[[आश्वलायनगृह्यमन्त्रव्याख्यम् Source: EB]]
[
[TABLE]
.
[TABLE]
.
[TABLE]
.
PREFACE.
____________
This commentary on Āśvalāyanagṛhyamantra goes a long way towards the fulfilment of a long-left desideratum in the Vedic world. Śrī Haradattamiśra has won celebrity as the author of Anāvila, a commentary on Āśvalāyanagṛhya. Again he easily tops the long line of men of letters by the publication of his Kāśikāvṛtti. The following couplet
“आश्वलायनगृह्योक्तपाकयज्ञेषु कर्मसु।
मन्त्रा ये विनियुक्तास्ते व्याख्याताश्चक्रपाणिना॥"
at the close of the 1st chapter discloses another appellation of the author as Cakrapāṇi. The first three chapters of Āśvalāyanagṛhya deal with religious functions and the fourth with the obsequies. Rks, Mantras and Brāhmaṇas regarding Pākayajña etc. are quoted profusely in illustration of the principles enunciated therein. A classification of the Prakaraṇās contained herein is superfluous in spite of its manifold character. An index to the Ṛks and other citations is furnished at the close. This edition is based on the following manuscripts belonging to :—
Messrs:
- Nārāyaṇan Nīlakaṇṭhan Mūttatu, Pātakaśśeri, Ettumānūr.
- Parameśvaran Nārāyaṇan Bhaṭṭatiri, Tukalaśšeri, Tiruvalla.
3 & 4. Tuppan Tuppan Nampûrippād, Punnorkoṭṭumana, Kunnattunād. - Kuṅjan Tirumulpād, Cennittala, Mavelikkara. This manuscript is 300 years old.
Preliminary to the publication of the Devaśvāmybhāṣya and other allied compositions, I have great pleasure in presenting this work to the enlightened public.
Trivandrum
** K.SĀMBAŚIVA ŚĀSTRÎ**
25 -11-1113
Curator
____________
.
॥श्रीः॥
निवेदना।
-
*
इयम् आश्वलायनगृह्यमन्त्रव्याख्या चिरतरप्रतीक्षिता वैदिकलोकैः। श्रीहरदत्तमिश्राश्चाश्वलायनगृह्यव्याख्याम् अनाविलां विरचय्य विद्वल्लोकस्य सुपरिचिताः। न केवलमनेन पथान्येनापि वृत्तिव्याख्यादिना शास्त्रग्रन्थेन कृतप्रतिष्ठा अनुष्ठानशिष्टाश्चैते किमपि परमं भूषणं प्रामाणिकेषु प्रथन्ते। साप्यनाविलास्मदधिकरणादेव प्राक् प्राकाशि। तत्र च किस्त्वब्दीयद्वादशशतकजीवितामीषां यथावन्निर्धारिता सर्वसम्मता।परन्तु प्रथमाध्यायपरिसमाप्तावत्र कृतौ
“आश्वलायनगृह्योक्तपाकयज्ञेषु कर्मसु।
मन्त्रा ये विनियुक्तास्ते व्याख्याताश्चक्रपाणिना॥"
इति दर्शनाद् व्याख्यातनामधेयमन्यदपि चक्रपाणिरूपमुपलभ्यमानमन्यतरदुपपदं गमयति। चतुरध्याय्यामाश्वलायन-गृह्ये प्रथमया त्रय्या पूर्वकर्मणामन्तिमेन चतुर्थेनाध्यायेनापरकर्मणां च विधयः प्रवर्तन्ते। तत्र सर्वत्र पाकयज्ञादि-कर्मोपयोगिन आर्चा ब्राह्मणाश्च मन्त्रा इह समुद्धृत्य प्रकरणोपयोगादिप्रदर्शनेन व्याख्यायन्ते। अतो गृह्यमन्त्रव्याख्यायाः खण्डशः प्रकरणबाहुल्येऽपीह तादृशः संविभागो नापेक्षितः। ऋचां च समुद्धृतानां प्रदेशाश्च विशिष्येह प्रसाधने समुदृङ्किताः॥
अस्य च प्रसिद्धीकरणस्यावलम्बभूता मातृकाः
१. एतुमानृर्पाटकश्शेरि नारायणन् नीलकण्ठन् मूत्ततुस्वामिका।
२. तिरुवल्ला तुकलश्शेरि परमेश्वरन् नारायणन् भट्टतिरिस्वामिका।
३, ४. कुन्नत्तुनाडु पुन्नोर्कोट्टुमन तुप्पन् तुप्पन् नम्पूरिप्पाडुस्वामिके।
५. मावेलिक्कर चेन्नित्तल कुञ्ञनुजन् तिरुमुल्पाडुस्वामिका च। पञ्चाप्यमूः प्रायस्त्रिशतवत्सरीवृद्धाः।
नचिरादेतदादिषु ग्रन्थेषु प्रसाधनप्रकाशनयोः कृतदृष्टिरहं देवस्वामिभाष्यादीन्यपि प्रसिद्धीकृत्य धन्यमात्मानं चिकीर्षुः सद्यस्तस्कृते पूर्वरङ्गायितमिमं महाजनसमक्षमवतारयामि॥
अनन्तशयनम्
२५–११–११३
के. साम्बशिवशास्त्री.
______________
.
