०७ चातुर्मास्यानि

[[२४]]

वैश्वदेव-पर्व

॥ वैश्वदेव-पर्व ॥

अन्वारम्भणीयेष्टिः

अन्वारम्भणीयेष्टिः ।

अस्या इष्टेः पञ्चदशसामिधेन्यः । वार्त्रघ्नावाज्यभागौ । अग्निर्वैश्वानरः, पर्जन्यश्च प्रधानदेवताः । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च ।

आवाहने- अग्निमग्न आ३वह । सोममा३वह । (उपांशु) अग्निं वैश्वानरम् आ३वह । (उपांशु) पर्जन्यम् आ३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।

उत्तमे प्रयाजे- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहा (उपांशु) अग्निं वैश्वानरं स्वाहा (उपांशु) पर्जन्यं स्वाहा देवा आज्यपा इत्यादि ।

वार्त्रघ्नावाज्यभागौ- अग्निर्वृत्राणि जङ्घनत्, त्वं सोमासि सत्पतिः ।

अग्नेर्वैश्वानरस्य याज्यानुवाक्या-

(उपांशु) वैश्वानरो अजीजनदग्निर्नो नव्यसीं मतिम् । क्ष्मया वृधान ओजसा ओ३म् ॥

ये यजामहे (उपांशु) अग्निं वैश्वानरं पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीराविवेश ।

वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्ता३ं वौ३षट् ॥ (वागोजः..,) [१ । ९७ । २]

पर्जन्यस्य याज्यानुवाक्या-

(उपांशु) पर्जन्याय प्र गायत दिवस्पुत्राय मीह्ळुषे । स नो यवसमिच्छतु ओ३म् ॥ [७ । १०२ । १]

ये यजामहे (उपांशु) पर्जन्यं प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः ।

इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावती३ वौ३षट् ॥ []

प्राकृते संयाज्ये- पिप्रीहि देवाँ उशतो यविष्ठ… अयाट् (उपांशु) अग्नेर्वैश्वानरस्य प्रियाधामान्ययाट् (उपांशु) पर्जन्यस्य प्रियाधामानि… अग्ने यदद्य विशो अध्वरस्येत्यादि ।

सूक्तवाके- अग्निरिदं…, सोम इदं…, (उपांशु)अग्निर्वैश्वानर इदं…, (उपांशु) पर्जन्य इदमित्यादि ।

शेषं सर्वं प्रकृतिवत् ।

अग्निमन्थनम् ।

अग्नये मथ्यमानायानुब्रूहि इति प्रेषितः पश्चात् सामिधेनीस्थानस्य पदमात्रेऽवस्थायाभि हिंकृत्य ।

हिम्, भूर्भुवःस्वरो३

मभि त्वा देव सवितरिशानं वार्याणाम् । सदावन् भागमीमहो३

मभि त्वा देव सवितरिशानं वार्याणाम् । सदावन् भागमीमहो३ [१ । २४ । ३]

मभि त्वा देव सवितरिशानं वार्याणाम् । सदावन् भागमीमहो३

मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् । पिपृतां नो भरीमभो३ं [१ । २२ । १३]

[[२५]]

त्वामग्ने पुष्करादध्यथर्वा निरमन्थत । मूर्ध्नो विश्वस्य वाघतो३ं [६ । १६ । १३]

तमु त्वा दध्यङ् ऋषिः पुत्र ईधे अथर्वणः । वृत्रहणं पुरन्दरो३ं [६ । १६ । १४]

तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । इत्यवसाय, [६ । १६ । १५]

अजातेग्नौ राक्षोघ्नीरनुब्रूयात् । जातायानुब्रूहि इत्युक्ते-

धनञ्जयं रणे रणो३

मुत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि । धनञ्जयो रणे रणो३ [१ । ७४ । ३]

मायं हस्ते न खादिनं शिशुं जातं न बिभ्रति । इत्यर्धर्च आरमेत् [६ । १६ । ४०]

प्रह्रियमाणाय प्रेषितः कुण्डे निधीयमाने-

विशामग्निं स्वध्वरो३म्

प्र देवं देववीतये भरता वसुवित्तमम् । आ स्वे योनौ निषीदतो३ [६ । १६ । ४१]

मा जातं जातवेदसि प्रियं शिशीताथितिम् । स्योन आ गृहपतो३ [६ । १६ । ४२]

मग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा । हव्यवाड् जुह्वास्यो३ं [१ । १२ । ६]

त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन् त्सता । सखा सख्या समिध्यसो३ं [८ । ४३ । १४]

तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु । स्वेषु क्षयेषु वाजिनो३ं [८ । ८४ । ८]

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवो३ं [१० । ९० । १६]

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवो३ं [१० । ९० । १६]

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवो३म् । प्रक्रमस्थाने भूर्भुवःस्वरोमिति वाचं विसृजते ।

वैश्वदेवपर्व ।

अस्या इष्टेः सप्तदशसामिधेन्यः । वार्त्रघ्नावाज्यभागौ । नवप्रयाजा नवानूयाजाः । अग्निः, सोमः, सविता, सरस्वती, पूषा, मरुतः स्वतवसः, विश्वेदेवाः, द्यावापृथिवी च प्रधानदेवताः । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च ।

नमः प्रवक्त्रे इत्यादि सामिधेन्यां पृथुपाजा अमर्त्यः इति द्वे धाय्ये आवपेत-

शोचिष्केशस्तमीमहो३ं

पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः । अग्निर्यज्ञस्य हव्यवो३ं [३ । २७ । ५]

तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः । आ चक्रुरग्निमूतयो३ं [३ । २७ । ६]

[[२६]]

समिद्धो अग्न आहुत इत्यादि ।

आवाहने- अग्निमग्न आ३वह । सोममा३वह । अग्निमा३वह । सोममा३वह । सवितारम् (उपांशु) आ३वह । सरस्वतीमा३वह । पूषणमा३वह । मरुतः स्वतवस आ३वह । विश्वान् देवाना३वह । (उपांशु) द्यावापृथिवी आ३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।

प्रयाजाः-

१. ये३ यजामहे समिधः समिधो अग्न आज्यस्य व्यन्तू३ वौ३षट् ।

२. ये३ यजामहे तनूनपादग्न आज्यस्य वेतू३ वौ३षट् ।

वसिष्ठशुनकात्रिवध्र्यश्वराजन्यानां-

ये३ यजामहे नराशंसो अग्न आज्यस्य वेतू३ वौ३षट्

३. ये३ यजामह इळो अग्न आज्यस्य व्यन्तू३ वौ३षट् ।

४. ये३ यजामहे बर्हिरग्न आज्यस्य वेतू३ वौ३षट् ।

५. ये३ यजामहे दुरो अग्न आज्यस्य व्यन्तू३ वौ३षट् ।

६. ये३ यजामह उषासानक्ताग्न आज्यस्य वीता३ं वौ३षट् ।

७. ये३ यजामहे दैव्या होताराग्न आज्यस्य वीता३ं वौ३षट् ।

८. ये३ यजामहे तिस्रो देवीरग्न आज्यस्य व्यन्तू३ वौ३षट् ।

९. ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहाग्निं स्वाहा सोमं स्वाहा (उपांशु) सवितारं स्वाहा सरस्वतीं स्वाहा पूषणं स्वाहा मरुतः स्वतवसः स्वाहा विश्वान् देवान् त्स्वाहा (उपांशु) द्यावापृथिवी स्वाहा देवा आज्यपा इत्यादि ।

