०१ अग्निहोत्रम्

अथाग्निहोत्रम्

आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य श्री परमेश्वरप्रीत्यर्थं सायमग्निहोत्रं होष्ये ( प्रातस्तु प्रातरग्निहोत्रं होष्ये) इति सङ्कल्प्य परिसमूह्य परिस्तीर्य ऋतसत्याभ्यां त्वा पर्युक्षामि इति जपित्वा सायं पर्युक्षेत् । अत्रैवं क्रमः- दक्षिणाग्निं गार्हपत्यमाहवनीयमिति । सत्यऋताभ्यां त्वा पर्युक्षामि इति प्रातः । गार्हपत्याहवनीययोर्मध्य उत्तरत उपविश्य गार्हपत्यादविच्छिन्नामुदकधारां हरेदाहवनीयपर्यन्तम्-

तन्तुं॑ त॒न्वन् रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् ।

अ॒नु॒ल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒ दैव्यं॒ जनम् ॥ [ऋ.सं. १० । ५३ । ६]

पश्चाद्गार्हपत्यस्योपविश्योदगङ्गारानपोहेत् सुहुतकृत स्थ सुहुतं करिष्यथ इति । तेष्वग्निहोत्रमधिश्रयेत् अधिश्रितमध्यधिश्रितमधिश्रितं हिँ ३ इति ।

इळायास्पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व ।

ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि पुष्टिरस्तु इति वा मन्त्रेण ।

अधिश्रितमवज्वलयेत् अग्निष्टे तेजो माहार्षीः इति । दोहनपात्रं प्रक्षाल्य स्रुवेण प्रतिषिञ्च्यात् शान्तिरस्यमृतमसि इति । पुनर्ज्वलता दर्भेण त्रिः परिहरेत् अन्तरितं रक्षोऽन्तरिता अरातयः इति । उष्णीकृत्वा मन्दगत्या कर्षन्निवोदगुद्वासयेत् दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा इति तृतीयमन्त्रेणैव भूम्यां निदध्यात् । सुहुतकृत स्थ सुहुतमकार्ष्ट इत्यङ्गारान् गार्हपत्ये प्रतिक्षिपेत् । स्रुक्स्रुवं गार्हपत्ये प्रतितपेत् प्रत्युष्टं रक्षः प्रत्युष्टा अरातयो निष्टप्तं रक्षो निष्टप्ता अरातयः इति । उत्तरतः स्थाल्याः स्रुचमासाद्य स्रुवहस्तः ॐ उन्नयामि इत्यतिसर्जयीत ( प्रातस्तु ॐ उन्नेष्यामि इति ) । आहिताग्निराचम्यापरेण वेदिमतिव्रज्य दक्षिणत उपविश्यैतच्छ्रुत्वा ॐ उन्नय इत्यतिसृजेत् । यजमानाभावे स्वयं तीर्थदेशाद्यजमानायतनं गत्वा वेद्या दक्षिणत उपविश्य ॐ उन्नय इत्यतिसृजेत् । तथैव प्रतिनिवृत्य गार्हपत्यस्य पश्चादुपविश्य स्रुचि स्रुवपूरं चतुष्कृत्व उन्नयेत् भूरिळा, भुव इळा, स्वरिळा, वृध इळा इति मन्त्रेण । पञ्चावत्तिनां तु तूष्णीमेव पञ्चममवदानं भवति । स्थालीमभिमृश्य स्रुचा सह समिधं गृहीत्वा गार्हपत्यस्योपरि नासिकासम्मितां हृत्वा आहवनीयसमीपे कुशेषूपसाद्य जान्वाच्य समिधमादध्यात् रजतां त्वाग्निज्योतिषं रात्रिमिष्टकामुपदधे स्वाहा इति । अग्नये ज्योतिष इदं न मम इति त्यागः । समिधमादायानुमन्त्रयते-

रजतां त्वाग्निज्योतिषं रात्रिमिष्टकामुपदधे ।

तेन ऋषिणा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद्ध्रुवासीद ॥

( प्रातस्तु हरिणीं त्वा सूर्यज्योतिषमहरिष्टकामुपदधे स्वाहा इति । सूर्याय ज्योतिष इदं न मम इति त्यागः । हरिणीं त्वा सूर्यज्योतिषमहरिष्टकामुपदधे ।

[[२]]

तेन ऋषिणा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद्ध्रुवासीद इत्यनुमन्त्रणम् )

