध्यर्धकारं ब्रूयात् सामिधेनीवत् । उत्तरा ऋगावानम् । अर्थाद् द्वितीये आदाने पञ्चार्धर्चा अनुच्छ्वसता वक्तव्याः । यदि यजमानो वृष्टिकामः स्यात् तदा द्वितीयाद्याः प्रकृत्यैव ब्रूयात् । प्रकृतिभावे पूर्वेष्वासामर्धर्चेषु लिङ्गानि काङ्क्षेत् । -

प्र देवत्रा ब्रह्मणे गातुरेत्वपो अच्छा मनसो न प्रयुक्ति

महीं मित्रस्य वरुणस्य धासिं पृथुज्रयसे रीरधा सुवृक्तो३ं

प्र देवत्रा ब्रह्मणे गातुरेत्वपो अच्छा मनसो न प्रयुक्ति ॥

महीं मित्रस्य वरुणस्य धासिं पृथुज्रयसे रीरधा सुवृक्तो३ं

प्र देवत्रा ब्रह्मणे गातुरेत्वपो अच्छा मनसो न प्रयुक्ति

महीं मित्रस्य वरुणस्य धासिं पृथुज्रयसे रीरधा सुवृक्तो३म्

अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीरुशन्तोऽ-

व याश्चष्टे अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्या सुहस्तो४म् ॥

अध्वर्यवोऽप इता समुद्रमपां नपातं हविषा यजध्वं

स वो दददूर्मिमद्या सुपूतं तस्मै सोमं मधुमन्तं सुनोतो४म् ॥

यो अनिध्मो दीदयदप्स्व१न्तर्यं विप्रास ईळते अध्वरे-

ष्वपां नपान्मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्यायो४म् ॥

याभिः सोमो मोदते हर्षते च कल्याणीभिर्युवतिभिर्न मर्यस्-

ता अध्वर्यो अपो अच्छा परेहि यदासिञ्चा ओषधीभिः पुनीतो४म् ॥

एवेद्यूने युवतयो नमन्त यदीमुशन्नुशतीरेत्यच्छ

[[९७]]

सं जानते मनसा सं चिकित्रेऽध्वर्यवो धिषणापश्च देवो४म् ॥

यो वो वृताभ्यो अकृणोदु लोकं यो वो मह्या अभिशस्तेरमुञ्चत्

तस्मा इन्द्राय मधुमन्तमूर्मिं देवमादनं प्र हिणोतनापो४म् ॥

प्रासै हिनोत मधुमन्तमूर्मिं गर्भो यो वः सिन्धवो मध्व उत्सो

घृतपृष्ठमीड्यमध्वरेष्वापो रेवतीः शृणुता हवं मो४म् ॥

तं सिन्धवो मत्सरमिन्द्रपानमूर्मिं प्र हेत य उभे इयर्ति

मदच्युतमौशानं नभोजां परि त्रितन्तुं विचरन्तमुत्सो४म् ॥ [१० । ३० । १-९]

हिनोता नो अध्वरं देवयज्या हिनोय ब्रह्म सनये धनाना-

मृतस्य योगे वि श्यध्वमूधः श्रुष्टीवरीर्भूतनास्मभ्यमापो४म् ॥ [१० । ३० । ११]

ग्रहणदेशाद्देवयजनदेशं प्रति आवृत्तास्वेकधनासु-

आवर्वृततीरध नु द्विधारा गोषुयुधो न नियवं चरन्ती-

र्ऋषे जनित्रीर्भुवनस्य पत्नीरपो वन्दस्व सवृधः सयोनो४म् ॥ [१० । ३० । १०]

प्रतिदृश्यमानासु (आसीनस्य दृष्टिपथमागतासु)-

प्रति यदापो अदृश्रमयतीर्घृतं पयांसि बिभ्रतीर्मधू-

न्यध्वर्युभिर्मनसा संविदाना इन्द्राय सोमं सुषुतं भरन्तो४म् ॥ [१० । ३० । १३]

आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीरुप नो यन्तु मध्वा

महो राये बृहतीः सप्त विप्रो मयोभवो जरिता जोहवीतो४म् ॥ [५ । ४३ । १] इति तीर्थसमीपमागतासु ।

समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पृणन्ति

तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापो४म् ॥ [२ । ३५ । ३] इति तीर्थदेशं प्राप्तासु ।

तीर्थदेशे होतृचमसेऽपां पूर्यमाणे-

आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः

प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इवो४म् ॥ [१ । ८३ । २] इति समाप्य प्रणवेनोपरमेत् । प्रकृतिभावपक्षेऽप्यत्रावसानं भवति । आगतमध्वर्युम् अवेरपोऽध्वर्या३ उ इति पृच्छति । अध्वर्युणा उतेमनन्नमुः इति प्रत्युक्तः शनैस्तरां (मध्यमस्वरेण)- तास्वध्वर्यो इन्द्राय सोमं सोता मधुमत्तमं वृष्टिवनिं तीव्रान्तं बहुरमध्यं वसुमते रुद्रवत आदित्यवत ऋभुमते विभुमते वाजवते बृहस्पतिवते विश्वदेव्यावते इति निगदमनवानं ब्रुवन् आगच्छन्तीनामेकधनानां मुखतो गत्वा ता अपरेणातीत्य उत्तरतस्तिष्ठेत् । तास्वदूरेणात्मनोऽतीतास्वन्वावृत्य यस्येन्द्रः इत्यादि निगदशेषमनुब्रुवन्ननुव्रजेत्- यस्येन्द्रः पीत्वा वृत्राणि जङ्घनत् प्र स जन्यानि तारिषो३म्

अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयतां पृञ्चतीर्मधुना पयो४म् ॥ ऋगावनपक्षेऽप्यत्र प्रणवेन सन्तानः कर्तव्यः ।

अमूर्या उप सूर्ये याभिर्वा सूर्यः सह ता नो हिन्वन्त्वध्वरो४म् ॥

[[९८]]

अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः सिन्धुभ्यः कर्त्वं हवो४म् ॥ [१ । २३ । १६-१८] इत्युत्तमयापरया द्वारा हविर्धानमनुप्रपद्येत । साद्यमानास्वेकधनासु मन्द्रेण-

एमा अग्मन् रेवतीर्जीवधन्या अध्वर्यवः सादयता सखायो

नि बर्हिषि धत्तन सोम्यासोऽपां नप्त्रा संविदानास एनो४म् ॥

आग्मन्नाप उशतीर्बर्हिरेदं न्यध्वरे असदन् देवयन्ती-

रध्वर्यवः सुनुतेन्द्राय सोममभूदु वः सुशका देवयज्यो४म् ॥ [१० । ३० । १४-१५] इति सन्नासु परिदध्यात् ।

ततो निष्क्रम्य पूर्वया द्वारा हविर्धानं प्रविश्य उत्तरा द्वार्यस्थूणमासाद्य राजानमभिमुखो निरसनोपवेशनमकृत्वोपविशेत् । अत ऊर्ध्वं प्रातःसवनमासमाप्तेर्मन्द्रस्वरेण प्रयोक्तव्यम् ।

