०२ दर्शपूर्णमासेष्टिप्रयोगः

॥ अथ दर्शपूर्णमासेष्टिप्रयोगः ॥

अस्या इष्टेः पञ्चदश सामिधेन्यः । वार्तघ्नावाज्यभागौ । अमावास्यायां- वृधन्वन्तावाज्यभागौ । अग्निः विष्णुः अग्नीषोमौ इन्द्रो वैमृधश्च प्रधानदेवताः । अमावास्यायां-अग्निः विष्णुः इन्द्राग्नी इत्यसन्नयतः । सन्नयतः संवत्सरपर्यन्तम् इन्द्रः, अनन्तरं महेन्द्रः । स्विष्टकृत् प्रयाजादयोऽङ्गदेवताः देवा आज्यपाश्च ।

दर्शपूर्णमासयोर्हविःष्वासन्नेषु होतामन्त्रितः प्रागुदगाहवनीयादवस्थाय प्राङ्मुखो यज्ञोपवीत्याचम्य दक्षिणावृद्विहारं प्रपद्यते पूर्वेणोत्करमपरेण प्रणीता इध्ममपरेणाप्रणीते चात्वालं चात्वालवत्स्वेतत्तीर्थमित्याचक्षते । प्रपद्याभिहृततरेण पादेन वेदिः श्रोण्योत्तरया पार्ष्णीं समां निधाय प्रपदेन बर्हिराक्रम्य संहितौ पाणी धारयन्नाकाशवत्यङ्गुली हृदयसम्मितावङ्कसंमितौ वा द्यावापृथिव्योः सन्धिमीक्षमाणस्तिष्ठेत् । अध्वर्युणा अग्नये समिध्यमानायानुब्रूहि इति प्रेषितो जपति-

नमः प्रवक्त्रे नम उपद्रष्ट्रे नमोऽनुख्यात्रे क इदमनुवक्ष्यति स इदमनुवक्ष्यति षण्मोर्वीरंहसस्पान्तु द्यौश्च पृथिवी चाहश्च रात्रिश्चाऽऽपश्चौषधयश्च वाक्समस्थितयज्ञः साधुच्छन्दांसि प्रपद्येऽहमेव माम् (अमुमिति स्वं नामादिशेत) शर्माणं भूते भविष्यति जाते जनिष्यमाण आभजाम्यपाव्यं वाचो अशान्तिं वह इत्यङ्गुल्यग्राण्यवकृष्य जातवेदो रमया पशून् मयि इति प्रतिसन्दध्यात् वर्म मे द्यावापृथिवी वर्माग्निर्वर्म सूर्यो वर्म मे सन्तु तिरश्चिकाः ।

तद॒द्य वा॒चः प्र॑थ॒मं म॑सीय॒ येनासु॑राँ अभि दे॒वा असा॑म ।

ऊर्जा॑द उ॒त य॑ज्ञियासः॒ पञ्च॑जना॒ मम॑ हो॒त्रं जु॑षध्वम् ॥ [ ऋ.स १०/५३/४]

इत्युपांशु । हिम्३ इत्युच्चैः । भूर्भुवःस्वरो३म् इत्युपांशु । समाप्य सामिधेनीरन्वाह अथोच्चैः

प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या देवाञ्जिगाति सुम्नयो३ं [३ । २७ । १]

प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या । देवाञ्जिगाति सुम्नयो३ं

प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या देवाञ्जिगाति सुम्नयो३

मग्न अयाहि वीतये गृणानो हव्यदातये । निहोता सत्सि बर्हिषो३ं [६ । १६ । १०]

तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्यो३ं

स नः पृथुश्रवाय्यमच्छा देव विवाससि । बृहदग्ने सुवीर्यो३

मीळेन्यो नमस्यस्तिरस्तमांसि दर्शतः । समग्निरिध्यते वृषो३ं [३ । २७ । १४]

वृषो अग्निः समिध्यतेऽश्वो न देववाहनः । तं हविष्मन्त ईळतो३ं

[[८]]

वृषणं त्वा वयं वृषन् वृषणः समिधीमहि । अग्ने दीद्यतं बृहो३

मग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतो३ं [१ । १२ । १]

समिध्यमानो अध्वरेऽग्निः पावक ईड्यः । शोचिष्केशस्तमीमहो३ं [३ । २७ । ४]

समिद्धो अग्न आहुत देवान् यक्षि स्वध्वर । त्वं हि हव्यवाळसो३ [५ । २८ । ५]

माजुहोता दुवस्यताग्निं प्रयत्यध्वरे वृणीध्वं हव्यवाहनो३ [५ । २७ । ६]