॥श्रीः॥
श्रीहरदत्तमिश्रविरचिता
आश्वलायनगृह्यमन्त्रव्याख्या।
प्रथमोऽध्यायः।
आश्वलायनगृह्योक्तपाकयज्ञेषु कर्मसु।
मन्त्राणां विनियुक्तानां व्याख्यानं क्रियतेऽधुना॥
अत्युक्तानि दुरुक्तानि यान्यनुक्तानि च स्फुटम्।
समादधतु विद्वांसस्तानि सर्वाणि बुद्धिभिः॥
तत्र प्रथमं मन्त्रविनियोगो वक्तव्यः। तत आर्षकथनम्। ततश्छन्दोनिर्देशः। ततो देवताभिधानम्।विनियोगादिचतुष्टयाज्ञाने दोषः स्मर्यते श्रूयते च। तत्र स्मृतिः—
“मन्त्राणां ब्राह्मणार्षेयच्छन्दोदैवतविन्न यः।
याजनाध्यापनादेति छन्दसां यातयामताम्॥
स्थाणुमिच्छति वा गर्ते पात्यते मीयते प्रवा।”
पापीयान् भवतीत्यर्थः। एवं ब्राह्मणमाह तमिति। अथ श्रुतिः—“यो हवा अविदितार्षेयच्छन्दोदैवत ब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्च्छति गर्तंवा पद्यति प्रवा मीयते पापीयान् भवति यातयामान्यस्य छन्दांसि भवन्ती” ति। “अथ यो मन्त्रे मन्त्रे वेद स सर्वमायुरेति श्रेयान् भवति। अयातयामान्यस्य छन्दांसि भवन्ति। तस्मादेव देवतादि मन्त्रे विद्यादि”ति। अतो मन्त्रे मन्त्रे1 विनियोगादिचतुष्टयं बोद्धव्यम्। तत्र ऋषिज्ञाने2 दैवतज्ञाने चार्थबगतिरुपयुज्यते। अतश्च मन्त्र3विवरणमर्थवत्॥
तंत्र प्रथमं तावत् पाकयज्ञप्रशंसार्थमुदाहृताश्चतस्त्र ऋचो व्याख्याते—
यःस॒मिधा॒यआ॑हुती॒योवेदे॑नददाशमर्तो॑अ॒ग्नये॑।
योनम॑सा॒स्वध्व॒रः॥
( अष्ट० ६. अ० १. सू० १९ ऋ० ५.)
तस्येदर्व॑न्तोरंहयन्त आ॒शव॒स्तस्य॑द्यु॒म्नित॑मं॒यशः॑।
नतमंहा॑दे॒वकृ॑तं॒ कुत॑श्च॒ननमर्त्य॑कृतंनशत्॥
(अष्ट० ६. अ० १. सू० १९. ऋ० ६.)
तत्र यस्समिधा य आहुती इति द्वे। अनयोः सौभरिः काण्व ऋषिः। प्रथमा ककुप्।द्वितीया सतो बृहती। द्वे अप्याग्नेय्यौ। यो मर्तो मनुष्यः। अग्नये समिधा। द्वितीयार्थे तृतीयैषा। समिधन्। ददाश। दानकर्मायम्।ददाति। अध्वरो यज्ञः। स्वध्वरः शोभनोऽध्वरः सोमयाग उच्यते। समिधमेवापि श्रद्दधानोऽग्नावादधद् यो मन्येत, स्वध्वरोऽहं सोमेन यज इत्यर्थः। यच्छ्रुतेस्तच्छब्दोऽध्याहर्तव्यः। तत्र गृह्यकार आह—नमस्तस्मा इति। नमस्तस्मै तदेव भवति। तस्यैवं पश्यतः समिदाधानाद4 देवयज्ञो भवतीत्यर्थः। ततः य आहुती यो वेदेनेति चोभयत्र द्वितीयार्थे तृतीया।अन्यामप्याहुतिं जुह्वद् यो मन्येत। स्वध्वरोऽहमिति शेषः पूर्ववदेव द्रष्टव्यः। वेदशब्दश्च स्वाध्याये द्रष्टव्यः। स्वाध्यायमपि योऽग्नये ददाश। स्वाध्यायं कुर्वन् यो मन्येत स्वध्वरोऽहमिति, स्वाध्या याभावेऽपि यो नमो ददाश अग्नयेनमस्कारमपि कुर्वन्नग्नयेयो मन्येत स्वध्वरोऽहमिति, तस्य यज्ञो भवतीत्यर्थः। यतो ‘यज्ञो वै नमः’ इति हि ब्राह्मणं भवति। अतो यो नमस्त इत्याह स यज्ञस्त इत्येव तदाहेति।
तस्येदर्वन्तः। इदं च तस्य भवति। योऽग्नौसमिदाधानादि करोति। अर्वन्तोऽश्वाः। आशवः क्षिप्रगामिन। रंहयन्ते गमयन्ति। किम्। सामर्थ्याद् रथम्। तस्याश्वा रथे नियुक्ताः सन्तोऽभिमतं देशं शीघ्रं गमयन्तीत्यर्थः। किञ्च तस्य यशश्च द्युम्नितमं द्युतिमत्, उज्ज्वलं भवतीत्यर्थः। अथवा द्युम्नं धनमन्नं वोच्यते। तदस्यास्तीति द्युम्नि।अतिशयेन द्युम्नि द्युम्नितमम्। तस्य यशोऽतिशयेन धनवदन्नवद् वा भवतीत्यर्थः। किञ्च तं मनुष्यम् अंहः पापम्। किंविशिष्टम्। देवकृतं देवानपरिचरतो यद् भवति, तद् देवकृतम्। देवैः कारितमित्यर्थः। तथा मनुष्यकृतं पूजनीयान् मनुष्यानपूजयतो यद् भवति, तन्मनुष्यकृतम्।मनुष्यैः कारितमित्यर्थः। तदुभयविधमंहः। न नशत्। व्याप्तिकर्मायम्। न व्याप्नोति च। कुतः कस्मात्। चनशब्दोऽप्यर्थे। यतः कुतश्चिदपि हेतोः। बुद्धिपूर्वमबुद्धिपूर्वं चाह इत्यर्थः॥
तदेतत् पश्यन्नृषिरुवाच—
अगो॑रुधायग॒विषे॑द्यु॒क्षाय॒द॑स्म्यं॒वचः॑।
घृ॒तात्स्वादी॑यो॒मधु॑नश्चवोचत॥
( अष्ट० ६. अ० २. सू० २४. ऋ० २०.)