उपांशुग्रहं हूयमानमभिमुखो भूत्वा- प्राणं यच्छ स्वाहा त्वा सुहव सूर्याय प्राणप्राणं मे यच्छ इत्यनुमन्त्र्य उः इत्यनुप्राण्यात् (अन्तःशरीरस्थं वायुं नासिकाद्वारेण बहिर्निर्गमयेत्) । अन्तर्यामग्रहम्- अपानं यच्छ स्वाहा त्वा सुहव सूर्यायापानापानं मे यच्छ इत्यनुमन्त्र्य उम् इत्यभ्यपान्यात् (बहिःष्ठं वायुं नासिकयान्तः प्रवेशयेत्) । ततो व्यानाय त्वा इत्युपांशुसवनं ग्रावाणमभिमृश्यापोनप्त्रीयस्थाने उपविश्य भूर्भुवःस्वः इति वाचं विसृजेत । प्रातरनुवाकाद्येतदन्तं वाग्यमनम् । अथ बहिष्पवमानाय सर्पणे छन्दोगात् पृष्ठतो मैेत्रावरुणो ब्रह्मा तावन्तरेणेतरे होतृब्रह्मवर्ग्या दीक्षिताश्चेत् प्रत्यगुदगाहवनीयादवस्थाय-

द्र॒प्सश्च॑स्कन्द प्रथ॒माँ अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।

स॒मा॒नं योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॒ स्वाहा ॥

यस्ते॑ द्र॒प्सः स्कन्द॑ति॒ यस्ते॑ अं॒शुर्बा॒हुच्यु॑तो धि॒षणा॑या उ॒पस्था॑त् ।

अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त् तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृतं॒ स्वाहा ॥ [१० । १७ । ११-१२] इति द्वौ विप्रुड्ढोमौ हुत्वाध्वर्युमुखाः समन्वारब्धाः सर्पन्त्यातीर्थदेशात् । बहिष्पवमानायोद्गातारमभिमुखा दक्षिणतो ब्रह्मोदङ्मुखः पश्चान्मैत्रावरुणोनिरसनोपवेशने कृत्वा प्राङ्मुख उपविशति । अथ होतापोनप्त्रीयस्थान एवासीनस्तान् बहिष्पवनार्थमुपविष्टाननुमन्त्रयते-

यो देवानामिह सोमपीथो यज्ञे बर्हिषि वेद्याम् ।

तस्यापि भक्षयामसि मुखमसि मुखं भूयासम् ॥ इति ।

यदि होता दीक्षितश्चेद्व्रजेत् स्तोत्रोपस्वराय सर्पेच्चोत्तरयोः सवनयोः । ब्रह्मन् त्स्तोष्यामः प्रशास्तः इति प्रस्तोत्रा स्तोत्रायातिसर्जितौ ब्रह्ममैत्रावरुणावतिसृजतः ।

ब्रह्मा- भूरिन्द्रवन्तः सवितृप्रसूताः इति जपित्वा ॐस्तुध्वम् इत्युच्चैः ।

प्रशास्ता- स्तुत देवेन सवित्रा प्रसूता ऋतस्य सत्यस्य वदत । आयुष्मत्य ऋचो मा गात तनूपात् साम्न ॐ इति जपित्वा स्तुध्वम् इत्युचैरतिसृजति ।

[[९९]]

अथ सवनीयेन पशुना चरन्ति । आग्नेयोऽग्निष्टोमे । परिव्ययणाद्याचात्वालमार्जनादमग्नीषोमीयवद्दण्डप्रदानवर्जम् । यूपाय परिवीयमाणाय प्रेषितः पश्चादुत्तर्वेदेर्निरसनोपवेशने कृत्वाभिहिंकृत्य युवा सुवासाः [३ । ८ । ४] इति त्रिर्ब्रूयात् । अग्निमन्थनादि समानम् । नमः प्रवक्त्रे इत्यादि सप्तदशसामिधेन्यः । स्रुगादापनसूक्तवाकस्थौ प्रावित्रं साधु ते यजमानदेवता, ओमन्वती तेऽस्मिन् यज्ञे यजमान इत्येतौ यजमानशब्दौ वर्जयित्वा आवाहनादिष्वैष्टिकेषु निगमेषु यजमानशब्दादग्रे तद्विभक्त्यन्तः सुन्वच्छब्दः प्रयोक्तव्यः । नान्त्याद्धारियोजनादूर्ध्वम् ।

अथावाहने- आवह देवान् त्सुन्वते यजमानाय इत्यवसाय अग्निमग्न आ३वह । सोममा३वह । अग्निमावा३वह वनस्पतिमा३वह । इन्द्रं वसुमन्तमा३वह । इन्द्रं रुद्रवन्तमा३वह । इन्द्रमादित्यवन्तमृभुवन्तं विभुमन्तं वाजवन्तं बृहस्पतिवन्तं विश्वदेव्यावन्तमा३वह । देवाँ आज्यपाँ आ३वहेत्यादि । इन्द्रं वसुमन्तमित्यादि सवनदेवतानां प्रस्थितयाज्यासु ध्वानं कर्तव्यम् । सम्मार्गानन्तरं प्रवृताहुतीर्जुह्वति वषट्कर्तारोऽच्छावाकवर्जम् । क्रतुयाज्याक्रमेण । अथ प्रशास्तस्तीर्थेन प्रपद्यस्व इत्युक्तो मैत्रावरुणः स्थानाचमने कृत्वा प्रविश्य स्वयमेव तूष्णीं दण्डं गृह्णाति । सदः प्रपदनादि समानमाध्रिगुपर्यन्तम् । अध्रिगौ- मेधपतये मेधम् इति विशेषः ।

वपायागे-

प्रशास्ता- अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।

युयोद्ध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेमो३म् ॥ [१ । १८९ । १]

होता यक्षदग्निं छागस्य वपाया मेदसो जुषतां हविर्होतर्यज ॥

होता- ये३ यजामहे प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम् ।

यो दैव्यानि मानुषा जनूंष्यतर्विश्वानि वद्मना जिगाती३ वौ३षट् ॥ [७ । ४ । १]

हुतायां वपायां पाशुका ऋत्विजश्चात्वाले मार्जयन्ते । अथ होता मैत्रावरुणो ब्राह्मणाच्छंसी पोता नेष्टाग्नीध्र इत्येते अध्वर्युपथे स्थित्वादित्यप्रभृतीन् धिष्ण्यानुपतिष्ठन्ते । आदित्यमग्रे- अध्वनामध्वपते श्रेष्ठः स्वस्त्यस्याध्वनः पारमशीय इति । तत्रस्था एव यूपादित्याहवनीयनिर्मन्थ्यानुपतिष्ठन्ते- अग्नयः सगराः सगरा अग्नयः सगराः स्थ सगरेण नाम्ना । पातमाग्नयः पिपृतामाग्नयो नमो वोऽस्तु मा मा हिंसिष्ट इति । निर्मन्थ्यो नामाग्निमन्थनदेशः प्रक्षेपणदेशो वा । अथ सव्यावृतस्तत्रस्था एव शामित्रोवध्यगोहचावालोकरास्तावान् । एवमेव दक्षिणावृत आग्नीध्रीयमच्छावाकस्यवादं दक्षिणमार्जालीयं खरमित्येतानुपतिष्ठन्ते अग्नयः सगराः इति मन्त्रेण । ऊवध्यगोहं पश्वान्त्रप्रच्चादनस्थानम् । आस्तावो बहिष्पवमानदेशः । अच्छावाकवादः अच्छा वो अग्निम् इत्यच्छावाकेन पठ्यमानस्थानम् । ख्ररो ग्रहसादनप्रदेशः । अथोत्तरेणाग्नीध्रीयं परिव्रज्य सदसः पूर्वद्वारि आग्नीध्रवर्जमितरे प्रत्यङ्मुखाः सदोऽभिमृशन्ति- उर्वन्तरिक्षं वीहि इति । दक्षिणेन पाणिना द्वार्ये स्थूणे पर्यायेणाभिमृशेयुः सकृन्मन्त्रेण- देवी द्वारौ मा मा सन्ताप्तं लोकं मे लोककृतौ कृणुतम् इति । तत्रस्था एव अग्नयः सगराः इति मन्त्रेणापरान् शालामुखीयादीनुपतिष्ठेरन् । उपस्थितानादित्यादीननुपस्थितान् होत्रीयादींश्च सर्वान् पश्यन्तोऽपि इतस्तत ईक्षमाणाः अग्नयः सगराः इति मन्त्रेण सदसः पूर्वद्वारप्रदेशस्थाः सकृदेवोपतिष्ठेरन् । ततः सर्वे

