अपराह्णे आचम्य प्राणानायम्य ममोपात्तदुरितक्षयद्वारा श्री परमेश्वरप्रीत्यर्थं पिण्डपितृयज्ञं करिष्ये इति सङ्कल्प्य स्वयोनितो दक्षिणाग्निमानीय प्रज्वल्य तस्यैकोल्मुकं प्राग्दक्षिणा प्रणयेत् – ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति परापुरो निपुरो ये भरन्त्यग्निष्टाल्लोकात् प्रणुदात्वस्मात् इत्यतिप्रणीय दक्षिणाग्निमतिप्रणीतमुभौ उपसमाधाय परिस्तीर्य च दक्षिणाग्नेः प्रागुदक्प्रत्यगुदग् वैकैकशः पात्राणि सादयेत्- चरुस्थालीशूर्पस्फोलूखलमुसलस्रुवध्रुवकृष्णाजिनसकृदाच्चिन्नेध्ममेक्षणकमण्डलून् इत्येवमासाद्य दक्षिणाग्नेर्दक्षिणतोऽग्निष्ठं शकटमारुह्य तत्रैव शूर्पे चरुस्थालीं विधाय व्रीहिभिः प्रपूर्य पूर्णां निमृज्य स्थाल्यास्यदेशाच्छूर्पोपरि ये पतन्ति तान् व्रीहीन् परिसन्नान् शकटे निधाय कृष्णाजिन उलूखलं कृत्वा स्थाल्यन्तर्गतानविविच्याविविच्य पत्न्यवहन्यात् ततः सकृत् प्रक्षाल्य दक्षिणाग्नौ श्रपयेत् ततो दक्षिणाग्न्यतिप्रणीतयोरन्तराले स्फेन लेखामुल्लिखेत्- अपहता असुरा रक्षांसि वेदिषद इति तामभ्युक्ष्य सकृदाच्छिन्नैरवस्तीर्य आज्यं गृहीत्वा ध्रुवायां कृत्वा दक्षिणतो दक्षिणाग्नेर्निधाय तेनाज्येन स्थालीमभिघार्य दक्षिणाग्नेः पश्चादासादयेत् यदि नवनीतमाज्यकार्यार्थं स्यात तदास्य विलपनमात्रं कृत्वान्यस्मिन् पात्र आनीयैकपवित्रेण सकृत्तूष्णीमुत्पूय ततो ध्रुवायां कृत्वा दक्षिणतो दक्षिणाग्नेर्निधाय तेन स्थालीपाकं स्रुवेणाभिघार्य दक्षिणाग्नेः पश्चादासादयेत् दक्षिणत आञ्जनाभ्यञ्जनकशिपूपबर्हणानि सादयेत् प्राचीनावीती इध्ममुपसमाधाय मेक्षणं स्रुवेणोपस्तीर्य द्विरवदाय प्रत्यभिघार्य मेक्षणेनादाय जुहुयात् सोमाय पितृमते स्वधा नमः सोमाय पितृमत इदं न मम अग्नये कव्यवाहनाय स्वधा नमः अग्नये कव्यवाहनायेदं न मम इति दक्षिणाग्नावेव द्वितीयाहुतिं हुत्वा यज्ञोपवीती मेक्षणं दक्षिणाग्नावनु प्रहृत्य प्राचीनावीती लेखां त्रिरुदकेनोपनयेत्- शुन्धन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहाः इति तस्यां पराचीनपाणिः पिण्डान्निपृणीयात्- एतत्ते पितः शर्मन् ये च त्वामत्रानु एतत्ते पितामह शर्मन् ये च त्वामत्रानु एतत्ते प्रपितामह शर्मन् ये च त्वामत्रानु एवं निपृतानुमन्त्रयेत अत्र पितरो मादयध्वं यथाभागमावृषायध्वम् इत्यनुमन्त्र्य सव्यावृदुदङ्ङावृत्य यथाशक्ति अप्राणन्नासित्वाभिपर्यावृत्य अमीमदन्त पितरो यथाभागमावृषायीषत इत्यनुमन्त्र्य चरोः प्राणभक्षं भक्षयित्वा शुन्धन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहाः इत्यपो निनीय पितः शर्मन्नभ्यङ्क्ष्व पितामह शर्मन्नभ्यङ्क्ष्व प्रपितामह शर्मन्नभ्यङ्क्ष्व पितः शर्मन्नङ्क्ष्व पितामह शर्मन्नङ्क्ष्व प्रपितामह शर्मन्नङ्क्ष्व इत्यभ्यञ्जनाञ्जने दत्वा एतद्वः पितरो वासो मा नोऽतोऽन्यत्पितरो युङ्ध्वम् इति वासो दद्याद्दशामूर्णास्तुकां वा पञ्चाशद्वर्षताया ऊर्ध्वं स्वं लोम अथैनानुपतिष्ठेत नमो वः पितर इषे नमो वः पितर ऊर्जे नमो वः पितरः शुष्माय नमो वः पितरो घोराय नमो वः पितरो जीवाय नमो वः पितरो रसाय स्वधा वः पितरो नमो वः पितरो नम एता युष्माकं पितर इमा अस्माकं जीवा वो जीवन्त इह सन्तः स्याम
मनोन्वा हुवामहे नाराशंसेन स्तोमेन पितॄणां च मन्मभिः
आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे ज्योक्च सूर्यं दृशे
[[२१]]
पुनर्नःपितरो मनो ददातु दैव्यो जनः जीवं व्रातं सचेमहि
अथैनान् प्रवाहेत्- परेत नः पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेभिः
दत्त्वायास्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं नियच्छत इति
अग्निं प्रत्येयात्- अग्ने तमाद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् ऋद्ध्या मा त ओहैः
गार्हपत्यम्- यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिंसिम
अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु करोतु मामनेहसम् इति
वीरं मे दत्त पितरः इति पिण्डानां मध्यमं पिण्डमादाय पत्नीं प्राशयेत्
आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् यथायमरपा असत्
इति पत्न्येव मन्त्रं ब्रूयात् इतरावप्सु पिण्डौ प्रक्षिपेत् अतिप्रणीते वा प्रक्षिप्य पात्राणां द्विवदुत्सर्गः यद्येकमेवावशिष्टं स्यात्तर्हि द्वित्वसम्पादनार्थं तृणेन सह तदुत्सृजेदिति अनेन पिण्डपितृयज्ञाख्येन कर्मणा श्रीपरमेश्वरः प्रीयताम्