माजुहोता दुवस्यताग्निं प्रयत्यध्वरे । वृणीध्वं हव्यवाहनो३

माजुहोता दुवस्यताग्निं प्रयत्यध्वरे वृणीध्वं हव्यवाहनो३ मग्ने महाँ असि ब्राह्मण भारत । इति निगदेऽवसाय यजमानस्यार्षेयान् प्रवरान् वृणीते देवेद्धो मन्विद्ध ऋषिष्टुतो विप्रानुमदितः कविशस्तो ब्रह्मसंशितो घृताहवनः प्रणीर्यज्ञानां रथीरध्वराणामतूर्तो होता तूर्णिर्हव्यवाट् । इत्यवसाय

आस्पात्रं जुहूर्देवानां चमसो देवपानोऽराँ इवाग्ने नेमिर्देवांस्त्वं परिभूरस्यावह देवान् यजमानाय । अग्निमग्न आ३वह । सोममा३वह । अग्निमा३वह । (उपांशु) विष्णुम् (उच्चैः) आ३वह । अग्नीषोमावा३वह । इन्द्रं वैमृधमा३वह । अमावास्यायाम्- इन्द्राग्नी आ३वह इत्यसन्नयतः । सन्नयतस्तु इन्द्रमा३वह । संवत्सरानन्तरं महेन्द्रमा३वह । देवाँ आज्यपाँ आ३वह । अग्निं होत्रायावह स्वं महिमानमा३वह । आवह जातवेदः सुयजा यज । इत्यावाह्य यथास्थितमूर्ध्वजानुरुपविश्य उदग्वेदेर्व्यूह्य तृणानि भूमौ प्रादेशं कुर्यात्- अदितिर्मातास्यन्तरिक्षान्माच्छेत्सीरिदमहमग्निना देवेन देवतया त्रिवृता स्तोमेन रथन्तरेण साम्ना गायत्रेण च्छन्दसाग्निष्टोमेन यज्ञेन वषट्कारेण वज्रेण योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तं हन्मि इति । आश्रावयिष्यन्तमनुमन्त्रयेत- आश्रावय यज्ञं देवेष्वाश्रायव मां मनुष्येषु कीर्त्यै यशसे ब्रह्मवर्चसाय इति । प्रावृणानं- देव सवितरेतं त्वा वृणतेऽग्निं होत्राय सह पित्रा वैश्वानरेण द्यावापृथिवी मां पातामग्निर्होताहं मानुषः । मानुष इत्यध्वर्योः श्रुत्वा- उदायुषा स्वायुषोदोषधीनां रसेनोत्पर्जन्यस्य धामभिरुदस्थाममृताँ अनु इत्युत्तिष्ठेत् । षष्टिश्चाध्वर्यो नवतिश्च पाशा अग्निं होतारमन्तरा विचृत्ताः । सिनन्ति पाकमतिधीर एति इत्युत्थाय जपेत् । ऋतस्य पन्थामन्वेमि होता इत्यभिक्रम्यांसेऽध्वर्युमन्वारभेत पार्श्वस्थेन पाणिना, आग्नीध्रमङ्कदेशेन सव्येन वा इन्द्रमन्वारभामहे होतृवूर्ये पुरोहितम् । येनायन्नुत्तमं स्वर्देवा अङ्गिरसो दिवम् ॥ इति ।

संमार्गतृणैस्त्रिरभ्यात्मं मुखं संमृजीत संमार्गोऽसि सं मां (मा) प्रजया पशुभिर्मृड्ढि इति सकृन्मन्त्रेण द्विस्तूष्णीम् । स्पृष्टोदकं होतृषदनमभिमन्त्रयेत अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतरः इति । अङ्गुष्ठोपकनिष्ठिकाभ्यां होतृषदनात्तृणं प्रत्यग्दक्षिणा निरसेत् निरस्तः परावसुः इति । अप उपस्पृश्य । इदमहमर्वावसोः सदने सीदामि इत्युपविशेद्दक्षिणोत्तरिणोपस्थेन । उपविश्य देवबर्हिः स्वासस्थं त्वाध्यासदेयम् इति जपति । अभिहिष होतः प्रतरां बर्हिषद्भव इति जानुशिरसा बर्हिरुपस्पृश्यात ऊर्ध्वं जपेत्-

[[९]]

भूपतये नमो भुवनपतये नमो भूतानांपतये नमो भूतये नमः प्राणं प्रपद्येऽपानं प्रपद्ये व्यानंप्रपद्ये वाचं प्रपद्ये चक्षुः प्रपद्ये श्रोत्रं प्रपद्ये मनः प्रपद्य आत्मानं प्रपद्ये गायत्रीं प्रपद्ये त्रिष्टुभं प्रपद्ये जगतीं प्रपद्येऽनुष्टुभं प्रपद्ये छन्दांसि प्रपद्ये