[[१००]]

उ॒रुं नो॑ लो॒कमनु॑ नेषि वि॒द्वान् त्स्व॑र्व॒ज्ज्योति॒रभ॑यं स्व॒स्ति ।

ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू उप॑ स्थेयाम शर॒णा बृ॒हन्ता॑ ॥ [६ । ४७ । ८] इति जपन्तः पूर्वया द्वारा सदः प्रसर्पन्ति । ततो नेष्टृपोतृब्राह्मणाच्छंसिहोतृमैत्रावरुणा इत्येवं क्रमेणोत्तरेण सर्वान् धिष्ण्यान् गत्वा सन्नान् सन्नानपरेण गत्वा स्वस्व धिष्ण्यानां पश्चान्निरसनोपवेशने कृत्वोपविशेयुः । आग्नीध्रस्तु आग्नीध्रशालामभिमृशति- उर्वन्तरिक्षं वीहि इति । देवी द्वारौ इति द्वार्ये स्थूणे अभिमृश्य उरुं नो लोकम् इति जपन्नुत्तरेण स्वधिष्ण्यं गत्वा तस्य पश्चाद्भागे निरसनोपवेशने कृत्वोपविशेत् । उपविश्य सर्वे होत्रकाः- यो अद्य सौम्यो वधोघा यूनामुदीरति । विशूकुहमिव धन्वना व्यस्याः परिपन्थनं सदसस्पतये नमः इति जपन्ति । तेषामासवनसमाप्तेर्विसर्पणादिकं प्राप्ते स्वधिष्ण्यमुत्तरेण संचरितव्यः । एवं ब्रह्मा आदित्यप्रभृतीन् धिष्ण्यानुपस्थायपश्चात् सदः प्राङ्मुखः सदोऽभिमृश्य अपरे द्वार्ये अभिमृशति । तत्रस्थ एव पत्नीशालादीन् उपस्थितांश्चानुपस्थितांश्च उपस्थायापरया द्वारा सदः प्रविश्य दक्षिणपुरस्तान् मैत्रावरुणस्य निरसनोपवेशने कृत्वोपविश्य यो अद्य सौम्यः इति जपति ।

अथैन्द्रैः पुरोडाशैरनुसवनं चरन्ति ।

प्रशास्ता- धानावन्तं करन्भिणमपूपवन्तमुक्थिनम् । इन्द्र प्रातर्जुषस्व नो३म् ॥ [३ । ५२ । १]

होता यक्षदिन्द्रं हरिवाँ इन्द्रो धाना अत्तु पूषण्वान् करम्भं सरस्वतीवान् भारतीवान् परिवाप इन्द्रस्यापूपः । मित्रावरुणयोः पयस्या प्रातः प्रातः सावस्य पुरोळाशाँ इन्द्रः प्रस्थितां जुषाणो वेतु होतर्यज ॥

होता- ये३ यजामहे हरिवाँ इन्द्रो धाना अत्तु पूषण्वान् करम्भं सरस्वतीवान् भारतीवान् परिवाप इन्द्रस्यापूपः । मित्रावरुणयोः पयस्या प्रातः प्रातः सावस्य पुरोळाशाँ इन्द्रः प्रस्थितां जुषाणो वेतू३ वौ३षट् ॥

स्विष्टकृदि प्रशास्ता- अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः । प्रातः सावे धियावसो३म् ॥ [३ । २७ । १]

होता यक्षदग्निं पुरोळाशानां जुषतां हविर्होतर्यज ॥

होता- ये३ यजामहे हविरग्ने वीही३ वौ३षट् ॥

द्विदेवत्यैश्चरन्ति ।

अथैन्द्रवायवस्य

प्रशास्ता- वायवा याहि दर्शतेमे सोमा अरङ्कृतास्तेषां पाहि श्रुधी हवो३म् [१ । २ । १]

इन्द्रवायू इमे सुता उप प्रयोभिरागतमिन्दवो वामुशन्ति हो३म् ॥ [१ । २ । ४] इत्यनवानं पृथक् प्रणवे ।

होता यक्षद्वायुमग्रेगामग्रेयावाणमग्रे सोमस्य पातारं करदेवं वायुरावसा गमज्जुषतां वेतु पिबतु सोमं होतर्यज होता यक्षदिन्द्रवायू अर्हन्तार्हाणां गव्याभिर्गोमन्ता भ्रियन्तां वीरया शुक्रया एनयोर्नियुतो गोअग्रावीरोपशाश्वपुरस्त्यास्तासामिह प्रयाणमस्त्विह विमोचनं करत एवेन्द्रवायू जुषेतां वीतां पिबतां सोमं होतर्यज ॥ इत्यनवानं प्रेष्यति ।

[[१०१]]

होता- ये३ यजामह अग्रं पिबा मधूनां सुतं वायो दिविष्टिषु त्वं हि पूर्वपा असी३ वौ३षट् ॥

शतेना नो अभिष्टिभिर्नियुत्वाँ इन्द्रसारथिर्वायो सुतस्य तृम्पता३ं वौ३षट् ॥ [४ । ४६ । १-२] द्विर्वागोजः ।

इदमाद्यनवानं प्रातः सवन इज्यानुवाक्ये । प्रैषौ चोत्तरयोर्ग्रहयोः । अथ हृत्वैतद्ग्रहपात्रमाहरत्यध्वर्युस्तद्गृह्णीयात्- ऐतु वसुः पुरूवसुः इति । सव्येन पाणिना दक्षिणस्योरोर्वसनमपनीय तस्मिन् सादयित्वाकाशवदङ्गुलिना पाणिनापिदध्यात् । एवमुत्तरत्र प्रतिग्रहभक्षणकाले तु सव्येन पिधानं भवति ।

अथ मैत्रावरुणस्य

प्रशास्ता- अयं वां मित्रावरुणा सुतः सोम ऋतावृधा ममेदिह श्रुतं हवो३म् ॥ [२ । ४१ । ४]

होता यक्षन्मित्रावरुणा सुक्षत्रा रिशादसा निचिन्मिषन्ता निचिरा निचिर्यांसाक्ष्णश्चिद्गातुवित्तरानुल्बणेन चक्षस ऋतमृतमिति दीध्याना करत एवं मित्रावरुणा जुषेतां वीतां पिबतां सोमं होतर्यज ॥

होता- ये३ यजामहे गृणाना जमदग्निना योनावृतस्य सीदतं पातम् सोममृतावृधा३ वौ३षट् ॥ [३ । ६२ । १८]

ऐन्द्रवायवं सव्येनापिधाय दक्षिणेन पाणिना मैत्रावरुणम्- ऐतु वसुर्विदद्वसुः इति प्रतिगृह्य दक्षिणेनैन्द्रवायवं हृत्वाभ्यात्मं सादयित्वोभावपि दक्षिणेन पाणिनापिदध्यात् ।

