[[२२]]
अस्या इष्टेः सप्तदशसामिधेन्यः । वृधन्वन्तावाज्यभागौ । इन्द्राग्नी, विश्वेदेवाः, सोमः, द्यावापृथिवी च प्रधानदेवताः । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च ।
नमः प्रवक्त्रे इत्यादि सामिधेन्यां पृथुपाजा अमर्त्यः इति द्वे धाय्ये आवपेत-
शोचिष्केशस्तमीमहो३ं
पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः । अग्निर्यज्ञस्य हव्यवो३ं [३ । २७ । ५]
तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः । आ चक्रुरग्निमूतयो३ं [३ । २७ । ६]
समिद्धो अग्न आहुत इत्यादि ।
आवाहने- अग्निमग्न आ३वह । सोममा३वह । इन्द्राग्नी आ३वह । (उपांशु) विश्वान् देवान् आ३वह । (उपांशु) सोमम् आ३वह । (उपांशु) द्यावापृथिवी आ३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।
उत्तमे प्रयाजे- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहेन्द्राग्नी स्वाहा (उपांशु) विश्वान् देवान् स्वाहा (उपांशु) सोमं स्वाहा (उपांशु) द्यावापृथिवी स्वाहा देवा आज्यपा इत्यादि ।
वृधन्वन्तावाज्यभागौ- अग्निः प्रत्नेन मन्मना, सोम गीर्भिष्ट्वा वयम् ।
याज्यानुवाक्या-
इन्द्राग्न्योर्याज्यानुवाक्या-
इन्द्राग्नी अवसागतमस्मभ्यं चर्षणीसहा । मा नो दुःशंस ईशतो३म् ॥ [७ । ९४ । ७]
ये३ यजामह इन्द्राग्नी गीर्भिर्विप्रः प्रमतिमिच्छमान ईट्टे रयिं यशसं पूर्वभाजम् ।
इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस्तिरतं देष्णै३ र्वौषट् ॥ [७ । ९३ । ४]
विश्वेषां देवानां याज्यानुवाक्या-
(उपांशु) विश्वे देवास आगत शृणुता म इमं हवम् । एदं बर्हिर्निषीदत ओ३म् ॥ [२ । ४१ । १३]
ये३ यजामहे (उपांशु) विश्वान् देवान् ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे ।
ते अस्मभ्यमिषये विश्वमायुः क्षप उस्रा वरिवस्यन्तु देवा३ वौ३षट् ॥ [६ । ५२ । १५]
सोमस्य याज्यानुवाक्या-
(उपांशु) सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे । ताभिर्नोऽविता भवो३म् ॥ [१ । ९१ । ९]
ये३ यजामहे(उपांशु) सोमं या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु ।
तेभिर्नो विश्वैः सुमना अहेळन् राजन् त्सोम प्रति हव्या गृभाया३ वौ३षट् ॥ [१ । ९१ । १]
द्यावापृथिव्योर्याज्यानुवाक्या-
(उपांशु) मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् । पिपृतां नो भरीमभिः ॐ ॥ [१ । २२ । १३]
ये३ यजामहे(उपांशु) द्यावापृथिवी प्र पूर्वजे पितरा नव्यसीभिर्गीर्भिः कृणुध्वं सदने ऋतस्य ।
आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथा३ं वौ३षट् ॥ [७ । ५३ । २]
[[२३]]
स्विष्टकृतः याज्यानुवाक्या-
प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वां शश्वन्त उपयन्ति वाजो३म् ॥ [७ । १ । ३]
ये३ यजामहेऽग्निं स्विष्टकृतमयाळग्निरग्नेः प्रियाधामान्ययाट् सोमस्य प्रियाधामान्ययाळिन्द्राग्न्योः प्रियाधामान्ययाट् (उपांशु) विश्वेषां देवानां प्रियाधामान्ययाट् (उपांशु) सोमस्य प्रियाधामान्ययाट् (उपांशु) द्यावापृथिव्योः प्रियाधामान्ययाड् देवानामाज्यपानां प्रियाधामानि । …जुषतां हवि-
रिमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ । प्रति न ईं सुरभीणि व्यन्तू३ वौ३षट् ॥ [७ । १ । १८]
इळां प्रकृतिवदुपहूय इळाभक्षणे इळे भागमिति मन्त्रं जपित्वावान्तरेळां सव्ये पाणौ कृत्वा इतरेण पाणिनाभिमृशेत्- प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रियै मह्यं यशसे मह्यमन्नाद्याय इति मन्त्रेण
भद्रां नः श्रेयः समनैष्ट देवास्त्वया वसेन समशी महित्वा
स नो मयोभूः पितवाविवेशेह शं नो भव द्विपदे शं चतुष्पदे इति प्राश्याचम्य नाभिमालभेत-
अमोऽसि प्राण तदृतं ब्रवीम्यमासि सर्वानसि प्रविष्टः
स मे जरां रोगमपनुद्य शरीरादमाम एधि मामृथाम इन्द्र इति /अप उपस्पृश्य
सूक्तवाके- अग्निरिदं…, सोम इदं…, इन्द्राग्नी इदं हविरजुषेतामवीवृधेतां महोज्यायोऽक्राताम् (उपांशु) विश्वे देवा इदं हविरजुषन्तावीवृधन्त महो ज्यायोऽक्रत । (उपांशु) सोमः इदं…, (उपांशु) द्यावापृथिवी इदं हविरजुषेतामवीवृधेतां महोज्यायोऽक्राताम् । देवा आज्यपा इत्यादि संस्थाजपान्तं प्रकृतिवत्