विद्युदसि विद्य मे पाप्मानमग्नौ श्रद्धा इत्यप उपस्पृश्य प्रदीप्तायां समिधौ द्व्यङ्गुलिमात्रेऽभिजुहुयात् भूर्भुवःस्वरो३मग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा । अग्नय इदं न मम । ( प्रातस्तु भूर्भुवःस्वरों३सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा । सूर्यायेदं न मम इति । ) इममाहुतिमनुमन्त्रयते-

ता अस्य॒ सूद॑दोहसः॒ सोमं॑ श्रीणन्ति॒ पृश्न॑यः ।

जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑चने दि॒वः ॥ इति ।

स्रुचं कुशेषु सादयित्वा गार्हपत्यमवेक्षेत पशून् मे यच्छ इति । अथोत्तरां तूष्णीं भूयसीमसंसृष्टां प्रागुदगुत्तरतो वा (मनसा) प्रजापतये (उच्चैः) स्वाहा । प्रजापतय इदं न मम । भूयिष्ठं स्रुचि शिष्ट्वा स्रुग्घस्तस्तत्रैव स्थित्वाहुतिस्थलमीक्षमाणोऽनुमन्त्रयेत

भूर्भुवःस्वः सुप्रजाः प्रजाभिः स्यां सुवीरो वीरैः सुपोषः पोषैः ।

आहुतिदेशोपरिभागे स्रुचं त्रिरनुप्रकम्प्योपविश्यावमृज्य कुशमूलेषु निमार्ष्टि पशुभ्यस्त्वा इति । पशुभ्य इदं न मम । तेषां दक्षिणत उत्ताना अङ्गुलीः करोति । ततः प्राचीनावीती दक्षिणत अपो निनयति स्वधा पितृभ्यः इति । पितृभ्य इदं न मम । तूष्णीं वा । स्रुचं निधायाप उपस्पृशेत् वृष्टिरसि वृश्च मे पाप्मानमप्सु श्रद्धा इति । गार्पत्यस्य दक्षिणत उपविश्य जान्वाच्य तूष्णीं समिधमाधाय प्रदीप्तायां समिधौ द्व्यङ्गुलिमात्रे जुहुयात् अग्नये गृहपतये स्वाहा । अग्नये गृहपतय इदं न मम । (मनसा) प्रजापतये (उच्चैः) स्वाहा । प्रजापतय इदं न मम । पयस्थालीं दक्षिणाग्निसमीपे नीत्वा तत्र पश्चादुपविश्य जान्वाच्य तूष्णीं समिधमाधायाप उपस्पृशेत् । प्रदीप्तायां समिधौ द्व्यङ्गुलिमात्रे जुहुयात् । अग्नये संवेशपतये स्वाहा । अग्नये संवेशपतय इदं न मम । अग्नयेऽन्नादायान्नपतये स्वाहा । अग्नयेऽन्नादायान्नपतय इदं न मम इति वा मन्त्रेण । (मनसा) प्रजापतये (उच्चैः) स्वाहा । प्रजापतय इदं न मम । ततः पयस्थालीं गृहीत्वा गार्हपत्यसमीपे स्थित्वा अभयं वोऽभयं मे अस्तु इत्युक्त्वा तीर्थदेशे स्थालीं विनिक्षिपेत् । आहवनीयादुत्तरत उदङ्ङवृत्योपविश्य स्रुग्गतं शेषं भक्षयेत् । आयुषे त्वा प्राश्नामि इति प्रथमम् अन्नाद्याय त्वा प्राश्नामि इत्युत्तरम् । भक्षयित्वाभात्ममपः स्रुचा निनयते त्रिः सर्पदेवजनेभ्यः स्वाहा । सर्पदेवजनेभ्य इदं न मम । अथैनां कुशैः प्रक्षाल्य चतस्रः पूर्णाः स्रुचः निनयेदेकैकेन मन्त्रेण प्रागुदीची क्रमेण ऋतुभ्यः स्वाहा । ऋतुभ्य इदं न मम । दिग्भ्यः स्वाहा । दिग्भ्य इदं न मम । सप्त ऋषिभ्यः स्वाहा । सप्त ऋषिभ्य इदं न मम । इतरजनेभ्यः स्वाहा । इतरजनेभ्य इदं न मम । पञ्चमीं कुशदेशे निनयेत् पृथिव्याममृतं जुहोम्यग्नये वैश्वानराय स्वाहा । अग्नये वैश्वानरायेदं न मम । पश्चाद्गार्हपत्यस्योपविश्य षष्ठीं प्राणममृते जुहोम्यमृतं प्राणे जुहोमि स्वाहा । अमृताय प्राणायेदं न मम । स्रुक्स्रुवावाहवनीये प्रताप्यान्तर्वेदि निदध्यात् परिकर्मिणे वा प्रयच्छेत् । अग्रेणाहवनीयं परीत्य विहारस्य दक्षिणदेशं गत्वा तस्य तस्याग्नेर्दक्षिणत उदङ्मुखस्तिष्ठन् तिस्रस्तिस्रः समिध आदध्यात् ।