अथाश्विनस्य

प्रशास्ता- प्रातर्युजा विबोधयाश्विनावेह गच्छतामस्य सोमस्य पीतयो३म् ॥

होता यक्षदश्विना नासत्या दीद्यग्नी रुद्रवर्तनी न्यन्तरेण चक्रेण वामीरिष ऊर्जावहतं सुवीराः सनुतरेणाररुषो बाधेतां मधुकशयेमं यज्ञं युवाना मिमिक्षतां करत एवाश्विना जुषेतां वीतां पिबतां सोमं होतर्यज ॥

होता- ये३ यजामहे वावृधाना शुभस्पती दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधू३ वौ३षट् ॥ [८ । ५ । ११]

इतरौ ग्रहौ सव्येनापिधाय दक्षिणेनाश्विनम्- ऐतु वसुः संयद्वसुः इति प्रतिगृह्य दक्षिणेनेतरावग्रतो नीत्वा उत्तरेण शिरः पर्याहृत्याभ्यात्मतरं सादयित्वापिदधाति । उन्नीयमानेभ्यः प्रेषितो मैत्रावरुणोऽनभिहिंकृत्य

आ त्वा वहन्तु हरयो वृषणं सोमपीतये । इन्द्र त्वा सूरचक्षसो३म् इति त्रिः

इमा धाना घृतस्नुवो हरी इहोप वक्षतः । इन्द्रं सुखतमे रथो३म्

इन्द्रं प्रातर्हवामह इन्द्रं प्रयत्यध्वरे । इन्द्रं सोमस्य पीतयो३म्

उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः । सुते हि त्वा हवामहो३ं

सेमं नः स्तोममा गह्युपेदं सवनं सुतम् । गौरो न तृषितः पिबो३म्

इमे सोमास इन्दवः सुतासो अधि बर्हिषि । ताँ इन्द्र सहसे पिबो३म्

अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शन्तमः । अथा सोमं सुतं पिबो३ं

विश्वमित्सवनं सुतमिन्द्रो मदाय गच्छति । वृत्रहा सोमपीतयो३ं

सेमं नः काममा पृण गोभिरश्वैः शतक्रतो । स्तवाम त्वा स्वाध्यो३म् [१ । १६ । १-९] इति त्रिः परिदध्यात् ।

[[१०२]]

होता यक्षदिन्द्रं प्रातः प्रातः सावस्यार्वावतो गमदा परावत ओरोरन्तरिक्षादास्वात् सधस्थादिमे अस्मै शुक्रा मधुश्चुतः प्रस्थिता इन्द्राय सोमास्तां जुषतां वेतु पिबतु सोमं होतर्यज ॥

होता- ये३ यजामह इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरो जुषाण इन्द्र तत् पिबा३ वौ३षट् ॥ [८ । ६५ । ८]

सोमस्याग्ने वीही३ वौ३षट् ॥ इत्यनुवषट्कारः । द्विर्वागोजः ।

प्रशास्तर्यज इति प्रेषितः प्रशस्ता-

ये३ यजामहे मित्रं वयं हवामहे वरुणं सोमपीतये जज्ञाना पूतदक्षसा ३ वौ३षट् ॥ [१ । २३ । ४]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

ब्रह्मन् यज इति प्रेषितो ब्राह्मणाच्छंसी-

ये३ यजामह इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे स पाहि मध्वो अन्धसा३ वौ३षट् ॥ [३ । ४० । १]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

पोतर्यज इति प्रेषितः पोता-

ये३ यजामहे मरुतो यस्य हि क्षये पाथा दिवो विमहसः स सुगोपातनो जना३ वौ३षट् ॥ [१ । ८६ । १]

नेष्टर्यज इति प्रेषितो नेष्टा-

ये३ यजामह अग्ने पत्नीरिहा वह देवानामुशतीरुप त्वष्टारं सोमपीतया३इ वौ३षट् ॥ [१ । २२ । ९]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

अग्नीद्यज इति प्रेषितोऽग्नीत्-

ये३ यजामह उक्षान्नाय वशान्नय सोमपृष्ठाय वेधसे स्तोमैर्विधेमाग्नया३इ वौ३षट् ॥ [८ । ४३ । ११]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः ।

अथ होता आगतमध्वर्युम् अयाडग्नीत् इति पृच्छति । अयाट् इत्यध्वर्युः प्रत्याह । स भद्रमकर्यो नः सोमस्य पाययिष्यति इति होता जपति ।

इतरे पात्रे सव्येनापिधाय दक्षिणेन हस्तेन ऐन्द्रवायवमुत्तरेऽर्धे गृहीत्वाध्वर्यवे प्रणामयेत् (अनुत्सृजन् प्रयच्छेत्)- एष वसुः पुरूवसुरिहवसुः पुरूवसुर्मयिवसुः पुरूवसुर्वाक्पा वाचं मे पाह्युपहूता वाक् सह प्राणेनोप मां वाक् सह प्राणेन ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजाः इति । ततः अध्वर्य उपह्वयस्व इत्युक्त्वा नासिकाभ्यामवघ्राय सोमं वाग्देवी सोमस्य तृप्यतु इति भक्षयेत् । सर्वत्रापि सोमभक्षणेऽयमेव मन्त्रः । यदि तु तत्र प्रतिप्रस्थाता भक्षयति तमप्युपहूय भक्षयेत् । ततोऽध्वर्युणा होतरुपह्वयस्व इत्युक्तः उपहूतः इति प्रत्युपहवं ब्रूयात् सर्वत्र । ततोऽध्वर्युणा प्रतिभक्षितं होतृचमसे किञ्चिदवनीयानाचम्य अध्वर्युप्रतिप्रस्थात्रोरुपहवमिष्ट्वा नासिकाभ्यामवघ्राय पुनर्भक्षयेत् । ताभ्यां च प्रतिभक्षितशेषं होतृचमस आनीयोत्सृजेत् पात्रम् । अथाश्विनं सव्येनापिधाय मैत्रावरुणमुत्तरेऽर्धे गृहीत्वाध्वर्यवे प्रणामयेत्- एष वसुर्विदद्वसुरिह वसुर्विदद्वसुर्मयि वसुर्विदद्वसुश्चक्षुष्पाश्चक्षुर्मे पाह्युपहूतं चक्षुः सह मनसोप मां

[[१०३]]

