०१ सवन-दिनात् प्राक्

दीक्षणीयेष्टिः

अस्या इष्टेः सप्तदशसामिधेन्यः । वार्त्रघ्नावाज्यभागौ । अग्नाविष्णू प्रधानदेवता । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च ।

नमः प्रवक्त्रे इत्यादि । सामिधेन्यां पृथुपाजा अमर्त्यः इति द्वे धाय्ये आवपेत-

शोचिष्केशस्तमीमहो३ं

पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः । अग्निर्यज्ञस्य हव्यवो३ं [३ । २७ । ५]

तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः । आ चक्रुरग्निमूतयो३ं [३ । २७ । ६]

समिद्धो अग्न आहुत इत्यादि ।

आवाहने- अग्निमग्न आ३वह । सोममा३वह । (उपांशु) अग्नाविष्णू आ३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।

उत्तमे प्रयाजे- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहा (उपांशु) अग्नाविष्णू स्वाहा देवा आज्यपा इत्यादि ।

वार्त्रघ्नावाज्यभागौ- अग्निर्वृत्राणि जङ्घनत्, त्वं सोमासि सत्पतिः ।

[[४४]]

अग्नाविष्ण्वोर्याज्यानुवाक्या-

(उपांशु) अग्निर्मुखं प्रथमो देवतानां सङ्गतानामुत्तमो विष्णुरासीत् ।

यजमानाय परिगृह्य देवान् दीक्षयेदं हविरागच्छतं नः ओ३म् ॥

ये३ यजामहे (उपांशु) अग्नाविष्णू अग्निश्च विष्णो तप उत्तमं महो दीक्षापालाय वनतं हि शक्रा ।

विश्वैर्देवैर्यज्ञियैः संविदानौ दीक्षामस्मै यजमानाय धत्ता३ं वौ३षट् ॥

स्विष्टकृतः याज्यानुवाक्या-

प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वां शश्वन्त उपयन्ति वाजो३म् ॥ [७ । १ । ३]

ये३ यजामहेऽग्निं स्विष्टकृतमयाळग्निरग्नेः प्रियाधामान्ययाट् सोमस्य प्रियाधामान्ययाट् (उपांशु) अग्नाविष्ण्वोः प्रियाधामान्ययाड् देवानामाज्यपानां प्रियाधामानि । …जुषतां हवि-

रिमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ । प्रति न ईं सुरभीणि व्यन्तू३ वौ३षट् ॥ [७ । १ । १८]

वाचस्पतिना इत्यादि । इळायाम् उपहूतोऽयं यजमानोऽस्य यज्ञस्यागुर उदृचमशीयेति तस्मिन्नुपहूतः । अवान्तरेळां प्राश्नीयात् । नेदमादिषु मार्जनमर्वागुदयनीयायाः । त्रयोऽनुयाजाः ।

सूक्तवाके- अग्निरिदं…, सोम इदं…, (उपांशु) अग्नाविष्णू इदं हविरजुषेतामवीवृधेतां महोज्यायोऽक्राताम् । देवा आज्यपा इत्यादि । अस्यामृधेद्धोत्रायां देवङ्गमायामाशास्तेऽयं यजमानोऽस्य यज्ञस्यागुर उदृचमशीयेत्याशास्ते यदनेन हविषाशास्ते इत्यादि । इदमादीळायां सूक्तवाके चागुराशीस्थाने । न चात्र नामादेशः । प्रकृत्यान्त ऊर्ध्वं पश्विळायाः । वेदग्रहणादिकं प्रकृतिवत् । आज्येडान्ता दीक्षणीया सन्तिष्ठते ।

प्रायणीयेष्टिः

अस्या इष्टेः पञ्चदशसामिधेन्यः । नाज्यभागौ । पथ्या स्वस्तिः, अग्निः, सोमः, सविता, अदितिश्च प्रधानदेवताः । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च ।

नमः प्रवक्त्रे इत्यादि प्रकृतिवत् सामिधेन्यः ।

आवाहने- (उपांशु) पथ्यां स्वस्तिम् (उच्चैः) अग्न आ३वह । (उपांशु) अग्निम् आ३वह । (उपांशु) सोमम् आ३वह । (उपांशु) सवितारम् आ३वह । (उपांशु) अदितिम् आ३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।

उत्तमे प्रयाजे- ये३ यजामहे स्वाहा (उपांशु) पथ्यां स्वस्तिं स्वाहा (उपांशु) अग्निं स्वाहा (उपांशु) सोमं स्वाहा (उपांशु) सवितारं स्वाहा (उपांशु) अदितिं स्वाहा देवा आज्यपा इत्यादि ।

प्रधानानां याज्यानुवाक्याः-

(उपांशु) स्वस्ति नः पथ्यासु धन्वसु स्वस्त्यप्सु वृजने स्वर्वति ।

स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन ओ३म् ॥

ये३ यजामहे (उपांशु) पथ्यां स्वस्तिं स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति ।

[[४५]]

सा नो अमा सो अरणो निपातु स्वावेशा भवतु देवगोपा३ वौ३षट् ॥

(उपांशु) अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।

युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ओ३म् ॥

ये३ यजामहे (उपांशु) अग्निमा देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोह्ळुम् ।

अग्निर्विद्वान् त्स यजात् सेदु होता सो अध्वरान् त्स ऋतून् कल्पयाती३ वौ३षट् ॥

(उपांशु) त्वं सोम प्रचिकितो मनीषा त्वं रजिष्ठमनुनेषि पन्थाम् ।

तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः ओ३म् ॥

ये३ यजामहे (उपांशु) सोमं या ते धामानि दिवि या पृथिव्यां या पर्वतेष्योषधीष्वप्सु ।

तेभिर्नो विश्वैः सुमना अहेळन् राजन् त्सोम प्रति हव्या गृभाया वौ३षट् ॥

(उपांशु) आ विश्वदेवं सत्पतिं सूक्तैरद्या वृणीमहे । सत्यसवं सवितारम् ओ३म् ॥

ये३ यजामहे (उपांशु) सवितारं य इमा विश्वा जातान्या श्रावयति श्लोकेन ।

प्र च सुवाति सविता३ वौ३षट् ॥

(उपांशु) सुत्रामाणं पृथिवींद्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् ।

दैवीं नावं स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये ओ३म् ॥

ये३ यजामहे (उपांशु) अदितिं महीमूषु मातरं सुव्रतानामृतस्य पत्नीमवसे हुवेम ।

तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीती३ं वौ३षट् ॥

स्विष्टकृदिसेदग्निरग्नीँरत्यस्त्वन्यान् यत्र वाजी तनयो वीळुपाणिः । सहस्रपाथा अक्षरा समोतो३म् ॥

ये३ यजामहेऽग्निं स्विष्टकृतमयाळग्निः (उपांशु) पथ्याः स्वस्तेः प्रियाधामान्ययाट् (उपांशु) अग्नेः प्रियाधामान्ययाट् (उपांशु) सोमस्य प्रियाधामान्ययाट् (उपांशु) सवितुः प्रियाधामान्ययाट् (उपांशु) अदितेः प्रियाधामान्ययाड् देवानामाज्यपानां प्रियाधामानि । …जुषतां हविः

सेदग्निर्यो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात् । सुजातासः परिचरन्ति वीरा३ वौ३षट् ॥

इळासूक्तवाकौ दीक्षणीयावत् । सूक्तवाके विशेषः- (उपांशु) पथ्या स्वस्तिः इदं…, (उपांशु) अग्निः इदं…, (उपांशु) सोमः इदं…, (उपांशु) सविता इदम्…, (उपांशु) अदितिः इदं…, देवा आज्यपा इत्यादि । शंय्वन्ता प्रायणीया सन्तिष्ठते ।

सोमप्रवहणम्

संस्थितायां राजानं क्रीणन्ति तं प्रवक्ष्यत्सु पश्चादनसस्त्रिपदमात्रेऽन्तरेण वर्त्मनी अवस्थाय सोमाय राज्ञे क्रीताय प्रोह्यमाणाय इत्यादि प्रेषितोऽग्रेऽभिहिङ्कारात्-

[[४६]]

त्वं विप्रस्त्वं कविस्त्वं विश्वानि धारयन् अप जन्यं भयं नुद इत्यस्पन्दयन् पार्ष्णीं प्रपदेन दक्षिणा पांसून् सकृन्मन्त्रेण द्विस्तूष्णीं त्रिरुदुप्यानुब्रूयात्- हिम्, भूर्भुवःस्वरो३म्

भद्रादभि श्रेयः प्रेहि बृहस्पतिः पुर एता ते अस्तु ।

अथेमवस्य वर आ पृथिव्या आरे शत्रून् कृणुहि सर्ववीरो३म् इति त्रिः तिष्ठन्ननुव्रजन्नुत्तरा अन्तरेणैव वर्त्मनी

सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे ताभिर्नोऽविता भवो३

मिमं यज्ञमिदं वचो जुजुषाणा उपागहि सोम त्वं नो वृधे भवो३ं

सोम गीर्भिष्ट्वा वयं वर्धयामो वचो विदः सुमृळीको न आ विशो३ं

सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः

किल्बिषस्पृत्पितुषणिर्ह्येषामरं हितो भवति वाजिनायो३

मागन्देव ऋतुभिर्वर्धतु क्षयं दधातु नः सविता सुप्रजामिषम् इत्यर्धर्च आरमेत् अवस्थितेऽनसि दक्षिणात् पक्षादभिक्रम्य राजानमभिमुखोऽवतिष्ठते प्रपाद्यमाने राजनि अग्रेणानोऽनुसंव्रजेत्

स नः क्षपाभिरहभिश्च जिन्वतु प्रजावन्तं रयिमस्मे समिन्वतो३ं

या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञम्

गयस्फानः प्रतरणः सुवीरो वीरहा प्रचरा सोम दुर्यो३

मिमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण संशिशाधि

ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेमो३म् इति त्रिः निहिते परिदध्याद्राजानमुपस्पृशन् वसनेऽंशुषु वा प्रक्रमस्थाने तिष्ठत्संप्रैषेषु तथैव भूर्भुवःस्वः इति वाग्विसर्गः

आतिथ्येष्टिः

अस्या इष्टेः सप्तदशसामिधेन्यः । अतिथिमन्तावाज्यभागौ । विष्णुः प्रधानदेवता । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च ।

अग्निमन्थनम् ।

अग्नये मथ्यमानायानुब्रूहि इति प्रेषितः पश्चात् सामिधेनीस्थानस्य पदमात्रेऽवस्थायाभि हिंकृत्य ।

हिम्, भूर्भुवःस्वरो३

मभि त्वा देव सवितरिशानं वार्याणाम् । सदावन् भागमीमहो३ं इति त्रिः [१ । २४ । ३]

मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् । पिपृतां नो भरीमभो३ं [१ । २२ । १३]

त्वामग्ने पुष्करादध्यथर्वा निरमन्थत । मूर्ध्नो विश्वस्य वाघतो३ं [६ । १६ । १३]

तमु त्वा दध्यङ् ऋषिः पुत्र ईधे अथर्वणः । वृत्रहणं पुरन्दरो३ं [६ । १६ । १४]

तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । इत्यवसाय, [६ । १६ । १५]

[[४७]]

अजायमाने त्वेतस्मिन्नेवावसाने राक्षोघ्नीरनुब्रूयात् पुनः पुनराजन्मनः ।

अग्ने हंसि न्यत्रिणं दीद्यन्मर्त्येष्वा स्वे क्षये शुचिव्रतो३

मुत्तिष्ठसि स्वाहुतो घृतानि प्रतिमोदसे यत् त्वा स्रुचः समस्थिरो३ं

स आहुतो विरोचतेऽग्निरीळेन्यो गिरा स्रुचा प्रतीकमज्यतो३ं

घृतेनाग्निः समज्यते मधुप्रतीक आहुतः रोचमानो विभावसो३ं

जरमाणः समिध्यसे देवेभ्यो हव्यवाहन तं त्वा हवन्त मर्त्यो३ं

तं मर्ता अमर्त्यं घृतेनाग्निं सपर्यत अदाभ्यं गृहपतो३

मदाभ्येन शोचिषाऽग्ने रक्षस्त्वं दह गोपा ऋतस्य दीदिहो३ं

स त्वमग्ने प्रतीकेन प्रत्योष यातुधान्यः उरुक्षयेषु दीद्यो३ं

तं त्वा गीर्भिरुरुक्षया हव्यवाहं समीधिरे यजिष्ठं मानुषे जनो३म् इत्येता राक्षोघ्न्यः

जातायानुब्रूहि इत्युक्ते-

धनञ्जयं रणे रणो३

मुत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि । धनञ्जयो रणे रणो३ [१ । ७४ । ३]

मायं हस्ते न खादिनं शिशुं जातं न बिभ्रति । इत्यर्धर्च आरमेत् [६ । १६ । ४०]

प्रह्रियमाणाय प्रेषितः कुण्डे निधीयमाने-

विशामग्निं स्वध्वरो३म्

प्र देवं देववीतये भरता वसुवित्तमम् । आ स्वे योनौ निषीदतो३ [६ । १६ । ४१]

मा जातं जातवेदसि प्रियं शिशीताथितिम् । स्योन आ गृहपतो३ [६ । १६ । ४२]

मग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा । हव्यवाड् जुह्वास्यो३ं [१ । १२ । ६]

त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन् त्सता । सखा सख्या समिध्यसो३ं [८ । ४३ । १४]

तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु । स्वेषु क्षयेषु वाजिनो३ं [८ । ८४ । ८]

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवो३म् ॥ इति त्रिः परिदध्यात् [१० । ९० । १६]

प्रक्रमस्थाने भूर्भुवःस्वरोमिति वाचं विसृजते ।

नमः प्रवक्त्रे इत्यादि सामिधेन्यां पृथुपाजा अमर्त्यः इति द्वे धाय्ये आवपेत-

शोचिष्केशस्तमीमहो३ं

पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः । अग्निर्यज्ञस्य हव्यवो३ं [३ । २७ । ५]

तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः । आ चक्रुरग्निमूतयो३ं [३ । २७ । ६]

समिद्धो अग्न आहुत इत्यादि ।

[[४८]]

आवाहने- अग्निमग्न आ३वह । सोममा३वह । (उपांशु) विष्णुम् आ३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।

उत्तमे प्रयाजे- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहा (उपांशु) विष्णुं स्वाहा देवा आज्यपा इत्यादि ।

अतिथिमन्तावज्यभागौ-

समिधाग्निं दुवस्यत घृतैर्बोधयताथिम् आस्मिन् हव्या जुहोतनो३म्

आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् भवा वाजस्य सङ्गथो३म् इति पुरोनुवाक्या

प्रधानस्य याज्यानुवाक्या-

(उपांशु)इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् समूह्ळमस्य पांसुरे ओ३म्

ये३ यजामहे (उपांशु) विष्णुं तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति

उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सा३ वौ३षट्

स्विष्टकृदिहोतारंचित्ररथमध्वरस्य यज्ञस्य यज्ञस्य केतुं रुशन्तम्

प्रत्यर्धिं देवस्य देवस्य मह्ना श्रिया त्वग्निमतिथिं जनानो३म्

ये३ यजामहेऽग्निंस्विष्टकृतमयाळग्निरग्नेः प्रियाधामान्ययाट् सोमस्य प्रियाधामान्ययाट् (उपांशु) विष्णोः प्रियाधामान्ययाड् देवानामाज्यपानां प्रियाधामानि जुषतां हविः