आहवनीये दीदिहि स्वाहा । अग्नय इदं न मम । तूष्णीं द्वितीयां तूष्णीं तृतीयाम् । गार्हपत्ये दीदाय स्वाहा । अग्नय इदं न मम । तूष्णीं द्वितीयां तूष्णीं तृतीयाम् । दक्षिणाग्नौ दीदिदाय स्वाहा । अग्नय इदं न मम । तूष्णीं द्वितीयां

[[३]]

तूष्णीं तृतीयाम् । ततः परिसमूहनं पर्युक्षणं पूर्वोक्त क्रमेणैव । ऋतसत्याभ्यां त्वा पर्युक्षामि इति सायम् । सत्यऋताभ्यां त्वा पर्युक्षामि इति प्रातः ।

साष्टाङ्गं प्रणमेत् । सकृत्ते अग्ने नमः । द्विस्ते नमः । त्रिस्ते नमः । चतुस्ते नमः । पञ्चकृत्वस्ते नमः । दशकृत्वस्ते नमः । शतकृत्वस्ते नमः । आसहस्रकृत्वस्ते नमः । अपरिमितकृत्वस्ते नमः । नमस्ते अस्तु मा मा हिंसीः ॥

नमस्ते गार्हपत्याह नमस्ते दक्षिणाग्नये ।

नम आहवनीयाय महावेद्यै नमो नमः ॥

काण्डद्वयोपपाद्याय कर्मब्रह्म स्वरूपिणे ।

स्वर्गापवर्गदात्रे च (मार्गाय) यज्ञेशाय नमो नमः ॥

यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।

कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते ॥ (तुभ्यं विश्वात्मने नमः)

प्रमादात् कुर्वाअं कर्म प्रच्यवेताध्वरेषु यत् ।

स्मरणादेव तद्विष्णोः सम्पूर्णं स्यादिति श्रुतिः ॥

पुनः पश्चाद्गार्हपत्यस्योपविश्य कर्म ब्रह्मार्पणं कुर्यात् । नामत्रयजपं च ।

[[४]]

प्रवासोपस्थानम्

॥ प्रवासोपस्थानम् ॥

प्रवत्स्यन्नग्निं प्रज्वल्याचम्य प्राणानायम्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रवासविधिनाग्नीनुपस्थास्ये इति सङ्कल्प्य प्रत्यगुदगायतनसमीपं गत्वा तं तमग्निमुपतिष्ठेत आहवनीयम्- शंस्य पशून्मे पाहि इति

उत्तरेण विहारं गत्वा गार्हपत्यम्- नर्य प्रजां मे पाहि इति

अपरेण विहारं गत्वा दक्षिणाग्निम्- अथर्व पितुं मे पाहि इति तत्रैव तिष्ठन् गार्हपत्याहवनीयावीक्षेत-

इमान्मे मित्रावरुणौ गृहं गोपायतं युवम्

अविनष्टानविहृतान् पूषैनानभिरक्षत्वस्माकं पुनरायतनात् इति पुनः यथेतं प्रत्येत्य ततो गमनाय प्रदक्षिणमावर्तमान आहवनीयमुपतिष्ठते- मम नाम प्रथमं जातवेदः पिता माता च दधतुर्यदग्रे

तत्त्वं बिभृहि पुनराममैतोस्तवाहं नाम बिभराण्यग्ने इति ततः पृष्ठतोऽग्नीननीक्षमाणस्तीर्तदेशादेव माप्रगामेति सूक्तं जपन् यथेष्टं प्रव्रजेत्

मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सो॒मिनः॑ । मान्तस्थु॑र्नो॒ अरा॑तयः ॥

यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः । तमाहु॑तं नशीमहि ॥

मनो॒ न्वा हु॑वामहे नाराशं॒सेन॒ सोमे॑न । पि॒तॄ॒णां च मन्म॑भिः ॥

आ त॑ एतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑ । ज्योक्च॒ सूर्यं॑ दृ॒शे ॥

पुन॑र्नः॒ पितरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जनः॑ । जी॒वं व्रातं॑ सचेमहि ॥

व॒यं सो॑म व्र॒ते तव॑ म॒नस्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तः सचेमहि ॥ [१० । ५७ । १-६]

यावद्गतेऽग्न्यागारच्छदिर्न दृश्यते तावदग्निभ्यो दूरं गत्वा वाचं विसृजेत अभिलषितदेशगामिनं पन्थानमवरुह्य-

सदा॑ सु॒गः पि॑तु॒माँ अ॑स्तु॒ पन्था॒ मध्वा॑ देवा॒ ओष॑धीः॒ सं पि॑पृक्त

भगो॑ मे अग्ने स॒ख्ये न मृ॑ध्या॒ उद्रा॒यो अ॑श्यां॒ सद॑नं पुरु॒क्षोः [३-५४-२१]

यदि कदाचिद्यथोक्तोपस्थानमकृत्वैव गन्तव्यं स्याद्दैवान्मानुषाद्वा निमित्तात् तदा तत्रैव स्थितः सर्वानग्नीनुत्पत्तिक्रमेण तं तमग्निं मनसि ध्यात्वा तां तां दिशमभिमुखमुपतिष्ठेत-

इहैव सन् तत्र सन्तं त्वाग्ने हृदा वाचा मनसा वा बिभर्मि

तिरो मा सन्तं मा प्रहासीर्ज्योतिषा त्वा वैश्वानरेणोपतिष्ठते इति

अनेन प्रवासोपस्थानेन श्रीपरमेश्वरः प्रीयताम्

प्रवासादागत्यविधिः

प्रवासं कृत्वा प्रत्येत्य स्वग्रामसमीप्यं प्राप्य

अपि॒ पन्था॑मगन्महि स्वस्ति॒ गाम॑ने॒हस॑म्

येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑वि॒न्दते॒ वसु॑ इति ब्रूयात् [६-२]

[[५]]

ततः समित्पाणिर्वाग्यतोऽग्नीन् ज्वलतः श्रुत्वाचम्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रवासागनविधिं करिष्ये इति सङ्कल्प्य शुचिर्भूत्वा तीर्थेनात्यन्तसमीपदेशमभिक्रम्याहवनीयमीक्षेत-

विस्वदानीमारभन्तोऽनातुरेण मनसा अग्ने मा ते प्रति वेषा रिषाम

नमस्ते अस्तु मीळ्हुषे नमस्त उपसद्वने अग्ने शुम्भस्व तन्वःसं मा रय्या सृज

आनीताः समिधो विभज्य तस्य तस्याग्नेः समीपे निधायाहवनीयमुपतिष्ठते-

मम नाम तव च जातवेदो वाससी इव विवसानौ चरावः

ते बिभृवो दक्षसे जीवसे च यथायथं नौ तन्वौ जातवेदः इत्युपस्थायैकैकां समिधं तस्मिंस्तस्मिन्नग्नावभ्यादध्यात्-

अगन्म विश्ववेदसमस्मभ्यं वसुवित्तमम्

अग्ने सम्राळभिद्युम्नमभिसह आयच्छस्व स्वाहा इत्याहवनीये

अयमग्निर्गृहपतिर्गार्हपत्यः प्रजया वसुवित्तमः

अग्ने गृहपतेऽभिद्युम्नमभिसह आयच्छस्व स्वाहा इति गार्हपत्ये

अयमग्निः पुरीष्यो रयिमान् पुष्टिवर्धनः

अग्ने पुरीष्याभिद्युम्नमभिसह आयच्छस्व स्वाहा इति दक्षिणाग्नौ तत्रैव स्थितो गार्हपत्याहवनीयावीक्षेत-

इमान्मे मित्रावरुणौ गृहान्मे गोपायतं युवम्

अविनष्टानविहृतान् पूषैनानभ्यराक्षीदास्माकं पुनरायतनात् इति यथेतं प्रत्येत्य

[दशरात्रादूर्ध्वं प्रवासं कृत्वागतेन तु तूष्णीमाज्यं त्रिरुत्पूय जुह्वां चतुर्गृहीतं गृहीत्वा प्रत्यगुदगाहवनीयादस्थायाहवनीये जुहुयात्-