चक्षुः सह मनसा ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजाः इति । पूर्ववदुपहवमिष्ट्वा अक्षिभ्यां त्विहावेक्षणं दक्षिणेनाग्रे पश्चात् सव्येन । भक्षयित्वा प्रतिभक्षितशेषं होतृचमस आनीयोत्सृजेत् । मैत्रावरुणाश्विनयोर्न पुनर्भक्षः । दक्षिणेनाश्विनमपिधाय सव्येन पाणिना होतृचमसमाददीत- ऐतु वसूनां पतिर्विश्वेषां देवानां समित् इति । ततः सव्यस्यारत्निना सव्यस्योरोर्वसनमपोच्छाद्य तस्मिन्नूरौ सादयित्वाकाशवतीभिरङ्गुलीभिर्होतृचमसं सव्येनापिदध्यात् । आश्विनमुत्तरेऽर्धे गृहीत्वा यथाहृतं परिहृत्य पुनः सादयित्वाध्वर्यवे प्रणामयेत्- एष वसुः संयद्वसुरिहवसुः संयद्वसुर्मयिवसुः संयद्वसुः श्रोत्रपाः श्रोत्रं मे पाह्युपहूतं श्रोत्रं सहात्मनोप मां श्रोत्रं सहात्मना ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजाः इति । पूर्ववदुपहवमिष्ट्वा कर्णाभ्यां त्विहोपोद्यच्छेद् दक्षिणायाग्रे पश्चासव्याय । दक्षिणेन पाणिना होतृचमसं भूमौ निधाय स्पृष्टोदकमिडामुपह्वयते । इडायाम् – उपहूतोऽयं सुन्वन् यजमानोऽस्य यज्ञस्यागुर उदृचमशीयेति तस्मिन्नुपहूतः इति विशेषः । इदोपह्वानकाल उपोद्यच्छन्ति चमसान् चमसिनश्चमसाध्वर्यवो वा । होतावान्तरेडां प्राश्येडाभक्षणमकृत्वैवाचम्य अध्वर्य उपह्वयस्व इत्युक्त्वा होतृचमसं भक्षयेत् वाग्देवी इति मन्त्रेण । सानुवषट्कारेषु द्विर्भक्षणं मन्त्रेण प्रथमं तूष्णीमुत्तरम् । ततः प्रशास्तृब्राह्मणाच्छंसीपोतृनेष्ट्राग्नीध्राणां चमसान् सकृद् भक्षयति । उद्गातृब्रह्मयजमानसदस्यानां चमसान् तं तमेवोपहूय द्विर्द्विर्भक्षयति । अस्मिन् पक्षे तावपि तं तं चमसिनमध्वर्युं चोपहूय भक्षयतः । एवं प्रशास्त्रादय आग्नीध्रान्ताः स्वं स्वं चमसं होतारमध्वर्युं चोपहूय द्विर्द्विर्भक्षयन्ति । तान् चमसानध्वर्युः प्रतिभक्षयति । एवं वषट्कारनिमित्ते भक्षे समाप्ते सर्वे चमसिनः स्वं स्वं चमसं समाख्यार्थं सकृत् सकृद्भक्षयन्ति होतारमध्वर्युं चोपहूय । ब्राह्मादयस्तु होतारमध्वर्युं चमसिनो वोपहूय । सर्वैः उपहूतः इति प्रत्युपहवः कार्यः । अथ सर्वे भक्षयित्वा

अपा॑म॒ सोम॑म॒मृता॑ अभू॒माग॑न्म॒ ज्योति॒रवि॑दाम दे॒वान् ।

किं नू॒नम॒स्मान् कृ॑णव॒दरा॑तिः॒ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥

शं नो॑ भव हृ॒द आ पी॒त इ॑न्दो पि॒तेव॑ सोम सू॒नवे॑ सु॒शेवः॑ ।

सखे॑व॒ सख्य॑ उरुशंस॒ धीरः॒ प्र ण॒ आयु॑र्जी॒वसे॑ सोम तारीः ॥ [८ । ४८ । ३-४] इत्येताभ्यामृग्भ्यां मुखहृदये यथासंख्येनाभिमृशेरन् । अद्भिराप्यायनम् । ततः स्वं स्वं चमसमद्भिराप्याययेरन्-

आप्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् । भवा॒ वाज॑स्य सङ्ग॒थे ॥ [१ । ९१ । १६]

सं ते॒ पयां॑सि॒ समु॑ यन्तु॒ वाजाः॒ सं वृष्ण्या॑न्यभिमाति॒षाहः॑ ।

आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवां॑स्युत्त॒मानि॑ धिष्व ॥ [१ । ९१ । १८] इति द्वाभ्याम् । आप्यायितांश्चमसान् दक्षिणस्य हविर्धानस्याधस्तात् सादयन्ति । ते नाराशंसा भवन्ति ।

एतस्मिन् कालेऽच्छावाकः स्थानाचमने कृत्वा तीर्थेन प्रपद्योत्तरेणाग्नीध्रीयंपरिव्रज्य पूर्वेण सद आत्मनो धिष्ण्यग्रदेशे निरसनोपवेशने कृत्वोपविश्य पुरोडाशदृगलमध्वर्युणा प्रत्तमिडामिवोद्यम्य अच्छावाक वदस्व इत्युक्तोऽनभिहिंकृत्य-

[[१०४]]

अच्छा वो अग्निमवसे देवं गासि स नो वसुः । रासत् पुत्र ऋषूणामृतावा पर्षति द्विषो३म् इति त्रिः

स हि सत्यो यं पूर्वे चिद्देवासश्चिद्यमीधिरे । होतारं मन्द्रजिह्वमित् सुदीतिभिर्विभावसो३ं

स नो धीती वरिष्ठया च श्रेष्ठया च सुमत्या । अग्ने रायो दिदीहि नः सुवृक्तिभिर्वरेण्यो३म् [५ । २५ । १-३] इति त्रिः परिधायान्त्येन प्रणवेन – वरेण्यो३ं यजमानहोतरध्वर्योऽग्नीद्ब्रह्मन्पोतर्नेष्टरुतोपवक्तरिषेषयध्वमूर्जोर्जयध्वं नि वोजामयोजिहतान् यजाम योनिः सपत्नायामनिबाधितासो जयताभीत्वरीं जयताभीत्वर्याश्रवद्व इन्द्रः शृणवद्वो अग्निः प्रस्थायेन्द्राग्निभ्यां सोमं वोचतोपो अस्मान् ब्राह्मणान् ब्राह्मणा ह्वयध्वम् इति निगदमनवानमुपसन्तनुयात् । समाप्तेऽस्मिन् निगदेऽध्वर्युर्होतर्युपहवं काङ्क्षते । होता-

प्रत्येता सुन्वन् यजमानः सूक्ता वामाग्रभीत् ।

उप प्रतिष्ठोपवक्तरुत नो गाव उपहूताः इति निगदमुक्त्वा उपहूतः इत्युपह्वयते ।

उन्नीयमानाय प्रेषितोऽच्छावाकोऽनभिहिंकृत्य-

प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । अरंगमाय जग्मयेऽपश्चाद्दघ्वने नरो३म् इति त्रिः

एमेनं प्रत्येतन सोमेभिः सोमपातमम् । अमत्रेभिर्ऋजीषिणमिन्द्रं सुतेभिरिन्दुभो३ं

यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ । वेदा विश्वस्य मेधिरो धृषत् तं तमिदेषतो३म्

अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम् । कुवित् समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्पृरो३म्[६ । ४२ । १- ४] इति त्रिः परिदध्यात् । अच्छावाक यज इति प्रेषितोऽच्छावाकः-

ये३ यजामहे प्रातर्यावभिरागतं देवेभिर्जेन्यावसू इन्द्राग्नी सोमपीतया३इ वौ३षट् ॥ [८ । ३८ । ७]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । एतावन्तं कालं पुरोडाशदृगलस्योद्यमनं भवति । निधाय पुरोडाशदृगलं स्पृषोदकमध्वर्युमुपहूय उक्तमन्त्रेण चमसं भक्षयति तूष्णीं द्वितीयम् । अध्वर्युणा प्रतिभक्षिते पुनरध्वर्युमुपहूय समाख्यानिमित्तं भक्षयति । अपाम इत्यादि मुखहृदयाभिमर्शनं चमसाप्यायनं च । नास्पृष्टोदकाः सोमेनेतराणि हवींष्यालभेरन् । स्पृष्टोदकं पुरोदाशदृगलमादाय उत्थाय तत्रस्थ एव अध्वनाम् इत्यादि पूर्वोक्तक्रमेणादित्यप्रभृतीन् धिष्ण्यानुपस्थायापरया द्वार सदः प्रविशन् सदोद्वार्ये अभिमृश्य शालामुखीयाद्युपस्थितांश्चानुपस्थितांश्चोपस्थाय उरुं नः इति प्रविश्य पश्चात् स्वस्य धिष्ण्यस्य निरसनोपवेशने कृत्वोपविश्य यो अद्य इति जपति । उपविष्टेऽच्छावाके ब्रह्माग्नीध्रीयं प्राप्नोति । इतरे होत्रदयोऽप्यनुपविष्ट एवाच्छावाके विसंस्थितसंचरेणाग्नीध्रीयं प्राप्ता भवेयुः । अच्छावाकः सादसि पुरोडाशं प्राश्याचम्य विसंस्थितसंचरेणाग्नीध्रीयं प्राप्य सर्वे हविरुच्छिष्टं प्राश्नीयुराग्नीध्रीये बहिर्वेद्याम् । प्राश्य विसंस्थितसंचरेण प्रतिप्रसर्पन्ति ।