सूर्यो॑ नो दि॒वस्पा॑तु॒ वातो॑ अ॒न्तरि॑क्षात् । अ॒ग्निर्नः॒ पार्थि॑वेभ्यः ॥ [१० । १५८ । १]

नमो॑ म॒हद्भो॒ नमो॑ अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्यः॑ ।

यजा॑म दे॒वान् यदि॑ श॒क्नवा॑म॒ मा ज्याय॑सः॒ शंस॒मा वृ॑क्षि देवाः ॥ [१ । २७ । १३]

विश्वे॑देवाः शा॒स्तन॑ मा॒ यथे॒ह होता॑ वृ॒तो म॒नवै॒ यं नि॒षद्य॑ ।

प्र मे॑ ब्रूत भाग॒देयं॒ यथा॑ वो॒ येन॑ प॒था ह॒व्यमा वो॒ वहा॑नि ॥ [१० । ५२ । १]

अरा॑धि॒ होता॑ नि॒षदा॒ यजी॑यान॒भि प्रयां॑सि॒ सुधि॑तानि॒ हि ख्यत् ।

यजा॑महै य॒ज्ञिया॒न् हन्त॑ दे॒वाँ ईळा॑महा॒ ईड्याँ॒ आज्ये॑न ॥ [१० । ५३ । २]

तद॒द्य वा॒चः प्र॑थ॒मं म॑सीय॒ येनासु॑राँ अ॒भि दे॒वा असा॑म ।

ऊर्जा॑द उ॒त य॑ज्ञियासः॒ पञ्च॑जना॒ मम॑ हो॒त्रं जु॑षध्वम् ॥ [ऋ.स १० । ५३ । ४]

इत्युपांशुना समाप्य । प्रदीप्त इध्मे स्रुचावादापयेन्निगदेन अग्निर्होता वेत्वग्नेर्होत्रं वेत्तु प्रावित्रं साधु ते यजमानदेवता यो अग्निम् इत्यवसाय होतारमवृथाः इति जपेत् । घृतवतीमध्वर्यो स्रुचमास्यस्व देवयुवं विश्ववारे ईळामहै देवाँ ईळेन्यान्नमस्याम नमस्यान् यजाम यज्ञियान् ॥

प्रयाजाः

अथ प्रयाजाः ।

अध्वर्युराश्रावयति प्रत्याश्रावयेदाग्नीध्र उत्करदेशे तिष्ठन् स्फ्यमिध्मसन्नहनानीत्यादाय दक्षिणमुखः अस्तु श्रौ३षट् इत्यौकारं प्लावयन् । अध्वर्युणा समिधो यज इति प्रेषितो यजति ।

१. ये३ यजामहे समिधः समिधो अग्न आज्यस्य व्यन्तू ३ वौ३षट् । वागोजः सह ओजो मयि प्राणापानौ इति

सर्वत्र वषट्कारमुक्त्वोक्त्वानुमन्त्रयेत् ।

२. ये३ यजामहे तनूनपादग्न आज्यस्य वेतू३ वौ३षट् । वागोज इत्यनुमन्त्रणम् ।

वसिष्ठशुनकात्रिवध्र्यश्वराजन्यानां-

ये३ यजामहे नराशंसो अग्न आज्यस्य वेतू३ वौ३षट् । वागोज इत्यनुमन्त्रणम् ।

३. ये३ यजामह इळो अग्न आज्यस्य व्यन्तू३ वौ३षट् । वागोज इत्यनुमन्त्रणम् ।

४. ये३ यजामहे बर्हिरग्न आज्यस्य वेतू३ वौ३षट् । वागोज इत्यनुमन्त्रणम् ।

५. ये३ यजामहे स्वाहाग्निं स्वाहा सोमं स्वाहाग्निं स्वाहा (उपांशु) विष्णुं स्वाहाग्नीषोमौ स्वाहेन्द्रं वैमृधम्, अमावास्यायां- स्वाहेन्द्राग्नी इत्यसन्नयतः, सन्नयतः स्वाहेन्द्रं, संवत्सरानान्तरं स्वाहा महेन्द्रं, स्वाहा देवा आज्यपा जुषाणा अग्न आज्यस्य व्यन्तू३ वौ३षट् । (वागोज इत्यनुमन्त्रणम्)

आज्यभागौ

अथाज्यभागौ ।

[[१०]]

