वीरराघवार्य-प्रयोग-माला

Source: TW

उपाकर्म

॥ ऋग्वेदीयउपाकर्म ॥

श्रावण्यां श्रवणनक्षत्रे अधीतानां छन्दसाम् अयातयामत्वाय वीर्यवत्तासिद्ध्यर्थम् अध्यायोत्सर्जनाकरणप्रायश्चित्तपुरस्सरम् उपाकर्म करिष्ये । तदङ्गं तर्पणादि करिष्ये

इति सङ्कल्प्य, स्नानादि कृत्वा, ‘अपवित्रः….’ इति मन्त्रेण प्रोक्ष्य,

अद्य पूर्वोक्त…… शुभतिथौ श्रावण्यां श्रवणनक्षत्रे अधीतानां वीर्यवत्तासिद्ध्यर्थं स्वाध्यायात्मकदेवर्षिपितृप्रीत्यर्थं सावित्र्यादिनवप्रधानदेवतानाम् / अग्न्यादिविंशतिमण्डलदेवतानां / ब्रह्मयज्ञदेवतानां च तर्पणं करिष्ये

इति सङ्कल्प्य,

सावित्रीं तर्पयामि । ब्रह्माणं तर्पयामि । श्रद्धां तर्पयामि । मेधां तर्पयामि । प्रज्ञां तर्पयामि । धारणां तर्पयामि । सदसस्पतिं तर्पयामि । अनुमतिं तर्पयामि । छन्दांसि ऋषीन् तर्पयामि ।

अग्निं तर्पयामि । अप्तृणसूर्यं तर्पयामि । अग्निं तर्पयामि । शकुन्तं तर्पयामि । अग्निं तर्पयामि । मित्रावरुणौ तृप्येताम् । अग्निं तर्पयामि । अपः तर्पयामि । अग्निं तर्पयामि । मरुतः तर्पयामि । अग्निं तर्पयामि । देवान् ब्रह्म च तर्पयामि । अग्निं तर्पयामि । इन्द्रासोमौ तृप्येताम् । इन्द्रं तर्पयामि । अग्निमरुतौ तृप्येताम् । पवमानसोमौ तृप्येताम् । सोमं तर्पयामि । अग्निं तर्पयामि । संज्ञानं तर्पयामि ।

[[258]]

प्रजापतिः तृप्यतु । ब्रह्मा तृप्यतु । वेदाः तृप्यन्तु | देवाः तृप्यन्तु । ऋषयः तृप्यन्तु । सर्वाणि छन्दांसि तृप्यन्तु । ओंकारः तृप्यतु । वषट्कारः तृप्यतु । व्याहृतयः तृप्यन्तु । सावित्री तृप्यतु । यज्ञाः तृप्यन्तु | द्यावापृथिवी तृप्येताम् । अन्तरिक्षं तृप्यतु । अहोरात्राणि तृप्यन्तु | सङ्ख्याः तृप्यन्तु | सिद्धाः तृप्यन्तु । समुद्राः तृप्यन्तु । नद्यः तृप्यन्तु । गिरयः तृप्यन्तु । क्षेत्रौषधि-वनस्पति-गन्धर्वाप्सरसः तृप्यन्तु । नागाः तृप्यन्तु । वयांसि तृप्यन्तु | गावः तृप्यन्तु । साद्ध्याः तृप्यन्तु । विप्राः तृप्यन्तु । यक्षाः तृप्यन्तु । रक्षांसि तृप्यन्तु । भूतानि तृप्यन्तु । एवम् अन्तानि तृप्यन्तु ।

(निवीती) - (ऋषि तर्पणम्) - ब्रह्मतीर्थेन

शतर्चिनः तृप्यन्तु । माध्यमाः तृप्यन्तु | गृत्समदः तृप्यतु । विश्वामित्रः तृप्यतु । वामदेवः तृप्यतु । अत्रिः तृप्यतु । भरद्वाजः तृप्यतु । वसिष्ठः तृप्यतु । प्रगाथाः तृप्यन्तु । पावमान्यः तृप्यन्तु [[??]] । क्षुद्रसूक्ताः तृप्यन्तु । महासूक्ताः तृप्यन्तु ।

(प्राचीनावीती) आचार्याणां तर्पणं - पितृतीर्थेन - तिलाक्षतजलेन (त्रिः)