ऋतुयाजाः

तेषां यागक्रमो वक्ष्यते- येन येन प्रैषेण यथाप्रैषं यो यः प्रेषितस्तेन तेनैव प्रेषैण स स एव यजति । नानुवषट्कारः ।

प्रशास्ता- होता यक्षदिन्द्रं होत्रात् सजूर्दिव आपृथिव्या ऋतुना सोमं पिबतु होतर्यज ॥

[[१०५]]

होता- ये३ यजामह इन्द्रं होत्रात् सजूर्दिव आपृथिव्या ऋतुना सोमं पिबतू३ वौ३षट् ॥

प्रशास्ता- होता यक्षन्मरुतः पोत्रात् सुष्टुभः स्वर्का ऋतुना सोमं पिबन्तु पोतर्यज ॥

पोता- ये३ यजामहे मरुतः पोत्रात् सुष्टुभः स्वर्का ऋतुना सोमं पिबन्तू३ वौ३षट् ॥

प्रशास्ता- होता यक्षद ग्रावो नेष्ट्रात् त्वष्टा सुजनिमा सजूर्देवानां पत्नीभिर्ऋतुना सोमं पिबतु नेष्टर्यज ॥

नेष्टा- ये३ यजामहे ग्रावो नेष्ट्रात् त्वष्टा सुजनिमा सजूर्देवानां पत्नीभिर्ऋतुना सोमं पिबतू३ वौ३षट् ॥

प्रशास्ता- होता यक्षदग्निमाग्नीध्रादृतुना सोमं पिबत्वग्नीद्यज ॥

अग्नीत्- ये३ यजामहेऽग्निमाग्नीध्रादृतुना सोमं पिबतू३ वौ३षट् ॥

प्रशास्ता- होता यक्षदिन्द्रो ब्रह्मा ब्राह्मणादृतुना सोमं पिबतु ब्रह्मन् यज ॥

ब्राह्मणाच्छंसी- ये३ यजामह इन्द्रो ब्रह्मा ब्राह्मणादृतुना सोमं पिबतू३ वौ३षट् ॥

प्रशास्ता- होता यक्षन्मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादृतुना सोमं पिबतां प्रशास्तर्यज ॥ दण्डं निधायोपविश्य-

प्रशास्ता- ये३ यजामहे मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादृतुना सोमं पिबता३ं वौ३षट् ॥

प्रशास्ता- होता यक्षद्देवं द्रविणोदां होत्रादृतुभिः सोमं पिबतु होतर्यज ॥

होता- ये३ यजामहे देवं द्रविणोदां होत्रादृतुभिः सोमं पिबतू३ वौ३षट् ॥

प्रशास्ता- होता यक्षद्देवं द्रविणोदां पोत्रादृतुभिः सोमं पिबतु पोतर्यज ॥

पोता- ये३ यजामहे देवं द्रविणोदां पोत्रादृतुभिः सोमं पिबतू३ वौ३षट् ॥

प्रशास्ता- होता यक्षद्देवं द्रविणोदां नेष्ट्रादृतुभिः सोमं पिबतु नेष्टर्यज ॥

नेष्टा - ये३ यजामहे देवं द्रविणोदां नेष्ट्रादृतुभिः सोमं पिबतू३ वौ३षट् ॥

प्रशास्ता- होता यक्षद्देवं द्रविणोदामपाद्धोत्रादपात् पोत्रादपान्नेष्ट्रात्तुरीयं पात्रममृक्तममर्त्यमिन्द्रपानं देवो द्रविणोदा द्राविणोदसः स्वयमायूयाः स्वयमभिगूर्याः स्वयमभिगूर्तया होत्रय ऋतुभिः सोमस्य पिबत्वच्छावाक यज ॥

अच्छावाकः- ये३ यजामहे देवं द्रविणोदामपाद्धोत्रादपात् पोत्रादपान्नेष्ट्रात्तुरीयं पात्रममृक्तममर्त्यमिन्द्रपानं देवो द्रविणोदा द्राविणोदसः स्वयमायूयाः स्वयमभिगूर्याः स्वयमभिगूर्तया होत्रय ऋतुभिः सोमस्य पिबतू३ वौ३षट् ॥

प्रशास्ता- होता यक्षदश्विनाध्वर्यू आध्वर्यवादृतुना सोमं पिबतामध्वर्यू यजतम् ॥

अध्वर्युगृहपतिभ्यां होतरेतद्यज इत्युक्तो होता यजति ।

होता- ये३ यजामहेऽश्विनाध्वर्यू आध्वर्यवादृतुना सोमं पिबता३ं वौ३षट् ॥

प्रशास्ता-होता यक्षदग्निं गृहपतिं गार्हपत्यात् सुगृहपतिस्त्वयाग्नेयं सुन्वन् यजमानः स्यात् सुगृहपतिस्त्वमनेन सुन्वता यजमानेनाग्निर्गृहपतिर्गार्हपत्यादृतुना सोमं पिबतु गृहपते यज ॥

होतरेतद्यज इत्युक्तो होता- ये३ यजामहे ग्निं गृहपतिं गार्हपत्यात् सुगृहपतिस्त्वयाग्नेयं सुन्वन् यजमानः स्यात् सुगृहपतिस्त्वमनेन सुन्वता यजमानेनाग्निर्गृहपतिर्गार्हपत्यादृतुना सोमं पिबतू३ वौ३षट् ॥

[[१०६]]

अथैतदृतुपात्रमानन्तर्येण वषट्कारक्रमेणैव वषट्कर्तारो भक्षयन्ति । येषां याज्यासु प्रतिप्रस्थात्रा होमः कृतस्ते तमेवोपहूय भक्षयन्ति । अ एव तेषां प्रतिभक्षयिता ।

आज्यशस्त्रम्

+++(सवन-त्रये ऽपि भवति। )+++

अथाज्यशस्त्रम् ।

अध्वर्युर्होतृमुखत आसीनः पराङावर्तते । तस्मिन् पराङ् व्यावृत्ते होता-

सुमत्पद्वग्दे पिता मातरिश्वाच्छिद्रापदाधादच्छिद्रोक्था कवयः शंसन् । सोमो विश्वविन्नीथा निनेषद् बृहस्पतिरुक्थामदानि शंसिषद् वागायुर्विश्वायुर्विश्वमायुः क इदं शंसिष्यति स इदं शंसिष्यति इति जपित्वानभिहिंकृत्य शोंसावोमित्युच्चैराहूय तूष्णीं शंसं शंसेदुपांशु सप्रणवमसन्तन्वन् । शो३ंसावो३ं भूरग्निर्ज्योतिर्ज्योतिरग्नो३म् । इन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्रो३म् । सूर्यो ज्योतिर्ज्योतिः स्वः सूर्यो३म् । इति त्रिपदस्तूष्णीं शंसः । यद्यु वै षट्पदः पूर्वैर्ज्योतिःशब्दैरग्रेऽवस्येत् ।