प्रप्रायमग्निर्भरतस्य शृण्वे वियत्सूर्यो न रोचते बृहद्भाः

अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोचा३ वौ३षट्

पूर्ववदिळायामागूः इळामार्जनान्तातिथ्या सन्तिष्ठते

संस्थितायामाज्यं तानूनप्त्रं करिष्यन्तोऽभिमृशन्ति सर्वे होत्रकाः - अनाधृष्टमस्यनाधृष्यं देवानामोजो अभिशस्तिपाः अनभिशस्त्यञ्जसा सत्यमुपगेषां स्विते माधाः इति स्पृष्टोदकं राजानमाप्याययन्ति इदमादि मदन्तीरबर्थ उपसत्सु- अंशुरंशुष्टे देव सोमाप्यायतामिन्द्रायैकधन आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वाप्याययास्मान् त्सखीन् सन्या मेधया स्वस्ति ते देव सोम सुत्यामुदृचमशीय इति स्पृष्टोदकं निह्नवन्ते प्रस्तरे पाणीन्निधायोत्तानान् दक्षिणान् त्सव्यान्नीचः- एष्टा रायः एष्टा वामानि प्रेषे भगाय ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्यै इति

प्रवर्ग्यः

पूर्वं पटलम्

स्पृष्टोदकं प्रवर्ग्येण चरुष्यत्सु आचम्य तीर्थेन प्रविश्य उत्तरेण खरं परिव्रज्य पश्चान्महावीरस्योपविश्य निरसनोपवेशने कृत्वा होतर्घर्ममभिष्टुहि इति प्रेषितोऽभिष्टुयात् ऋगावानमृचमृचमनवानमुक्त्वा प्रणुत्यावस्येत्

[महावीरस्योत्तरत आग्नीध्र उपविश्य मन्दन्तीरुपस्पृश्य पूर्वशान्तिपाठं कुर्वन्ति

नमो॑ वा॒चे या चो॑दि॒ता या चानु॑दिता॒ तस्यै॑ वा॒चे नमो॒ नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नम॒ ऋषि॑भ्यो मन्त्र॒कृद्भ्यो॒ मन्त्र॑पतिभ्यो॒ मा मामृष॑यो मन्त्र॒कृतो॑ मन्त्र॒पत॑यः॒ परा॑दु॒र्माहमृषी॑न्मन्त्र॒कृतो॑ मन्त्र॒पती॒न् परा॑दां वैश्वदे॒वीं

[[४९]]

वाच॑मुद्यासँशि॒वामद॑स्तां॒ जुष्टां॑ दे॒वेभ्यः॒ शर्म॑ मे॒ द्यौः शर्म॑ पृथि॒वी शर्म॒ विश्व॑मि॒दं जग॑त् शर्म॒ चन्द्र॑श्च॒ सूर्य॑श्च॒ शर्म॑ ब्रह्मप्रजाप॒ती भू॒तं व॑दिष्ये॒ भुव॑नं वदिष्ये॒ तेजो॑ वदिष्ये॒ यशो॑ वदिष्ये॒ तपो॑ वदिष्ये॒ ब्रह्म॑ वदिष्ये स॒त्यं व॑दिष्ये॒ तस्मा॑ अ॒हमि॒दमु॑प॒स्तर॑ण॒मुप॑स्तृण उप॒स्तर॑णं मे प्रजायै॑ पशू॒नां भू॑यादुप॒स्तर॑णम॒हं प्रजायै॑ पशू॒नां भू॑यासं॒ प्राणा॑पानौ मृ॒त्योर्मा॑ पातं॒ प्राणा॑पानौ॒ मा मा॑ हासिष्टं॒ मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मुद्यासँ शुश्रू॒षेण्यां॑ मनु॒ष्ये॑भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑ मदन्तु इति]

हिम्, भूर्भुवःस्वरो३ं

ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः

स बुध्निया उपमा अस्य विष्ठाघ् सतश्च योनिमसतश्च विवो३म् ॥ इति त्रिः

इयं पित्रे राष्ट्रेत्यग्रे प्रथमाय जनुषे भूमनेष्ठास्तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्ति प्रथमस्य धासो३म् ॥

महान्मही अस्तभाय द्विजातो द्यां पिता स्द्म पार्थिवं च रजः

सुबुध्नादाष्ट जनुषाभ्युग्रं बृहस्पतिर्देवता तस्य सम्रो३म् ॥

अभि त्यं देवं सवितारमोण्योः कविक्रतुमर्चामि सत्यसवं रत्नधामभिप्रियं मतिं कविमूर्ध्वा यस्या मतिर्भा अदिद्युतत् सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वो३म् तृपा स्वो३म् ॥ इति वा

संसीदस्व महाँ असि शोचस्व देववीतमो वि धूममग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतो३म् ॥ इति संसाद्यमाने

अञ्जन्ति यं प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः

पितुर्न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निमृतयन्नसादो३म् ॥ इत्यज्यमाने

पतङ्गमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः

समुद्रे अन्तः कवयो विचक्षते मरीचीनां पदमिच्छन्ति वेधसो३म् ॥

पतङ्गो वाचं मनसा बिभर्ति तां गन्धर्वो वदद्गर्भे अन्तस्तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो निपन्तो३म् ॥

यो नः सनुत्यो अभिदासग्ने यो अन्तरो मित्रमहो वनुष्यात्

तमजरेभिर्वृषभिस्तव स्वैस्तपा तपिष्ठ तपसा तपस्वो३म् ॥

यस्ते यज्ञेन तपसा य उक्थैरर्केभिः सूनो सहसो ददाशत्

स मर्त्येष्वमृतप्रचेता राया द्युम्नेन श्रवसा विभातो३म् ॥

भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः

पुरुद्रुहो हि क्षितयो जनानां प्रति प्रतीचीर्दहतादरातो३म् ॥

तपोष्वग्ने अन्तराँ अमित्रान् तपाशंसमररुषः परस्य

तपो वसो चिकितानो अचित्तन् वि ते तिष्ठन्तामजरा अयासो३म् ॥

कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ इभेन

तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठो३म् ॥

[[५०]]

तव भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानस्

तपूंष्यग्ने जुह्वा पतङ्गानसंदितो वि सृज विश्वगुल्को३म् ॥

प्रति स्पशो वि सृज तूर्णितमो भवा पायुर्विशो अस्या अदब्धो

यो नो दूरे अघशंसो यो अन्त्यग्ने माकिष्टे व्यथिरा दधर्षो३म् ॥

उदग्ने तिष्ठ प्रत्या तनुष्व न्यमित्राँ ओषतात् तिग्महेते

यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्यतसं न शुष्को३म् ॥

ऊर्ध्वो भव प्रति विध्याध्यस्मदाविष्कृणुष्व दैव्यान्यग्नेऽ

व स्थिरा तनुहि यातुजूनां जामिमजामिं प्र मृणीहि शत्रो३म् ॥ ४ ४ १-५

परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतो वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयो३म् ॥

अधि द्वयोरदधा उक्थ्यं वचो यतः स्रुचा मिथुना या सपर्यतोऽ

संयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वतो३म् ॥

शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि

विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तो३म् ॥

अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तं

स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तो३म् ॥

स्रक्वे द्रप्सस्य धमतः समस्वरन्नृतस्य योना समरन्त नाभयस्

त्रीन् त्स मूर्ध्नो असुरश्चक्र आरभे सत्यस्य नावः सुकृतमपीपरो३म् ॥

सम्यक् सम्यञ्चो महिषा अहेषत सिन्धोरूर्मावधि वेना अवीविपन्

मधोर्धाराभिर्जनयन्तो अर्कमित् प्रियामिन्द्रस्य तन्वमवीवृधो३म् ॥

पवित्रवन्तः परि वाचमासते पितैषां प्रत्नो अभि रक्षतु व्रतम्

महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभो३म् ॥

सहस्र धारेऽव ते समस्वरन् दिवो नाके मधुजिह्वा असश्चतोऽ

स्य स्पशो न नि मिषन्ति भूर्णयः पदे पदे पाशिनः सन्ति सेतवो३म् ॥

पितुर्मातुरध्या ये समस्वन्नृचा शोचन्तः सन्दहन्तो अव्रता

निन्द्रद्विष्टामप धमन्ति मायया त्वचमसिक्नीं भूमनो दिवस्परो३म् ॥

प्रत्नान्मानादध्या ये समस्वरञ्छ्लोकयन्त्रासो रभसस्य मन्तवोऽ

पानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतो३म् ॥

सहस्रधारे वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिणो

रुद्रास एषामिषिरासो अद्रुहः स्पशः स्वञ्चः सुदृशो नृचक्षसो३म् ॥

[[५१]]

ऋतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हृद्यन्तरा दधे

विद्वान् त्स विश्वा भुवनाभि पश्यत्यवाजुष्टान् विध्यति कर्ते अव्रतो३म् ॥

ऋतस्य तन्तुर्विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया

धीराश्चित् तत् समिनक्षन्त आशतात्रा कर्तमव पदात्यप्रभो३म् ॥

अयं वेनश्चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमान

इममपां सङ्गमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्तो३म् ॥

पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतोऽ

तप्ततनूर्न तदामो अश्नुते श्रुतास इद्वहन्तस्तत् समाशतो३म् ॥

तपोष्पवित्रं विततं दिवस्पदे शोचन्तो अस्य तन्तवो व्यस्थिर

न्नवन्त्यस्य पवीतारमाशवो दिवस्पृष्ठमधि तिष्ठन्ति चेतसो३म् ॥

वियत् पवित्रं धिषणा अतन्वत घर्मं शोचन्तं प्रणवेषु बिभ्रतः

समुद्रे अन्तरायवो विचक्षणं त्रिरह्नो नाम सूर्यस्य मन्वतो३म् ॥

गणानां त्वा गणपतिं हवामहे कविंकवीनामुपमश्रवस्तमं

ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनो३म् ॥

देवाश्चित्ते असुर प्रचेतसो बृहस्पते यज्ञियं भागमानशु

रुस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसो३म् ॥

आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि

बृहस्पते भीमममित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदो३म् ॥

सुनीतिभिर्नयसि त्रायसे जनं यस्तुभ्यं दाशान्न तमंहो अश्नवद्

ब्रह्मद्विषस्तपनो मन्युमीरसि ब्रुहस्पते महि तत्ते महित्वनो३म् ॥

न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न द्वयाविनो

विश्वा इदस्माद् ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस्पतो३म् ॥

त्वं नो गोपाः पथिकृद् विचक्षणस्तव व्रताय मतिभिर्जरामहे

बृहस्पते यो नो अभि ह्वरो दधे स्वा तं मर्मर्तु दुच्छुना हरस्वतो३म् ॥

उत वा यो नो मर्चयादनागसोऽरातीवा मर्तः सानुको वृको

बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधो३म् ॥

त्रातारं त्वा तनूनां हवामहेऽवस्पर्तारमधिवक्तारमस्मयुम्

बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नमुन्नशो३म् ॥

त्वया वयं सुवृधा ब्रह्मणस्पते स्पार्हा वसु मनुष्या ददीमहि

[[५२]]

या नो दूरे तळितो या अरातयोऽभि सन्ति जम्भया ता अनप्नसो३म् ॥

त्वया वयमुत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा

मा नो दुःशंसो अभिदिप्सुरीशत प्र सुशंसा मतिभिस्तारिषीमहो३म् ॥

अनानुदो वृषभं जग्मिराहवं निष्टप्ता शत्रुं पृतनासु सासहि-

रसि सत्य ऋणया ब्रह्मणस्पत उग्रस्य चिद् दमिता वीळुहर्षिणो३म् ॥

अदेवेन मनसा यो रिषण्यति शासामुग्रो मन्यमानो जिघांसति

बृहस्पते मा प्रणक् तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतो३म् ॥

भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनंधनं

विश्वा इदर्यो अभिदिप्स्वो मृधो बृहस्पतिर्वि ववर्हा रथाँ इवो३म् ॥

तेजिष्ठया तपनी रक्षसस्पत ये त्वा निदे दधिरे दृष्टवीर्य-

माविस्तत् क्रुष्व यदसत् त उक्थ्यं बृहस्पते वि परिरापो अर्दयो३म् ॥

बृहस्पते अधि यदर्यो अर्हाद् द्युमद् विभाति क्रतुमज्जनेषु

यद् दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रो३म् ॥

मा नः स्तेनेभ्यो ये अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधु-

रा देवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदो३म् ॥

विश्वेभ्यो हि त्वा भुवनेभ्यस्परि त्वष्टाजनत् साम्नः साम्नः कविः

स ऋणचिदृणया ब्रह्मणस्पतिर्द्रुहो हन्ता मह ऋतस्य धर्तरो३म् ॥

तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिर

इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवो३म् ॥

ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व

विश्वं तद् भद्रं यदवन्ति देवा बृहद् वदेम विदथे सुवीरो३म् ॥

प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यद्

धातुर्द्युतानात् सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठो३म् ॥

अविन्दन्ते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यद्

धातुर्द्युतानात् सवितुश्च विष्णोर्भरद्वाजो बृहदा चक्रे अग्नो३म् ॥

तेऽविन्दन् मनसा दीध्याना यजुः ष्कन्नं प्रथमं देवयानं

धातुर्द्युतानात् सवितुश्च विष्णोरा सूर्यादभरन् घर्ममेतो३म् ॥

अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूत-

मिह प्रजामिह रयिं रराणाः प्र जायस्व प्रजया पुत्रकामो३म् ॥ इति यजमानमीक्षते

[[५३]]

अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमाना-

मुप मामुच्चा युवतिर्बभूयाः प्र जायस्व प्रजया पुत्रकामो३म् ॥ इति पत्नीमीक्षेत

अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्त-

रहं पोरजा अजनयं पृथिव्यामहं जनिभ्यो अपरीषु पुत्रो३म् ॥ इति स्वमात्मानमीक्षेत

का राधद्धोत्राश्विना वां को वां जोष उभ्योः कथा विधात्यप्रचेतो३म् ॥

विद्वांसाविद्दुरः पृच्छेदविद्वानित्थापरो अचेता नूचिन्नु मर्ते अक्रो३म् ॥

ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्मवोचेतमद्य प्रार्चद् दयमानो युवाको३म् ॥

वि पृच्छामि पाक्या न देवान् वषट्कृतस्याद्भुतस्य दस्रा पातं च सह्यसो युवं च रभ्यसो नो३म् ॥

प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वां प्रैषयुर्न विद्वो३म् ॥

श्रुतं गायत्रं तकवानस्याहं चिद्धि रिरेभाश्विना वामाक्षी शुभस्पती दो३म् ॥

युवं ह्यास्तं महो रन् युवं वा यन्निरततंसतं ता नो वसू सुगोपा स्यातं पातं नो वृकादघायो३म् ॥

मा कस्व्मै धातमभ्यमित्रिणे नो मा कुत्रा नो गृहेभ्यो धेनवो गुः स्तनाभुजो अशिश्वो३म् ॥

दुहीयन् मित्रधितये युवाकु राये च नो मिमीतं वाजवत्या इषे च नो मिमीतं धेनुमत्यो३म् ॥

आ भात्यग्निरुषसामनीकमुद् विप्राणां देवया वाचो अस्थु-

रर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छो३म् ॥

न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह

दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्तिं दाशुषे शम्भविष्ठो३म् ॥

उता यातं सङ्गवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य

दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततानो३म् ॥

इदं हि वां प्रदिवि स्थानमोक इमे गृहा अश्विनेदं दुरोण-

मा नो दिवो बृहतः पर्वतादाद्भ्यो यातमिषमूर्जं वहन्तो३म् ॥

समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेमा-

नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानो३म् ॥

ग्रावाणेव तदिदर्थं जरेथे गृध्रेव वृक्षं निधिमन्तमच्छ

ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रो३म् ॥

प्रात्र्यावाणा रथ्येव वीराऽजेव यमा वरमा सवेथे

मेने इव तन्वा शुम्भमाने दम्पतीव क्रतुविदा जनेषो३म् ॥

शृङ्गेव नः प्रथमा गन्तमर्वाक् छफाविव जर्भुराणा तरोभि-

श्चक्रवाकेव प्रति वस्तोरुस्राऽर्वाञ्चा यातं रथ्येव शक्रो३म् ॥

[[५४]]

नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव

श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातमस्मो३म् ॥

वातेवाजुर्या नद्येव रीतिरक्षी इव चक्षुषा यातमर्वा-

ग्घस्ताविव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अच्छो३म् ॥

ओष्ठाविव मध्वास्ने वदन्ता स्तनाविव पिप्यतं जीवसे नो

नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मो३म् ॥

हस्तेव शक्तिमभि सन्ददी नः क्षामेव नः समजतं रजांसी-

मा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणैव स्वधितिं सं शिशीतो३म् ॥

एतानि वामश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदो अक्रँस्तानि

नरा जुजुषाणोप यातं बृहद् वदेम विदथे सुवीरो३म् ॥

ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये

याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे

याभिर्धियोऽवथः कर्मन्निष्टये ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना

याभिर्धेनुमस्वं पिन्वथो नरा ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्विभूषति

याभिस्त्रिमन्तुरभवद् विचक्षणस्ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभी रेभं निवृतं सितमद्भ्य उद् वन्दनमैरयतं स्वर्दृशे

याभिः कण्वं प्र सिषासन्तमावतं ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभिरन्तकं जसमानमारणे भुज्युं याभिरव्यथिभिर्जिजिन्वथुर्

याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभिः शुचन्ति धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये

याभिःपृश्निगुं पुरुकुत्समावतं ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभिः शचीभिर्वृषणा परावृजं प्रान्धं श्रोणं चक्षस एतवे कृथो

याभिर्वर्तिकां ग्रसिताममुञ्चतं ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतं

याभिः कुत्सं श्रुतर्यं नर्यमावतं ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभिर्विश्पलां धनसामथर्व्यं सहस्रमीह्ळ् आजावजिन्वतं

[[५५]]

याभिर्वशमश्व्यं प्रेणिमावतं ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत्

कक्षीवन्तं स्तोतारं याभिरावतं ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे

याभिस्त्रिशोक उस्रिया उदाजत ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभिः सूर्यं परियाथः परावति मन्धातारं क्षैत्रपत्येष्वावतं

याभिर्विप्रं प्र भरद्वाजमावतं ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतं

याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथो

याभिर्व्यश्वमुत पृथिमावतं ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुर्-

याभिः शारीराजतं स्यूमरश्मये ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना

याभिः शर्यातमवथो महाधने ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभिरङ्गिरो मनसा निरण्यतोऽग्रं गच्छतो विवरे गो अर्णसो

याभिर्मनुं शूरमिषा समावतं ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभिः पत्नीर्विमदाय न्यूहथुरा घ वा याभिररुणीरशिक्षितं

याभिः सुदास ऊहथुः सुदेव्यं ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगु-

मोम्यावतीं सुभरामृतस्तुभं ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभिः कृशानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम्

मधु प्रियं भरथो यत् सरड्भ्यस्ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभिर्नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथो

याभी रथाँ अवथो याभिरर्वतस्ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

याभिः कुत्समार्जुनेयं शतक्रतू प्र तुर्वीतिं प्र च दभीतिमावतं

याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिरू षु ऊतिभिरश्विना गतो३म् ॥

अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषा-

मद्यूत्येऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातो३म् ॥

[[५६]]

अरूरुचदुषसः पृश्निरग्रिय उक्षा बिभर्ति भुवनानि वाजयु-

र्मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधो३म् ॥ उत्तरेणार्धर्चेन पत्नीमीक्षेत

द्युभिरक्तुभिः परिपातमस्मानरिष्टेभिरश्विना सौभगेभि-

स्तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यो३म् ॥ इति त्रिः परिदध्यात्

ततः समुत्थाप्यैनानध्वर्यवो वाचयन्ति इति पूर्वं पटलम्

अप॑श्यं गो॒पामनि॑पद्यमानम् आ च॒ परा॑ च प॒थिभि॒श्चर॑न्तम्

स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑नः आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः

अत्र प्रावीः मधु माध्वीभ्यां मधु माधूचीभ्याम् अनु वां देववीतये समग्निरग्निनागत सं देवेन सवित्रा सँ सूर्येण रोचते स्वाहा समग्निस्तपसागत सं देवेन सवित्रा सँ सूर्येणा रोचिष्ट धर्ता दिवो विभासि रजसः पृथिव्या धर्ता उरोरन्तरिक्षस्य धर्ता शर्ता देवो देवानाम् अमर्त्यस्तपोजाः हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ऊर्ध्वमिममध्वरं कृधि दिवि देवेषु होत्रा यच्छ विश्वासां भुवाम्पते विश्वस्य भुवनस्पते विश्वस्य मनसस्पते विश्वस्य वचसस्पते विश्वस्य तपसस्पते विश्वस्यब्रह्मणस्पते देवश्रूस्त्वं देवघर्ह देवान् पाहि तपोजां वाचमस्मे नियच्छ देवायुवम् गर्भो देवानाम् पिता मतीनाम् पतिः प्रजानाम् मतिः कवीनाम् सं देवो देवेन सवित्रायतिष्ठ सँसूर्येणारुक्त आयुर्दास्त्वमस्मभ्यं घर्म वर्चोदा असि पिता नोऽसि पिता नो बोध आयुर्धास्तनूधाः पयोधाः वर्चोदा वरिवोदा द्रविणोदाः अन्तरिक्षप्र उरोर्वरीयान् अशीमहि त्वा मा मा हिँसीः त्वमग्ने गृहपतिर्विशामसि विश्वासां मानुषीणाम्शतं पूर्भिर्यविष्ठ पाह्यँहसः समेद्धारँ शतँ हिमाः तन्द्राविणँ हार्दिवानम् इहैव रातयः सन्तु ॥

उत्तरं पटलम्

तूष्णीमुपविश्य अध्वर्युर्घर्मदुघामाह्वयति गङ्ग एहि इति स सम्प्रैष उत्तरस्य अनभिहिंकृत्य

उपह्वये सुदुघां धेनुमेतांसुहस्तो गोधुगुतदोहदेनां श्रेष्ठं सविता साविषन्नोऽभीद्धो घर्मस्तदुषु प्रवोचो३म् ॥ इतित्रिः

हिङ्कृण्वती वसुपत्नी वसॊनां वत्स्मिच्छन्ती मनसाभ्यागाद्दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगायो३म् ॥ १ १६४ २६२७

अभि त्वा देव सवितरीशानं वार्याणां सदावन् भागमीमहो३म् ॥ १ २४ ३

समी वत्सं न मातृभिः सृजता गयसाधनं देवाव्यं मदमभि द्विशवसो३म् ॥ ९ १०४ २

सं वत्सइव मातृभ्रिन्दुर्हिन्वानो अज्यते देवावीर्मदो मतिभिः परिष्कृतो३म् ॥ ९ १०५ २

यस्ते स्तनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि यो रत्नधा वसुविद्यः सुदत्रः सरस्वति तमिह धातवे को३म् ॥ १ १६४ ४९

गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन्मातवा उ सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभो३म् १ १६४ २८

नमसेदुप सीदत दध्नेदभि श्रीणीतनेन्दुमिन्द्रे दधातनो३म् ९ ११ ६

[[५७]]

संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन् रिरिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युर्निमिषि रक्षमाणो३म् १ ७२ ५

आ दशभिर्विवस्वत इन्द्रः कोशमचुच्यवीत् खेदया त्रिवृता दिवो३म् ८ ७२ ८

दुहन्ति सप्तैकामुप द्वा पञ्च सृजतस्तीर्थे सिन्धोरधि स्वरो३म् ८ ७२ ७

समिद्धो अग्निरश्विना तप्तो वां घर्म आगतं दुह्यन्ते गावो वृषणेव धेनवो दस्रा मदन्ति कारवो३म्

समिद्धो अग्निर्वृषणारतिर्दिवस्तप्तो घर्मो दुह्यते वामिषे मधु वयं हि वां पुरुतमासो अश्विना हवामहे सधमादेषु कारवो३म्

तदु प्रयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंस उपह्वरे यदुपरा अपिन्वन् मध्वर्णसो नद्यश्चतस्रो३म् १ ६२ ६

आत्मवन्नभो दुह्यते घृतं पय ऋतस्य नाभिरमृतं विजायते समीचीनाः सुदानवः प्रीणन्ति तं नरो हितमव मेहन्ति पेरवो३म् ९ ७४ ४

उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमह उप प्रयन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचो३म् १ ४० १ इत्येतामृचमुक्त्वावतिष्ठते दुग्धायाम्-

अधुक्षत् पिप्युषीमिषमूर्जं सप्तपदीमरिः सूर्यस्य सप्त रश्मिभो३म् ८ ७२ १६

आह्रियमाणे पयसि-

उप द्रव पयसा गोधिगोषमा घर्मे सिञ्च पय उस्रियाया वि नाकमख्यत् सविता वरेण्योऽनु द्यावापृथिवी सुप्रणीतो३म्

आसिच्यमाने गव्ये पयसि-

आ नूनमश्विनोर्ऋषिः स्तोमं चिकेत वामया सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणो३म् ८ ९ ७

आजे पयसि- आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियं रसा दधीत वृषभो३म् ८ ७२ १३

आसिक्तयोः-समु त्ये महतीरपः सं क्षोणी समु सूर्यं सं वज्रं पर्वशो दधो३म् ८ ७ २२

महावीरमादायोत्तिष्ठत्सु- उदु ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनाय सुक्रतुर्घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षा रजसो विधर्मणो३म् ६ ७१ १ इत्यभिष्टुत्यानूत्तिष्ठेत्

प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृताच्छा वीरं नर्यं पड्क्तिराधसं देवा यज्ञं नयन्तु नो३म् १ ४० ३ इति तिष्ठन्नेवोक्त्वानुव्रजेत्

गन्धर्व इत्था पदमस्य रक्षति पाति देवानां जनिमान्यद्भुतो गृभ्णामि रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षमाशतो३म् ९ ८३ ४ इति खरस्य पश्चात् प्राङ्मुखस्तिष्ठन् तमवेक्षेत पुनस्तमतिक्रम्यानुव्रजेत्

श्रोणि देशं प्राप्य- नाके सुपर्णमुप यत् पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्यो३म् १० १२३ ६ इति प्रणवोच्चारणेन सहानिरस्य तृणं तत्रैवोपविशेत्

घर्मस्य यज इति प्रेषितः पौर्वाह्णिके प्रवर्ग्ये-

[[५८]]

ये३ यजामहे तप्तो वां घर्मो नक्षति स्वहोता प्र वामध्वुर्यश्चरति प्रयस्वान्मधोर्दुग्धस्याश्विना तनाया वीतं पातं पय उस्रियाया उभा पिबतमश्विनोभा नः शर्म यच्छातमविद्रियाभिरूतिभी३ र्वौ३षट् १ ४६ १५ उभाभ्यामृग्भ्यामनवानं यष्ट्वानुवषट्करोति- अग्ने वीही३ वौ३षट्, घर्मस्याग्ने वीही३ वौ३षट् इति वा द्विर्वागोजः आपराह्णिके तु-

ये३ यजामहे यदुस्रिया स्वाहुतं घृतं पयो यं सवामश्विना भाग आगतं माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतं सोम्यं मध्वस्य पिबतमश्विना युवं मदस्य चारुणो मध्वो रातस्य धिष्ण्या३ वौ३षट् समानमनुवषट्कारम् द्विर्वागोजः

[ब्रह्मा वषट्कृतेऽनुवषट्कृते च जपति-

विश्वा आशा दक्षिणासद्विश्वान् देवानयाळिह स्वाहाकृतस्य घर्मस्य मध्वः पिबतमश्विना इति]

अप्रेषितो होतानुवषट्कृतेऽभिष्टवनशेषं ब्रूयात्-

स्वाहाकृतः शुचिर्देवेषु घर्मो यो अश्विनोश्चमसो देवपानस्तमीं विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्तो३म्

समुद्रादूर्मिमुदियर्ति वेनो नभोजाः पृष्ठं हर्यतस्य दर्श्यृतस्य सानवधि विष्टपि भ्राट् समानं योनिमभ्यनूषत व्रो३म् १० १२३ २

द्रप्सः समुद्रमभि यज्जिगाति पश्यन् गृध्रस्य चक्षसा विधर्मन् भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणो३म् १० १२३ ८

सखे सखायमभ्या ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्याग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु तोकाय तुजे शुशुचान शं कृध्यस्मभ्यं दस्म शं कृधो३म् ४ १ ३

ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सवितोर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहो३म्

ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह कृधी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवो३म् १ ३६ १३-१४

तं घेमित्था नमस्विन उप स्वराजमासतेऽर्थं चिदस्य सुधितं यदेतव आवर्तयन्ति दावनो३म् ८ ६९ १७ इति प्रागाथीं पूर्वाह्णे

तं घेमित्था नमस्विन उप स्वराजमासते होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अतिस्रिधो३म् इति काण्वीमपराह्णे अनयोरन्यतरामेव वा सर्वेषु प्रवर्ग्येषु ब्रूयात् परन्तूत्तमे प्रवर्ग्ये काणीमेव ब्रूयादिति पक्षान्तरम्

पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरोऽग्ने दुव इच्छमानास आप्यमुपासते द्रविणं धेहि तेभ्यो३म् इति भक्षमाकाङ्क्षेत् इडावदुपयमनीं प्रतिगृह्य- अध्वर्य उपह्वयस्व । ब्रह्मन्नुपह्वयस्व । प्रतिपस्थातरुपह्वयस्व । अग्नीदुपह्वयस्व । यजमानोपह्वयस्व

हुतं हविर्मधुहविरिन्द्रतमेग्नावश्याम ते देवघर्म

मधुमतः पितुमतो वाजवतोऽङ्गिरस्वतो नमस्ते अस्तु मा मा हिंसी इति दीक्षितवर्जमितरे प्राणभक्षं भक्षयेयुः

[[५९]]

घर्माय संसाद्यमानायानुब्रूहि इति संप्रेषितः-

श्येनो न योनिं सदनं धिया कृतं हिरण्ययमासदं देव एषत्येरिणन्ति बर्हिषि प्रियं गिराश्वो न देवाँ अप्येति यज्ञियो३म् ९ ७१ ६

आ यस्मिन् त्सप्त वासवा रोहन्तु पूर्व्या रुह ऋषिर्ह दीर्घश्रुत्तम इन्द्रस्य घर्मो अतिथो३म्

उत्तमे प्रवर्ग्येऽस्मिन् काले- हविर्हविष्मो महि सद्म दैव्यं नभो वसानः परियास्यध्वरं राजा पवित्ररथो वाजमारुहः सहस्रभृष्टिर्जयसि श्रवो बृहो३म् इत्यावपेत

सूयवसाद् भगवती हि भूया अथो वयं भगवन्तः स्यामाद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्तो३म् १ १६४ ४ इति त्रिः परिदध्यात्

उपसत्

अथोपसत्

तस्यां पित्र्यावज्जपलोपः प्रेषितोऽभिहिंकृत्य सामिधेनीरन्वाह तिस्र ऋच एकैकां त्रिरनवानम्

हिम्, भूर्भुवःस्वरो३मुपसद्याय मीह्ळुष आस्ये जुहुता हविर्यो नो नेदिष्ठमाप्यो३म् इति त्रिः