सुमन्तु-ज्ञैमिनि-वैशम्पायन-पैल-सूत्र-भाष्य-भारत-महाभारत-धर्माचार्याः तृप्यन्तु । जानन्ति-बाहवि-गार्ग्य-गौतम-शाकल्य-बाभ्रव्य -माण्डव्य-माण्डूकेयाः तृप्यन्तु । गार्गी वाचक्नवी तृप्यतु । बडवा प्रातिथेयी तृप्यतु । सुलभा मैत्रेयी तृप्यतु । कहोलं तर्पयामि । कौषीतकं तर्पयामि । महाकौषीतकं तर्पयामि । पैङ्ग्यं तर्पयामि । महापैङ्ग्यं तर्पयामि । सुयज्ञं तर्पयामि। साङ्ख्यायनं तर्पयामि । ऐतरेयं तर्पयामि । महैतरेयं तर्पयामि । शाकलं तर्पयामि । बाष्कलं तर्पयामि ।

[[259]]

सुजातवक्त्रं तर्पयामि । औदवाहिं तर्पयामि । महौदवाहिं तर्पयामि । सौजामिं तर्पयामि। शौनकं तर्पयामि। आश्वलायनं तर्पयामि । ये चान्ये आचार्याः ते सर्वे तृप्यन्तु तृप्यन्तु तृप्यन्तु ॥
जीवत्पितृकः उपवीती, आचामेत् ।

मृतपितृकश्चेत् - प्राचीनावीती - पितृतर्पणं तिलोदकेन पितृतीर्थेन कुर्यात् (त्रिः)

पितॄन् स्वधा नमस्तर्पयामि । पितामहान् स्वधा नमस्तर्पयामि । प्रपितामहान् स्वधा नमस्तर्पयामि ॥

मातॄः स्वधा नमस्तर्पयामि । पितामहीः स्वधा नमस्तर्पयामि । प्रपितामहीः स्वधा नमस्तर्पयामि ॥

मातामहान् स्वधा नमस्तर्पयामि । मातुः पितामहान् स्वधा नमस्तर्पयामि । मातुःप्रपितामहान् स्वधा नमस्तर्पयामि ॥

मातामहीः स्वधा नमस्तर्पयामि । मातुः पितामहीः स्वधा नमस्तर्पयामि । मातुः प्रपितामहीः स्वधा नमस्तर्पयामि ॥

यत्र क्वचनसंस्थानां क्षुत्तृष्णोपहतात्मनाम् ।
भूतानाम् आप्यते (तृप्तये) तोयं इदमस्तु यथासुखम् ॥

इति जलं विसृजेत् ।

उपवीती – आचामेत् ॥

[[260]]

सक्तुप्राशनम् ।
सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त ।
अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते भ॒द्रैषां॑ ल॒क्ष्मीर्नहि॒ताधि॑ वा॒चि ॥ [[TODO:परिष्कार्यम्??]]

दधिप्राशनम् ।
द॒धि॒क्राव्णो॑ अकारिषञ्जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयूं॑षि तारिषत् ॥ [[TODO:परिष्कार्यम्??]]

यज्ञोपवीतधारणम् ।
यज्ञोपवीतधारणमन्त्रः = यज्ञोपवीतधारणमन्त्रस्य, ब्रह्मा ऋषिः, त्रिष्टुप्छन्दः, परमात्मा (त्रयीविद्या) देवता ॥ यज्ञोपवीतधारणे विनियोगः

य॒ज्ञो॒प॒वी॒तं प॑र॒मं प॒वित्रं॑ प्र॒जाप॑ते॒र्यत्स॑ह॒जं पु॒रस्ता॑त् ।
आ॒यु॒ष्य॑म॒ग्र्यं॑ प्रति॑मुञ्च शु॒भ्रं य॑ज्ञोपवी॒तं बल॑मस्तु॒ तेजः॑ ॥ [[TODO:परिष्कार्यम्??]]

मौञ्जीधारणमन्त्रः =
प्रा॒वे॒पा मा॑ बृह॒तो मा॑दयन्ति प्रवाते॒जा इरि॑णे॒ वर्वृ॑तानाः ।
सोम॑स्येव मौजव॒तस्य॑ भ॒क्षो वि॒भीद॑को॒ जागृ॑वि॒र्मह्य॑मच्छान् ॥ [[TODO:परिष्कार्यम्??]]