अग्नयेऽनुब्रूहि इति प्रेषितः-

अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । समिद्धः शुक्र आहुतो३म् ॥ [६ । १६ । ३४]

अग्निं यज इति प्रेषितः- ये३ यजामहेऽग्निं जुषाणो अग्निराज्यस्य वेतू३ वौ३षट् । (वागोज इत्यनुमन्त्रणम्)

सोमायानुब्रूहि इति प्रेषितः-

त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा । त्वं भद्रो असि क्रतो३म् ॥ [१ । ९१ । ५]

सोमं यज इति प्रेषितः-

ये३ यजामहेसोमंजुषाणः सोम आज्यस्य हविषो वेतू३ वौ३षट् । (वागोज इत्यनुमन्त्रणम्)

अमावास्यायां वृधन्वन्तावाज्यभागौ । तस्य याज्यानुवाक्ये-

अग्निः प्रत्नेन मन्मना शुम्भानस्तन्वं स्वाम् । कविर्विप्रेण वावृधो३म् ॥ [८ । ४४ । १२]

सोम गीर्भिष्ट्वा वयं वर्धयामो वचोविदः । सुमृळीको न आविशो३म् ॥ [१ । ९१ । ११]

प्रधानानां देवतानां याज्यानुवाक्याः-

अग्नयेऽनुब्रूहि इति प्रेषितः-

अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वतो३म् ॥ [८ । ४४ । १६]

अग्निं यज इति प्रेषितः-

ये३ यजामहेऽग्निं भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।

दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहा३ं वौ३षट् ॥ (वागोजः..) [१० । ८ । ६]

विष्णवे अनुब्रूहि इति प्रेषितः-

(उपांशु) इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूह्ळमस्य पांसुरे (उच्चैः) ॐ ॥ [१ । २२ । १७]

यज इति प्रेषितः-

ये३ यजामहे (उपांशु) विष्णुं त्रिर्देवः पृथिवीमेष एतां विचक्रमे शतर्चसं महित्वा ।

प्र विष्णुरस्तु तवसस्तवीयान् त्वेषं ह्यस्य स्थविरस्य नामा३(उच्चैः) वौ३षट् ॥ (वागोजः..) [७ । १०० । ३]

अग्नीषोमाभ्यामनुब्रूहि इति प्रेषितः-

अग्नीषोमा सवेदसा सहूती वनतं गिरः । सं देवत्रा बभूवतो३म् ॥ [१ । ९३ । ३]

अग्नीषोमौ यज इति प्रेषितः-

ये३ यजामहेऽग्नीषोमौ युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् ।

युवं सिन्धूँरभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीता३ न्वौ३षट् ॥ (वागोजः..) [१ । ९३ । ५]

इन्द्राय वैमृधायानुब्रूहि इति प्रेषितः-

वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।

यो अस्माँ अभिदासत्यधरं गमया तमो३म् ॥ [१० । १५२ । ४]

[[११]]

इन्द्रं वैमृधं यज इति प्रेषितः-

ये३ यजामह इन्द्रं वैमृधं मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः ।

सृकं संशाय पविमिन्द्रतिग्मं वि शत्रून् ताह्ळि विमृधो नुदस्वा३ वौ३षट् ॥ (वागोजः..) [१० । १८० । २]

अमावास्यायाम्

अमावास्यायाम्-

असन्नयत आहिताग्नेर्याज्यानुवाक्या-

इन्द्राग्निभ्यामनुब्रूहि इति प्रेषितः-

इन्द्राग्नी अवसागतमस्मभ्यं चर्षणीसहा । मा नो दुःशंस ईशतो३म् ॥ [७ । ९४ । ७]

इन्द्राग्नी यज इति प्रेषितः-

ये३ यजामह इन्द्राग्नी गीर्भिर्विप्रः प्रमतिमिच्छमान ईट्टे रयिं यशसं पूर्वभाजम् ।

इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस्तिरतं देष्णै३ र्वौषट् ॥ (वागोजः..) [७ । ९३ । ४]

सन्नयत आहिताग्नेर्याज्यानुवाक्या-

इन्द्रायानुब्रूहि इति प्रेषितः-

एन्द्र सानसिं रयिं सजित्वानं सदासहम् । वर्षिष्ठमूतये भरो३म् ॥ [१ । ८ । १]

इन्द्रं यज इति प्रेषितः-

ये३ यजामह इन्द्रं प्र स साहिषे पुरुहूत शत्रून् ज्येष्ठस्ते शुष्म इह रातिरस्तु ।

इन्द्राभर दक्षिणेना वसूनि पतिः सिन्धूनामसि रेवतीना३ं वौ३षट् ॥ (वागोजः..) [१० । १८० । १]