अगोरुधाय गविष इति। विश्वमना वैयश्व ऋषि। उष्णिक् छन्दः। इन्द्रो देवता। गां रुणद्धीति गोरुधः। न गोरुधो अगोरुधः।तस्मै अगोरुधाय।गोग्रहणं चात्र गवादिपुरुषार्थोपलक्षणं द्रष्टव्यम्। गवादिपुरुषार्थानां दात्र इत्यर्थः। गविषे। गोशब्दोऽत्र सोमवचनः ‘गोपीथाय प्रहूयस’ इति यथा। गामिच्छतीति गविट्तस्मै सोममभिलषत इत्यर्थः। अथवा स्तुतिलक्षणवाग्गौः। स्तुतिमिच्छत इत्यर्थः। अथवा गोशब्देनात्र ‘अथाप्यस्यां तद्धितेन कृत्स्नवन्निगमा भवन्ती’ति गव्यं पयो दधि वोच्यते तदन्नं यस्य स गविट्। तस्मै दघिपयोन्नायेत्यर्थः। द्युक्षाय।दिवि क्षीयत इति द्युक्षः। तस्मै द्युनिवासाय।अथवा दीप्तिनिवासाय।तादर्थ्य एताश्चतुर्थ्यः। एवंगुणविशिष्टस्येन्द्रस्यार्थायेत्यर्थः। वच ऋग्यजुःसामलक्षणम्। दस्म्यमुपक्षपर्णायं हृदा तष्टमित्यर्थः। अथवा दर्शनीयं सुप्रियमि5त्यर्थः। घृतादाज्यात्। मधुनश्च। माद्यते अनेन मधु सोम उच्यते। सोमाच्च खादीयः खादुतरं वोचत ऋत्विजामयं संप्रैषः। हे मदीया ऋत्विजः!अथवा लकारपुरुषवचनव्यत्ययः। अहं वोच इत्यर्थः। एतच्च वच आज्यसोमलक्षणाद् हविषः स्वादुतरमस्त्वित्यर्थः6॥
आते॑अग्नऋ॒चाह॒विर्हृ॒दात॒ष्टंभ॑रामसि।
तेते॑भवन्तु॒क्षण॑ऋष॒भासो॑व॒शाउ॒त॥
( अष्ट० ४. अ० ५ .सू०१६.ॠ० ४७.)
आते अग्ने। भरद्वाजो बार्हस्पत्य ऋषिः। अनुष्टुप् छन्दः। अग्निर्देवता। हे अग्ने!। ते तु॒भ्यम्7ऋचा स्तुत्या।हविः पुरोडाशादि। हृदा हृदयेन।तष्टं, तक्षतिः करोतिकर्मा।कृतं, मनसा सङ्कल्पितमित्यर्थः। निर्धनत्वात् सङ्कल्पमात्रेण कृतमित्यर्थः। आ भरामसि। आहरामः। ते त8एवं सङ्कल्पमात्रकृताः ते तव भवन्तु। उक्षणःउक्षाणः सेचनसमर्था बलीवर्दाः। उक्षपशुकेषु यागेषु।ऋषभासः। सन्धौ य उत्सृष्टः स ऋषभ उच्यते। ऋषभासः ऋषभद्रव्यकेषु योगेषु। वशा उत। उतशब्दः समुच्चये।वन्ध्या वशोच्यते। वशा। वशाद्रव्यकेषु योगेषु। यानि कानिचित् तव यागद्रव्याणि सङ्कल्पमात्रकृतानि, तान्यस्माकं भवन्त्वित्यर्थः॥
अथ वैश्वदेवहोममन्त्रा बलिहरण पितृयज्ञ मन्त्राश्च—
‘सूर्याय स्वाहा’इत्यादयो मन्त्राः याजुषाः।
तत्र सूर्याय स्वाहेत्यादयो याजुषाः। एषामृषवोमदेवः, कल्पत्वात्9। तथाच शौनकः—
“अनुकृष्टस्तु यः कश्चित् कल्पेऽथ ब्राह्मणेऽपि वा।
मन्त्रः पद्योऽथवा गद्यो10 वामदेव्यं निबोधत॥”
इति। यजुषां छन्दोज्ञानं नेष्यते। अच्छन्दस्त्वादेव। कथमच्छन्दस्त्वमिति11 चेत्।श्रुतौ दर्शनात्। ‘जामि स्याद्यद्यजुषाद्यं यजुषाप उत्पुनीयात् छन्दसा उत्पुनाति अजामि त्वाये’ति। तस्मात् सर्वेषु यजुःषु छन्दोज्ञानमनङ्गम्। अयं न्यायः सार्वत्रिकः। एवमेव यत्र यत्र मन्त्रः सर्वः पठ्यते कल्पे ब्राह्मणे वा, तत्र सर्वत्र वामदेवार्षत्वं बोद्धव्यम्। सूर्याय स्वाहेत्यादयो मन्त्रा निगदसिद्धाः। खाभिधेयदेवताः एकोनत्रिंशद् देवताः॥
अथाज्योत्पवनमन्त्रः—
** सवितुष्ट्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः।**
‘सवितुष्ट्वा प्रसव उत्पुनामी’ ति। वामदेव गौतम ऋषिः। पुर उष्णिक् छन्दः। उत्पूयमानमाज्यमभिधेयं सविता वा। सवितुरभ्यनुज्ञातुःआदित्यस्य प्रसवेऽभ्यनुज्ञाने सति। सवित्राभ्यनुज्ञातः सन्नित्यर्थः। हे आज्य! त्वा त्वामुत्पुनामीति। उत्पवनं नाम दृष्टादृष्टार्थःसंस्कारः। तदापादयामि। केन। पवित्रेण। जात्यपेक्षयैकवचनम्। पवित्रा भ्यामित्यर्थः। किंविशिष्टाभ्याम्। अच्छिद्रेणाच्छिन्नेन अप्रच्छिन्नाग्राभ्यामित्यर्थः। न च केवलाभ्याम्। किं तर्हि। सूर्यस्य12रश्मिभिः। कीदृशस्य।वसोः। प्रशस्यनामैतत्। प्रशस्यस्य। अथवा वसुशब्दोऽन्तर्णीतमत्वर्थः। वसुमतः धनवतः। अथवा, ‘वस आच्छादन’ इत्यस्य क्रियाशब्दोऽयम्। स्वेन ज्योतिषा सर्वस्याच्छादयितुरित्यर्थः। रश्मिभिर्भानुभिः। ते ह्यत्यन्तशुद्धिहेतवः। अदृष्टसाधनं चैतत्॥
अग्न॒ आयूं॑षि॒पवस॒आसु॒वोर्ज॒मिषं॑चनः।
आरेबा॑धस्वदुच्छुना॑म्॥
(अष्ट० ७. अ० २. सू० ६६. ऋ• १९ )
अ॒ग्निर्ऋषिः॒पव॑मानः॒पाञ्च॑जन्यः पु॒रोहितः।
तमी॑महेमहाग॒यम् ॥
(अष्ट० ७. अ० २. सू० ६६. ॠ० २०.)
अग्ने॒पव॑स्वस्वपा॑अ॒स्मेवर्चः॑सु॒वीर्य॑म्।
दध॑द्र॒यिंमयि॒पोष॑म्॥
(अष्ट० ७ अ० २. सू० ६६. ऋ० २१.)