अजिनधारणमन्त्रः =
ऋ॒क्सा॒माभ्या॑म॒भिहि॑तौ॒ गावौ॑ ते साम॒ नावि॑तः ।
श्रोत्रं॑ ते च॒क्रे आ॑स्तां दि॒वि पन्था॑श्चराच॒रः ॥ [[TODO:परिष्कार्यम्??]]

दण्डधारणमन्त्रः =
ए॒ष क्षे॑ति॒ रथ॑वीतर्म॒घवा॒ गोम॑ती॒रनु॑ ।
पर्व॑ते॒ष्वपः॑ श्रितः ॥ [[TODO:परिष्कार्यम्??]]

वेदारम्भः - आथीर्वादः सम्भावना ॥

[[261]]

समिधाधानक्रमः

ऋग्वेदीयसमिदाधानक्रमः

आचमनम् - प्राणायामः ।

…. प्रीत्यर्थं, ‘प्रातस्समिदाधानं करिष्ये’ इति प्रातः, (सायं) ‘सायं समिदाधानं करिष्ये’ इति सायं च सङ्कल्प्य, सात्त्विकत्यागं कृत्वा -

शुद्धं स्थण्डिलम् अवोक्ष्य, तत्र ‘ओं भूर्भुवस्स्वः’ इति लौकिकाग्निं प्रतिष्ठाप्य, अथ सोदकेन पाणिना त्रिः तूष्णीं परिसमूह्य, ‘ओं भूर्भुवस्स्वः’ इति त्रिः परिषिच्य -

एकां समिधम् आधाय- ‘अग्नये समिधम्’ इत्यस्य वामदेव ऋषिः, अनुष्टुप् छन्दः, अग्निर्देवता, समिदाधाने विनियोगः ।

अग्नये समिधमाहार्षं बृहते जातवेदसे ।
तया त्वमग्ने वर्धस्व समिधा ब्रह्मणा वयं स्वाहा ॥

इति समिधम् अग्नौ निधाय, (अग्नये जातवेदसे इदम्) इत्युक्त्वा, पाणी प्रक्षाल्य - अग्नौ प्रताप्य -

‘तेजसा सा समनज्मि’ इति मुखम् अर्वाक् त्रिः निमार्ष्टि ।
‘ओं भूर्भुवस्स्वः’ इति त्रिः परिषिच्य -

[[262]]

ओम् अग्न्युपस्थानं करिष्ये -

‘मयि मेधाम्’ इति षण्णां मन्त्राणां हिरण्यगर्भः (वामदेवो वा) ऋषिः, गायत्री छन्दः, पूर्वेषां त्रयाणाम् अग्नि-इन्द्र-सूर्याः देवताः; उत्तरत्रयाणाम् अग्निर्देवता । अग्न्युपस्थाने विनियोगः ।

मयि॑ मे॒धां - मयि॑ प्र॒जां - मय्य॒ग्निः - तेजो॑ दधातु ॥ १ ॥
मयि॑ मे॒धां - मयि॑ प्र॒जां - मयीन्द्रः॑ - इ॒न्द्रि॒यं द॑धातु॒ ॥ २ ॥
मयि॑ मे॒धां - मयि॑ प्र॒जां - मयि॒ सूर्यः॑ - भ्राजो॑ दधातु ॥ ३ ॥
यत्ते॑ अग्ने - तेज॒स्तेन॑ - अ॒हं - ते॒ज॒स्वी - भू॒या॒स॒म् ॥ ४ ॥
यत्ते॑ अग्रे - वर्च॒स्तेन॑ - अ॒हं - व॒र्च॒स्वी - भू॒या॒स॒म् ॥ ५ ॥
यत्ते॑ अग्ने - हर॒स्तेन॑ - अ॒हं - ह॒र॒स्वी - भू॒या॒स॒म् ॥ ६ ॥ [[TODO:परिष्कार्यम्??]]

ओं च मे । स्वरश्च मे । यज्ञोप चे ते [[??]] । नमश्च ।
यत्ते न्यूनं तस्मै ते उप । यत्तेऽतिरिक्तं तस्मे ते नमः ॥

इति उपस्थाय, प्रणम्य, अभिवाद्य, आचम्य, सात्त्विकत्यागं कुर्यात् ॥

श्रद्धां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम् ।
आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन ॥

इत्युक्त्वा, नमस्कृत्य, अभिवाद्य, आचामेत् ।

॥ ऋग्वेदीयसमिदाधानं समाप्तम् ॥

[[263]]