सन्नयत आहिताग्नेः संवत्सरानन्तरम्-

महेन्द्रायानुब्रूहि इति प्रेषितः-

महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इव । स्तोमैर्वत्सस्य वावृधो३म् ॥ [८ । ६ । १]

महेन्द्रं यज इति प्रेषितः-

ये३ यजामहे महेन्द्रं भुवस्त्वमिन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियः ।

भुवो नॄँः श्च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणा३ इ वौ३षट् ॥ (वागोजः..) [१० । ५० । ४]

स्विष्टकृत्

अथ स्विष्टकृत् ।

अग्नये स्विष्टकृतेऽनुब्रूहि इति प्रेषितः-

पिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ऋतूँर्ऋतुपते यजेह ।

ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्या यजिष्ठो३म् ॥ [१० । २ । १]

अग्निं स्विष्टकृतं यज इति प्रेषितः-

ये३ यजामहेऽग्निं स्विष्टकृतमयाळग्निरग्नेः प्रियाधामान्ययाट् सोमस्य प्रियाधामान्ययाळग्नेः प्रियाधामान्ययाट् (उपांशु) विष्णोः (उच्चैः) प्रियाधामान्ययाळग्नीषोमयोः प्रियाधामान्ययाळिन्द्रस्य वैमृधस्य प्रियाधामान्ययाट्

[[१२]]

(असन्नयतः) इन्द्राग्न्योः प्रियाधामान्ययाट् (सन्नयतः) इन्द्रस्य प्रियाधामान्ययाट् (सन्नयत आहिताग्नेः संवत्सरानन्तरम्) महेन्द्रस्य प्रियाधामान्ययाड् देवानामाज्यपानां प्रियाधामानि । यक्षदग्नेर्होतुः प्रियाधामानि यक्षत्स्वं महिमानमायजतामेज्या इषः कृणोतु सो अध्वरा जातवेदा जुषतां हविरग्ने यदद्यविशो अध्वरस्य होतः पावकशोचे वेष्ट्वं हि यज्वा ।
ऋता यजासि महिना वियद्भूर्हव्या वह यविष्ठ या ते अद्या३ वौ३षट् ॥ (वागोजः..) [६ । १५ । १४]

इत्यनवानं यजति प्रकृत्या वा । प्रदेशिन्याः पर्वणी उत्तमे अञ्जयित्वा ओष्ठयोरभ्यात्मं निमार्ष्टि- वाचस्पतिना ते हुतस्येषे प्राणाय पाश्नामि । उत्तरमुत्तरे । मनसस्पतिना हुतस्योर्जेऽपानाय प्राश्नामि । अधरमधरे । स्पृष्टोदकमञ्जलिनेळां प्रतिगृह्य सव्ये पाणौ कृत्वा पश्चादस्या उदगङ्गुलिं पाणिमुपधाय अवान्तरेळामवदापयीत ।

अन्तरेणाङ्गुष्ठमङ्गुलीश्च स्वयं द्वितीयमाददीत । प्रत्यालब्धामङ्गुष्ठेनाभिसङ्गृह्य प्रत्याहृत्याङ्गुलीरमुष्टिं कृत्वा दक्षिणत इळां परिगृह्यास्यसम्मितामुपह्वयते प्राणसम्मितां वा ।

इळोपहूता सह दिवा बृहतादित्येनोपास्माँ इळाह्वयतां सह दिवा बृहतादित्येनेळोपहूता सहान्तरिक्षेण वामदेव्येन वायुनोपास्माँ इळाह्वयतां सहान्तरिक्षेण वामदेव्येन वायुनेळोपहूता सह पृथिव्या रथन्तरेणाग्निनोपास्माँ इळाह्वयतां सह पृथिव्या रथन्तरेणाग्निना । उपहूता गावः सहाशिर उप मां गावः सहाशिरा ह्वयन्तामुपहूता धेनुः सह ऋषभोपमां धेनुः सह ऋषभा ह्वयतामुपहूता गौर्घृतपद्युप मां गौर्घॄतपदी ह्वयतामुपहूता दिव्याः सप्त होतार उप मां दिव्याः सप्त होतारो ह्वयन्तामुपहूतः सखाभक्ष उप मां सखाभक्षो ह्वयतामुपहूतेळावृष्टिरुप