यः पञ्चचर्षणीरभि निषसाद दमे दमे कविर्गृहपतिर्युवो३म् त्रिरनवानम्

स नो वेदो अमात्यमग्नी रक्षतु विश्वत उतास्मान् पात्वंहसो३म् त्रिरनवानमेतस्या उत्तमेन प्रणवेन देवतामावाहयेत्- उतास्मान् पात्वंहसो३ (उपांशु) मग्निमग्न आ३वह (उपांशु) सोमम् आ३वह (उपांशु) विष्णुम् आ३वह इत्यावाहनम् नावाहयेदित्येकेऽनावाहनेऽप्येता एव देवताः ईक्षितः सीद होतरिति वोक्तः सन् तूष्णीं निरसनोपवेशनबर्हिरुपस्पर्शनानि कुर्यात् प्रकृत्येहोपस्थः प्रयाजाज्यभागवर्जम्

प्रधानानां याज्यानुवाक्या-

(उपांशु) अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । समिद्धः शुक्र आहुतः (मन्द्रेण) ओ३म् ॥ [६ । १६ । ३४]

(मन्द्रेण) ये३ यजामहे (उपांशु) अग्निं य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः

अग्ने पुरो रुरोजिथा३ (मन्द्रेण) वौ३षट्

(उपांशु) त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा । त्वं भद्रो असि क्रतुः (मन्द्रेण) ओ३म् ॥ [१ । ९१ । ५]

(मन्द्रेण) ये३ यजामहे (उपांशु) सोमं गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः

सुमित्रः सोम नो भवा३ (मन्द्रेण) वौ३षट्

(उपांशु) इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूह्ळमस्य पांसुरे (मन्द्रेण) ओ३म् ॥ [१ । २२ । १७]

(मन्द्रेण) ये३ यजामहे (उपांशु) विष्णुं त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः

अतो धर्माणि धारया३ (मन्द्रेण) न्वौ३षट्

स्विष्टकृदादिकं लुप्यते नित्यमाप्यायनं निह्नवश्च

आपराह्णिके विशेषः

आपराह्णिके विशेषः-

हिम्, भूर्भुवःस्वरो३मिमां मे अग्ने समिधमिमामुपसदं वनेरिमा उ षु श्रुधीगिरो३म् त्रिरनवानम्

[[६०]]

अयाते अग्ने विधेमोर्जो नपादश्वमिष्ट एना सूक्तेन सुजातो३म् त्रिरनवानम्

तं त्वा गीर्भिर्गिर्वणसं द्रविणस्युं द्रविणोदः सपर्येम सपर्यवो३म् त्रिरनवानम् इति सामिधेन्यः

सपर्यवो३ (उपांशु) मग्निमग्न आ३वह (उपांशु) सोमम् आ३वह (उपांशु) विष्णुम् आ३वह इत्यावाहनम्

याज्यानुवाक्यानां विपर्यासः-

(उपांशु) य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः अग्ने पुरो रुरोजिथ (मन्द्रेण) ओ३म् ॥ [६ । १६ । ३४]

(मन्द्रेण) ये३ यजामहे (उपांशु) अग्निमग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया ।

समिद्धः शुक्र आहुता३ (मन्द्रेण) वौ३षट्

(उपांशु) गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः सुमित्रः सोम नो भव (मन्द्रेण) ओ३म् ॥ [१ । ९१ । ५]

(मन्द्रेण) ये३ यजामहे (उपांशु) सोमं त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा ।

त्वं भद्रो असि क्रतू३ (मन्द्रेण) र्वौ३षट्

(उपांशु) त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः अतो धर्माणि धारयन् (मन्द्रेण) ओ३म् ॥ [१ । २२ । १७]

(मन्द्रेण) ये३ यजामहे (उपांशु) विष्णुमिदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।

समूह्ळमस्य पांसुरा३ इ (मन्द्रेण) वौ३षट्

नित्यमाप्यायनम् निह्नवे उत्तानान् त्सव्यान् दक्षिणान्नीच इति पाण्योर्विपर्यासः अन्यत् सर्वं पूर्वाह्णवत्

प्रवर्ग्यमुद्वास्याग्निं प्रणयन्ति

पश्चाद्दार्शपौर्णमासिकाया वेदेरुपविश्य निरसनोपवेशने कृत्वा प्रेषितोऽग्निप्रणयनीयाः प्रतिपद्यते ।

अग्नये प्रणीयमानायानुब्रूहि इत्युक्ते-हिम्, भूर्भुवःस्वरो३म्

प्र देवं देव्या धिया भरता जातवेदसम् । हव्या नो वक्षदानुषो३म् [१० । १७६ । २]

प्र देवं देव्या धिया भरता जातवेदसम् । हव्या नो वक्षदानुषो३म्

प्र देवं देव्या धिया भरता जातवेदसम् ।

आसीनः प्रथमामन्वाह उपांशु सप्रणवाम् । तत्र स्थानात् स्थानसंक्रमणे प्रणवेनावसायानुच्छ्वस्योत्तरां प्रतिपद्यते । प्राणसन्ततं भवतीति विज्ञायते । उत्तरमग्निमनुव्रजन्नुत्तराः ।

हव्या नो वक्षदानुषो३

मयमुष्य प्र देवयुर्होता यज्ञाय नीयते ।

रथो न योरभीवृतो घृणीवान् चेतति त्मनो३ [१० । १७६ । ३]

मयमग्निरुरुष्यत्यमृतादिव जन्मनः ।

सहसश्चित् सहीयान् देवो जीवातवे कृतो३ [१० । १७६ । ४]

मिळायास्त्वा पदे वयं नाभापृथिव्या अधि ।

जातवेदो निधीमह्यग्ने हव्याय वोह्ळवो३ [३ । २९ । ४]

[[६१]]

मग्ने विश्वेभिः स्वनीकदेवैरूर्णावन्तं प्रथमः सीद योनिम् ।

अर्धर्चेऽवसाय पश्चादुत्तरस्या वेदेरवस्थाय समापयेत् । निहितेऽग्नौ-

कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधो३ं [६ । १५ । १६]

सीद होतः स्वमु लोके चिकित्वान् त्सादया यज्ञं सुकृतस्य योनौ ।

देवावीर्देवान् हविषा यजास्यग्ने बृहद्यजमाने वयोधो३ं [३ । २९ । ८]

नि होता होतृषदने विदानस्त्वेषो दीदिवाँ असदत् सुदक्षः ।

अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्नो३ं [२ । ९ । १]

त्वं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वृषभ प्रणेता ।

अग्ने तोकस्य नस्तने तनूनामप्रयुच्छन् दीद्यद्बोधि गोपो३म् इति त्रिः परिदध्यात् [२ । ९ । २]

इति परिसमाप्य पूर्वस्मिन्नेवासने उपविश्य भूर्भुवःस्वरिति वाचं विसृजते ।

हविर्धान-प्रवर्तनम्

दक्षिणस्य हविर्धानस्योत्तरस्य चक्रस्य यद्वर्त्म तत्पादयोरन्तरा यथा भवति तथा पश्चादनसस्त्रिपदमात्रेऽवस्थाय हविर्धानाभ्यां पवर्त्यमानाभ्यामनुब्रूहि इति प्रेषितः सोमप्रवहणवदग्रेऽभिहिङ्कारात्-

त्वं विप्रस्त्वं कविस्त्वं विश्वानि धारयन् अप जन्यं भयं नुद इत्यस्पन्दयन् पार्ष्णीं प्रपदेन दक्षिणा पांसून् त्सकृन्मन्त्रेण द्विस्तूष्णीं त्रिरुदुप्यानुब्रूयात्- हिम्, भूर्भुवःस्वरो३म्

युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एतु पथेव सूरेः

शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थो३म् [१० १३ १] इति त्रिः

प्रेतां यज्ञस्य श्म्भुवा युवामिदा वृणीमहे अग्निं व हव्यवाहनो३ं

द्यावा नः पृथिवी इमं सिध्रमद्य दिविस्पृशम् यज्ञं देवेषु यच्छतो३

मा वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः इहाद्य सोमपीतयो३ं [२ ४१ १९-२१]

यमे इव यतमाने यदैयं प्र वां भरन् मानुषा देवयन्तः

आ सीदतं स्वमु लोके विदाने स्वासस्थे भवतमिन्दवे नो३ [१० १३ २]

मधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः इत्यर्धर्च आरमेदव्यवस्था चेद्रराटी

व्यवस्थायां तामीक्षमाणः- असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वतो३ं [१ ८३ ३]

विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद्भद्रं द्विपदे चतुष्पदे इत्यर्धर्च आरमेद्यदि मेथ्यौ न निहते स्याताम्

मेथ्योरुपनिहतयोः-वि नाकमख्यत् सविता वरेण्योऽनु प्रयाणमुषसो वि राजतो३ं [५ ८१ २]

परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयो३म् [१ १९ १२] इति त्रिः परिदध्यात् अत्र यद्यध्वर्यवः पूर्वमेव मेथीनिहननं कृत्वा पश्चाद्रराटीं बध्नन्ति तथापि यथासूत्रमेवेदमनुवचनं वक्तव्यं नर्चोर्विपर्यासः

[[६२]]

अग्नीषोमीय-प्रणयनम्

अग्नीषोमौ प्रणेष्यत्सु तीर्थेन प्रपद्योत्तरेणाग्नीध्रीयायतनं सदश्च पूर्वय द्वारा पत्नीशालां प्रपद्योत्तरेण शालामुखीयमतिव्रज्य पश्चाच्छालामुखीयस्य निरसनोपवशने कृत्वोपविशति अग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहि इति प्रेषितः- हिम्, भूर्भुवःस्वरो३ं

सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै

अथास्मभ्यं सवितः सर्वताता दिवे दिव आसुवा भूरि पश्वो३म् इति त्रिः आसीनोऽनुव्रजन्नुत्तरा अनुब्रूयात्-

प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता अच्छा वीरं नर्यं पड्क्तिराधसं देवा यज्ञं नयन्तु नो३म् १ ४० ३

होता देवो अमर्त्यः पुरस्तादेति मायया विदथानि प्रचोदयो३ं

वाजी वाजेषु धीयतेऽध्वरेषु प्रणीयते विप्रो यज्ञस्य साधनो३ं

धिया चक्रे वरेण्यो भूतानां गर्भमा दधे दक्षस्य पितरं तनो३ ३ २७ ७-९

मुप त्वाग्ने दिवे दिवे दोषावस्तर्धिया वयम् नमो भरन्त एमसो३ं

राजन्तामध्वराणां गोपामृतस्य दीदिविम् वर्धमानं स्वे दमो३ं

स नः पितेव सूनवेऽग्ने सूपायनो भव सचस्वा नः स्वस्तयो३ १ १ ७-९

मुप प्रियं पनिप्नतं युवानमाहुती वृधम् इत्यर्धर्च आरमेत् आग्नीध्रीये निहितेऽभिहूयमाने

अगन्म बिभ्रतो नमो३ ९ ६७ २९

मग्ने जुषस्व प्रति हर्य तद्वचो मन्द्रः स्वधाव ऋतजात सुक्रतो

यो विश्वतः प्रत्यङ्ङसि दर्शतो रण्वः सन्दृष्टौ पितुमाँ इव क्षयो४म् १ १४४ ७ समाप्य प्रणवेनोपरमेत् उत्तरेणाग्नीध्रीयमतिव्रजत्स्वतिव्रज्य-

सोमो जिगाति गातुविद्देवानामेति निष्कृतम् ऋतस्य योनिमासदो३ं

सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे अनमीवा इषस्करो३

मस्माकमायुर्वर्धयन्नभिमातीः सहमानः सोमः सधस्थमासदो३ं ३ ६२ १३-१५

तमस्य राजा वरुणस्तमश्विना क्रतुं सचन्त मारुतस्य वेधसः इत्यर्धर्च आरमेत् प्रपाद्यमानं राजानमनुप्रपद्येत-

दधार दक्षमुत्तममहर्विदं व्रजं च विष्णुः सखिवाँ अपोर्णुतो३ १ १५६ ४

मन्तश्च प्रागा अदितिर्भावास्यवयाता हरसो दैव्यस्य

इन्द्रविन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरमनु राय ऋध्यो३ं ८ ४७ २

श्येनो न योनिं सदनं धिया कृतं हिरण्ययमासदं देव एषति

एरिणन्ति बर्हिषि प्रियं गिराश्वो न देवाँ अप्येति यज्ञियो३ ९ ७१ ६

मस्तभ्नाद्यामसुरो विश्ववेदा अमिमीत वरिमाणं पृथिव्याः

आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानो३म् ८ ४२ १ इति परिदध्यात्

[[६३]]

यदि यजमानाय भयं जायते तदा- एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम्

स नः शर्म त्रिवरूथं वियंसत् पातं मा द्यावापृथिवी उपस्थो४म् ८ ४२ २ एतया त्रिः परिदध्यात् इति परिसमाप्य प्रक्रमस्थाने पूर्वस्मिन्नेवासने उपविश्य भूर्भुवःस्वरिति वाचं विसृजते ।

अग्नीषोमीयः पशुः

अथाग्नीषोमीयः पशुः

पशुतन्त्रस्य सप्तदशसामिधेन्यः । वार्त्रघ्नावाज्यभागौ । एकादशप्रयाजानूयाजाः । अग्नीषोमौ प्रधानपशुदेवता । वनस्पतिः पृषदाज्यदेवता स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च ।

तीर्थेन प्रपद्य हविर्धानस्य पूर्वद्वारोत्तरस्थूणपूर्वभागे उत्तरवेद्याः पश्चान्निरसनोपवेशने कृत्वोपविश्य यूपायाज्यमानायानुब्रूहि इति प्रेषितः- हिम्, भूर्भुवःस्वरो३म्

अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येन ।

यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थो३म् [३ । ८ । १]

अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येन ।

यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थो३म्

अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येन । इत्युत्तमेन वचनेनार्धर्च आरमेत् ।

यूपायोच्छ्रीयमाणायानुब्रूहि इति प्रेषितः-

यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थो३म्

उच्छ्रयस्व वनस्पते वर्ष्मन् पृथिव्या अधि । सुमिती मीयमानो वर्चोधा यज्ञवाहसो३ं [३ । ८ । ३]

समिद्धस्य श्रयमाणह् पुरस्ताद् ब्रह्म वन्वानो अजरं सुवीरम् ।

आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगायो३म्

ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहो३म्

ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह ।

कृधी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवो३ं १ ३६ १३-१४

जातो जायते सुदिनत्वे अह्नां समर्य आविदथे वर्धमानः । इत्यर्धर्च आरमेत् ।

यूपाय परिवीयमाणायानुब्रूहि इति प्रेषितः-

पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचो३ं ३ ८ ५

युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः ।

तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तो३म् ॥ ३८४ इति त्रिः परिदध्यात् ।

आतिथ्यवदग्निमन्थनम् कृताकृतावाज्यभगौ होतरेहि इत्युक्ते नमः प्रवक्त्रे इत्यादि सामिधेन्यां पृथुपाजा अमर्त्यः इति द्वे धाय्ये आवपेत-

शोचिष्केशस्तमीमहो३ं

[[६४]]

पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः । अग्निर्यज्ञस्य हव्यवो३ं [३ । २७ । ५]

तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः । आ चक्रुरग्निमूतयो३ं [३ । २७ । ६]

समिद्धो अग्न आहुत इत्यादि ।

आवाहने- अग्निमग्न आ३वह । सोममा३वह । अग्नीषोमावा३वह वनस्पतिमा३वह देवाँ आज्यपाँ आ३वहेत्यादि । समानमा संमार्गतृणैः संमार्जनात् सम्मार्गैः सम्मृज्याप उपस्पृश्य प्रवृताहुतीर्जुहुयात्-

जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाक् ।

यद्वाचो मधुमत्तमं तस्मिन्माधाः सरस्वत्यै वाचे स्वाहा ॥

पुनरादाय पञ्चविग्रायं जुहोति- स्वाहा वाचे । स्वाहा वाचस्पतये । स्वाहा सरस्वत्यै । स्वाहा सरस्वते । महोभ्यः संमहोभ्यः स्वाहा । सौत्येऽहन्येवायं होमो नान्यस्मिन्नित्येके प्रशास्तस्तीर्थेन प्रपद्यस्व इति प्रशास्तारं सम्प्रेष्यति तीर्थेनागत्य प्रत्यङ्मुखायावस्थिताय प्रशास्त्रे दण्डं प्रयच्छेद्दक्षिणोत्तराभ्यां पाणिभ्याम्- मित्रावरुणयोस्त्वा बाहुभ्यां प्रशास्त्रोः प्रशिषा प्रयच्छामि इति तथायुक्ताभ्यां दक्षिणोत्तराभ्यां पाणिभ्यामेव प्रशास्ता होतृपाण्योरधस्ताद्गृहीत्वा- मित्रावरुणयोस्त्वा बाहुभ्यां प्रशास्त्रोः प्रशिषा प्रतिगृह्णाम्यवक्रो विथुरो भूयासम् इति प्रतिगृह्योत्तरेण होतारमतिव्रजेद्दक्षिणेन दण्डं हरेन्नचानेन संस्पृशेदात्मानं वान्यं वा प्रैषवचनात् होता दण्डं प्रदाय मैत्रावरुणमग्रतः कृत्वोत्तरेण हविर्धाने अतिव्रज्य पूर्वया द्वारा सदः प्रपद्योत्तरेणा यथा स्वं धिष्ण्यावतिव्रज्य पश्चात् स्वस्य धिष्ण्यस्य निरसनोपवेशने कृत्वोपविशति प्रशास्ता स्वस्य धिष्ण्यस्य पश्चात् प्रह्वोऽवतिष्ठते होता जानुशिरसा बर्हिरुपस्पृश्य भूपतये नम इत्यादि स्रुगादापनान्तं ब्रूयात् अध्वर्युणा समिद्भ्यः प्रेष्य इत्यादि प्रेषितः प्रशास्ता वेद्यां दण्डमवष्टभ्य प्रैषैर्होतारं प्रेष्यति होता यजत्याप्रीभिः प्रैषसलिङ्गाभिः । समिद्धो अग्निः इति शुनकानामाप्रीसूक्तम् जुषस्व नः समिधम् इति वसिष्ठानाम् समिद्धो अद्य मनुष इति वसिष्ठशुनकवर्जानामितरेषां सर्वेषामिदमाप्रीसूक्तम् यथाऋषि वा

प्रशास्ता- होता यक्षदग्निं समिधा सुषमिधा समिद्धं नाभापृथिव्याः सङ्गथे वामस्य ।

वर्ष्मन् दिव इळस्पदे वेत्वाज्यस्य होतर्यज ॥

होता- ये३ यजामहे समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।

आ च वह मित्रमहश्चिकित्वान् त्वं दूतः कविरसि प्रचेता३ वौ३षट् ॥ १ ॥

प्रशास्ता- होता यक्षत्तनूनपातमदितेर्गर्भं भुवनस्य गोपाम् ।

मध्वाद्य देवो देवेभ्यो देवयानान् पथो अनक्तु वेत्वाज्यस्य होतर्यज ॥

प्रशास्ता- होता यक्षन्नराशंसं नृशस्त्रं नॄँःप्रणेत्रं ।

गोभिर्वपावान्त्स्याद्वीरैः शक्तीवान् रथैः प्रथमया वा हिरण्यैश्चन्द्री वेत्वाज्यस्य होतर्यज इति वसिष्ठशुनकात्रिवध्र्यश्वराजन्यानां प्रैषः

होता- ये३ यजामहे तनूनपात् पथ ऋतस्य यानान्मध्वा समञ्जस्त्स्वदया सुजिह्व ।

मन्मानि धीभिरुत यज्ञमृन्धन् देवत्रा च कृणुह्यध्वरं ना३ वौ३षट् ॥ २ ॥

[[६५]]

प्रशास्ता- होता यक्षदग्निमिळ ईळितो देवो देवाँ आवक्षद्दूतो हव्यवाळमूरः ।

उपेमं यज्ञमुपेमां देवो देवहूतिमवतु वेत्वाज्यस्य होतर्यज ॥

होता- ये३ यजामहे आजुह्वान ईड्यो वन्द्यश्चायाह्यग्ने वसुभिः सजोषाः ।

त्वं देवानामसि यह्व होता स एनान् यक्षीषितो यजीया३ न्वौ३षट् ॥ ३ ॥

प्रशास्ता- होता यक्षद्बर्हिः सुष्टरीमोर्णम्रदा अस्मिन् यज्ञे वि च प च प्रथतां स्वासस्थं देवेभ्यः ।

एमेनदद्य वसवो रुद्रा आदित्याः सदन्तु प्रियमिन्द्रस्यास्तु वेत्वाज्यस्य होतर्यज ॥

होता- ये३ यजामहे प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् ।

व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योना३ं वौ३षट् ॥ ४ ॥

प्रशास्ता- होता यक्षद्दुर ऋष्वाः कवष्योकोषधावनीरुदाताभिर्जिहतां विपक्षोभिः श्रयन्ताम् ।

सुप्रायणा अस्मिन् यज्ञे विश्रयन्तामृतावृधो व्यन्त्वाज्यस्य होतर्यज ॥

होता- ये३ यजामहे व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।

देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणा३ वौ३षट् ॥ ५ ॥

प्रशास्ता- होता यक्षदुषासानक्ता बृहती सुपेशसा नॄँः पतिभ्यो योनिं कृण्वाने ।

संस्मयमाने इन्द्रेण देवैरेदं बर्हिः सीदतां वीतामाज्यस्य होतर्यज ॥

होता- ये३ यजामहे आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ ।

दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने३ वौ३षट् ॥ ६ ॥

प्रशास्ता- होता यक्षद्दैव्याहोतारा मन्द्रा पोतारा कवी प्रचेतसा ।

स्विष्टमद्यान्यः करदिषा स्वभिगूर्तमन्य ऊर्जासतवसेमं यज्ञं दिवि देवेषु धत्तां वीतामाज्यस्य होतर्यज ॥

होता- ये३ यजामहे दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।

प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता३ वौ३षट् ॥ ७ ॥

प्रशास्ता- होता यक्षत्तिस्रो देवीरपसामपस्तमा अच्छिद्रमद्येदमपस्तन्वताम् ।

देवेभ्यो देवीर्देवमपो व्यन्त्वाज्यस्य होतर्यज ॥

होता- ये३ यजामह आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिह चेतयन्ती ।

तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वती स्वपसः सदन्तू३ वौ३षट् ॥ ८ ॥

प्रशास्ता- होता यक्षत्त्वष्टारमचिष्टुमपाकं रेतोधां विश्रवसं यशोधाम् ।

पुरुरूपमकामकर्शनं सुपोषः पोषैः स्यात् सुवीरो वीरैर्वेत्वाज्यस्य होतर्यज ॥

होता- ये३ यजामहे य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा ।

तमद्य होतरिषितो यजीयान् देवं त्वष्टारमिह यक्षि विद्वा३ न्वौ३षट् ॥ ९ ॥

प्रशास्ता- होता यक्षद्वनस्पतिमुपावस्रक्षद्धियो जोष्टारं शशमं नरः ।

[[६६]]

स्वदात्स्वधितिर् ऋतुथाद्य देवो देवेभ्यो हव्यवाड् वेत्वाज्यस्य होतर्यज ॥

होता- ये३ यजामह उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथा हवींषि ।

वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेना३ वौ३षट् ॥ १० ॥

पर्यग्नये क्रियमाणायानुब्रूहि इति प्रेषितो मैत्रावरुणः-

अग्निर्होता नो अध्वरे वाजी सन् परिणीयते । देवो देवेषु यज्ञियों३ इति त्रिः

परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव । आ देवेषु प्रियो दधों३

परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषो३म् ॥ इति त्रिः परिदध्यात् ।

अध्रिगवे प्रेष्य इति उपप्रेष्य होतर्हव्या देवेभ्यः इति वाध्वर्युणोक्ते प्रशास्ता- अजैदग्निरसनद्वाजं नि देवो देवेभ्यो हव्यवाट् प्राञ्जोभिर्हिन्वानो धेनाभिः कल्पमानो यज्ञस्यायुः प्रतिरन्नुपप्रेष्य होतार्हव्या देवेभ्यः । इति प्रैषमुक्त्वान्तर्वेदि दण्डं निदध्यात्

होता- दैव्याः शमितार आरभध्वमुत मनुष्या उपनयत मेध्यादुर आशासाना मेधपतिभ्यां मेधम् । प्रास्मा अग्निं भरत स्तृणीत बर्हिरन्वेनं माता मन्यतामनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्यः । उदीचीनाँ अस्य पदो निधत्तात् सूर्यं चक्षुर्गमयताद्वातं प्राणमन्ववसृजतादन्तरिक्षमसुं दिशः श्रोत्रं पृथिवीं शरीरम् । एकधास्य त्वचमाच्छ्यतात् पुरा नाभ्या अपिशसो वपामुत्खिदतादन्तरेवोष्माणं वारयध्वात् । श्येनमस्य वक्षः कृणुतात् प्रशसा बाहू शला दोषणी कश्यपे वांसाच्छिद्रे श्रोणी कवषोरूस्रे कपर्णाष्ठीवन्ता षड्विंशतिरस्य वंक्रयस्ता अनुष्ठ्यो च्यावयताद्गात्रं गात्रमस्यानूनं कृणुतात् । ऊवध्यगोहं पार्थिवं खनतात् । (उपांशु) अस्ना रक्षः संसृजतात् । वनिष्ठुमस्यमाराविष्टोरूकम्मन्यमाना नेद्वस्तोके तनये रवितारवत् (उपांशु) शमितारः । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३ उ (उपांशु) अपाप । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३ उ (उपांशु) अपाप । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३ उ (उपांशु) अपाप । शमितारो यदत्र सुकृतं कृणवथास्मासु तद्यद्दुष्कृतमन्यत्र तत् इति जपित्वा दक्षिणावृदावर्तते मैत्रावरुणश्च सव्यावृतौ ब्रह्मयजमानौ संज्ञप्ते पशौ पुनरावर्तेरन् वपायां श्रप्यमाणायां स्तोकेभ्योऽनुब्रूहि इति प्रेषितो मैत्रावरुणस्तिष्ठन् दण्डमादाय-

जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् । हव्या जुह्वान आसनो३म् इति त्रिः

इमं नो यज्ञममृतेषु धेहीमा हव्या जातवेदो जुषस्व ।

स्तोकानामग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्यो३ं

घृतवन्तः पावक ते स्तोकाश्चोतन्ति मेदसः ।

स्वधर्मं देववीतये श्रेष्ठं नो धेहि वार्यो३ं

तुभ्यं स्तोका घृतश्चुतोऽग्ने विप्राय सन्त्य ।

ऋषिःश्रेष्ठःसमिध्यसे यज्ञस्य प्राविता भवो३ं

तुभ्यं श्चोतन्त्यध्रिगो शचीवः स्तोकासो अग्ने मेदसो घृतस्य ।

[[६७]]

कविशस्तो बृहतो भानुनागा हव्या जुषस्व मेधिरो३

मोजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे ।

श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान् देवशो विहो३म् ॥ इति त्रिः परिदध्यात् ।

होता निरसनोपवेशने कृत्वा अग्निर्होता वेतु इत्युत्तमप्रयाजार्थं स्रुगादापनं ब्रूयात् स्वाहाकृतीभ्यः प्रेष्य इत्युक्ते

प्रशास्ता- होता यक्षदग्निं स्वाहाज्यस्य स्वाहा मेदसः स्वाहा स्तोकानां स्वाहा स्वाहाकृतीनां स्वाहा हव्यसूक्तीनाम् । स्वाहा देवा आज्यपा जुषाणा अग्न आज्यस्य व्यन्तु होतर्यज ॥

होता- ये३ यजामहे सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत् पुरोगाः ।

अस्य होतुः प्रदिश्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवा३ वौ३षट् ॥ ११ ॥ इति प्रयाजाः

यथाऋषि पक्षे तु- कण्वाङ्गिरोऽगस्त्यशुनका विश्वामित्रोऽत्रिरेव च

वसिष्ठः कश्यपो वाध्र्यश्वो जमदग्निरथोत्तमः

कण्वानाम्- ये३ यजामहे सुसमिद्धो न आवह देवाँ अग्ने हविष्मते । होतः पावक यक्षि चा३ वौ३षट् ॥

ये३ यजामहे मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे । अद्या कृणुहि वीतया३ इ वौ३षट् ॥

ये३ यजामह अग्ने सुखतमे रथे देवाँ ईळित आ वह । असि होता मनुर्हिता३ वौ३षट् ॥

ये३ यजामहे स्तृणीत बर्हिरानुषग्घृतपृष्ठं मनीषिणः । यत्रामृतस्य चक्षणा३ं वौ३षट् ॥

ये३ यजामहे वि श्रयन्तामृतावृधो द्वारो देवीरसश्चतः । अद्या नूनं च यष्टवा३ इ वौ३षट् ॥

ये३ यजामहे नक्तोषासा सुपेशसास्मिन् यज्ञ उप ह्वये । इदं नो बर्हिरासदा३ इ वौ३षट् ॥

ये३ यजामहे ता सुजिह्वा उप ह्वये होतारा दैव्या कवी । यज्ञं नो यक्षतामिमा३ं वौ३षट् ॥

ये३ यजामह इळा सरस्वती मही तिस्रो देवीर्मयोभुवः । बर्हिः सीदन्त्वस्रिधा३ वौ३षट् ॥

ये३ यजामह इह त्वष्टारमग्रियं विश्वरूपमुपह्वये । अस्माकमस्तु केवला३ वौ३षट् ॥

ये३ यजामह अव सृजा वनस्पते देव देवेभ्यो हविः । प्र दातुरस्तु चेतना३ं वौ३षट् ॥

ये३ यजामहे स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे । तत्र देवाँ उप ह्वया३ इ वौ३षट् ॥ १ १३ १-१२

अङ्गिरसाम्- ये३ यजामहे समिद्धो अग्न आ वह देवाँ अद्य यतस्रुचे । तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषा३ इ वौ३षट् ॥

ये३ यजामहे घृतवन्तमुप मासि मधुमन्तं तनूनपात् । यज्ञं विप्रस्य मावतः शशमानस्य दाशुषा३ वौ३षट् ॥

ये३ यजामह ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम् । इयं हि त्वा मतिर्ममाच्छा सुजिह्व वच्यता३ इ वौ३षट् ॥

ये३ यजामहे स्तृणानासो यतस्रुचो बर्हिर्यज्ञे स्वध्वरे । वृञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथा३ वौ३षट् ॥

ये३ यजामहे वि श्रयन्तामृतावृधः प्रयै देवेभ्यो महीः । पावकासः पुरुस्पृहो द्वारो देवीरसश्चता३ वौ३षट् ॥

[[६८]]

ये३ यजामह आ भन्दमाने उपाके नक्तोषासा सुपेशसा । यह्वी ऋतस्य मातरा सीदतां बर्हिरा सुमा३ द्वौ३षट् ॥

ये३ यजामहे मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी । यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्पृशा३ं वौ३षट् ॥

ये३ यजामहे शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती । इळा सरस्वती मही बर्हिः सीदन्तु यज्ञिया३ वौ३षट् ॥

ये३ यजामहे तन्नस्तुरीपमद्भुतं पुरु वारं पुरु त्मना । त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयू३ र्वौ३षट् ॥

ये३ यजामह अवसृजन्नुप त्मना देवान् यक्षि वनस्पते । अग्निर्हव्या सुषूदति देवो देवेषु मेधिरा३ वौ३षट् ॥