तेषां पुरस्ताच्चतस्र आज्याहुतीर्जुहुयात्। अग्न आयूंषि पवस इतितिसृभिः। अस्य तृचस्य शतं वैखानसा ऋषयः। गायत्री छन्दः। अग्निर्देवता। हे अग्ने ! आयूंषि चिरकालजीवितानि13।पवसे। पवतिरत्र सामर्थ्याद्दानार्थः। लट् लोडर्थे। पवस्व देहीत्यर्थः। किञ्च, आसुव अभ्यनुजानीहि। ऊर्जं रसं पयआदिकम् इषं चान्नं च। नः अस्मभ्यम्। किञ्चआरे। दूरनामैतत्, दूरे। सप्तमोनिर्देशाद् अपनीयेति वाक्यशेषः। बाधस्व नाशय। दुच्छुनां दुर्भिक्षजातिम्। अनावृष्ट्यादिकृतं दुर्भि14क्षं मत्समीपे कदाचिदपि मा भूदित्याशास्महे॥
अग्निऋषिः द्रष्टा शुभाशुभस्य, लोकपालत्वात्। पवमानः ‘पूङ्पवने’। कृत्स्नं जगच्छोधयन्। पाञ्चजन्यः पञ्चभ्यो जनेभ्यो हितः। पञ्चजना देवमनुष्यादयो ब्राह्मणोक्ताः, चत्वारो वा वर्णाः निषादपञ्चमाः। पुरोहितः पुरोहितस्थानीयः। यथा शान्तिकपुष्टिककर्मभिः राजानमापद्भ्यस्त्रायते, तथा यजमानानां हविर्वहनादिव्यापारेण त्रातेत्यर्थः अथवा पुरोहितशब्दः क्रियावचनः। पूर्वस्यां दिश्याहवनीयात्मना निहितः स्थापित इति पुरोहितः। यं इत्थम्भूतोऽग्निः तमीमहे।याच्कर्मायं, याचामहे। महागयम्। गयशब्दोऽपत्यनाम, धननाम, गृहनाम वा ! महदपत्यं महदू धनं महद् गृहं वा। अपत्यमहत्त्वं विद्यैश्वर्यादिभिः। धनमहत्त्वमपरिमाणतः। गृहमहत्त्वमसंबाधत्वेन। अथवा महागयशब्दोऽग्निविशेषणम्। न तु याच्ञाकर्म। अस्मिन् पक्षे याच्ञायाः कर्माध्याहर्तव्यम्। तच्च सामर्थ्यात् पुत्रपश्वन्नादि द्रष्टव्यम्॥
अग्रेपवस्व।पवस्वेति मध्यमपुरुषयोगादमे इति च सम्बुद्धिदर्शनात् प्रत्यक्षीकृतोऽयं मन्त्रः।स्वपा इत्येतदा-मन्त्रितम्। अतो यत्तच्छब्दावध्याहृत्यैकवाक्यता नेया। यस्त्वम्। स्वपाः। अप इति कर्मनाम। सुकर्मा।स त्वम्। हे अग्ने ! पवस्व देहि। अस्मे अस्मभ्यम्।वर्चःदीप्तिम्। सुवीर्यं शोभनं वीर्यं च। अथवा वर्च इत्यन्ननाम। अस्मिन् पक्षे सुवीर्यशब्दो वर्चेविशेषणम्। शोभनवीर्यं वर्च इति। किं कुर्वन्। उच्यते। दधत् स्थापयन्। रयिम्।धननामैतत्। धनं हिरण्यादिलक्षणम्। मयि अधिकारिणि पोषं पुष्टिसाधनं च मोमहिषाश्वादिकम्॥
**प्रजा॑पते॒नत्वदे॒तान्य॒न्योविश्वा॑जा॒तानि॒परताब॑भूव। **
यत्का॑मास्तेजुहु॒मस्तन्नो॑अस्तुवयंस्य॑म॒पत॑यो॒रयीणाम्॥
(अष्ट० ८. अ ७. सू० १२२. ऋ. १०.)
प्रजापते न त्वदेतान्यन्य इति च। हिरण्यगर्भः प्रोजापत्य15 ऋषिः। त्रिष्टुप् छन्दः। प्रजापतिर्देवता। हे प्रजापते !। नशब्दः परिबभूवेत्यनेनसंबध्यते। त्वत्। युष्मत्पञ्चम्येकवचनस्यायमादेशः। त्वत्त इत्यर्थः16। अन्यः कश्चित्।एतानि भूतानि। विश्वा विश्वानि सर्वाणि। जातानि उत्पन्नानि। त्वत्त (इति) वाक्यशेषः। यानि भूतानि त्वत्सकाशादुत्पन्नानि तानि न परिबभूव। परिपूर्वो भवतिः परिग्रहे परिरक्षायां वा वर्तते। परिगृह्णाति परिग्रहीतुं शक्नोति परिरक्षितुं वेत्यर्थः। त्वमेव परिगृह्णासि रक्षसि वा। यत ईदृशोऽसि, अतो ब्रूमः। यत्कामा वयं ते तुभ्यं त्वदर्थमित्यर्थः। जुहुमः होमं कुर्मः। तत् काम्यमानं वस्तु नः अस्माकम् अस्तु भवतु सर्वदैवं च वयं स्याम भवेम। पतयः स्वामिनः। रयीणां धनानामित्याशास्महे॥
भूः स्वाहा भुवः स्वाहा स्वः स्वाहा भूर्भुवःस्वः स्वाहा।
व्याहृतिभिर्वा चतस्र आज्याहुतीर्जुहुयादित्यनुषङ्गः। भूः स्वाहा, भुवः स्वाहा, स्वः स्वाहा, भूर्भुवः स्वः स्वाहेति। चतसृणां व्याहृतीनाभृषिः प्रजापतिः। पूर्वपरमेष्ठिकल्पजत्वाद् व्याहृतीनां वामदेवार्षत्वे प्राप्ते तदपवादः स्मर्यते भगवता शौनकेन—
“प्रजापते ! व्याहृतयः पूर्वस्य परमेष्ठिनः।
व्यस्ताश्चैव समस्ताश्च ब्राह्ममक्षरमोमिति॥”