वार्त्रघ्नावाज्यभागौ- अग्निर्वृत्राणि जङ्घनत्, त्वं सोमासि सत्पतिः ।

अग्नेर्याज्यानुवाक्या-

अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वतो३म् ॥ [८ । ४४ । १६]

ये३ यजामहेऽग्निं भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचते शिवाभिः ।

दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहा३ं वौ३षट् ॥ [१० । ८ । ६]

सोमस्य याज्यानुवाक्या-

सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे । ताभिर्नोऽविता भवो३म् ॥ [१ । ९१ । ९]

ये३ यजामहे सोमं या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु ।

तेभिर्नो विश्वैः सुमना अहेळन् राजन् त्सोम प्रति हव्या गृभाया३ वौ३षट् ॥ [१ । ९१ । १]

सवितुर्याज्यानुवाक्या-

[[२७]]

(उपांशु) आ विश्वदेवं सत्पतिं सूक्तैरद्या वृणीमहे । सत्यसवं सवितारम् ॐ ॥ [५ । ८२ । ७]

ये३ यजामहे (उपांशु) सवितारं वाममद्य सवितर्वाममुश्वोदिवे दिवे वाममस्मभ्यं सवीः ।

वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्यामा३ वौ३षट् ॥ [६ । ७१ । ६]

सरस्वत्या याज्यानुवाक्या-

पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसो३म् ॥ [१ । ३ । १०]

ये३ यजामहे सरस्वतीं पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् ।

ग्नाभिरच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसा३द् वौ३षट् ॥ [६ । ४९ । ७]

पूष्णो याज्यानुवाक्या-

पूषन् तव व्रते वयं नरिष्येम कदाचन । स्तोतारस्तु इह स्मसो३म् ॥ [६ । ५४ । ९]

ये३ यजामहे पूषणं शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि ।

विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तू३ वौ३षट् ॥ [६ । ५८ । १]

मरुतां स्वतवसां याज्यानुवाक्या-

इहेह वः स्वतवसः कवयः सूर्यत्वचः । यज्ञं मरुत आ वृणो३म् ॥ [५ । ५९ । ११]

ये३ यजामहे मरुतः स्वतवसः प्र चित्रमर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् ।

ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्या३ वौ३षट् ॥ [६ । ६६ । ९]

विश्वेषां देवानां याज्यानुवाक्या-

विश्वे देवास आगत शृणुता म इमं हवम् । एदं बर्हिर्निषीदतो३म् ॥ [२ । ४१ । १३]

ये३ यजामहे विश्वान् देवान् ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे ।

ते अस्मभ्यमिषये विश्वमायुः क्षप उस्रा वरिवस्यन्तु देवा३ वौ३षट् ॥ [६ । ५२ । १५]

द्यावापृथिव्योर्याज्यानुवाक्या-

(उपांशु) मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् । पिपृतां नो भरीमभिः ॐ ॥ [१ । २२ । १३]

ये३ यजामहे(उपांशु) द्यावापृथिवी प्र पूर्वजे पितरा नव्यसीभिर्गीर्भिः कृणुध्वं सदने ऋतस्य ।

आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथा३ं वौ३षट् ॥ [७ । ५३ । २]

स्विष्टकृतः- प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वां शश्वन्त उपयन्ति वाजो३म् ॥ [७ । १ । ३]

ये३ यजामहेऽग्निं स्विष्टकृतमयाळग्निरग्नेः प्रियाधामान्ययाट् सोमस्य प्रियाधामान्ययाळग्नेः प्रियाधामान्ययाट् सोमस्य प्रियाधामान्ययाट् (उपांशु) सवितुः प्रियाधामान्ययाट् सरस्वत्याः प्रियाधामान्ययाट् पूष्णः प्रियाधामान्ययाण् मरुतां स्वतवसां प्रियाधामान्ययाड् विश्वेषां देवानां प्रियाधामान्ययाट् (उपांशु) द्यावापृथिव्योः प्रियाधामान्ययाड् देवानामाज्यपानां प्रियाधामानि । … जुषतां हवि-

रिमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ । प्रति न ईं सुरभीणि व्यन्तू३ वौ३षट् ॥ [७ । १ । १८]

[[२८]]

ततः इळाभक्षणान्ते नवानुयाजाः ।

१. देवं बर्हिर्वसुवने वसुधेयस्य वेतू३ वौ३षट् ।

२. देवीर्द्वारो वसुवने वसुधेयस्य व्यन्तू३ वौ३षट् ।

३. देवी उषासानक्ता वसुवने वसुधेयस्य वीता३ं वौ३षट् ।

४. देवी जोष्ट्री वसुवने वसुधेयस्य वीता३ं वौ३षट् ।

५. देवी ऊर्जाहुती वसुवने वसुधेयस्य वीता३ं वौ३षट् ।

६. देवा दैव्या होतारा वसुवने वसुधेयस्य वीता३ं वौ३षट् ।

७. देवीस्तिस्रस्तिसो देवीर्वसुवने वसुधेयस्य व्यन्तू३ वौ३षट् ।

८. देवो नराशंसो वसुवने वसुधेयस्य वेतू३वौ३षट् ।

९. देवो अग्निः स्विष्टकृत् सुद्रविणा मन्द्रः कविः सत्यमन्मायजी होता होतुर्होतुरायजीयानग्ने यान् देवानयाड्याँ अपि प्रेर्येते होत्रे अमत्सत तां ससनुषीं होत्रां देवङ्गमां दिवि देवेषु यज्ञमेरयेमं स्विष्टकृच्चाग्ने होता भूर्वसुवने वसुधेयस्य नमोवाके वीही३ वौ३षट् ।

सूक्तवाके- अग्निरिदं…, सोम इदं…, अग्निरिदं…, सोम इदं…, (उपांशु)सविता इदं…, सरस्वतीदं…, पूषेदं…, मरुतः स्वतवस इदं हविरजुषन्तावीवृधन्त महो ज्यायोऽक्रत । विश्वे देवा इदं हविरजुषन्तावीवृधन्त महो ज्यायोऽक्रत । (उपांशु) द्यावापृथिवी इदं हविरजुषेतामवीवृधेतां महोज्यायोऽक्राताम् । देवा आज्यपा इत्यादि ।

अनुयाजानां सूक्तवाकस्य शंयुवाकस्य वोपरिष्टाद् वाजिनप्रचारः । वाजिभ्योऽनुब्रूहि इत्युक्ते-

शं नो भवन्तु वाजिनो हवेषु देवातातामितद्रवः स्वर्काः ।

जम्भयन्तोऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवो३म् ॥ [७ । ३७ । ७]

ये३ यजामहे वाजिनो वाजे वाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञा

अस्य मध्वः पिबत मादयध्वं तृप्तायाथ पथिभिर्देवयानै३र् वौ३षट् ॥ [७ । ३७ । ८]

ऊर्ध्वज्ञुरनवानं जपति अनुवष्ट्कारमासीनः ।

अग्ने वीहि अथवा वाजिनस्याग्ने वीही३ वौ३षट् । इति अनुवषट्कारः । द्विर्वागोजः ।

वाजिनमिळामिव प्रतिगृह्य उपहवमिच्छेत- अध्वर्य उपह्वयस्व । ब्रह्मन्नुपह्वयस्व । अग्नीदुपह्वयस्व । यजमानोपह्वयस्व ।

यन्मे रेतः प्रसिच्यते यद्वा मे अपि गच्छति यद्वा जायते पुनः ।

तेन मा शिवमाविश तेन मा वाजिनं कुरु । तस्य ते वाजपीतस्य उपहूतस्योपहूतो भक्षयामि । इति प्राणभक्षं भक्षयेत् । एवमध्वर्युर्ब्रह्माग्नीध्रः । यजमानः प्रत्यक्षमितरे च दीक्षिताः ।