मामिळावृष्टिर्ह्वयताम् । (इत्युपांशु, अथोच्चैः) इळोपहूतोपहूतेळोपास्माँ इळाह्वयतामिळोपहूता । मानवी घृतपदी मैत्रावरुणी ब्रह्मदेवकृतमुपहूतं दैव्या अध्वर्यव उपहूता उपहूता मनुष्याः । य इमं यज्ञमावान्ये च यज्ञपतिं वर्धानुपहूते द्यावापृथिवी पूर्वजे ऋतावरी देवी देवपुत्रे । उपहूतोऽयं यजमान उत्तरस्यां देवयज्यायामुपहूतो भूयसि हविष्करण इदं मे देवा हविर्जुषन्तामिति तस्मिन्नुपहूतः ॥ उपहूयावान्तरेळां प्राश्नीयात् । इळे भागं जुषस्व नः पिन्वगा जिन्वार्वतो रायस्पोषस्येशिषे तस्य नो रास्व तस्य नोदास्तस्यास्ते भागमशीमहि । सर्वात्मानः सर्वतनवः सर्ववीराः सर्वपूरुषाः (सर्वपुरुषाः इति वा) प्राश्याचम्य आहवनीयपरिस्तरणैरञ्जलिमन्तर्धायान्येनाप आसेचयते तन्मार्जनम् ।

क इदं कस्मा अदात् कामः कामायादात् कामो दाता कामः प्रतिग्रहीता कामं समुद्रमाविश कामेन त्वा प्रतिगृह्णामि कामैतत्ते वृष्टिरसि द्यौस्त्वा ददातु पृथिवी पतिगृह्णातु ॥ (प्रतिग्रहणमन्त्रः)

मार्जयित्वानुयाजैश्चरन्ति ।

यज इति प्रेषितः-

देवं बर्हिर्वसुवने वसुधेयस्य वेतू३ वौ३षट् । (वागोज इत्यनुमन्त्रणम्)

देवो नराशंसो वसुवने वसुधेयस्य वेतू३ वौ३षट् । (वागोज इत्यनुमन्त्रणम्)

[[१३]]

देवो अग्निः स्विष्टकृत् सुद्रविणा मन्द्रः कविः सत्यमन्मायजी होता होतुर्होतुरायजीयानग्ने यान् देवानयाड्याँ अपि प्रेर्येते होत्रे अमत्सत तां ससनुषीं होत्रां देवङ्गमां दिवि देवेषु यज्ञमेरयेमं स्विष्टकृच्चाग्ने होता भूर्वसुवने वसुधेयस्य नमोवाके वीही३ वौ३षट् ॥

अमत्सतेत्यत्रावसाय वा अनवानं वा यजेत् । (वागोज इत्यनुमन्त्रणम्)

सूक्तवाकाय सम्प्रेषितः- इदं द्यावापृथिवी भद्रमभूदार्ध्म सूक्तवाकमुत नमोवाकमृध्यास्म सूक्तोच्यमग्ने त्वं सूक्तवागसि । उपश्रुती दिवस्पृथिव्यो रोमन्वती तेऽस्मिन् यज्ञे यजमान द्यावापृथिवी स्ताम् । शङ्गयी जीरदानू अत्रस्नू अप्रवेदे उरुगव्यूती अभयंकृतौ । वृष्टिद्यावारीत्यापा शंभुवौ मयोभुवा ऊर्जस्वती पयस्वती सूपचरणा च स्वधिचरणा च तयोराविदि । (इत्यवसाय)

अग्निरिदं हविरजुषतावीवृधत महो ज्यायोऽकृत । सोम इदं हविरजुषतावीवृधत महो ज्यायोऽकृत । अग्निरिदं हविरजुषतावीवृधत महो ज्यायोऽकृत । (उपांशु) विष्णुः (उच्चैः) इदं हविरजुषतावीवृधत महो ज्यायोऽकृत । अग्नीषोमाविदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम् । इन्द्रो वैमृध इदं हविरजुषतावीवृधत महो ज्यायोऽकृत । अमावास्यायामसन्नयतः- इन्द्राग्नी इदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम् । सन्नयतः- इन्द्र इदं हविरजुषतावीवृधत महो ज्यायोऽकृत । संवत्सरानन्तरम्- महेन्द्र इदं हविरजुषतावीवृधत महो ज्यायोऽकृत । देवा आज्यपा आज्यमजुषन्तावीवृधन्त महो ज्यायोऽक्रत । अग्निर्होत्रेणेदं हविरजुषतावीवृधत महो ज्यायोऽकृत । अस्यामृधेद्धोत्रायां देवङ्गमायामाशास्तेऽयं यजमानः असाविति नामं निर्दिशेन्नक्षत्रं च । आयुराशास्ते सुप्रजास्त्वमाशास्ते रायस्पोषमाशास्ते सजातवनस्यामाशास्त उत्तरां देवयज्यामाशास्ते भूयो हविष्करणमाशास्ते दिव्यं धामाशास्ते विश्वं प्रियमाशास्ते यदनेन हविषाशास्ते तदश्यात् तदृध्यात् तदस्मै देवा रासन्तां तदग्निर्देवो देवेभ्योऽवनते वयमग्नेर्मानुषाः । इष्टं च वित्तं चोभे च नो द्यावापृथिवी अंहसस्पातामेह गतिर्वामस्येदं च नमो देवेभ्यः ।