अग्निर्देवेद्धः । अग्निर्मन्विद्धः । अग्निः सुषमित् । होता देववृतः । होता मनुवृतः । प्रणीर्यज्ञानाम् । रथीरध्वराणाम् । अतूर्तो होता । तूर्णिर्हव्यवाट् । आ देवो देवान् वक्षत् । यक्षदग्निर्देवो देवान् । सो अध्वरा करति जातवेदो३ं

प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै । गमद्देवेभिरासनो यजिष्ठो बर्हिरा सदो३म् इति त्रिः

ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः । हविष्मन्तस्तमीळते तं सनिष्यन्तोऽवसो३ं

स यन्ता विप्र एषां स यज्ञानामथा हि षः । अग्निं तं वो दुवस्यत दाता यो वनिता मघो३ं

स नः शर्माणि वीतयेऽग्निर्यच्छतु शन्तमा । यतो नः दिवि क्षितिभ्यो अप्स्वो३ं

दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः । ऋक्वाणो अग्निमिन्धते होतारं विश्पतिं विशो३म्

उत नो ब्रह्मन्नविष उक्थेषु देवहूतमः । शं नः शोचा मरुद्वृधोऽग्ने सहस्रसातमो३ं

शो३ंसावो३ं नू नो रास्व सहस्रवत् तोकवत् पुष्टिमद्वसु । द्युमदग्ने सुवीर्यं वर्षिष्ठमनुपक्षितो३म् [३ । १३ । १-७] इति त्रिः परिधाय उक्थं वाचि घोषाय त्वा इति शस्त्वा जपेत् । उक्थशा यज इति प्रेषितः-

ये३ यजामह अग्न इन्द्रश्च दाशुषो दुरोणे सुतावतो यज्ञमिहोपयातममर्धन्ता सोमपेयाय देवा३ वौ३षट् ॥ [३ । २५ । ४]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । शस्त्राणामारभ्यासमाप्तेर्वाग्यमनम् । आपद्य अतो देवा अवन्तु नः इति जपेदपि वान्यां वैष्णवीमृचम् । उक्थपात्रमग्रे भक्षयेद्द्विः । ततः सर्वे चमसिनश्चमसान् भक्षयन्ति अध्वर्य उपह्वयस्व, चमसिन उपह्वयध्वम् इति वोक्त्वा । उक्तमाप्यायनम् ।

शस्त्रस्वरः प्रतिगर ओथामो दैव इति । शो३ंसामो दैव इत्याहावे । प्लुतादिः प्रणवेऽप्लुतादिरवसाने । प्रणवे प्रणव आहावोत्तरे । अवसाने च । प्रणवान्तो वा । यत्र यत्र चान्तःशस्त्रं रणवेनावस्यति प्रणवान्त एव तत्र प्रतिगरः । शस्त्रान्ते तु प्रणवः ।

ब्रह्मन् त्स्तोष्यामः इत्यादि स्तुध्वम् इत्यन्तं पूर्ववत् ।

प्रउगशस्त्रम्

+++(सवन-त्रये ऽपि भवति। )+++

अथ प्रउगशस्त्रम्

[[१०७]]

प्रस्तोत्रा एष इति प्रोक्त उद्गातुर्हिङ्कारे प्रातः सवने शस्त्रायाह्वयीरन् ।

हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३ं

वायुरग्रेगा यज्ञप्रीः साकं गन् मनसा यज्ञम् । शिवो नियुद्भिः शिवाभो३ं

वायवा याहि दर्शतेमे सोमा अरङ्कृताः । तेषां पाहि श्रुधी हवो३ं इति त्रिः

वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः । सुतसोमा अहर्विदो३ं

वायो तव प्रपृञ्चती धेना जिगाति दाशुषे । उरूची सोमपीतयो३ं

शो३ंसावो३ं हिरण्यवर्तनी नरा देवा पती अभिष्टये । वायुश्चेन्द्रश्च सुमखो३म्

इन्द्रवायू इमे सुता उप प्रयोभिरागतम् । इन्द्वो वामुशन्ति हो३ं

वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू । तावायातमुप द्रवो३ं

वायविन्द्रश्च सुन्वत आ यातमुपनिष्कृतम् । मक्ष्वित्था धिया नरो३ं

शो३ंसावो३ं काव्या राजाना क्रत्वा दक्षस्य दुरोणे । रिशादसा सधस्थ ओ३ं

मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् । धियं घृताचीं साधन्तो३म्

ऋतेन मित्रावरुणावृतावृधावृतस्पृशा । क्रतुं बृहन्तमाशाथो३ं

कवी नो मित्रावरुणा तुविजाता उरुक्षया । दक्षं दधाते अपसो३ं

शो३ंसावो३ं दैव्या अध्वर्यू आगतं रथेन सूर्यत्वचा । मध्वा यज्ञं समञ्जाथो३म्

अश्विना यज्वरीरिषा द्रवत्पाणी शुभस्पती । पुरुभुजा चनस्यतो३म्

अश्विना पुरुदंससा नरा शवीरया धिया । धिष्ण्या वनतं गिरो३ं

दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः । आ यातं रुद्रवर्तनो३ं

शो३ंसावो३मिन्द्र उक्थेभिर्मन्दिष्ठो वाजानां च वाजपतिः । हरिवन् सुतानां सखो३म्

इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । अण्वीभिस्तना पूतासो३म्

इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः । उप ब्रह्माणि वाघतो३म्

इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः । सुते दधिष्व नश्चनो३ं

शो३ंसावो३ं विश्वान् देवान् हवामहेऽस्मिन् यज्ञे सुपेशसः ।

त इमं यज्ञमागमन् देवासो देव्या धिया ॥

जुषाणा अध्वरे सदो ये यज्ञस्य तनूकृतः । विश्व आ सोमपीतयो३म्

ओमासश्चर्षणीधृतो विश्वे देवास आ गत । दाश्वांसो दाशुसः सुतो३ं

विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः । उस्रा इव स्वसराणो३ं

विश्वे देवासो अस्रिध एहिमायासो अद्रुहः । मेधं जुषन्त वह्नयो३ं

शो३ंसावो३ं वाचमहं देवीं वाचास्मिन् यज्ञे सुपेशसा । सरस्वतीं हवामहो३ं

[[१०८]]

पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसो३ं

चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वतो३ं

शो३ंसावो३म् महो अर्णः सरस्वती प्रचेतयति केतुना । धियो विश्वा विराजतो३म् इति त्रिः परिदध्यात् ।

ये३ यजामहे विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना पिबा मित्रस्य धामभी३ र्वौ३षट् ॥ [१ । १४ । ४०]

मैत्रावरुणशस्त्रम्

अथ मैत्रावरुणशस्त्रम् ।

प्रस्तोत्रा एष इति प्रोक्त उद्गातुर्हिङ्कारे हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३म्

आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । मध्वा रजांसि सुक्रतो३म् (इति त्रिः)

उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः । द्राघिष्ठाभिः शुचिव्रतो३ं

गृणाना जमादग्निना योनावृतस्य सीदतम् । पातं सोममृतावृधो३ं [३ । ६२ । १६-१८]

शो३ंसावो३ मा नो गन्तं रिशादसा वरुण मित्र बर्हणा । उपेमं चारुमध्वरो३ं

विश्वस्य हि प्रचेतसा वरुण मित्र राजथः । ईशाना पिप्यतं धियो३म्

उप नः सुतमा गतं वरुण मित्र दाशुषः । अस्य सोमस्य पीतायो३ं [५ । ७१ । १-३]