ये३ यजामहे पूषण्वते मरुत्वते विश्वदेवाय वायवे । स्वाहा गायत्रवेपसे हव्यमिन्द्राय कर्तना३ वौ३षट् ॥ १ १४२ १-१३

अगस्त्यानाम्- ये३ यजामहे समिद्धो अद्य राजसि देवो देवैः सहस्रजित् । दूतो हव्या कविर्वहा३ वौ३षट् ॥

ये३ यजामहे तनूनपादृतं यते मद्वा यज्ञः समज्यते । दधत् सहस्रिणीरिषा३ वौ३षट् ॥

ये३ यजामह आजुह्वानो न ईड्यो देवाँ आ वक्षि यज्ञियान् । अग्ने सहस्रसा असी३ वौ३षट् ॥

ये३ यजामहे प्राचीनं बर्हिरोजसा सहस्रवीरमस्तृणन् । यत्रादित्या विराजथा३ वौ३षट् ॥

ये३ यजामहे विराट् सम्राड्विभ्वीः प्रभ्वीर्बह्वीश्च भूयसीश्च याः । दुरो घृतान्यक्षरा३ न्वौ३षट् ॥

ये३ यजामहे सुरुक्मे हि सुपेशसाधि श्रिया विराजतः । उषासावेह सीदता३ं वौ३षट् ॥

ये३ यजामहे प्रथमा हि सुवाचसा होतारा दैव्या कवी । यज्ञं नो यक्षतामिमा३ं वौ३षट् ॥

ये३ यजामहे भारतीळे सरस्वती या वः सर्वा उपब्रुवे । ता नश्चोदयत श्रिया३ इ वौ३षट् ॥

ये३ यजामहे त्वष्टा रूपाणि हि प्रभुः पशून् विश्वान् त्स्मानजे । तेषां नः स्फातिमा यजा३ वौ३षट् ॥

ये३ यजामह उप त्मना वनस्पते पाथो देवेभ्यः सृज । अग्निर्हव्यानि सिष्वदा३ द्वौ३षट् ॥

ये३ यजामहे पुरोगा अग्निर्देवानां गायत्रेण समज्यते । स्वाहाकृतीषु रोचता३ इ वौ३षट् ॥ १ १८८ १-११

शुनकानाम्- ये३ यजामहे समिद्धो अग्निर्निहितः पृथिव्यां प्रत्यङ् विश्वानि भुवनान्यस्थात् ।

होता पावकः प्रदिवः सुमेधा देवो देवान् यजत्वग्निरर्हा३ न्वौ३षट् ॥

प्रशास्ता- होता यक्षन्नराशंसं नृशस्त्रं नॄँःप्रणेत्रं ।

गोभिर्वपावान्त्स्याद्वीरैः शक्तीवान् रथैः प्रथमया वा हिरण्यैश्चन्द्री वेत्वाज्यस्य होतर्यज इति शुनकानां द्वितीयः प्रैषः

ये३ यजामहे नराशंसः प्रति धामान्यञ्जन् तिस्रो दिवः प्रति मह्ना स्वर्चिः ।

घृतप्रुषा मनसा हव्यमुन्दन् मूर्धन् यज्ञस्य समनक्तु देवा३ न्वौ३षट् ॥

ये३ यजामह ईळितो अग्ने मनसा नो अर्हन् देवान् यक्षि मानुषात् पूर्वो अद्य ।

स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वा३ं वौ३षट् ॥

ये३ यजामहे देव बर्हिर्वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्यस्याम् ।

[[६९]]

घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासा३ वौ३षट् ॥

ये३ यजामहे वि श्रयन्तामुर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः ।

व्यचस्वतीर्वि प्रथन्तामजुर्या वर्णं पुनाना यशसं सुवीरा३ं वौ३षट् ॥

ये३ यजामहे साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते ।

तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती३ वौ३षट् ॥

ये३ यजामहे दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः समृचा वपुष्टरा ।

देवान् यजन्तावृतुथा समञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषू३ वौ३षट् ॥

ये३ यजामहे सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः ।

तिस्रो देवीः स्वधया बर्हिरेदमच्छिद्रं पान्तु शरणं निषद्या३ वौ३षट् ॥

ये३ यजामहे पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः ।

प्रजां त्वष्टा विष्यतु नाभिमस्मे अथा देवानामप्येतु पाथा३ वौ३षट् ॥

ये३ यजामहे वनस्पतिरवसृजन्नुप स्थादग्निर्हविः सूदयाति प्र धीभिः ।

त्रिधा समक्तं नयतु प्रजानन् देवेभ्यो दैव्यः शमितोप हव्या३ं वौ३षट् ॥ २ ३ १-११

विश्वामित्राणाम्- ये३ यजामहे समित्समित् सुमना बोध्यस्मे शुचाशुचा सुमतिं रासि वस्वः ।

आ देव देवान् यजथाय वक्षि सखा सखीन् त्सुमना यक्ष्यग्ने३ वौ३षट् ॥

ये३ यजामहे यं देवासस्त्रिरहन्नायजन्ते दिवेदिवे वरुणो मित्रो अग्निः ।

सेमं यज्ञं मधुमन्तं कृधी नस्तनूनपाद् घृतयोनिं विधन्ता३ं वौ३षट् ॥

ये३ यजामहे प्र दीधितिर्विश्ववारा जिगाति होतारमिळः प्रथमं यजध्यै ।

अच्छा नमोभिर्वृषभं वन्दध्यै स देवान् यक्षदिषितो यजीया३ न्वौ३षट् ॥

ये३ यजामह ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि प्रस्थिता रजांसि ।

दिवो वा नाभा न्यसादि होता स्तृणीमहि देवव्यचा वि बर्ही३ र्वौ३षट् ॥

ये३ यजामहे सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वं प्रति यन्नृतेन ।

नृपेशसो विदथेषु प्र जाता अभी३मं यज्ञं वि चरन्त पूर्वी३ र्वौ३षट् ॥

ये३ यजामह आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा३ विरूपे ।

यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वाँ उत वा महोभी३ र्वौ३षट् ॥

ये३ यजामहे दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति ।

ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्याना३ वौ३षट् ॥

ये३ यजामह आ भारती भारतीभिः सजोषा इळा देवी मनुष्येभिरग्निः ।

[[७०]]

सरस्वती सारस्वतेभिरर्वाक् तिस्रो देवीर्बर्हिरेदं सदन्तू३ वौ३षट् ॥

ये३ यजामहे तन्नस्तुरीपमधपोषयित्नु देव त्वष्टर्विरराणः स्यस्व ।

यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामा३ वौ३षट् ॥

ये३ यजामहे वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति ।

सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेदा३ वौ३षट् ॥

ये३ यजामह आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः ।

बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ता३ं वौ३षट् ॥ ३ ४ १-११

अत्रीणाम्- ये३ यजामहे सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन । अग्नये जातवेदसा३ इ वौ३षट् ॥

प्रशास्ता- होता यक्षन्नराशंसं नृशस्त्रं नॄँःप्रणेत्रं ।

गोभिर्वपावान्त्स्याद्वीरैः शक्तीवान् रथैः प्रथमया वा हिरण्यैश्चन्द्री वेत्वाज्यस्य होतर्यज इत्यत्रीणां द्वितीयः प्रैषः

ये३ यजामहे नराशंसः सुषूदतीमं यज्ञमदाभ्यः । कविर्हि मधुहस्त्या३ वौ३षट् ॥

ये३ यजामह ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम् । सुखै रथेभिरूतया३ इ वौ३षट् ॥

ये३ यजामह ऊर्णम्रदा वि प्रथस्वाभ्य१र्का अनूषत । भवा नः शुभ्र सातया३ इ वौ३षट् ॥

ये३ यजामहे देवीर्द्वारो विश्रयध्वं सुप्रायणा न ऊतये । प्रप्र यज्ञं पृणीतना३ वौ३षट् ॥

ये३ यजामहे सुप्रतीके वयोवृधा यह्वी ऋतस्य मातरा । दोषामुषासमीमहा३ इ वौ३षट् ॥

ये३ यजामहे वातस्य पत्मन्नीळिता दैव्या होतारा मनुषः । इमं नो यज्ञमागता३ं वौ३षट् ॥

ये३ यजामह इळा सरस्वती तिस्रो देवीर्मयोभुवः । बर्हिः सीदन्त्वस्रिधा३ वौ३षट् ॥

ये३ यजामहे शिवस्त्वष्टरिहा गहि विभुः पोष उत त्मना । यज्ञेयज्ञे न उदवा३ वौ३षट् ॥

ये३ यजामहे यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । तत्र हव्यानि गामया३ वौ३षट् ॥

ये३ यजामहे स्वाहाग्नये वरुणाय स्वाहेन्द्राय मरुद्भ्यः । स्वाहा देवेभ्यो हवी३ र्वौ३षट् ॥ ५ ५ १-११

वसिष्ठानाम्- ये३ यजामहे जुषस्व नः समिधमग्ने अद्य शोचा बृहद्यजतं धूममृण्वन् ।

उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस्ततन सूर्यस्या३ वौ३षट् ॥

प्रशास्ता- होता यक्षन्नराशंसं नृशस्त्रं नॄँः प्रणेत्रं ।

गोभिर्वपावान् त्स्याद्वीरैः शक्तीवान् रथैः प्रथमया वा हिरण्यैश्चन्द्री वेत्वाज्यस्य होतर्यज इति वसिष्ठानां द्वितीयः प्रैषः

ये३ यजामहे नराशंसस्य महिमानमेषामुप स्तोषाम यजतस्य यज्ञैः ।

ये सुक्रतवः शुचयो धियन्धाः स्वदन्ति देवा उभयानि हव्या३ वौ३षट् ॥

[[७१]]

ये३ यजामह ईळेन्यं वो असुरं सुदक्षमन्तर्दूतं रोदसी सत्यवाचम् ।

मनुष्वदग्निं मनुना समिद्धं समध्वराय सदमिन्महेमाा३ वौ३षट् ॥

ये३ यजामहे सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिरग्नौ ।

आजुह्वाना घृतपृष्ठं पृषद्वदध्वर्यवो हविषा मर्जयध्वा३ं वौ३षट् ॥

ये३ यजामहे स्वाध्यो३ वि दुरो देवयन्तोऽशिश्रयू रथयुर्देवताता ।

पूर्वी शिशुं न मातरा रिहाणे समग्रुवो न समनेष्वञ्जा३ न्वौ३षट् ॥

ये३ यजामह उत योषणे दिव्ये मही न अषासानक्ता सुदुघेव धेनुः ।

बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेता३ं वौ३षट् ॥

ये३ यजामहे विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातव्वेदसा यजध्यै ।

ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणी३ वौ३षट् ॥

ये३ यजामह आ भारती भारतीभिः सजोषा इळा देवी मनुष्येभिरग्निः ।

सरस्वती सारस्वतेभिरर्वाक् तिस्रो देवीर्बर्हिरेदं सदन्तू३ वौ३षट् ॥

ये३ यजामहे तन्नस्तुरीपमधपोषयित्नु देव त्वष्टर्विरराणः स्यस्व ।

यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामा३ वौ३षट् ॥

ये३ यजामहे वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति ।

सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेदा३ वौ३षट् ॥

ये३ यजामह आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः ।

बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ता३ं वौ३षट् ॥ ७ २ १-११

कश्यपानाम्- ये३ यजामहे समिद्धो विश्वतस्पतिः पवमानो वि राजति । प्रीणन् वृषा कनिक्रदा३ द्वौ३षट् ॥

ये३ यजामहे तनूनपात् पवमानः शृङ्गे शिशानो अर्षति । अन्तरिक्षेण रारजा३ द्वौ३षट् ॥

ये३ यजामह ईळेन्यः पवमानो रयिर्विराजति द्युमान् । मधोर्धाराभिरोजसा३ वौ३षट् ॥

ये३ यजामहे बर्हिः प्राचीनमोजसा पवमानः स्तृणन् हरिः । देवेषु देव ईयता३ इ वौ३षट् ॥

ये३ यजामह उदातैर्जिहते बृहद् द्वारो देवीर्हिरण्ययीः । पवमानेन सुष्टुता३ वौ३षट् ॥

ये३ यजामहे सुशिल्पे बृहती मही पवमानो वृषण्यति । नक्तोषासा न दर्शता३ इ वौ३षट् ॥

ये३ यजामह उभा देवा नृचक्षसा होतारा दैव्या हुवे । पवमान इन्द्रो वृषा३ वौ३षट् ॥

ये३ यजामहे भारती पवमानस्य सरस्वतीळा मही । इमं नो यज्ञमागमन् तिस्रो देवीः सुपेशसा३ वौ३षट् ॥

ये३ यजामहे त्वष्टारमग्रजां गोपां पुरोयावानमा हुवे । इदुरिन्द्रो वृषा हरिः पवमानः प्रजापती३ र्वौ३षट् ॥

ये३ यजामहे वनस्पतिं पवमान मध्वा समङ्ग्धि धारया । सहस्रवल्शं हरितं भ्राजमानं हिरण्यया३ं वौ३षट् ॥

[[७२]]

ये३ यजामहे विश्वे देवाः स्वाहाकृतिं पवमानस्या गत ।

वायुर्बृहस्पतिः सूर्योऽग्निरिन्द्रः सजोषसा३ वौ३षट् ॥ ९ ५ १-११

वाध्र्यश्वानाम्- ये३ यजामह इमां मे अग्ने समिधं जुषस्वेळस्पदे प्रति हर्या घृताचीम् ।

वर्ष्मन् पृथिव्याः सुदिनत्वे अह्नामूर्ध्वो भव सुक्रतो देवयज्या३ वौ३षट् ॥

प्रशास्ता- होता यक्षन्नराशंसं नृशस्त्रं नॄँःप्रणेत्रं ।

गोभिर्वपावाम् त्स्याद्वीरैः शक्तीवान् रथैः प्रथमया वा हिरण्यैश्चन्द्री वेत्वाज्यस्य होतर्यज इति कश्यपानां द्वितीयः प्रैषः

ये३ यजामह आ देवानामग्रयावेह यातु नराशंसो विश्वरूपेभिरश्वैः ।

ऋतस्य पथा नमसा मियेभो देवेभ्यो देवतमः सुषूदा३ द्वौ३षट् ॥

ये३ यजामहे शश्वत्तममीळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम् ।

वहिष्ठैरश्वैः सुवृता रथेना देवान् वक्षि नि षदेह होता३ वौ३षट् ॥

ये३ यजामहे वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मा सुरभि भूत्वस्मे ।

अहेळता मनसा देव बर्हिरिन्द्रज्येष्ठाँ उशतो यक्षि देवा३ न्वौ३षट् ॥

ये३ यजामहे दिवो वा सानु स्पृशता वरीयः पृथिव्या वा मात्रया वि श्रयध्वम् ।

उशतीर्द्वारो महिना महद्भिर्देवं रथं रथयुर्धारयध्वा३ं वौ३षट् ॥

ये३ यजामहे देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नि योनौ ।

आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगे उपस्था३ इ वौ३षट् ॥

ये३ यजामह ऊर्ध्वो ग्रावा बृहदग्निः समिद्धः प्रिया धामान्यदितेरुपस्थे ।

पुरोहितावृत्विजा यज्ञे अस्मिन् विदुष्टरा द्रविणमा यजेथा३ं वौ३षट् ॥

ये३ यजामहे तिस्रो देवीर्बर्हिरिदं वरीय आ सीदत चकृमा वः स्योनम् ।

मनुष्वद्यज्ञं सुधिता हवींषीळा देवी घृतपदी जुषन्ता३ वौ३षट् ॥

ये३ यजामहे देव त्वष्टर्यद्ध चारुत्वमानड् यदङ्गिरसामभवघ् सचाभूः ।

स देवानां पाथ उप प्र विद्वानुशन् यक्षि द्रविणोदः सुरत्ना३ वौ३षट् ॥

ये३ यजामहे वनस्पते रशनया नियूया देवानां पाथ उप वक्षि विद्वान् ।

स्वदाति देवः कृणद्धवींष्यवतां द्यावापृथिवी हवं मा३ इ वौ३षट् ॥

ये३ यजामह आग्ने वह वरुणमिष्टये न इन्द्रं दिवो मरुतो अन्तरिक्षात् ।

सीदन्तु बर्हिर्विश्व आ यजत्राः स्वाहा देवा अमृता मादयन्ता३ं वौ३षट् ॥ १० ७० १-११

जमदग्नीनां तु पूर्वमेवोक्तम् इति यथाऋषि पक्षे प्रयाजयाज्याः

[[७३]]