वेदोऽसि वेदो विदेयेत्यादि संस्थाजपान्तं प्रकृतिवत् ।

[[२९]]

॥ इति वैश्वदेवपर्व ॥

वरुणप्रघासाः

॥ अथ वरुणप्रघासाः ॥

पश्चाद्दार्शपौर्णमासिकाया वेदेरुपविश्य निरसनोपवेशने कृत्वा प्रेषितोऽग्निप्रणयनीयाः प्रतिपद्यते ।

अग्नये प्रणीयमानायानुब्रूहि इत्युक्ते-हिम्, भूर्भुवःस्वरो३म्

प्र देवं देव्या धिया भरता जातवेदसम् । हव्या नो वक्षदानुषो३म् [१० । १७६ । २]

प्र देवं देव्या धिया भरता जातवेदसम् । हव्या नो वक्षदानुषो३म्

प्र देवं देव्या धिया भरता जातवेदसम् ।

आसीनः प्रथमामन्वाह उपांशु सप्रणवाम् । तत्र स्थानात् स्थानसंक्रमणे प्रणवेनावसायानुच्छ्वस्योत्तरां प्रतिपद्यते । प्राणसन्ततं भवतीति विज्ञायते । उत्तरमग्निमनुव्रजन्नुत्तराः ।

हव्या नो वक्षदानुषो३

मयमुष्य प्र देवयुर्होता यज्ञाय नीयते ।

रथो न योरभीवृतो घृणीवान् चेतति त्मनो३ [१० । १७६ । ३]

मयमग्निरुरुष्यत्यमृतादिव जन्मनः ।

सहसश्चित् सहीयान् देवो जीवातवे कृतो३ [१० । १७६ । ४]

मिळायास्त्वा पदे वयं नाभापृथिव्या अधि ।

जातवेदो निधीमह्यग्ने हव्याय वोह्ळवो३ [३ । २९ । ४]

मग्ने विश्वेभिः स्वनीकदेवैरूर्णावन्तं प्रथमः सीद योनिम् ।

अर्धर्चेऽवसाय पश्चादुत्तरस्या वेदेरवस्थाय समापयेत् । निहितेऽग्नौ-

कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधो३ं [६ । १५ । १६]

सीद होतः स्वमु लोके चिकित्वान् त्सादया यज्ञं सुकृतस्य योनौ ।

देवावीर्देवान् हविषा यजास्यग्ने बृहद्यजमाने वयोधो३ं [३ । २९ । ८]

नि होता होतृषदने विदानस्त्वेषो दीदिवाँ असदत् सुदक्षः ।

अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्नो३ं [२ । ९ । १]

त्वं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वृषभ प्रणेता ।

अग्ने तोकस्य नस्तने तनूनामप्रयुच्छन् दीद्यद्बोधि गोपो३ं [२ । ९ । २]

[[३०]]

त्वं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वृषभ प्रणेता ।

अग्ने तोकस्य नस्तने तनूनामप्रयुच्छन् दीद्यद्बोधि गोपो३ं

त्वं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वृषभ प्रणेता ।

अग्ने तोकस्य नस्तने तनूनामप्रयुच्छन् दीद्यद्बोधि गोपो३म् इति परिसमाप्य पूर्वस्मिन्नेवासने उपविश्य भूर्भुवःस्वरिति वाचं विसृजते । अग्निमन्थनं वैश्वदेवपर्ववत् करणीयम् ।

अस्या इष्टेः सप्तदशसामिधेन्यः । वार्त्रघ्नावाज्यभागौ । नवप्रयाजा नवानूयाजाः । अग्निः, सोमः, सविता, सरस्वती, पूषा, इन्द्राग्नी, मरुतः, वरुणः, कश्च प्रधानदेवताः । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च ।

नमः प्रवक्त्रे इत्यादि सामिधेन्यां पृथुपाजा अमर्त्यः इति द्वे धाय्ये आवपेत-

शोचिष्केशस्तमीमहो३ं

पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः । अग्निर्यज्ञस्य हव्यवो३ं [३ । २७ । ५]

तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः । आ चक्रुरग्निमूतयो३ं [३ । २७ । ६]

समिद्धो अग्न आहुत इत्यादि ।

आवाहने- अग्निमग्न आ३वह । सोममा३वह । अग्निमा३वह । सोममा३वह । सवितारम् (उपांशु) आ३वह । सरस्वतीमा३वह । पूषणमा३वह । इन्द्राग्नी आ३वह । मरुत आ३वह । वरुणमा३वह । (उपांशु) कम् आ३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।

उत्तमे प्रयाजे- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहाग्निं स्वाहा सोमं स्वाहा (उपांशु) सवितारं स्वाहा सरस्वतीं स्वाहा पूषणं स्वाहेन्द्राग्नी स्वाहा मरुतः स्वाहा वरुणं स्वाहा (उपांशु) कं स्वाहा देवा आज्यपा इत्यादि ।

वार्त्रघ्नावाज्यभागौ- अग्निर्वृत्राणि जङ्घनत्, त्वं सोमासि सत्पतिः ।

प्रधानानां पौष्णयागान्तं वैश्वदेववत् ।

इन्द्राग्न्योर्याज्यानुवाक्या-

इन्द्राग्नी अवसागतमस्मभ्यं चर्षणीसहा । मा नो दुःशंस ईशतो३म् ॥ [७ । ९४ । ७]

ये३ यजामह इन्द्राग्नी श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् ।

इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता३ वौ३षट् ॥ [६ । ६० । १]

मरुतां याज्यानुवाक्या-

मरुतो यस्य हि क्षये पाथा दिवो विमहसः । स सुगोपातमो जनो३म् ॥ [१ । ८१ । १]

ये३ यजामहे मरुतोऽरा इवेदचरमा अहेव प्रप्र जायन्ते अकवा महोभिः ।

पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सम्मिमिक्षू३र् वौ३षट् ॥ [५ । ५८ । ५]

वरुणस्य याज्यानुवाक्या-

[[३१]]

इमं मे वरुण श्रुधी हवमद्या च मृळय । त्वामवस्युराचको३म् ॥ [१ । २५ । १९]

ये३ यजामहे वरुणं तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।

अहेळमानो वरुणेह बोध्युरुशंसमान आयुः प्रमोषी३र् वौ३षट् ॥ [१ । २४ । ११]

कस्य याज्यानुवाक्या-

(उपांशु) कया नश्चित्र आ भुवदूती सदावृधः सखा । कया शचिष्ठया वृता ॐ ॥ [४ । ३१ । १]

ये३ यजामहे(उपांशु) कं हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।

स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेमा३ वौ३षट् ॥ [१० । १२१ । १]

स्विष्टकृतः- प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वां शश्वन्त उपयन्ति वाजो३म् ।

ये३ यजामहेऽग्निं स्विष्टकृतमयाळग्निरग्नेः प्रियाधामान्ययाट् सोमस्य प्रियाधामान्ययाळग्नेः प्रियाधामान्ययाट् सोमस्य प्रियाधामान्ययाट् (उपांशु) सवितुः प्रियाधामान्ययाट् सरस्वत्याः प्रियाधामान्ययाट् पूष्णः प्रियाधामान्ययाळिन्द्राग्न्योः प्रियाधामान्ययाण् मरुतां प्रियाधामान्ययाड् वरुणस्य प्रियाधामान्ययाट् (उपांशु) कस्य प्रियाधामान्ययाड् देवानामाज्यपानां प्रियाधामानि । …जुषतां हवि-

रिमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ । प्रति न ईं सुरभीणि व्यन्तू३ वौ३षट् ।