प्रथमा तृतीया चं देवीगायत्र्यौ। द्वितीया दैव्युप्णिक्। समस्ता दैवी बृहती। यजूंषि चैतानि चत्वारि।अग्निवायुसूर्यप्रजापतयः क्रमेण देवताः। भूः स्वाहा। अत्रैकवाक्यताप्रसिद्धयर्थं यत्तच्छब्दावध्याहर्तव्यौ। योऽग्निर्भूः। भवतेः क्विबन्तमेतत् पदम्। सर्वत्र भवतीति भू।तस्मै स्वाहा। स्वाहाशब्दस्य निर्वचनं ‘स्वाहेत्येतत् सु आहेतिवा’ स्वा वागाहेति वा’ इत्यादि भगवता यास्केनोक्तं द्रष्टव्यम्। स्वाहुतं हविर्भूयत इत्यर्थः। केचित्तु स्वाहाशब्दं प्रदानवाचिनं मन्यन्ते। तस्मिन् पक्षे हविर्दीयते ददामीति यास्यार्थः। एवं सर्वत्र। भुवः स्वाहा।17 यो वायुर्भुवः। भवतेर्धातोर्ण्यन्तस्यैतद्रूपम्। कृत्स्नं जगद् भावयतीति भुवः। तस्मै स्वाहेति। स्वःस्वाहा। सूर्यः स्वः। स्व. शब्दस्य ‘स्वरादित्यो भवति।सु अरण सु ईरण’ इत्यादि यथाभाष्यं निर्वचनं द्रष्टव्यम्। सु अरणं शोभनगमनं, स्वीरणो वा, शोभनप्रेरण इत्यर्थ। तस्मै स्वाहेति।भूर्भुवः स्वःस्वाहेति व्यखान्याहृति व्याख्यानेन समस्त व्याहृतिर्व्याख्याता। सर्वासुविभक्तिषु व्याहृतीनां तुल्यरूपत्वं द्रष्टव्यम्। अव्ययत्वात्। वाक्यशेषश्च यथाविनियोगं तत्तद्विभक्तयनुरूपः कार्यः॥
त्वम॑र्य॒माभ॑वसि॒यत्कनीनां॒नाम॑स्वधाव॒न्गुह्यं॑बिभर्षि।
अ॒ञ्जन्तिमि॒त्रंसुधितं॒नगोभि॒र्यद्दम्प॑ती॒सम॑नसाकृ॒णोषि॥
(अष्ट० ३. अध्या० ८, सू० ३. ऋ० २.)
‘त्वमर्यमा भवसि यत् कनीनामिति विवाहे चतुर्थीम्’।वसुश्रुतस्यात्रेयस्य18त्रिष्टुप् छन्दः। अग्निर्देवता। हे अग्ने! स्वधावन् ! स्वधेत्येतदन्ननाम।हविर्लक्षणेनान्नेन अस्मभ्यं प्रदेयलक्षणेन च। तद्वन् !। यद् यस्मात् कनीनां कन्यकानां त्वमर्यमा भवसि। ‘यः खलु वै ददाति सोऽर्यमे’ति श्रुतेरर्यमशब्दो दातृवचनः। अथवा कन्यकानां वरसम्बन्धे शत्रुभूतानां विघ्नानां नियन्तृत्वादर्यमशब्देन अग्निरेवोच्यते। अर्थमा अरीन् नियच्छतीति। यस्मात् त्वं कन्यकानांमभीष्टवरदाता भवसि, वरसम्बन्धे विरोधिनिराकर्ता वा भवसीत्यर्थः। यस्माच्च गुह्यं नाम बिभर्षि। गुह्यं संवृतमप्रकाशं वेदैकसमधिगम्यं जातवेदा द्रविणोदा इत्यादिकं धारयसि। यत् यस्माच्च दम्पती जायापती। समनसा समानचित्तौ। कृणोषि करोषि। यस्मादिति वचनात् तस्मादित्यध्याहार्यम्। तस्माद् भवन्तमञ्जन्तिम्लक्षयन्ति गोभिः। ‘अथाप्यस्यां तद्धितेन कृत्स्नवन्निगमा भवन्ती’त्येवमत्र गोविकार आज्ये गोशब्दो द्रष्टव्यः। गोविकारैराज्यैर्हविर्लक्षणैः। किमिव। मित्रं सुधितं न। यथा लोके मित्रं स्निग्धं सुधितंसुष्ठु हितं गोविकारैः पयआदिभिर्भोजनसाधनैः परिचरन्ति, तद्वत्॥
अष्टौपिण्डाम् कृत्वा —
** ऋतमग्ने19 प्रथमं जज्ञ ऋतेसत्यं प्रतिष्ठितं यदियं कुमार्यभिजाता तदियमिह प्रतिपद्यतां यत् सत्यं तद् दृश्यतामिति।**
ऋतमग्नेप्रथमं जज्ञ इत्यनेन मन्त्रेण पिण्डानभिमन्त्रयेत्। वामदेव ऋषि। त्रिष्टुप् छन्। ‘अक्षराण्येव सर्वत्र निमित्तं बलवत्तरमि’ति वचनादक्ल20प्तिरनियता। मृत्पिण्डा अभिधेयाः। ऋतम्। अर्तेर्गतिकर्मणो निष्ठान्तनेतत् पदम्।सर्वत्र गतत्वादृतशब्देनात्र सामर्थ्यान्मन उच्यते। यथा मनः। अग्रे पूर्वंप्रथमं मुख्यं मनसो21 मुख्यत्वमन्येषामिन्द्रियाणां तदपेक्षत्वात्। जज्ञे जायत उत्पद्यते। ऋते मनसि सत्यं प्रतिष्ठितम्। विद्यमानवस्तुविषयं वचनं सत्यमित्युच्यते। एतदुक्तं भवति—यथा वाक् च मनश्च विषयं गृह्णीतः तथा यदर्थसतत्त्वमभि प्रतिजाता इयं कुमारी तदर्थसतत्त्वम्। इयं कुमारीह कर्मणि लोके वा प्रतिपद्यतां संश्रयतु यत्सत्यं परमार्थतत्त्वं तद् दृश्यतामभिव्यज्यताम्। विवाहोत्तरकालं यथा भवति तथा पिण्डान् गृह्णात्विति समस्तार्थः। अथवा ऋतशब्देन मनस्सत्यतोच्यते। सत्यशब्देन वाक्सत्यतेति। मन्त्रशेषः पूर्ववत्॥
अभिमन्त्र्य कुमारीं ब्रूयादेषामेकं गृहाणेति॥
अभिमन्त्र्य कुमारीं ब्रूयादेषामेकं गृहाणेति। प्रैषरूपत्वाद् वैश्वामित्रोऽयं निगदः। कन्याभिधेया। हे कन्यके! एषां पिण्डानां मध्ये एकं पिण्डं गृहाणोपादत्स्व॥
प्राद्दमुख्या आसीनाया ‘गृभ्णामि ते सौभागत्वाय हस्तमि’ति हस्त गृहणीयात्।
गृ॒भ्णामि॑तेसौभग॒त्वाय॒इस्तं॒मया॒पया॑ज॒रद॑ष्ट॒र्यथासः॑।
भगोअर्य॒मासवि॒तापु॑र॑न्धि॒र्मह्यं॑त्वादु॒र्गार्ह॑पत्यायदे॒वाः॥
(अष्ट० ८. अध्याय ३. वर्ग. २७. ऋ० ३६.)
