०४ अग्न्याधेयप्रयोगः

अस्या इष्टेः पञ्चदशसामिधेन्यः । वार्त्रघ्नावाज्यभागौ । अग्निः, अग्निः पवमानश्च प्रधानदेवत । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च ।

आवाहने- अग्निमग्न आ३वह । सोममा३वह । (उपांशु)अग्निम् आ३वह । (उपांशु) अग्निं पवमानम् आ३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।

उत्तमे प्रयाजे- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहा (उपांशु) अग्निं स्वाहा (उपांशु) अग्निं पवमानं स्वाहा देवा आज्यपा इत्यादि ।

वार्त्रघ्नावाज्यभागौ- अग्निः प्रत्नेन मन्मना सोम गीर्भिष्ट्वा वयम्

अग्नेर्याज्यानुवाक्या-

(उपांशु) अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वति ओ३म् ॥ [८ । ४४ । १६]

ये३ यजामहे(उपांशु) अग्निं भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।

दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहा३ं वौ३षट् ॥ [१० । ८ । ६]

अग्नेः पवमानस्य याज्यानुवाक्या-

(उपांशु) अग्न आयूंषि पवस आ सुवोर्जमिषं च नः आरे बाधस्व दुच्छुनाम् ओ३म् ॥

ये३ यजामहे(उपांशु) अग्निं पवमानमग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् ।

दधद्रयिं मयि पोषां वौ३षट् ॥

स्विष्टकृतः याज्यानुवाक्या-

स हव्यवाळग्निरमर्त्य उशिग्दूतश्चनोहितः अग्निर्धिया समृण्वतो३म् ३ ११ २

ये३ यजामहेऽग्निं स्विष्टकृतमयाळग्निरग्नेः प्रियाधामान्ययाट् सोमस्य प्रियाधामान्ययाट् (उपांशु) अग्नेः

प्रियाधामान्ययाट् (उपांशु) अग्नेः पवमानस्य प्रियाधामान्ययाड् देवानामाज्यपानां प्रियाधामानि…. जुषतां हविरग्निर्होता पुरोहितोध्वरस्य विचर्षणिः । स वेद यज्ञमानुषा३ ग्वौ३षट् ॥ [३ । ११ । १]

सूक्तवाके- अग्निरिदं…, सोम इदं…, (उपांशु) अग्निः इदं…, (उपांशु) अग्निः पवमानः इदं…, देवा आज्यपा इत्यादि संस्थाजपान्तं प्रकृतिवत्

[[२०]]