सूक्तवाके- अग्निरिदं…, सोम इदं…, अग्निरिदं…, सोम इदं…, (उपांशु)सविता इदं…, सरस्वतीदं…, पूषेदं…, इन्द्राग्नी इदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम् । मरुत इदं हविरजुषन्तावीवृधन्त महो ज्यायोऽक्रत । वरुण इदं हविरजुषतावीवृधत महो ज्यायोऽकृत । (उपांशु) कः इदं हविरजुषतावीवृधत महो ज्यायोऽकृत । देवा आज्यपा इत्यादि ।

अनुयाजानां सूक्तवाकस्य शंयुवाकस्य वोपरिष्टाद् वाजिनप्रचारः । वाजिने प्रतिपस्थातृ तृतीयः- अध्वर्य उपह्वयस्व । ब्रह्मन्नुपह्वयस्व । प्रतिपस्थातरुपह्वयस्व । अग्नीदुपह्वयस्व । यजमानोपह्वयस्व ।

वेदोऽसि वेदो विदेयेत्यादि संस्थाजपान्तं प्रकृतिवत् ।

अवभृतेष्टिः

॥ अथावभृतेष्टिः ॥

उदकमनुस्पृशन् बहिः पश्चादवस्थाय अग्निर्होता वेत्त्वित्यादि बर्हिर्वर्जं त्रीन् प्रयाजान् यजति ।

उत्तमे प्रयाज- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहा वरुणं स्वाहा देवा आज्यपा इत्यादि ।

अप्सुमन्तावाज्यभागौ-

अप्स्वग्ने सधिष्ठव सौषधीरनुरुध्यसे । गर्भे सञ्जायसे पुनो३म् ॥ [८ । ४३ । ९]

अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । अग्निं च विश्वशम्भुवो३म् ॥ [१० । ९ । ६]इति पुरोनुवाक्याः ।

प्रधानस्य-

[[३२]]

वरुणस्य याज्यानुवाक्या-

अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः ।

क्षयन्नस्मभ्यमसुरप्रचेता राजन्नेनांसि शिश्रथः कृतानो३म् ॥ [१ । २४ । १४]

ये३ यजामहे वरुणमुदुत्तमं वरुण पाशमस्मदवाधमं विमध्यमं श्रथाय ।

अथा वयमादित्य व्रते तवानागसो अदितये स्यामा३ वौ३षट् ॥ [१ । २४ । १५]

आनिगदः स्विष्टकृत्-त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेळोऽव यासिसीष्ठाः ।

यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्रमुमुग्ध्यस्मो३म् ॥ [४ । १ । ४]

ये३ यजामहेऽग्नीवरुणौ स्विष्टकृतौ स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।

अव यक्ष्म नो वरुणं रराणो वीहि मृळीकं सुहवो न एधी३ वौ३षट् ॥ [४ । १ । ५]

अनुयाजपक्षे बर्हिर्वर्जानुयाजाः ।

संस्थितायां पादानुदकान्तेव दद्युः । नमो नरुणायाभिष्टितो वरुणस्य पाशः । तत आचामन्ति । भक्षस्यावभृतोऽसि । प्रोथ्य प्रष्ठीवन्ति । भक्षितस्यावभृतोऽसि । भक्षं कृतस्यावभृतोऽसि । मन्त्राभ्यां प्रगिरन्ति ।

आपो॑ अ॒स्मान् मा॒तरः॑ शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्वः॑ पुनन्तु ।

विश्वं॒ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरु॒दिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ॥ [१० । १७ । १०]

इ॒दमा॑पः॒ प्रव॑हत॒ यत्किञ्च॑ दुरि॒तं मयि॑ ।

यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥ [१ । २३ । २२]

सुमित्र्या न आप ओषधयो भवन्तु दुर्मित्रास्तस्मै सन्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।

एभिर्मन्त्रैः स्नानं कुर्युः । अदीक्षिता एभिर्मन्त्रैरभ्युक्षेरन् स्नानं कुर्युरिति वा ।

उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य॑न्त उत्त॒रम् ।

दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्महि॒ ज्योति॑रुत्त॒मम् ॥ [१ । ५० । १०]

इत्युदेत्य अस्पृष्ट्वा अनवेक्षमाणा असंस्पृशन्तः प्रत्यायन्तः समिधः कुर्वते तिस्रस्तिस्र एकैकः ।

अग्नेः समिदसि तेजोऽसि तेजो मे देहि । इति प्रथमाम् । एधोऽस्येधिषीमहि-द्वितीयाम् ।

समिदसि समेधीषीमहि-तृतीयाम् । आहवनीयमेत्योपतिष्ठन्ते-

आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।

पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ संसृ॑ज॒ वर्च॑सा ॥ [१ । २३ । २३]

ततः समिधोऽभ्यादधाति यथा गृहीतम् । अग्नेः समिदसि तेजोऽसि तेजो मेऽदा स्वाहा । इति प्रथमाम् । सोमस्य समिदसि दुरिष्टेर्मा पाहि स्वाहा- द्वितीयाम् । पितॄणां समिदसि मृत्योर्मा पाहि स्वाहा- तृतीयाम् । ततः संस्थाजपेनोपस्थानम् ।

[[३३]]

॥ इति वरुणप्रघासाः ॥

साकमेधाः

॥ अथ साकमेधाः ॥

अनीकवतीष्टिः

अथानीकवतीष्टिः ।

अस्या इष्टेः पञ्चदशसामिधेन्यः । वार्त्रघ्नावाज्यभागौ । अग्निरनीकवान् प्रधानदेवता । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च ।

आवाहने- अग्निमग्न आ३वह । सोममा३वह । अग्निमनीकवन्तमा३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।

उत्तमे प्रयाजे- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहाग्निमनीकवन्तं स्वाहा देवा आज्यपा इत्यादि ।

वार्त्रघ्नावाज्यभागौ- अग्निर्वृत्राणि जङ्घनत्, त्वं सोमासि सत्पतिः ।

अग्नेरनीकवतो याज्यानुवाक्याः-

अनीकवन्तमूतयेऽग्निं गीर्भिर्हवामहे । स नः पर्षदति द्विषो३म् ॥

ये३ यजामहेऽग्निमनीकवन्तं सैनानीकेन सुविदत्रो अस्मे यष्टा देवाँ आयजिष्ठः स्वस्ति ।

अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीही३ वौ३षट् ॥ [२ । ९ । ६]

स्विष्टकृति- प्राकृते संयाज्ये । अयाळग्नेरनीकवतः प्रियाधामानि इत्यादि ।

सूक्तवाके- अग्निरिदं…, सोम इदं…, अग्निरनीकवानिदं…, इत्यादि । शेषं प्रकृतिवत् ॥

सान्तपनेष्टिः

अथ सान्तपनेष्टिः ।

अस्या इष्टेः पञ्चदशसामिधेन्यः । वृधन्वन्तावाज्यभागौ । मरुतः सान्तपनाः प्रधानदेवता । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च ।

आवाहने- अग्निमग्न आ३वह । सोममा३वह । मरुतः सान्तपनाना३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।

उत्तमे प्रयाजे- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहा मरुतः सान्तपनान् त्स्वाहा देवा आज्यपा इत्यादि ।

वृधन्वन्तावाज्यभागौ- अग्निः प्रत्नेन मन्मना, सोम गीर्भिष्ट्वा वयम् ।

मरुतां सान्तपनानां याज्यानुवाक्याः-

सान्तपना इदं हविर्मरुतस्तज्जुजुष्टन । युष्माकोती रिशादसो३म् ॥ [७ । ५९ । ९]