सूर्यायाः सावित्र्या आर्षं, त्रिष्टुप् छन्दः, वधूरभिधेया।हे वधु!। गृभ्णामि गृह्णामि। ते तव हस्तं सौभगत्वाय सौभाग्यार्थम्। एतज्ज्ञात्वा मया पत्या सह। जरदष्टिः, जरच्छब्दन जरोच्यते, अश्नोतेरष्टिः। जरतो जरया22 अष्टिः कर्तर्ययं क्तिन्। अष्टि व्याप्त्री ग्रहीत्री जरदष्टिः। अथवा जरन्ती कीर्यमाणावयवा सती अष्टिः व्याप्त्री23 मृत्योर्जरदष्टिः। अनेन चिरजीवित्वमाशास्यते। यथा असः भवसि,तथा भवेति वाक्यशेषः। कस्मादेवं ब्रवीषि। यस्माद्, भगः अर्यमा सविता च पुरन्धिः बहुप्रज्ञो बहुकर्मा वा मह्यं वराय त्वा त्वां वधूमदुर्दत्तवन्तः। गार्हपत्याय गृहपतिभावाय गार्हस्थ्यामेत्यर्थः। देवाः पूर्वोक्ता भगादयः॥
त्रिःपरिणयन्जपति—
** अमोहमस्मि सा त्वं सात्वमस्यमोहम्। द्यौरहं पृथिवी त्वं सामाहमृक्त्वम्। तावेह विवहावहै प्रजां प्रजनयावहै। संप्रियौरोचिष्णू सुमनस्यमानौ जीवेव शरदः शतम्॥**
इति। ‘अमोऽहमस्मि सा त्वमिति’। कल्पजत्वाद् वामदेवार्षम्। अमोऽहमस्मीत्यादि सामाहमृक्त्वम् इत्यन्ता अनुष्टुप्। तावेह विवहावहा इत्याद्याबृहती।एकं वेदं यजुः। वरवध्वावभिधेयौ। वधूं प्रत्याह वरः—अमोऽहमस्मि। अमशब्देन सामोच्यते। ‘अमो नाम सामे’ ति श्रुतेः। हे वधु!।सा त्वमसि, साशब्देन सामाश्रयभूता ऋगभिधीयते। ‘सैव नाम ऋगासीदि’ति लिङ्गात्। अहं सामास्मि त्वमृगसीत्यर्थः। ऋक्सामसंस्तवेन च दम्पत्योरपृथग्भाव आशास्यते। सा त्वमस्यमोऽहमित्यादरार्थः पुनरुपन्यासः। द्यौरहं पृथिवी त्वम्। द्यावापृथिव्यात्मकतया दम्पत्योरितरेतरसंश्लेष आशास्यते। एतदुक्तं भवति—आवां द्यावापृथिव्याविवात्यन्तं संलिष्टौ भूयास्वेत्यभिप्रायः। सामाहमृक्त्वम्, अमोऽहमस्मि सा त्वमित्यस्य विवरणमेतत्। सामर्थ्याच्च तदनन्तरमेव24द्रष्टव्यम्।यावित्थंभूतौ स्वः, तावावामिह लोके आविवहावहै आभिमुख्येन विवाहक्रियां निर्वर्तयावेत्यर्थः। व्यूह्य च प्रजां जात्यभिप्रायमेकवचनम्। दशसङ्ख्याकाम् पुत्रानित्यर्थः। प्रजनयावहै। उत्पादयाव इत्यथः। तथाह्याशास्यं ‘दशास्यां पुत्रानाघेही ’ति मन्त्रलिङ्गात्। सम्प्रियौ। समित्येकीभावे एकप्रियौ। यद्यहं प्रीणामि तत् त्वमपि प्रीणीहीत्यर्थः। रोचिष्णू दीपनशीलौ। सुमनस्यमानौ कल्याणमनस्त्वमाचरन्तौ। संहृष्टमनसावित्यर्थः। जीवेव शरदः शतं शरच्छब्दः संवत्सरपर्यायः। संवत्सरशतं त्वं चाहं च जीवावेत्याशास्महे॥
वधूमश्मानमारोहयति—
इममश्मानमारोहाश्मेव त्वं स्थिरा भव।
सहस्व पृतनायतोऽभितिष्ठ पृतन्यतः॥
‘इममश्मानमारोहे’ति। वामदेव गौतम ऋषिः। अनुष्टुप् छन्दः। वधूरभिधेया। हे वधु !। इममश्मानम् अग्नेःपश्चिमे देशे प्रतिष्ठापितमारोह।आरुह्य च अश्मा इव त्वं स्थिरा भव। यथाश्मा सुस्थिरः, तद्वत् स्थिरा भव।अश्मवत् स्थैर्येण चारोग्यं लक्ष्यते। अरोगा भवेत्यर्थः। किञ्च सहस्वं25 सहिरभिभवादौ। अभिभवस्व।पृतनायतः। पृतनेति सङ्रामनाम। सङ्ग्राममभीच्छतोऽस्माभिः सह सङ्ग्रामं कर्तुमिच्छतः। अस्मच्छत्रूनित्यर्थः। अभितिष्ठ अभिभूय तिष्ठ।पृतन्यतः ‘कप्यध्वरवृतनस्यार्चिलोपः’ इति पृतनाशब्दस्याल्लोपो द्रष्टव्यः।पृतनायत इत्ययमेवार्थः। अतः पौनरुक्त्यपरिहारार्थं प्रागभावविषयमेकं प्रध्वंसाभावविषयमपरं द्रष्टव्यम्। एतदुक्तं भवति—अश्मारोहणसंस्कारेणास्मच्छत्रवोऽस्माभिः सह सङ्ग्रागं कुर्वन्तो नश्यन्तु, करिष्यन्तः26पलायन्तामिति॥
लाजहोमे विनियुक्ताः—
