०३ अन्वारम्भणीयेष्टिः

अस्या इष्टेः पञ्चदशसामिधेन्यः । वार्त्रघ्नावाज्यभागौ । अग्नाविष्णू, सरस्वती, सरस्वान्, अग्निर्भगी च प्रधानदेवताः । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः, देवा आज्यपाश्च ।

आवाहने- अग्निमग्न आ३वह । सोममा३वह । (उपांशु) अग्नाविष्णू आ३वह । (उपांशु) सरस्वतीम् आ३वह । (उपांशु) सरस्वन्तम् आ३वह । (उपांशु) अग्निं भगिनम् आ३वह । देवाँ आज्यपाँ आ३वहेत्यादि ।

उत्तमे प्रयाजे- ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहा (उपांशु) अग्नाविष्णू स्वाहा (उपांशु) सरस्वतीं स्वाहा (उपांशु) सरस्वन्तं स्वाहा (उपांशु) अग्निं भगिनं स्वाहा देवा आज्यपा इत्यादि ।

वार्त्रघ्नावाज्यभागौ- अग्निर्वृत्राणि जङ्घनत्, त्वं सोमासि सत्पतिः ।

अग्नाविष्ण्वोर्याज्यानुवाक्या-

(उपांशु)अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः । द्युम्नैर्वाजेभिरागतम् ओ३म् ॥

ये३ यजामहे(उपांशु) अग्नाविष्णू अग्नाविष्णू महिधाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा

दमे दमे सुष्टुतिर्वामियाना प्रति वां जिह्वा घृतमुच्चरण्या३ द्वौ३षट् ॥

सरस्वत्या याज्यानुवाक्या-

(उपांशु) पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः ओ३म् ॥ [१ । ३ । १०]

ये३ यजामहे (उपांशु) सरस्वतीं पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् ।

ग्नाभिरच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसा३द् वौ३षट् ॥ [६ । ४९ । ७]

सरस्वतो याज्यानुवाक्या-

(उपांशु) पीपिवांसं सरस्वतः स्तनं यो विश्वदर्शतः भक्षीमहि प्रजामिषम् ओ३म् [७९६ ६]

ये३ यजामहे (उपांशु) सरस्वन्तं दिव्यं सुपर्णं वायसं बृहन्तमपां गर्भं दर्शतमोषधीनाम्

अभीपतो वृष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमी३ वौ३षट् ॥ [१ १६४ ५२]

अग्नेर्भगिनो याज्यानुवाक्या-

(उपांशु) आ सवं सवितुर्यथा भगस्येव भुजिं हुवे अग्निं समुद्रवाससम् ओ३म् [८ १०२ ६]

ये३ यजामहे (उपांशु) अग्निं भगिनं सनो राधांस्या भरेशानः सहसो यहो

भगश्च दातु वार्या३ं वौ३षट् ॥ [७ १५ ११]

स्विष्टकृदि-

पिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ऋतूँर्ऋतुपते यजेह ।

ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्या यजिष्ठो३म् ॥ [१० । २ । १]

[[१८]]

ये३ यजामहेऽग्निं स्विष्टकृतमयाळग्निरग्नेः प्रियाधामान्ययाट् सोमस्य प्रियाधामान्ययाट् (उपांशु) अग्नाविष्ण्वोः प्रियाधामान्ययाट् (उपांशु) सरस्वत्याः प्रियाधामान्ययाट् (उपांशु) सरस्वतः प्रियाधामान्ययाट् (उपांशु) अग्नेर्भगिनःप्रियाधामान्ययाड् देवानामाज्यपानां प्रियाधामानि…,

जुषतां हविरग्ने यदद्यविशो अध्वरस्य होतः पावकशोचे वेष्ट्वं हि यज्वा ।

ऋता यजासि महिना वियद्भूर्हव्या वह यविष्ठ या ते अद्या३ वौ३षट् ॥ (वागोजः..) [६ । १५ । १४]

सूक्तवाके- अग्निरिदं…, सोम इदं…, (उपांशु) अग्नाविष्णू इदं हविरजुषेथामवीवृधेथां महो ज्यायोक्राताम्…, (उपांशु) सरस्वती इदं…, (उपांशु) सरस्वान् इदं…, (उपांशु) अग्निर्भगी इदं…, देवा आज्यपा इत्यादि संस्थाजपान्तं प्रकृतिवत्

[[१९]]