ये३ यजामहे मरुतः सान्तपनान् यो नो मरुतो अभि दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति ।

द्रुहः पाशान् प्रति समुचीष्ट तपिष्ठेन हन्मना हन्तना ता३ं वौ३षट् ॥ [७ । ५९ । ८ । ]

स्विष्टकृति- प्राकृते संयाज्ये । अयाण्मरुतां स्वतवसां प्रियाधामानि इत्यादि ।

सूक्तवाके- अग्निरिदं…, सोम इदं…, मरुतः सान्तपना इदं हविरजुषन्तावीवृधन्त महोज्यायोक्रत । …, इत्यादि । शेषं प्रकृतिवत् ॥

[[३४]]

गृहमेधीयेष्टिः

अथ गृहमेधीयेष्टिः ।

आज्यभागप्रभृतीळान्ता । पुष्टिमन्तावाज्यभागौ । मरुतो गृहमेधिनः प्रधानदेवता ।

पुष्टिमन्तावाज्यभागौ-

अग्निना रयिमश्नवत् पोषमेव दिवे दिवे । यशसं वीरवत्तमो३म् ॥ [१ । १ । ३]

गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः । सुमित्रः सोम नो भवो३म् ॥ [१ । ९१ । १२]इति पुरोनुवाक्याः ।

मरुतां गृहमेधिनां याज्यानुवाक्या-

गृहमेधास आगत मरुतो मापभूतन । युष्माकोती सुदानवो३म् ॥ [७ । ५९ । १०]

ये३ यजामहे मरुतो गृहमेधिनः प्र बुध्न्या व ईरते महांसि प्र नामानि प्र यज्यवस्तिरध्वम् ।

सहस्रियं दम्यं भागमेतं गृहमेधीयं मरुतो जुषध्वा३ं वौ३षट् । । [७ । ५६ । १४]

अनिगदं स्विष्टकृतम्- प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वां शश्वन्त उपयन्ति वाजो३म् ।

ये३ यजामहेऽग्निं स्विष्टकृतमिमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ ।

प्रति न ईं सुरभीणि व्यन्तू३ वौ३षट् ।

इळामार्जनान्ते प्रायश्चित्ताहुतयः । ततः संस्थाजपं जपेत् ।

क्रीळिनेष्टिः

अथ क्रीळिनेष्टिः ।

अथ पूर्वादर्वी होमः-यदि होतारं चोदयेयुस्तस्य याज्यानुवाक्ये-

पूर्णादर्वि परापत सुपूर्णा पुनरापत ।

वस्नेव विक्रीणावहा इषमूर्जं शतक्रतो ।

देहि मे ददामि ते नि मे धेहि नि ते दधे ।

अपामिक्यमिव सम्भरकोऽन्वाददते ददत् ॥

अस्या इष्टेः पञ्चदशसामिधेन्यः । परोक्षवार्त्रघ्नावाज्यभागौ । मरुतः क्रीळिनः प्रधानदेवता । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च ।

आवाहने- अग्निमग्न आ३वह । सोममा३वह । मरुतः क्रीळिन आ३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।

उत्तमे प्रयाजे- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहा मरुतः क्रीळिनः स्वाहा देवा आज्यपा इत्यादि ।

परोक्षवार्त्रघ्नावाज्यभागौ-

उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि । धनञ्जयो रणे रणो३म् ॥ [१ । ७४ । ३]

अयं कृत्नुरगृभीतो विश्वजिदुद्भिदित् सोमः । ऋषिर्विप्रः काव्येनो३म् ॥ [८ । ७१ । १] इति पुरोनुवाक्याः ।

प्रधानस्य-

[[३५]]

मरुतां क्रीळिनां याज्यानुवाक्या-

क्रीळं वः शर्धो मारुतमनर्वाणं रथे शुभम् । कण्वा अभि प्र गायतो३म् ॥ [१ । ३७ । १]

ये३ यजामहे मरुतः क्रीळिनोऽत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुम्भयन्त मर्याः ।

ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधा३ वौ३षट् ॥ [७ । ५६ । १६]

स्विष्टकृति- जुष्टो दमूना अतिथिर्दुराण इमं नो यज्ञमिपयाहि विद्वान् ।

विश्वा अग्ने अभियुजो विहत्या शत्रूयतामाभरा भोजनानो३म् ॥ [५ । ४ । ५]

ये यजामह इत्यादि अयाण् मरुतां क्रीळिनां प्रियाधामानि…, जुषतां हविर्

अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु ।

सं जास्पत्यं सुयममाकृणुष्व शत्रूयतामभितिष्ठा महांसी३ वौ३षट् ॥ [५ । २८ । ३]

सूक्तवाके- अग्निरिदं…, सोम इदं…, मरुतः क्रीळिन इदं हविरजुषन्तावीवृधन्त महो ज्यायोऽक्रत…, इत्यादि । शेषं प्रकृतिवत् ॥

महाहवाः

॥ अथ महाहवाः ॥

अस्या इष्टेः सप्तदशसामिधेन्यः । वार्त्रघ्नावाज्यभागौ । नवप्रयाजा नवानूयाजाः । अग्निः, सोमः, सविता, सरस्वती, पूषा, इन्द्राग्नी, इन्द्रो वृत्रहेन्द्रो महेन्द्रो वा, विश्वकर्मा च प्रधानदेवताः । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च । अग्निप्रणयनग्निमन्थनादि सर्वं वरुणप्रघासवत् । वाजिनावभृतवर्जम् ।

नमः प्रवक्त्रे इत्यादि सामिधेन्यां पृथुपाजा अमर्त्यः इति द्वे धाय्ये आवपेत-

शोचिष्केशस्तमीमहो३ं

पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः । अग्निर्यज्ञस्य हव्यवो३ं [३ । २७ । ५]

तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः । आ चक्रुरग्निमूतयो३ं [३ । २७ । ६]

समिद्धो अग्न आहुत इत्यादि ।

आवाहने- अग्निमग्न आ३वह । सोममा३वह । अग्निमा३वह । सोममा३वह । सवितारम् (उपांशु) आ३वह । सरस्वतीमा३वह । पूषणमा३वह । इन्द्राग्नी आ३वह । इन्द्रमा३वह [वृत्रहेन्द्रमा३वह, महेन्द्रमा३वह इति वा] । (उपांशु) विश्वकर्माणम् आ३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।

उत्तमे प्रयाजे- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहाग्निं स्वाहा सोमं स्वाहा (उपांशु) सवितारं स्वाहा सरस्वतीं स्वाहा पूषणं स्वाहेन्द्राग्नी स्वाहेन्द्रं [स्वाहा वृत्रहेन्द्रं , स्वाहा महेन्द्रम् इति वा] स्वाहा (उपांशु) विश्वकर्माणं स्वाहा देवा आज्यपा इत्यादि ।

वार्त्रघ्नावाज्यभागौ- अग्निर्वृत्राणि जङ्घनत्, त्वं सोमासि सत्पतिः ।

प्रधानानामैन्द्राग्नान्तं वरुणप्रघासवत् ।

[[३६]]

इन्द्रस्य याज्यानुवाक्या-

एन्द्र सानसिं रयिं सजित्वानं सदासहम् । वर्षिष्ठमूतये भरो३म् ॥ [१ । ८ । १]

ये३ यजामह इन्द्रं प्र स साहिषे पुरुहूत शत्रून् ज्येष्ठस्ते शुष्म इह रातिरस्तु ।

इन्द्राभर दक्षिणेना वसूनि पतिः सिन्धूनामसि रेवतीना३ं वौ३षट् ॥ [१० । १८० । १]