** अर्यमणं तु देवं कन्या अग्निमयक्षत स इमां देवो अर्यमा प्रेतो मुञ्चातु नामुतः स्वाहा। वरुणं नु देवं कन्या अग्निमयक्षतस इमां देवो वरुणः प्रेतो मुञ्चातु नामुतः स्वाहा।पूषणं नु देवं कन्या अग्निमयक्षत स इमां देवः पूषा प्रेतो मुञ्चातु नामुतः स्वाहा।**
‘अर्यमणं नु देवमि’त्याद्यास्तिस्रोऽनुष्टुभः। वामदेवार्षाः। अर्यमवरुणपूषदेवत्याः। अर्यमर्णमिति स27 इमामित्युत्तरार्धचें तच्छन्दश्रवणाद् यच्छन्दोऽध्याहर्तव्यः पूर्वस्मिन्नर्धर्चे। यमर्यमणम्।नु पादपूरणः। देवं दानादिगुण युक्तम्, अग्निमग्रण्यं, कन्या अयक्षत।एकस्यामेव कन्यायां पूजायां बहुवचनम्।लुङ् च ल् ट्स्थाने। येयं वधूर्यमणं यजत इत्यर्थः। सोऽर्थमा देवस्तामिमां वधूमितः पितृमातृसकाशात् प्रमुञ्चातु, मुचिरत्र सामर्थ्यादन्तर्णीतण्यर्थः। मोचयतु मत्सकाशं गमयत्वित्यर्थः। अमुतः अनुष्मात् मत्सकाशात् न प्र28मुञ्चात्वित्यनुषङ्गः। मत्तोऽनपायिनीं करोत्वित्यर्थः। इतः प्रमोक्षो29 नाम `पित्र्यगोत्रपरित्यार्गंः। अमुतोऽप्रमोक्षो नाम भर्तृगोत्रापरित्यागः।वरु30णं नु,पूषणं नु, द्वावप्येतौ मन्त्रौ पूर्वेणैव व्याख्यातौ॥
अथास्यै शिखे विमुञ्चति—
प्रत्वा॑मुञ्चामि॒वरु॑णस्य॒पाशा॒द्येन॒त्वाब॑ध्नात्सवि॒तासुशेवः।
ऋ॒तस्य॒योनौ॑सुकृ॒तस्य॑लो॒केरि॑ष्टांत्वास॒हपत्या॑दधामि॥
(अष्ट ८. अ० ३. व० २४. ऋ० २४.)
प्रेतोमु॒ञ्चामि॒नामु॒तः॑सुबद्धाम॒मुत॑स्करम्।
यथे॒यमि॑न्द्रमीदवःसुपुत्रासु॒भगास॑ति॥
( अष्ट० ८. अ० ३. व० २४. ऋ. १५ )
‘प्रत्वा मुश्चामि वरुणस्य पाशादि ति द्वाभ्याम्। दक्षिणां शिखांपूर्वयोत्तरामुत्तरया। उभयोरपि सूर्या ऋषिः। पूर्वा त्रिष्टुप्, अनुष्टुवुत्तरा। द्वयोरपि वधूरभिधेया। प्र त्वा मुञ्चामि। हे वधु!। त्वा त्वामहं प्रमुञ्चामि। मुचिरत्र सामर्थ्यादन्तर्णीतयर्थः। मोचयामि। कुतः। वरुणस्य पाशात्। येन वरुणस्य पाशेन त्वा त्वामबघ्नात् स्वगृहे बद्धवान्। सविता प्रसवितोत्पादयिता, तव पिता। कीदृशः। सुशेवः।शेव इति सुखनाम।सुसुखः तवात्यन्तं सुखयितेत्यर्थः। किञ्च ऋतस्य यज्ञस्य सत्यस्योदकस्य वा। योनौ स्थाने। सुकृतस्य च कर्मणः लोके स्थाने मदीयगृहलक्षणे। अरिष्टाम् अहिंसितां केनचिदपि त्वा त्वां सह पत्या मया दधामि धारयामि। प्रेतो मुञ्चामीति। इतः पितृगृहादिमां वधूं प्रमुञ्चामि अहं प्रमोचयामि। निर्गमयामीत्यर्थः। अमुतःअमुष्मान्मदीयगृहान्न प्रमुञ्चामि न प्रमोचयामि। किं तर्ह।सुबद्धां। सुष्टु बद्धामनपायिनीम्। अमुतः। सप्तम्यर्थे पञ्चम्येषा।अमुष्मिन् मदीये गृहे करमकरवं करोमीत्यर्थः। उत्तरार्धर्चेनेन्द्रः प्रार्थ्यते। हे इन्द्र ! मीद्वः। ‘मिह सेचने’। वृष्ट्युदकेन कृत्स्नस्य जगतः सेक्ता। अथवा मीढ इति धननाम, तद्वान् मीढ्वान्।तस्य सम्बोधनं, हे धनवन्नित्यर्थः। यथा येन प्रकारेणेयं वधूःसुपुत्रा शोभनापत्या, सुभगा भगशब्दो धननाम सुधना च असति अस्ति भवतीत्यर्थः। तथा तामनुगृहाणेति वाक्यशेषः॥
अथैनामपराजितायां द्विशि सप्तपदान्यभ्युटक्रामयति—
** इष एकपद्यूर्जे द्विपदी रायस्पोषाय त्रिपदी मायोभव्याय चतुष्पदी प्रजाभ्यः पञ्चपछृतुभ्यः षट्पदी सखा सप्तपदी भव सा मामनुव्रता भव पुत्रान् विन्दावहै बहूंस्ते सन्तु जरदंष्टयः इति।**
‘इष एकपदी’त्यादिभिर्वामदेवार्षाभिः सप्तभिरनुष्टुब्भिः। सप्तानामपि वधूरेवाभिधेया। इष एकपदी। हे वधु ! इषे अन्नाय अन्नसिद्धये एकपदी एकपदमभ्युत्क्रान्तं यस्याः, यया वा, सा भव। एकं पदमभ्युत्कामयेत्यर्थः। या त्वं मयाभ्युत्क्रामितपदा, सा त्वं मामनुव्रता। व्रतमिति कर्मनाम। अन्विपत्युसर्ग श्रुतेर्योग्यक्रियापदाध्याहारः। अनुगमनानुकूल्यं गतं व्रतंयस्याः साभव। मयैकचित्ता भवेत्यर्थः। किञ्च पुत्रान् बहून्।