मनो ज्योतिर्जुषतामाज्यं मे विच्छिन्नं यज्ञं समिमं दधातु

या इष्टा उषसो या अनिष्टास्ताः सन्तनोमि हविषा घृतेन स्वाहा मनसे ज्योतिष इदं न मम इति]

द्वयोर्बहूनामप्यग्निहोत्रविच्छेदे सति चतुर्गृहीतं जुहुयात् अग्निहोत्रहोमविच्छेदनिमित्तप्रत्यवायजनितदोषपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रायश्चित्ताज्याहुतिं होष्यामि इति सङ्कल्प्य अनुत्पूतमाज्यं तूष्णीं त्रिरुत्पूय पूर्ववत् स्थित्वा मनो ज्योतिः इति मन्त्रेण जुहुयात् सर्वं विहारं परिसमुह्य उदग्विहारादुपविश्य वाचं विसृजेत भूर्भुवःस्वः इति अनेन प्रवासागमननिमित्तविधिना श्रीपरमेश्वरः प्रीयताम् आचम्य ततो गृहानीक्षेत-गृहा मा बिभीतोप वः स्वस्त्येवोऽस्मासु च प्रजायध्वं मा च वो गोपती रिषत् इति ततो गृहान् प्रपद्येत-

गृहानहं सुमनसः प्रपद्ये वीरघ्नो वीरवतः सुवीरान्

इराण् वहन्तो घृतमुक्षमाणास्तेष्वहं सुमनाः संविशानि इति

शिवं शग्मं शंयोः शंयोः इति त्रिरनुमन्त्र्य प्रपद्येत

अत्र प्रवत्स्यन् प्रत्येत्याहरहः प्रयोगान्तरं कुर्यादित्थमवीवृतद्वृत्तिकृत्

[[६]]

प्रवत्स्यन्नग्नीन् विहृत्य प्रज्वल्याचम्य तीर्थेन प्रपद्य तत्रै स्थित्वा सर्वानग्नीन् सकृदेव उपतिष्ठेत- अभयं वोऽभयं मे अस्तु इति ततः प्रदक्षिणमावृत्य तीर्थेनैव निष्क्रम्य मा प्रगाम इति जपन्प्रव्रज्य सदा सुगः इति पन्थानं प्राप्य जपेत् प्रत्येत्य अपि पन्थामगन्महि इति जपित्वा विहृतान् प्रज्वलितांस्तीर्थेनैव प्रपद्य तत्रैव स्थित्वा अभयं वः इत्युपस्थाय मनो ज्योतिः इत्यादि पूर्ववत्

समारोपविधिः

समारोप्स्यन्नग्नीन् विहृत्य प्रज्वल्याचम्य ममोपात्त दुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थमापन्निमित्तमग्निमरण्योः समारोपयिष्ये यदि पाणौ पाणौ समारोपयिष्ये इति सङ्कल्प्य अरणी गृहीत्वा

अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः

तं जा॒नन्न॑ग्न॒ आ सी॒दाथा॑ नो वर्धया॒ गिरः॑ [३ २९ १०] इति गार्हपत्ये प्रतितप्य यदि दक्षिणाग्निर्भिन्नयोनिस्तदा तस्यारण्यन्तरेऽनेनैव मन्त्रेण दक्षिणाग्नावरणी प्रतितपेत्

पाणिसमारोपणपक्षे पाणी गार्हपत्ये प्रतितपेत् तत्र मन्त्रः-

या ते अग्ने यज्ञियास्तनूस्तयेह्यारोहात्मात्मानमच्छा वसूनि कृण्वन्नर्या पुरूणि

यज्ञो भूत्वा यज्ञमासीद योनिं जातवेदो भुव आ जायमानः इति

अनेन समारोपविधिना श्रीपरमेश्वरः प्रीयताम्

प्रत्यवरोहविधिः

प्रत्यवरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन्

प्रजां पुष्टिं रयिमस्मासु धेह्यथा भव यजमानाय शंयोः इति मन्त्रमुक्त्वा तयोररण्योरग्निं मन्थयेत् स्वयं वा मन्थेत् यदि पाण्योः समारोपणं स्यात्तदैतेन मन्त्रेणारणी संस्पृश्य मन्थयेत् यावदग्न्युत्पादनं मन्त्रावृत्तिः अग्निहोत्रविच्छेदे मनो ज्योत्ः इत्यादि पूर्ववत्

[[७]]