शंयुवाकाय सम्प्रेषितः- तच्छंयोरा वृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजं शं नो अस्तु द्विपदे शं चतुष्पदे ॥ अध्वर्युणा दत्तं वेदं गृह्णीयात्- वेदोऽसि वेदो विदेय इति । उदायुषा स्वायुषोदोषधीनां रसेनोत्पर्जन्यस्य धामभिरुदस्थाममृताँ अनु इत्युपोत्थाय पश्चाद्गार्हपत्यस्य प्राङ्मुख उपविशेत् ।

पत्नीसंयाजाः

अथ पत्नीसंयाजाः ।

प्रजाकामस्य राकासिनीवालीकुह्व्यः प्राग्गृहपतेर्यजेत । मन्द्रा याज्यानुवाक्याः । प्रणवागूर्वषट्कारा उच्चैः सर्वत्र ।

सोमायानुब्रूहि इति प्रेषितः-

आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य सङ्गथे ॐ ॥ [१ । ९१ । १६]

सोमं यज इति प्रेषितः-

ये३ यजामहे सोमं सं ते पयांसि समुयन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः ।

[[१४]]

आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्वा३ वौ३षट् ॥ (वागोजः..) [१ । ९१ । १८]

त्वष्ट्रेऽनुब्रूहि इति प्रेषितः-

इह त्वष्टारमग्रियं विश्वरूपमुपह्वहे । अस्माकमस्तु केवलः ॐ ॥ [१ । १३ । १०]

त्वष्टारं यज इति प्रेषितः-

ये३ यजामहे त्वष्टारं तन्नस्तुरीपमधपोषयित्नु देव त्वष्टर्विरराणः स्यस्व ।

यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामा३ वौ३षट् ॥ (वागोजः..) [३ । ४ । ९]

देवानां पत्निभ्योऽनुब्रूहि इति प्रेषितः-

देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये ।

याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवा शर्म यच्छत ॐ ॥ [५ । ४६ । ७]

देवानां पत्नीर्यज इति प्रेषितः-

ये३ यजामहे दीवानां पत्नीरुत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट् ।

आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनां३ वौ३षट् ॥ (वागोजः..) [५ । ४६ । ८]

राकाया अनुब्रूहि इति प्रेषितः-

राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।

सीव्यत्वपः सूच्या च्छिद्यमानया दधातु वीरं शतदायमुक्थ्यम् ॐ ॥ [२ । ३२ । ४]

राकां यज इति प्रेषितः-

ये३ यजामहे राकां यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि ।

ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा३ वौ३षट् ॥ (वागोजः..) [२ । ३२ । ५]

सिनीवाल्या अनुब्रूहि इति प्रेषितः-

सिनीवालि पृथुष्टुके या देवानामसि स्वसा ।

जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्डि नः ॐ ॥ [२ । ३२ । ६]

सिनीवालीं यज इति प्रेषितः-

ये३ यजामहे सिनीवालीं या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी ।

तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतना३ वौ३षट् ॥ (वागोजः..) [२ । ३२ । ७]

कुह्व्याअनुब्रूहि इति प्रेषितः-

कुहूमहं सुवृतं विद्मनापसमस्मिन् यज्ञे जोहवीमि ।

सा नो ददातु श्रवणं पितॄणां तस्यै ते देवि हविषा विधेम ॐ ॥

कुहूं यज इति प्रेषितः-

ये३ यजामहे कुहूं कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषः शृणोतु ।

[[१५]]

सं दाशुषे किरतु भूरि वामं रायस्पोषं यजमाने दधातू३ वौ३षट् ॥ (वागोजः..)

अनुमत्या अनुब्रूहि इति प्रेषितः-

अनुनोद्यामनुमतिर्यज्ञं देवेषु मन्यताम् ।

अग्निश्च हव्यवाहनो भवतं दाशुषे मयः ॐ ॥

अनुमतिं यज इति प्रेषितः-

ये३ यजामहेऽनुमतिमन्विदनुमते त्वं मन्यासै शं च नस्कृधि ।

क्रत्वे दक्षाय नो हिनु प्र ण आयूंषि तारिषाद्३ वौ३षट् ॥ (वागोजः..)