वृत्रहेन्द्रस्य याज्यानुवाक्या-

आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि । महान् महीबिरूतिभो३म् ॥ [४ । ३२ । १]

ये३ यजामहे वृत्रहेन्द्रमनु ते दायि मह इन्द्रियाय सत्रा ते विश्वमनु वृत्रहत्ये ।

अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नृषह्या इ३ वौ३षट् ॥ [६ । २५ । ८]

महेन्द्रस्य याज्यानुवाक्या-

महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इव । स्तोमैर्वत्सस्य वावृधो३म् ॥ [८ । ६ । १]

ये३ यजामहे महेन्द्रं भुवस्त्वमिन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियः ।

भुवो नॄँः श्च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणा इ३ वौ३षट् ॥ (वागोजः..) [१० । ५० । ४]

विश्वकर्मणो याज्यानुवाक्या-

(उपांशु) विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीमुत द्याम् ।

मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॐ ॥ [१० । ८१ । ४]

ये३ यजामहे (उपांशु) विश्वकर्माणं या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा ।

शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधाना३ वौ३षट् ॥ [१० । ८१ । ५]

विराजौ संयाज्ये- प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वां शश्वन्त उपयन्ति वाजो३म् ।

ये३ यजामहेऽग्निं स्विष्टकृतमयाळग्निरग्नेः प्रियाधामान्ययाट् सोमस्य प्रियाधामान्ययाळग्नेः प्रियाधामान्ययाट् सोमस्य प्रियाधामान्ययाट् (उपांशु) सवितुः प्रियाधामान्ययाट् सरस्वत्याः प्रियाधामान्ययाट् पूष्णः प्रियाधामान्ययाळिन्द्राग्न्योः प्रियाधामान्ययाळिन्द्रस्य प्रियाधामान्ययाड् [वृत्रहेन्द्रस्य, महेन्द्रस्य वा] (उपांशु) विश्वकर्मणः प्रियाधामान्ययाड् देवानामाज्यपानां प्रियाधामानि । …जुषतां हवि-

रिमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ । प्रति न ईं सुरभीणि व्यन्तू३ वौ३षट् ।

सूक्तवाके- अग्निरिदं…, सोम इदं…, अग्निरिदं…, सोम इदं…, (उपांशु) सविता इदं…, सरस्वतीदं…, पूषेदं…, इन्द्राग्नी इदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम् । इन्द्र [वृत्रहेन्द्रः महेन्द्रो वा]इदं हविरजुषतावीवृधत महो ज्यायोऽकृत । (उपांशु) विश्वकर्मा इदं हविरजुषतावीवृधत महो ज्यायोऽकृत । देवा आज्यपा इत्यादि । शेषं प्रकृतिवत् ॥

पित्र्येष्टिः

अथ पित्र्येष्टिः ।

[[३७]]

दक्षिणाग्नेरग्निमतिप्रणीय पित्र्या, सा शंय्वन्ता । लुप्तजपा होतारमवृथा वषट्कारानुमन्त्रणाभिहिङ्कारवर्जम् । तस्यां प्राञ्चि कर्माणि दक्षिणा ।

अग्नये देवेभ्यः पितृभ्यः समिध्यमानायानुब्रूहि इत्युक्ते-हिम्, भूर्भुवःस्वरो३

मुशन्तस्त्वा निधीमह्युशन्तः समिधीमहि । उशन्नुशत आवह पितॄन् हविषे अत्तवो३ [१० । १६ । १२]

मुशन्तस्त्वा निधीमह्युशन्तः समिधीमहि । उशन्नुशत आवह पितॄन् हविषे अत्तवो३

मुशन्तस्त्वा निधीमह्युशन्तः समिधीमहि । उशन्नुशत आवह पितॄन् हविषे अत्तवो३

मावह देवान् पितॄन् यजमानाय । अग्निमग्न आ३वह । सोममा३वह । (उपांशु) सोमं पितृमन्तम् आ३वह [पितॄन् त्सोमवतः इति वा] । (उपांशु) पितॄन् बर्हिषदः आ३वह । (उपांशु) पितॄनग्निष्वात्तान् आ३वह । (उपांशु) यमम् आ३वह[यमं वैवस्वतमा३वह इति वा] । देवाँ आज्यपाँ आ३वह । अग्निं कव्यवाहनमा३वह । इत्यवसाय । सीद होतः इत्युके तूष्णीं निरसनोपवेशने कृत्वोपविशति । तूष्णीं जानुशिरसा बर्हिरुपस्पृश्य स्रुगादापनमाह- अग्निर्होता वेत्त्वित्यादि.. ईळामहै देवान् पितॄनीळेन्यान् नमस्याम नमस्यान्यजाम यज्ञियान् ।

बर्हिर्वर्जं चतुरः प्रयाजान् यजति ।

उत्तमे प्रयाजे- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं [प्रधान उपांशवः] स्वाहा सोमं पितृमन्तं [स्वाहा पितॄन् त्सोमवतः इति वा] स्वाहा पितॄन् बर्हिषदः स्वाहा पितॄनग्निष्वात्तान् त्स्वाहा यमं [स्वाहा यमं वैवस्वतम् इति वा] स्वाहाग्निं कव्यवाहनं स्वाहा देवा आज्यपा इत्यादि ।

जीवातुमन्तावाज्यभागौ-

आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् । मार्डीकं धेहि जीवसो३म् ॥ [१ । ७९ । ९]

त्वं सोम महे भगं त्वं यून ऋतायते । दक्षं दधाति जीवसो३म् ॥ [१ । ९१ । ७] इति पुरोनुवाक्याः ।

सव्योत्तार्युपस्थाः प्राचीनावीतिनो हविर्भिश्चरन्ति । दक्षिण आग्नीध्र उत्तरोऽध्वर्युर्द्वे द्वे अनुवाक्ये अध्यर्धमनवानम् । ॐ स्वधा इत्याश्रावणम्, अस्तु स्वधेति प्रत्याश्रावणम्, अनुस्वधा स्वधेति सम्प्रैषः । ये स्वधेत्यागूर्ये स्वधामह इति वा स्वधा नम इति वष्ट्कारः ।

प्रधानस्य-

सोमस्य पितृमतो याज्यानुवाक्या-

त्वं सोम प्रचिकितो मनीषा त्वं रजिष्ठमनु नेषि पन्थां

तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः [१ । ९१ । १]

सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति ।

सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै ॐ ॥ [१ । ९१ । २०]

ये३ स्वधामहे सोमं पितृमन्तं त्वं सोम पितृभिः संविदानोऽनुद्यावापृथिवी आततन्थ ।

तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणा३ं स्वधा नमः ॥ [८ । ४८ । १३]

[[३८]]

[पितॄणां सोमवतां याज्यानुवाक्या-

उदीरतामवर उत् परास उन्मध्यमाः पितरः सोम्यासोऽ-

सुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु [१० । १५ । १]

त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः ।

वन्वन्नवातः परिधीँरपोर्णु वीरेभिरश्वैर्मघवा भवा नः ॐ ॥ [९ । ९६ । ११]

ये३ स्वधामहे पितॄन्त्सोमवत उपहूताः पितरः सोम्यासो बर्हिष्यशेषु निधिषु प्रियेषु ।

त आगमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मा३ न्त्स्वधा नमः ॥ [१० । १५ । ५]]

पितॄणां बर्हिषदां याज्यानुवाक्या-

बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वं

त आ गतावसा शन्तमेनाथा नः शं योररपो दधाता- [१० । १५ । ४]