शो३ंसावो३ं प्र वो मित्राय गायत वरुणाय विपा गिरा । महिक्षत्रावृतं बृहो३ं

सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च । देवा देवेषु प्रशस्तो३ं

ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य । महि वां क्षत्रं देवेषो३म्

ऋतमृतेन सपन्तेषिरं दक्षमाशाते । अद्रुहा देवौ वर्धेतो३ं

वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः । बृहन्तं गर्तमाशातो३ं

प्र मित्रयोर्वरुणयोः स्तोमो न एतु शूष्यः । नमस्वान् तुविजातयो३ं

या धारयन्त देवाः सुदक्षा दक्षपितरा । असुर्याय प्रमहसो३ं

ता नः स्तिपा तनूपा वरुण जरितॄणाम् । मित्र साशयतं धियो३ं

यदद्य सूर उदितेऽनागा मित्रो अर्यमा । सुवाति सविता भगो३ं

सुप्रावीरस्तु स क्षयः प्र नु यमन्त्सुदानवः । ये नो अंहोतिपिप्रतो३म्

उत स्वराजो असितिरदब्धस्य व्रतस्य ये । महो राजान ईशतो३ं

प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् । अर्यमणं रिशादसो३ं

राया हिरण्यया मतिरियमवृकाय शवसे । इयं विप्रा मेधसातयो३ं

शो३ंसावो३ं ते स्याम देव वरुण ते मित्र सूरिभिः सह । इषं स्वश्च धीमहो३म् [७ । ६६ । १-९]

इति त्रिः परिदध्यात् ।

ये३ यजामह आ यातं मित्रावरुणा जुषाणावाहुतिं नरा पातं सोममृतावृधा३ वौ३षट् ॥ [७ । ६६ । १९]

ब्राह्मणाच्छंसिशस्त्रम्

अथ ब्राह्मणाच्छंसिशस्त्रम् ।

[[१०९]]

प्रस्तोत्रा एष इति प्रोक्त उद्गातुर्हिङ्कारे हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३म्

आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । एदं बर्हिः सदो ममो३म् (इति त्रिः)

आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना । उप ब्रह्माणि नः शृणो३ं

ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः । सुतावन्तो हवामहो३ं

शो३ंसावो३मा नो याहि सुतावतोऽस्माकं सुष्टुतीरुप । पिबा सु शिप्रिन्नन्धसो३म्

आ ते सिञ्चामि कुक्ष्योरनु गात्रा विधावतु । गृभाय जिह्वया मधो३ं

स्वादुष्टे अस्तु संसुदे मधुमान् तन्वे तव । सोमः शमस्तु ते ह्रुदो३ं

शो३ंसावो३मयमु त्वा विचर्षणे जनीरिवाभि संवृतः । प्र सोम इन्द्र सर्पतो३ं

तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे । इन्द्रो वृत्राणि जिघ्नतो३म्

इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा । वृत्राणि वृत्रहञ्जहो३ं

दीर्घस्ते आस्त्वङ्कुशो येना वसु प्रयच्छसि । यजमानाय सुन्वतो३म्

अयं त इन्द्र सोमो निपूतो अधि बर्हिषि । एहीमस्य द्रवा पिबो३ं

शाचिगो शाचिपूजनायं रणाय ते सुतः । आखण्डल प्रहूयसो३ं

यस्ते शृङ्गवृषो नपात् प्रणपात् कुण्डपाय्यः । न्यस्मिन् दध्र आमनो३म् [८ । १७ । १-१३]

इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे । स पाहि मध्वो अन्धसो३म्

इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत । पिबा वृषस्व तातृपो३म्

इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिः । तिरस्तवान विश्पतो३म्

इन्द्र सोमाः सुता इमे तव प्रयन्ति सत्पते । क्षयं चन्द्रास इन्दवो३ं

दधिष्वा जटरे सुतं सोममिन्द्र वरेण्यम् । तव द्युक्षास इन्दवो३ं

गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे । इन्द्र त्वादातमिद्यशो३म्

अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता । पीत्वी सोमस्य वावृधो३म्

अर्वावतो न आ गहि परावतश्च वृत्रहन् । इमा जुषस्व नो गिरो३ं

यदन्तरा परावतमर्वावतं च हूयसे । इन्द्रेह तत आ गहो३म् [३ । ४० । १-९]

उद्घेदभि श्रुतामघं वृषभं नर्यापसम् । अस्तारमेषि सूर्यो३ं

नव यो नवतिं पुरो बिभेद बाह्वोजसा । अहिं च वृत्रहावधो३ं

शो३ंसावो३ं स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् । उरुधारेव दोहतो३म् [८ । ९३ । १-३]

इति त्रिः परिदध्यात् ।

ये३ यजामह इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत पिबा वृषस्व तातृपी३ं वौ३षट् ॥ [३ । ४० । २]

अच्छावाकशस्त्रम्

अथाच्छावाकशस्त्रम् ।

[[११०]]

प्रस्तोत्रा एष इति प्रोक्त उद्गातुर्हिङ्कारे हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३म्

इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् । अस्य पातं धियेषितो३म् इति त्रिः

इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः । अया पातमिमं सुतो३म्

इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे । ता सोमस्येह तृम्पतो३ं [३ । १२ । १-३]

शो३ंसावो३मिन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः । ऋतस्य पथ्या अनो३म्

इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च । युवोरप्तूर्यं हितो३म्

इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद्वां चेति प्र वीर्यो३ं [३ । १२ । ७-९]

शो३ंसावो३ं तोशा वृत्रहणा हुवे सजित्वानापराजिता । इन्द्राग्नी वाजसातमो३ं

प्र वामर्चन्त्युक्थिनो निथाविदो जरितारः । इन्द्राग्नी इष आ वृणो३म्

इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् । साकमेकेन कर्मणो३म् [३ । १२ । ४-६]

इहेन्द्राग्नी उप ह्वये तयोरित् स्तोममुश्मसि । ता सोमं सोमपातमो३ं

ता यज्ञेषु प्रशंसतेन्द्राग्नी शुम्भता नरः । ता गायत्रेषु गायतो३ं

ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे । सोमपा सोमपीतयो३म्

उग्रा सन्ता हवामह उपेदं सवनं सुतम् । इन्द्राग्नी एह गच्छतो३ं

ता महान्ता सदस्पती इन्द्रग्नी रक्ष उब्जतम् । अप्रजाः स्न्त्वत्रिणो३ं

तेन सत्येन जागृतमधि प्रचेतुने पदे । इन्द्राग्नी शर्म यच्छतो३म् [१ । २१ । १-६]

इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । अभ्राद्वृष्टिरिवाजनो३ं

शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः । ईशाना पिप्यतं धियो३ं

मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये । मनो रीरधतं निदो३म्

इन्द्रे अग्ना नमो बृहत् सुवृक्तिमेरयामहे । धिया धेना अवस्यवो३ं

ता हि शश्वन्त ईळत इत्था विओरास ऊतये । सबाधो वाजसातयो३ं

ता वां गीर्भिर्विपन्यवः प्रयस्वन्तो हवामहे । मेधसाता सनिष्यवो३म्

इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा । मा नो दुःशंस ईशतो३ं

मा कस्य नो अररुषो धूर्तिः प्रणङ्मर्त्यस्य । इन्द्राग्नी शर्म यच्छतो३ं

शो३ंसावो३ं गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे । इन्द्राग्नी तद्वनेमहो३म् [७ । ९४ । १-९]

इति त्रिः परिदध्यात् ।

ये३ यजामह इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् । अस्य पातं धियेषिता३ वौ३षट् ॥ [३ । १२ । १]

[[१११]]