अग्नये गृहपतयेऽनुब्रूहि इति प्रेषितः-

अग्निर्होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः ।

देवानामुत यो मर्त्यानां यजिष्ठः स प्र यजतामृतावा ॐ ॥ [६ । १५ । १३]

अग्निं गृहपतिं यज इति प्रेषितः-

ये३ यजामहेऽग्निं गृहपतिं हव्यवाळग्निरजरः पिता नो विभुर्विभावा सुदृशीको अस्मे ।

सुगार्हपत्याः समिषो दिदीह्यस्मद्र्यक् सं मिमीहि श्रवांसी३ वौ३षट् ॥ (वागोजः..) [५ । ४ । २]

आज्यं पाणितलेऽवदापयीत । इळामुपहूय सर्वं प्राश्नीयात् । शंयुवाको भवेन्न वा । वेदं पत्न्यै प्रदाय वाचयेत् । होताध्वर्युर्वा । वेदोऽसि वित्तिरसि विदेयकर्मासि करणमसि क्रिया संसनिरसि सनितासि सनेयं घृतवन्तं कुलायिनं रायस्पोषं सहस्रिणं वेदो ददातु वाजिनम् ।

यं बहव उपजीवन्ति यो जनानामसद्वशी । तं विदेय प्रजां विदेय कामाय त्वा ॥ इति

वेदिशिरसा नाभिदेशमालभेत प्रजाकामा चेत् । अथास्या योक्त्रं विचृतेत् ।

प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वा ब॑ध्नात् सवि॒ता सु॒शेवः॑ ।

ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ दधामि ॥ [१० । ८५ । २४]

तत् प्रत्यग्गार्हपत्याद्द्विगुणं प्राक्पाशं निधायोपरिष्टादस्योदगग्राणि वेदतृणानि करोति । पुरस्तात् पूर्णपात्रं संश्लिष्टं वेदतृणैरभिमृश्य वाचयेत्- पूर्णमसि पूर्णं मे भूयाः सुपूर्णमसि सुपूर्णं मे भूयाः ।

सदसि सन्मे भूयाः सर्वमसि सर्वं मे भूयाः । अक्षितिरसि मां मे क्षेष्ठाः । इति । अथैनां पूर्णपात्रप्रतिदिशमुदकमुदुक्षन्नुदुक्षन्तीं वाचयेत्- प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम् । दक्षिणस्यां दिशि मासाः पितरो मार्जयन्ताम् । प्रतीच्यां दिशि गृहाः पशवो मार्जयन्ताम् । उदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्ताम् । ऊर्ध्वायां दिशि यज्ञः संवत्सरः प्रजापतिर्मार्जयताम् । (मार्जयन्ताम् इति वा) । अथास्या उत्तानमञ्जलिमधस्ताद्योक्त्रस्य निधायात्मनश्च सव्यं पूर्णपात्रं निनयन् वाचयेत्-

माहं प्रजां परासिचं या नः सयावरी स्थन । समुद्रे वो निनयानि स्वं पाथो अपीथ ॥ इति

वेदतृणान्यग्रे गृहीत्वाविधून्वन् त्सन्ततं स्तृणन् त्सव्येन गार्हपत्यादाहवनीयमेति ।

[[१६]]

तन्तुं॑ त॒न्वन् रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् ।

अ॒नु॒ल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒ दैव्यं॒ जनम् ॥ [१० । ५३ । ६]

शेषं निधाय प्रत्यगुदगाहवनीयादवस्थायाज्यस्थाल्याः स्रुवेणादाय सर्वप्रायश्चित्तानि जुहुयात् ।

अयाश्चाग्ने स्यनभिशस्तीश्च सत्यमित्त्वमया असि ।

अयासा वयसा कृतोऽयासन् हव्यमूहिषे या नो धेहि भेषजं स्वाहा ॥

अतो॑ दे॒वा अ॑वन्तु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे । पृ॒थि॒व्याः स॒प्त धाम॑भिः॒ स्वाहा ॥ [१ । २२ । १६]

इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् । समू॑ह्ळमस्य पांसु॒रे स्वाहा ॥ [१ । २२ । १७]

भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । भूर्भुवःस्वः स्वाहा ॥

हुत्वा संस्थाजपेनोपस्थाय तीर्थेन निष्क्रम्यानियमः ।

ॐ च मे स्वरश्च मे यज्ञोप च ते नमश्च ।

यत्ते न्यूनं तस्मै त उप यत्तेऽतिरिक्तं तस्मै ते नमः ॥ इति संस्थाजपः ।

॥ शम् ॥

[[१७]]