हं पितॄन् त्सुविदत्राँ अवित्सि नपातं च विक्रमणं च विष्णोः ।

बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहा गमिष्ठाः ॐ ॥ [१० । १५ । ३]

ये३ स्वधामहे पितृन् बर्हिषद इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः ।

ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षू३ स्वधा नमः ॥ [१० । १५ । २]

पितॄणामग्निष्वात्तानां याज्यानुवाक्या-

अग्निष्वात्ताः पितर एह गच्छत सदः सदः सदत सुप्रणीतयोऽ-

त्ता हवींषि प्रयतानि बर्हिष्यथा रयिं सर्ववीरं दधातन [१० । १५ । ११]

ये चेह पितरो ये च नेह याँश्च विद्म याँ उ च न प्रविद्म ।

त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञं सुकृतं जुषस्व ॐ ॥ [१० । १५ । १२]

ये३ स्वधामहे पितॄनग्निष्वात्तान् ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते ।

तेभिः स्वराळसुनीतिमेतां यथावशं तन्वं कल्पयस्वा३ स्वधा नमः ॥ [१० । १५ । १४]

यमस्य याज्यानुवाक्या-

इमं यम प्रस्तरमाहि सीदाङ्गिरोभिः पितृभिः संविदान

आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषा मादयस्वा- [१० । १४ । ४]

ङ्गिरोभिरागहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व ।

विवस्वन्तं हुवे यः पिता तेऽस्मिन् यज्ञे बर्हिष्या निषद्य ॐ ॥ [१० । १४ । ५]

ये३ स्वधामहे यमं परेयिवांसं प्रवतो महीरनु बहुभ्यः पन्थामनुपस्पशानम् ।

वैवस्वन्तं सङ्गमनं जनानां यमं राजानं हविषा दुवस्या३ स्वधा नमः ॥ [१० । १४ । १]

[[३९]]

यमस्य वैवस्वतस्य याज्यानुवाक्या-

इमं यम प्रस्तरमाहि सीदाङ्गिरोभिः पितृभिः संविदान

आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषा मादयस्व [१० । १४ । ४]

परेयिवांसं प्रवतो महीरनु बहुभ्यः पन्थामनुपस्पशानम् ।

वैवस्वन्तं सङ्गमनं जनानां यमं राजानं हविषा दुवस्य ॐ ॥ [१० । १४ । १]

ये३ स्वधामहे यमं वैवस्वतमङ्गिरोभिरागहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व ।

विवस्वन्तं हुवे यः पिता तेऽस्मिन् यज्ञे बर्हिष्या निषद्या३ स्वधा नमः ॥ [१० । १४ । ५]

अग्नेः कव्यवाहनस्य याज्यानुवाक्या-

ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कै-

राग्ने याहि सुविदत्रेभिरर्वाङ् सत्यैः कव्यैः पितृभिर्घर्मसद्भिस्- [१० । १५ । ९]

त्वदग्ने काव्या त्वन्मनीषास्त्वदुक्था जायन्ते राध्यानि ।

त्वदेति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय ॐ ॥ [४ । ११ । ३]

ये३ स्वधामहेऽग्निं कव्यवाहनं स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळधत्त विश्वा ।

आपश्च मित्रं धिषणा च साधन् देवा अग्निं धारयन् द्रविणोदा३ं स्वधा नमः ॥ [१ । ९६ । १]

वषट्कार्क्रियायां याज्यानुवाक्या-

यो अग्निः कव्यवाहनः पितॄन् यक्षदृतावृधः ।

प्रेदु हव्यान्नि वोचति देवेभ्यश्च पितृभ्य आ ॐ ॥ [१० । १६ । ११]

ये३ यजामहेऽग्निं कव्यवाहनं त्वमग्न ईळितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वी ।

प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवींषी३ वौ३षट् ॥ [१० । १५ । १२]

ततो यज्ञोपवीती अप उपस्पृश्य दक्षिणोत्तर्युपस्थःसन्निळामुपह्वयते । इदं मे देवाः पितरो हविर्जुषन्तामिति तस्मिन्नुपहूतः । भक्षेषु प्राणभक्षान् भक्षयित्वा बर्हिष्यनु प्रहरयुः । बर्हिर्वर्जं द्वावनुयाजौ । संस्थितायां प्राग्वानुयाजाभ्यां दक्षिणावृतो दक्षिणाग्निमुपतिष्ठते-

अयाविष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः ।

स प्रत्युदैद्धरुणं मध्वो अग्रं स्वां यत्तनूं तत्स्वामैरयत । इति दक्षिणाग्निम् ।

सु॒स॒न्दृशं॑ त्वा व॒यं मघ॑वन् वन्दिषी॒महि ।

प्र नू॒नं पू॒र्णव॑न्धुरं स्तु॒तो या॑हि॒ वशाँ॒ अनु॒ योजान्वि॑न्द्र ते॒ हरी॑ ॥ इत्याहवनीयमुपतिष्ठते । [१ । ८२ । ३]

अ॒ग्निं तं म॑न्ये॒ यो वसु॒रस्तं॒ यं यन्ति॑ धे॒नवः॑ ।

अस्त॒मर्व॑न्त आ॒शवोऽस्तं॒ नित्या॑सो वा॒जिन॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥ इति गार्हपत्यम् । [५ । ६ । १]

अथ गार्हपत्यमभिसमायन्ति ।

[[४०]]

मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सो॒मिनः॑ । मान्तस्थु॑र्नो॒ अरा॑तयः ॥

यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः । तमाहु॑तं नशीमहि ॥

मनो॒ न्वा हु॑वामहे नाराशं॒सेन॒ सोमे॑न । पि॒तॄ॒णां च मन्म॑भिः ॥

आ त॑ एतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑ । ज्योक्च॒ सूर्यं॑ दृ॒शे ॥

पुन॑र्नः॒ पितरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जनः॑ । जी॒वं व्रातं॑ सचेमहि ॥

व॒यं सो॑म व्र॒ते तव॑ म॒नस्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तः सचेमहि ॥ [१० । ५७ । १-६]

अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः॑ ॥

वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मं र॒यिं दाः॑ ॥

स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्याणो॑ अघाय॒तः स॑मस्मात् ॥

तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥ [५ । २४ । १-४]

सूक्ते समाप्य ततो बर्हिर्वर्जौ द्वावनुयाजौ ।

सूक्तवाके- अग्निरिदं…, सोम इदं…, सोमः पितृमान् इदं [पितरः सोमवन्त इदमिति वा]…, पितरो बर्हिषदः इदं…, पितरोऽग्निष्वात्ताः इदं…, यमः इदं [यमो वैवस्वत इदमिति वा]…, देवा आज्यपा आज्यम्…, अग्निः कव्यवाहन इदं…, । अस्यामृधेद्धोत्रायाम् इत्यत्र न चात्र नामादेशः ।

पकृत्या शंयुवाकः । शंय्वन्ता सन्तिष्ठते । सव्यावृतस्त्र्यम्बकान् व्रजन्ति ।

आदित्येष्टिः

अथ आदित्येष्टिः ॥

अस्या इष्टेः सप्तदशसामिधेन्यः । पुष्टिमन्तावाज्यभागौ । अदितिः प्रधानदेवता । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च ।

आवाहने- अग्निमग्न आ३वह । सोममा३वह । अदितिमा३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।

उत्तमे प्रयाजे- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहादितिं स्वाहा देवा आज्यपा इत्यादि ।

पुष्टिमन्तावाज्यभागौ-

अग्निना रयिमश्नवत् पोषमेव दिवे दिवे । यशसं वीरवत्तमो३म् ॥

गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः । सुमित्रः सोम नो भवो३म् ॥ इति पुरोनुवाक्याः ।