आज्यभागपक्षेऽनुवाकाय प्रेषितः प्रशास्ता-

अग्निर्वृत्राणि जङ्घनद् द्रविणस्युर्विपन्यया । समिद्धः शुक्र आहुतो३म् ॥

प्रैषार्थं प्रेषितः- होता यक्षदग्निमाज्यस्य जुषतां हविर्होतर्यज ॥

होता- ये३ यजामहे जुषाणो अग्निराज्यस्य वेतू३ वौ३षट् ॥

प्रशास्ता- त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा । त्वं भद्रो असि क्रतो३म् ॥

होता यक्षत्सोममाज्यस्य जुषतां हविर्होतर्यज ॥

होता- ये३ यजामहे जुषाणः सोम आज्यस्य हविषो वेतू३ वौ३षट् ॥

वपायागे

प्रशास्ता- अग्नीषोमाविमं सु मे शृणुतं वृषणाहवम् । प्रति सूक्तानि हर्यतं भवतं दाशुषे मयो३म् ॥

होता यक्षदग्नीषोमौ छागस्य वपाया मेदसो जुषेतां हविर्होतर्यज ॥

होता- ये३ यजामहे युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् ।

युवं सिन्धूँरभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीता३ न्वौ३षट् ॥ [१ । ९३ । ५]

हुतायां वपायां सब्रह्मकाश्चात्वाले मार्जयन्ते मैत्रावरुणस्तु दण्डं निधाय मार्जयते

इ॒दमा॑पः॒ प्रव॑हत॒ यत्किञ्च॑ दुरि॒तं मयि॑ ।

यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥ [१ । २३ । २२]

सुमित्र्या न आप ओषधयो भवन्तु दुर्मित्रास्तस्मै सन्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।

तीर्थेन निष्क्रम्यासीत आ पुरोडाशश्रपणात्

पुरोळाशयागे

प्रशास्ता- अग्नीषोमा यो अद्य वामिदं वचः सपर्यति । तस्मै धत्तं सुवीर्यं गवां पोषं स्वश्व्यो३म् ॥

होता यक्षदग्नीषोमौ पुरोळाशस्य जुषेतां हविर्होतर्यज ॥

होता- ये३ यजामह आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परिश्येनो अद्रेः ।

अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोका३ं वौ३षट् ॥

पुरोडाशस्विष्टकृदि

[[७४]]

प्रशास्ता- इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।

स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मो३म् ॥

होता यक्षदग्निं पुरोळाशस्य जुषतां हविर्होतर्यज ॥

होता-ये३ यजामहे स्वदस्व हव्या समिषो दिदीह्यस्मद्र्यक् सं मिमीहि श्रवांसि ।

विश्वाँ अग्ने पृत्सु तां जेषि शत्रूनहा विश्वा सुमना दीदिही ना३ वौ३षट् ॥ न निगमः

वाचस्पतिना इत्यादि इळामुपहूय भक्षयन्ति

मनोतायै संप्रेषितः प्रशास्ता-

त्वं ह्यग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता ।

त्वं सीं वृषन्नकृणोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यो३म् इति त्रिः

अधा होता न्यसीदो यजीयानिळस्पद इषयन्नीड्यः सन् ।

तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मो३ं

वृतेव यन्तं बहुभिर्वसव्यै३स्ते रयिं जागृवांसो अनु ग्मन् ।

रुशन्तमग्निं दर्शतं बृहन्तं वपावन्तं विश्वहा दीदिवांसो३ं

पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्नमृक्तम् ।

नामानि चिद्दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टो३ं

त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् ।

त्वं त्राता तरणे चेत्यो भूः पिता माता सदमिन् मानुषाणो३ं

सपर्येण्यः स प्रियो विक्ष्व१ग्निर्होता मन्द्रो नि षसादा यजीयान् ।

तं त्वा वयं दम आ दीदिवांसमुप ज्ञुबाधो नमसा सदमो३ं

तं त्वा वयं सुध्यो३ नव्यमग्ने सुम्नायव ईमहे देवयन्तः ।

त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेनो३ं

विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् ।

प्रेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणो३ं

सो अग्न ईजे शशमे च मर्तो यस्त आनट् समिधा हव्यदातिम् ।

य आहुतिं परि वेदा नमोभिर्विश्वेत्स वामा दधते त्वोतो३म्

अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः ।

वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौ यतेमो३म्

आ यस्ततन्थ रोदसी वि भासा श्रवोभिश्च श्रवस्य१स्तरुत्रः ।

[[७५]]

बृहद्भिर्वाजैः स्थविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहो३ं

नृवद्वसो सदमिद्धेह्यस्मे भूरि तोकाय तनयाय पश्वः ।

पूर्वीरिषो बृहतीरारे अघा अस्मे भद्रा सौश्रवसानि सन्तो३ं

पुरूण्यग्ने पुरुधा त्वाया वसूनि भद्रा राजन् वसुता ते अश्याम् ।

पुरूणि हित्वे पुरुवार सन्त्यग्ने वसु विधते राजनि त्वो३म् ॥ ६ १ १-१३ इति त्रिः परिदध्यात्

हविर्यागे

प्रशास्ता- अग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम् ।

स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवो३म् ॥

होता यक्षदग्नीषोमौ छागस्य हविष आत्तामद्य मध्यतो मेद उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्यागृभः । घस्तां नूनं घासे अज्राणां यवसप्रथमानां सुमत्क्षराणां शतरुद्रियाणामग्निष्वात्तानां पीवोपवसनानां पार्श्वतः श्रोणितः शितामत उत्सादतोऽङ्गादङ्गादवत्तानां करत एवाग्नीषोमौ जुषेतां हविर्होतर्यज ॥

होता- ये३ यजामहेऽग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् । अत्रार्धर्चे विरमेदा वसाहोमात्

सुशर्मणा स्ववसा हि भूतमथा धत्तं यजमानाय शंयो३ र्वौ३षट् ॥

वनस्पतियागे-

प्रशास्ता- देवेभ्यो वनस्पते हवींषि हिरण्यपर्णप्रदिवस्ते अर्थम् ।

प्रदक्षिणिद्रशनया नियूय ऋतस्य वक्षि पथिभी रजिष्ठो३म् ॥

होता यक्षद्वनस्पतिमभि हि पिष्टतमया रभिष्टया रशनया धित । यत्राग्नेराज्यस्य हविषः प्रियाधामानि यत्र सोमस्याज्यस्य हविषः प्रियाधामानि यत्राग्नीषोमयोश्छागस्य हविषः प्रियाधामानि यत्र वनस्पतेः प्रियापाथांसि यत्र देवानामाज्यपानां प्रियाधामानि यत्राग्नेर्होतुः प्रियाधामानि तत्रैतं प्रस्तुत्येवोपस्तुत्येवोपावस्रक्षद् रभीयांसमिव कृत्वीकरदेवं देवो वनस्पतिर्जुषतां हविर्होतर्यज ॥

होता- ये३ यजामहे वनस्पते रशनया नियूय पिष्टतमया वयुनानि विद्वान् ।

वह देवत्रा दधिषो हवींषि प्र च दातारममृतेषु वोचा३ वौ३षट् ॥

स्विष्टकृदिप्रशास्ता- प्रिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ऋतूँर्ऋतुपते यजेह ।

ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्या यजिष्ठो३म् ॥

[[७६]]

होता यक्षदग्निं स्विष्टकृतमयाळग्निरग्नेराज्यस्य हविषः प्रियाधामान्ययाट् सोमस्याज्यस्य हविषः प्रियाधामान्ययाळग्नीषोमयोश्छागस्य हविषः प्रियाधामान्ययाड् वनस्पतेः प्रियापाथांस्ययाड् देवानामाज्यपानां प्रियाधामानि यक्षदग्नेर्होतुः प्रियाधामानि यक्षत्स्वं महिमानामायजतामेज्या इषः कृणोतु सो अध्वरा जातवेदा जुषतां हविर्होतर्यज ॥

होता- ये३ यजामहेऽग्ने यदद्यविशो अध्वरस्य होतः पावकशोचे वेष्ट्वं हि यज्वा ।

ऋता यजासि महिना वियद्भूर्हव्या वह यविष्ठ या ते अद्या३ वौ३षट् ॥ [६ । १५ । १४]

इडामुपहूय भक्षयन्ति तत अनुयाजाः-

प्रशास्ता- देवं बर्हिः सुदेवं देवैः स्यात् सुवीरं वीरैर्वस्तोर्वृज्येताक्तोः प्रभ्रियेतात्यन्यान् राया बर्हिष्मतो मदेम वसुवने वसुधेयस्य वेतु यज ॥

होता- देवं बर्हिर्वसुवने वसुधेयस्य वेतू३ वौ३षट् ॥

प्रशास्ता-देवीर्द्वारः सङ्घाते विड्वीर्यामञ्छिथिरा ध्रुवा देवहूतौ वत्स ईमेनास्तरुण आमिमीयात् कुमारो वा नव जातो मैना अर्वारेणुककाटः पृणग्वसुवने वसुधेयस्य व्यन्तु यज ॥

होता- देवीर्द्वारो वसुवने वसुधेयस्य व्यन्तू३ वौ३षट् ॥

प्रशास्ता- देवी उषासानक्ताद्यास्मिन् यज्ञे प्रयत्यह्वेतामपि नूनं दैवीर्विशः प्रायासिष्टां सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज ॥

होता- देवी उषासानक्ता वसुवने वसुधेयस्य वीता३ं वौ३षट् ॥

प्रशास्ता- देवी जोष्ट्री वसुधिती ययोरन्याघाद्वेषांसि युयवदान्यावक्षद्वसुवार्याणि यजमानाय वसुवने वसुधेयस्य वीतां यज ॥

होता- देवी जोष्ट्री वसुवने वसुधेयस्य वीता३ं वौ३षट् ॥

प्रशास्ता- देवी ऊर्जाहुती इषमूर्जमन्यावक्षत् सग्धिं सपीतिमन्यानवेनपूर्वं दयमानास्यामपुराणेन नवं तामूर्जमूर्जाहुती ऊर्जयमाने अधातां वसुवने वसुधेयस्य वीतां यज ॥

होता- देवी ऊर्जाहुती वसुवने वसुधेयस्य वीता३ं वौ३षट् ॥

प्रशास्ता- देवा दैव्याहोतारा पोतारा नेष्टारा हताघशंसावाभरद्वसू वसुवने वसुधेयस्य वीतां यज ॥

होता- देवा दैव्या होतारा वसुवने वसुधेयस्य वीता३ं वौ३षट् ॥

प्रशास्ता- देवीस्तिस्रस्तिस्रो देवीरिळा सरस्वती भारती द्यां भारत्यादित्यैरस्पृक्षत् सरस्वतीमं रुद्रैर्यज्ञमावीदिहैवेळया वसुमत्या सधमादं मदेम वसुवने वसुधेयस्य व्यन्तु यज ॥

होता- देवीस्तिस्रस्तिसो देवीर्वसुवने वसुधेयस्य व्यन्तू३ वौ३षट् ॥

प्रशास्ता- देवो नराशंसस्त्रिशीर्षा षळक्षः शतमिदेनं शितिपृष्ठा आदधति सहस्रमीं प्रवहन्ति मित्रावरुणे दस्युहोत्रमर्हतो बृहस्पतिस्तोत्रमश्विनाध्वर्यवं वसुवने वसुधेयस्य वेतु यज ॥

[[७७]]

होता- देवो नराशंसो वसुवने वसुधेयस्य वेतू३ वौ३षट् ॥

प्रशास्ता- देवो वनस्पतिर्वर्षप्रावा घृतनिर्णिक् द्यामग्रेणास्पृक्षदान्तरिक्षं मध्येनाप्राः पृथिवीमपरेणादृंहीद्वसुवने वसुधेयस्य वेतु यज ॥

होता- देवो वनस्पतिर्वसुवने वसुधेयस्य वेतू३ वौ३षट् ॥

प्रशास्ता- देवं बर्हिर्वारितीनां निधेधासि प्रच्युतीनामप्रच्युतं निकामधरणं पुरुस्पार्हं यशस्विदेनां बर्हिषान्याबर्हींष्यभिष्याम वसुवने वसुधेयस्य वेतु यज ॥

होता- देवं बर्हिर्वारितीनां वसुवने वसुधेयस्य वेतू३ वौ३षट् ॥

प्रशास्ता- देवो अग्निः स्विष्टकृत् सुद्रविणा मन्द्रः कविः सत्यमन्मा यजी होता होतुर्होतुरायजीयानग्ने यान् देवानयाड्याँ अपि प्रेर्येते होत्रे अमत्सत तां ससनुषीं होत्रां देवङ्गमां दिवि देवेषु यज्ञमेरमेयं स्विष्टकृच्चाग्ने होता भूर्वसुवने वसुधेयस्य नमोवाके वीहि यज ॥ इत्यनवानं प्रेष्यति

होता- देवो अग्निः स्विष्टकृत् सुद्रविणा मन्द्रः कविः सत्यमन्मायजी होता होतुर्होतुरायजीयानग्ने यान् देवानयाड्याँ अपि प्रेर्येते होत्रे अमत्सत तां ससनुषीं होत्रां देवङ्गमां दिवि देवेषु यज्ञमेरयेमं स्विष्टकृच्चाग्ने होता भूर्वसुवने वसुधेयस्य नमोवाके वीही३ वौ३षट् ॥ अनवानं यजति प्रकृत्या वा

सूक्तवाकाय संप्रेषितः प्रशास्ता- अग्निमद्य होतारमवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोळाशं गृह्णन्नग्नय आज्यं गृह्णन् त्सोमायाज्यं बध्नन्नग्नीषोमाभ्यां छागं सूपस्था अद्य देवो वनस्पतिरभवदग्नय आज्येन सोमायाज्येनाग्नीषोमाभ्यां छागेनाघस्तांतं मेदस्तः प्रतिपचताग्रभीष्टामवीवृधेतां पुरोळाशेन त्वामद्यर्ष आर्षेय ऋषीणांनपादवृणीतायं यजमानो बहुभ्य आसङ्गतेभ्यः । एष मे देवेषु वार्यायक्ष्यत इति ता या देवा देवदानान्यदुस्तान्यस्मा आ च शास्वा च गुरस्वेषितश्च होतरसि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रू३हि ॥

होता- इदं द्यावापृथिवी इत्यदि अग्निरिदं…, सोम इदं…, अग्नीषोमाविदं हविरजुषेतामवीवृधेतां महोज्यायोऽक्राताम् । वनस्पतिरिदं…, देवा आज्यपा इत्यादि । अस्यामृधेद्धोत्रायां देवङ्गमायामाशास्तेऽयं यजमानोऽस्य यज्ञस्यागुर उदृचमशीयेत्याशास्ते यदनेन हविषाशास्ते इत्यादि । शंयुवाकः । वेदग्रहणकाले उदयुषा इति उपोत्थानमग्रे कृत्वा निष्क्रम्य वेदं गृह्णीयात । ् प्रकृतिवत् पत्नीसंयाजाः । नेदमादिषु हृदयशूलमर्वागुदयनीयायाः । आज्येडान्ताग्नीषोमीयः सन्तिष्ठते । संस्थिते वसतीवरीः परिहरन्ति । दीक्षिता अभि परिहारयेरन् ।

प्रायश्चित्तपशुपक्षे-

त्रिपुरुषसोमपीथविच्छेदनसन्धानार्थमैन्द्राग्नं पशुं दौर्ब्राह्मण्यनिर्हरणार्थमाश्विनं पशुमग्नीषोमीयेन सह समानतन्त्रेण प्रयोगः । नमः प्रवक्त्रे इत्यादि सप्तदशसामिधेन्यः ।

[[७८]]

आवाहने- अग्निमग्न आ३वह । सोममा३वह । अग्नीषोमावा३वह । इन्द्राग्नी आ३वह । अश्विनावा३वह । वनस्पतिमा३वह । देवाँ आज्यपाँ आ३वह इत्यादि । सम्मार्गैः सम्मृज्येत्यादि समानमाध्रिगुप्रैषान्तम् । अध्रिगौ

विशेषः । होता- दैव्याः शमितार आरभध्वमुत मनुष्या उपनयत मेध्यादुर आशासाना मेधपतिभ्यो मेधान् । प्रैभ्यो अग्निं भरत स्तृणीत बर्हिरन्वेनान् माता मन्यतामनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्यः । उदीचीनाँ एषां पदो निधत्तात् सूर्यं चक्षुर्गमयताद्वातं प्राणमन्ववसृजतादन्तरिक्षमसुं दिशः श्रोत्रं पृथिवीं शरीराणि । एकधैकधैषां त्वच आच्छ्यतात् पुरा नाभ्या अपिशसो वपा उत्खिदतादन्तरेवोष्माणं वारयध्वात् । श्येनमेषां वक्षांसि कृणुतात् प्रशसो बाहूञ्छला दोषाणी कश्यपे वांसानच्छिद्राः श्रोणीः कवषोरून्त्स्रे कपर्णाष्ठीवतः षड्विंशतिः षड्विंशतिरेषां वंक्रयस्ता अनुष्ठ्यो च्यावयताद्गात्रं गात्रमेषामनूनं कृणुतात् । ऊवध्यगोहं पार्थिवं खनतात् । (उपांशु) अस्ना रक्षः संसृजतात् । वनिष्ठूनेषां माराविष्टोरूकम्मन्यमाना नेद्वस्तोके तनये रवितारवत् (उपांशु) शमितारः । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३ उ (उपांशु) अपाप । इत्याद्यूहः । एकधा षड्विंशतिरिति द्विर्द्विबहूनाम् । पुरान्तरिति चैके । स्तोकानुवचनाद्याज्यभागाभ्यामिष्ट्वा वपायागेऽग्नीषोमीयेन प्रचर्य ऐन्द्राग्नाश्विनाभ्यां प्रचरन्ति-

ऐन्द्राग्नस्य पशोर्वपाया याज्यानुवाक्या-

प्रशास्ता- आ वृत्रहणा वृत्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक् ।

युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभो३म् ॥ [६ । ६० । ३]

होता यक्षदिन्द्राग्नी छागस्य वपाया मेदसो जुषेतां हविर्होतर्यज ॥

होता- ये३ यजामहे शुचिं नु स्तोमं नवजातमद्येन्द्राग्नी वृत्रहणा जुषेथाम् ।

उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा३ वौ३षट् ॥ [७ । ९३ । १]

आश्विनस्य पशोर्वपाया याज्यानुवाक्या-

प्रशास्ता- आ पश्चातान्नासत्या पुरस्तादाश्विना यातमुधरादुदक्तात् ।

आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नो३म् ॥ [७ । ७२ । ५]

होता यक्षदश्विनौ छागस्य वपाया मेदसो जुषेतां हविर्होतर्यज ॥

होता- ये३ यजामह उदु स्तोमासो अश्विनोरबुध्रञ्जामि ब्रह्माण्युषसश्च देवीः ।

आविवासन् रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ती वौ३षट् ॥ [७ । ७२ । ३] मार्जनम् ।

पुरोडाशयागे- अग्नीषोमीयेन पशुपुरोडाशेन प्रचर्य, ऐन्द्राग्नस्य पशुपुरोडाशस्य याज्यानुवाक्या-

प्रशास्ता- आ भरतं शिक्षतं वज्रबाहू अस्माँ इन्द्राग्नी अवतं शचीभिः ।

इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसो३म् ॥ [१ । १०९ । ८]

होता यक्षदिन्द्राग्नी पुरोळाशस्य जुषेतां हविर्होतर्यज ॥

होता- ये३ यजामहे गीर्भिर्विप्रः प्रमतिमिच्छमान ईट्टे रयिं यशसं पूर्वभाजम् ।

[[७९]]

इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस्तिरतं देष्णै३ र्वौषट् ॥ [७ । ९३ । ४]

आश्विनस्य पशुपुरोडाशस्य याज्यानुवाक्या-

प्रशास्ता- आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् ।

अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभानो३म् ३ ॥ [७ । ७२ । १]

होता यक्षदश्विनौ पुरोळाशस्य जुषेतां हविर्होतर्यज ॥

होता- ये३ यजामहे वि चेदुच्छन्त्यश्विना उषासः स वां ब्रह्माणि कारवो भरन्ते ।

ऊर्ध्वं भानुं सविता देवो अश्रेद् बृहदग्नयः समिधा जरन्ता३ इ वौ३षट् ॥ [७ । ७२ । ४]

स्विष्टकृदादीळामुपह्वयति । प्रतिपशुं मनोतामन्त्रमावर्तयेत् । न मनोतावर्तेत्येके । अग्नीषोमीयेन हविषा प्रचर्य

ऐन्द्राग्नस्य पशोर्हविषो याज्यानुवाक्या-

प्रशास्ता- उभाविन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै ।

उभा दाताराविषां रयीणामुभावाजस्य सातये हुवे वो३म् ३ ॥ [६ । ६० । १३]

होता यक्षदिन्द्राग्नी छागस्य हविष आत्तामद्य मध्यतो मेद उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्यागृभः । घस्तां नूनं घासे अज्राणां यवसप्रथमानां सुमत्क्षराणां शतरुद्रियाणामग्निष्वात्तानां पीवोपवसनानां पार्श्वतः श्रोणितः शितामत उत्सादतोऽङ्गादङ्गादवत्तानां करत एवेन्द्राग्नी जुषेतां हविर्होतर्यज ॥

होता- ये३ यजामहे प्र चर्षणिभ्यः पृतना हवेषु प्र पृथिव्या रिरिचाथे दिवश्च । अत्रार्धर्चे विरमेदा वसाहोमात् ।

प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्यन्या वौ३षट् ॥ [१ । १०९ । ६]

आश्विनस्य पशोर्हविषो याज्यानुवाक्या-

प्रशास्ता- आ नो देवेभिरुप यातमर्वाक् सजोषसा नासत्या रथेन ।

युवोर्हि नः सख्या पित्र्याणि समानो बन्धुरुत तस्य वित्तो३म् ३ ॥ [७ । ७२ । २]

होता यक्षदश्विनौ छागस्य हविष आत्तामद्य मध्यतो मेद उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्यागृभः । घस्तां नूनं घासे अज्राणां यवसप्रथमानां सुमत्क्षराणां शतरुद्रियाणामग्निष्वात्तानां पीवोपवसनानां पार्श्वतः श्रोणितः शितामत उत्सादतोऽङ्गादङ्गादवत्तानां करत एवाश्विनौ जुषेतां हविर्होतर्यज ॥

होता- ये३ यजामहे हिरण्यत्वङ् मधुवर्णो घृतस्नुः पृक्षो वहन्ना रथो वर्तते वाम् । अत्रार्धर्चे विरमेदा वसाहोमात् ।

मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा वौ३षट् ॥ [५ । ७७ । ३]

वनस्पतियागप्रैषः

[[८०]]

प्रशास्ता- होता यक्षद्वनस्पतिमभि हि पिष्टतमया रभिष्टया रशनया धित । यत्राग्नेराज्यस्य हविषः प्रियाधामानि यत्र सोमस्याज्यस्य हविषः प्रियाधामानि यत्राग्नीषोमयोश्छागस्य हविषः प्रियाधामानि यत्रेन्द्राग्न्योश्छागस्य हविषः प्रियाधामानि यत्राश्विनोश्छागस्य हविषः प्रियाधामानि यत्र वनस्पतेः प्रियापाथांसि यत्र देवानामाज्यपानां प्रियाधामानि यत्राग्नेर्होतुः प्रियाधामानि तत्रैतान् प्रस्तुत्येवोपस्तुत्येवोपावस्रक्षद् रभीयस इव कृत्वीकरदेवं देवो वनस्पतिर्जुषतां हविर्होतर्यज ॥

स्विष्टकृद्यागप्रैषः

प्रशास्ता- होता यक्षदग्निं स्विष्टकृतमयाळग्निरग्नेराज्यस्य हविषः प्रियाधामान्ययाट् सोमस्याज्यस्य हविषः प्रियाधामान्ययाळग्नीषोमयोश्छागस्य हविषः प्रियाधामान्ययाळिन्द्राग्न्योश्छागस्य हविषः प्रियाधामान्ययाळश्विनोश्छागस्य हविषः प्रियाधामान्ययाड् वनस्पतेः प्रियापाथांस्ययाड् देवानामाज्यपानां प्रियाधामानि यक्षदग्नेर्होतुः प्रियाधामानि यक्षत्स्वं महिमानामायजतामेज्या इषः कृणोतु सो अध्वरा जातवेदा जुषतां हविर्होतर्यज ॥ समानं वनस्पतिस्विष्टकृदोर्याज्यानुवाक्याः । अनुयाजैरिष्ट्वा सूक्तवकप्रैषे-

अग्निमद्य होतारमवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोळाशान् गृह्णन्नग्नय आज्यं गृह्णन् त्सोमायाज्यं बध्नन्नग्नीषोमाभ्यामिन्द्राग्निभ्यामश्विभ्यां छागान् त्सूपस्था अद्य देवो वनस्पतिरभवदग्नय आज्येन सोमायाज्येनाग्नीषोमाभ्यामिन्द्राग्निभ्यामश्विभ्यां छागैरघंस्तान् मेदस्तः प्रतिपचताग्रभीषुरवीवृधन्त पुरोळाशैस्त्वामद्य ऋष आर्षेय ऋषीणां नपादवृणीतायं यजमानो बहुभ्य आसङ्गतेभ्यः । एष मे देवेषु वार्यायक्ष्यत इति ता या देवा देवदानान्यदुस्तान्यस्मा आ च शास्वा च गुरस्वेषितश्च होतरसि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रू३हि ॥

होता- इदं द्यावापृथिवी इत्यदि अग्निरिदं…, सोम इदं…, अग्नीषोमाविदं हविरजुषेतामवीवृधेतां महोज्यायोऽक्राताम् । इन्द्राग्नी इदं…, अश्विनाविदं…, वनस्पतिरिदं…, देवा आज्यपा इत्यादि । समानमान्तम् ।

अग्नीषोमीयैन्द्राग्नद्विपशौ विशेषः-

आवाहने- अग्निमग्न आ३वह । सोममा३वह । अग्नीषोमावा३वह । इन्द्राग्नी आ३वह । वनस्पतिमा३वह । देवाँ आज्यपाँ आ३वह इत्यादि ।

अध्रिगौ होता- दैव्याः शमितार आरभध्वमुत मनुष्या उपनयत मेध्यादुर आशासाना मेधपतिभ्यां मधौ । प्राभ्यामग्निं भरत स्तृणीत बर्हिरन्वेनौ माता मन्यतामनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्यः । उदीचीनाँ अनयोः पदो निधत्तात् सूर्यं चक्षुर्गमयताद्वातं प्राणमन्ववसृजतादन्तरिक्षमसुं दिशः श्रोत्रं पृथिवीं शरीरे । एकधैकधानयोस्त्वचवाच्छ्यतात् पुरा नाभ्या अपिशसो वपे उत्खिदतादन्तरेवोष्माणं वारयध्वात् । श्येनमनयोर्वक्षसी कृणुतात् प्रशसो बाहूञ्छला दोषाणी कश्यपेवांसानच्छिद्राः श्रोणीः कवषोरून्त्स्रे कपर्णाष्ठीवतः षड्विंशतिः षड्विंशतिरनयोर्वंक्रयस्ता अनुष्ठ्यो च्यावयताद्गात्रं गात्रमनयोरनूनं कृणुतात् । ऊवध्यगोहं पार्थिवं खनतात् । (उपांशु)

[[८१]]

अस्ना रक्षः संसृजतात् । वनिष्ठू अनयोर्माराविष्टोरूकम्मन्यमाना नेद्वस्तोके तनये रवितारवत् (उपांशु) शमितारः । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३ उ (उपांशु) अपाप । इत्याद्यूहः । एकधा षड्विंशतिरिति द्विर्द्विबहूनाम् । पुरान्तरिति चैके ।

वनस्पतियागप्रैषे प्रशास्ता- होता यक्षद्वनस्पतिमभि हि पिष्टतमया रभिष्टया रशनया धित । यत्राग्नेराज्यस्य हविषः प्रियाधामानि यत्र सोमस्याज्यस्य हविषः प्रियाधामानि यत्राग्नीषोमयोश्छागस्य हविषः प्रियाधामानि यत्रेन्द्राग्न्योश्छागस्य हविषः प्रियाधामानि यत्र वनस्पतेः प्रियापाथांसि यत्र देवानामाज्यपानां प्रियाधामानि यत्राग्नेर्होतुः प्रियाधामानि तत्रैतौ प्रस्तुत्येवोपस्तुत्येवोपावस्रक्षद् रभीयांसाविव कृत्वीकरदेवं देवो वनस्पतिर्जुषतां हविर्होतर्यज ॥

स्विष्टकृद्यागप्रैषः-

प्रशास्ता- होता यक्षदग्निं स्विष्टकृतमयाळग्निरग्नेराज्यस्य हविषः प्रियाधामान्ययाट् सोमस्याज्यस्य हविषः प्रियाधामान्ययाळग्नीषोमयोश्छागस्य हविषः प्रियाधामान्ययाळिन्द्राग्न्योश्छागस्य हविषः प्रियाधामान्ययाड् वनस्पतेः प्रियापाथांस्ययाड् देवानामाज्यपानां प्रियाधामानि यक्षदग्नेर्होतुः प्रियाधामानि यक्षत्स्वं महिमानामायजतामेज्या इषः कृणोतु सो अध्वरा जातवेदा जुषतां हविर्होतर्यज ॥

सूक्तवकप्रैषे- अग्निमद्य होतारमवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोळाशौ गृह्णन्नग्नय आज्यं गृह्णन् त्सोमायाज्यं बध्नन्नग्नीषोमाभ्यामिन्द्राग्निभ्यां छागौ सूपस्था अद्य देवो वनस्पतिरभवदग्नय आज्येन सोमायाज्येनाग्नीषोमाभ्यामिन्द्राग्निभ्यां छागाभ्यामघंस्तौ मेदस्तः प्रतिपचताग्रभीषुरवीवृधन्त पुरोळाशाभ्यां त्वामद्य ऋष आर्षेय ऋषीणां नपादवृणीतायं यजमानो बहुभ्य आसङ्गतेभ्यः । एष मे देवेषु वार्यायक्ष्यत इति ता या देवा देवदानान्यदुस्तान्यस्मा आ च शास्वा च गुरस्वेषितश्च होतरसि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रू३हि ॥ समानमन्यत् सर्वम् ।