प्रधानस्य-

उत त्वामदिते मह्यं देव्युपब्रुवे । सुमृळीकामभिष्टयो३म् ॥ [८ । ६७ । १०]

ये३ यजामहेऽदितिं मही मूषु मातरं सुव्रतानामृतस्य पत्नीमवसे हुवेम ।

तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीती३ं वौ३षट् ॥

विराजौ संयाज्ये । अयाळदित्याः प्रियाधामानि इत्यादिसंस्थाजपान्तं प्रकृतिवत् ॥

[[४१]]

॥ इति साकमेधाः ॥

शुनासीरीय-पर्व

॥ अथ शुनासीरीय-पर्व ॥

अस्या इष्टेः सप्तदशसामिधेन्यः । वार्त्रघ्नावाज्यभागौ । नवप्रयाजा नवानूयाजाः । अग्निः, सोमः, सविता, सरस्वती, पूषा, इन्द्राग्नी, विश्वे देवाः, इन्द्रः शुनासीरः [शुनासीरौ, इन्द्रः शुनो वा], वायुः [वायुर्नियुत्वान् वा], सूर्यश्च प्रधानदेवताः । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च । अग्निमन्थनादि सर्वं वैश्वदेववत् । वाजिनवर्जम् ।

नमः प्रवक्त्रे इत्यादि सामिधेन्यां पृथुपाजा अमर्त्यः इति द्वे धाय्ये आवपेत-

शोचिष्केशस्तमीमहो३ं

पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः । अग्निर्यज्ञस्य हव्यवो३ं [३ । २७ । ५]

तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः । आ चक्रुरग्निमूतयो३ं [३ । २७ । ६]

समिद्धो अग्न आहुत इत्यादि ।

आवाहने- अग्निमग्न आ३वह । सोममा३वह । अग्निमा३वह । सोममा३वह । सवितारम् (उपांशु) आ३वह । सरस्वतीमा३वह । पूषणमा३वह । इन्द्राग्नी आ३वह । विश्वान् देवाना३वह । इन्द्रं शुनासीरमा३वह [शुनासीरावा३वह, इन्द्रं शुनमा३वह इति वा] । वायुमा३वह [वायुं नियुत्वन्तमा३वह इति वा] । (उपांशु) सूर्यम् आ३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।

उत्तमे प्रयाजे- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहाग्निं स्वाहा सोमं स्वाहा (उपांशु) सवितारं स्वाहा सरस्वतीं स्वाहा पूषणं स्वाहेन्द्राग्नी स्वाहा विश्वान् देवान् त्स्वाहेन्द्रं शुनासीरं [स्वाहा शुनासीरौ स्वाहेन्द्रं शुनम् इति वा] स्वाहा वायुं [स्वाहा वायुं नियुत्वन्तम् इति वा] स्वाहा (उपांशु) सूर्यं स्वाहा देवा आज्यपा इत्यादि ।

वार्त्रघ्नावाज्यभागौ- अग्निर्वृत्राणि जङ्घनत्, त्वं सोमासि सत्पतिः ।

प्रधानानां वैश्वदेवान्तं प्रचर्य

इन्द्रस्य शुनासीरस्य याज्यानुवाक्या-

इन्द्रं वयं शुनासीरमस्मिन् यज्ञे हवामहे । स वाजेषु प्र नो विषो३म् ॥

ये३ यजामह इन्द्रं शुनासीरमश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ ।

आ भूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेमा३ वौ३षट् ॥ [१० । १६० । ७]

[शुनासीरयोर्याज्यानुवाक्या-

शुनासीराविमां वाचं जुषेथां यद् द्दिवि चक्रथुः पयः ।

तेनेमामुप सिञ्चतम् ॥ [४ । ५७ । ५]

ये३ यजामहे शुनासीरौ शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः ।

[[४२]]

शुनं पर्जन्यो मधुना पयोभिः शुनासीरा शुनमस्मासु धत्ता३ं वौ३षट् ॥ [४ । ५७ । ८]

इन्द्रस्य शुनस्य याज्यानुवाक्या-

शुनं हुवेम मघवानमिन्द्रमस्मिन् भरे नृतमं वाजसातौ ।

शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि सञ्जितं धनानो३म् ॥ [३ । ३० । २२]

ये३ यजामह इन्द्रं शुनमश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ ।

आ भूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेमा३ वौ३षट् ॥ [१० । १६० । ७]]

वायोर्याज्यानुवाक्या-

स त्वं नो देव मवसा वायो मन्दानो अग्रियः । कृधि वाजाँ अपो धियो३म् ॥ [८ । २६ । २५]

ये३ यजामहे वायुमीशानाय प्र हुतिं यस्त आनट्च्छुचिं सोमं शुचिपास्तुभ्यं वायो ।

कृणोषि तं मर्त्येषु प्रशस्तं जातो जातो जायते वाज्यस्या३ वौ३षट् ॥ [७ । ९० । २]

वायोर्नियुत्वतो याज्यानुवाक्या-

आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार ।

उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयो३म् ॥ [७ । ९२ । १]

ये३ यजामहे वायुं नियुत्वन्तं प्र याभिर्यासि दाश्वांसमच्छा नियुद्भिर्वायविष्टये दुरोणे ।

नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधा३ वौ३षट् ॥ [७ । ९२ । ३]

सूर्यस्य याज्यानुवाक्या-

(उपांशु) तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् ॐ ॥ [१ । ५० । ४]

ये३ यजामहे (उपांशु) सूर्यं चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।

आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तथुषश्चा३ वौ३षट् ॥ [१ । ११५ । १]

विराजौ संयाज्ये- प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वां शश्वन्त उपयन्ति वाजो३म् । ये३ यजामहेऽग्निं स्विष्टकृतमयाळग्निरग्नेः प्रियाधामान्ययाट् सोमस्य प्रियाधामान्ययाळग्नेः प्रियाधामान्ययाट् सोमस्य प्रियाधामान्ययाट् (उपांशु) सवितुः प्रियाधामान्ययाट् सरस्वत्याः प्रियाधामान्ययाट् पूष्णः प्रियाधामान्ययाळिन्द्राग्न्योः प्रियाधामान्ययाड् विश्वेषां देवानां प्रियाधामान्ययाळिन्द्रस्य शुनासीरस्य प्रियाधामान्ययाड् [शुनासीरयोः, इन्द्रस्य शुनस्य वा] वायोः प्रियाधामान्ययाट् [वायोर्नियुत्वतः वा] (उपांशु) सूर्यस्य प्रियाधामान्ययाड् देवानामाज्यपानां प्रियाधामानि । …जुषतां हवि-

रिमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ । प्रति न ईं सुरभीणि व्यन्तू३ वौ३षट् ।

सूक्तवाके- अग्निरिदं…, सोम इदं…, अग्निरिदं…, सोम इदं…, (उपांशु) सविता इदं…, सरस्वतीदं…, पूषेदं…, इन्द्राग्नी इदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम् । विश्वे देवा इदं हविरजुषन्तावीवृधन्त महो ज्यायोऽक्रत । इन्द्रः शुनासीर इदं हविरजुषतावीवृधत महोज्यायोऽकृत [शुनासीरौ, इन्द्रः शुनो वा] । वायुरिदं

[[४३]]

हविरजुषतावीवृधत महोज्यायोऽकृत [वायुर्नियुत्वान् वा] । (उपांशु) सूर्यः इदं हविरजुषतावीवृधत महोज्यायोऽकृत । देवाआज्यपा इत्यादि । संस्थाजपान्तं वैश्वदेववत् ॥