दशसङ्ख्याकानित्याभिप्रायः। विन्दावहै लभावहै। ते च पुत्राः सन्तु भवन्तु।जरदष्टयः।जराव्याप्त्या चिरजीवित्वमाशास्यते। वर्षशतं जीविनो भवन्त्वित्यभिप्रायः। ऊर्जेद्विपदी। ऊर्कशब्दो रसवचनः। रसाय त्वं द्विपदी भव। रससिद्धये द्वितीयं पदम् अभ्युत्क्रामयेत्यर्थः। भव सा मामित्यनुषङ्गः।यस्सोषाय त्रिपदी घनस्य पुष्ट्यै त्रिपदी।भवेत्याद्यनुषः पूर्ववत्। मायोभव्याय चतुष्पदी।मय इति सुखनाम।भवनमेव भव्यम्। उभयत्र स्वार्थिकस्तद्धितः। सुखभवनाय सुखस्योत्पत्तये इत्यर्थः। चतुष्पदी, भवेत्याद्यनुषङ्गः पूर्ववत्।प्रजाभ्यः पचपदी। प्रजासिद्धयर्थं पञ्चपदी। भवेत्याद्यनुषङ्गः। ऋतुभ्यः षट्पदी।ऋतुशब्देन तत्रस्था भोगा लक्ष्यन्ते। तत्तत्कालीनानामृत्वायफलानां सिद्ध्यर्थमित्यर्थः। षट्पदी। भवेत्याद्यनुषङ्गः पूर्ववत्।सखा सप्तपदी भव सखा समानाख्याना समानप्रकाशा। मया समानख्यातिरित्यर्थः। सप्तपदी। भवेत्यादिमन्त्रशेषो व्याख्यातः। सप्तैतेऽनुष्टुभो भवाद्यनुषङ्गेण॥
जीवपत्नी प्रजां विन्देयेति।
ध्रुवमरुन्धती सप्तर्षीनिति दृष्ट्वा वाचं विसृजेत। जीवपत्नी प्रजां विन्देयेतिवामदेवार्षम्। यजुरिदम्। विष्णुर्देवता, अग्निर्वा प्रजापतिर्वा। एवमनादिष्टदेवतेषु मन्त्रेषु सर्वत्र देवताकल्पनम्। कुत एतत्। ‘तद् येऽनादिष्टदेवता मन्त्राः’ इत्युपक्रम्य ‘याज्ञदैवतो मन्त्रः’ इति भगवता यास्केन सिद्धान्तितत्वात्। याज्ञदैवत इति कोऽर्थः। याज्ञो यज्ञदेवता ‘विष्णुर्वे यज्ञ’ इति श्रुतोष्णुदैवत इत्यर्थ। ‘प्रजापतिर्वै यज्ञ’ इति श्रुतेःप्रजापतिर्देवतेति वा। देवताशब्देनाभिरुच्यते। तद्देवतोऽग्निदेवत इत्यर्थः। स मन्त्रो वैष्णवो वाग्नियो वा प्राजापत्यो वा भवितुमर्हति इति तस्यार्थः। अलमनेन। प्रकृतानुसृतिः क्रियते। जीवपत्नी।जीवस्य पत्नी जीवतः पत्नी जीवपत्नी।पत्नीशब्दस्य ‘पत्युनोंयज्ञसंयोगे’ (४. १. ३३) इति प्रक्रिया द्रष्टव्या। आयुष्मता भवता भर्त्रा सह यज्ञसंयुक्तेत्यर्थः। प्रजां पुत्रपौत्रादिलक्षणां विन्देय लभेय। विष्णोः प्रजापतेरग्निर्वाप्रसादेनेति वाक्यशेषः। केचिदिमं मन्त्रमाध्यात्मिकं मन्यन्ते। विन्देयेत्युत्तमपुरुषसंयोगात्। तस्मिन् पक्षे वधूरेवाभिधेया॥
प्रयाण उपपद्यमाने—
पू॒षात्वे॒तोन॑यतुहस्त॒गृह्या॒श्विना॑त्वाप्रवहतां॒रथे॑न।
गृ॒हान्ग॑च्छगृ॒हप॑त्नी॒यथासो॑व॒शिर्ना॒त्वांधि॒दथ॒माव॑दासि॥
(अष्ट० ८. अ० ३ व० २५. ऋ० १६.)
‘पूषा त्वेतो नयतु हस्तगृह्येति यानमारोहयेत्’। सूर्याया आर्ष्ं,त्रिष्टुप् छन्दः। वधूरभिधेया। हे वधु !। पूषा त्वा त्वामितः पितृगृहात् पतिगृहं नयतु, बहिर्हस्तं गृह्य हस्ते वा गृहीत्वा। पूष्णा बहिर्नीतां सतीमश्विना अश्विनौ त्वा त्वां रथमारूढां प्रवहतां मदीयगृहं प्रापयताम्। रथेन त्वं पितृगृहात् पतिगृहान्, गच्छ। गत्वा च त्वं गृहपत्नी मदीयानां गृहाणां स्वामिनी यथा असः भवसि। तथा भवेति वाक्यशेषः। वशिनी आत्मयशवर्तिनी सर्वप्रज्ञाविषयमनुरागं कुर्वतीत्यर्थः। अनुरागेण हि सर्वं वशीक्रियते। किश्च त्वं विदथम्।यज्ञनामैतत्। श्रौतस्मार्तलक्षणं यज्ञमावदासि। लोडर्थेऽयं पञ्चमो लकारः। आभिमुख्येन वद। यज्ञवदनेन चात्र तत्कारणं लक्ष्यते। श्रौतस्मार्तलक्षणानि कर्माणि कुर्वित्यर्थः। एतदुक्तं भवति—
मदीयान् गृहान् प्राप्य मया सार्धं श्रौतस्मार्तलक्षणेषु कर्मस्वधिकुर्वित्यर्थः॥
अश्म॑न्वतीरीयते॒संर॑भध्व॒मुत्तिष्ठत॒प्रतर॑तासखायः।
अत्रा॑जहाम॒ये अस॒न्नशे॑वाः शि॒वान्व॒यमुत्त॑रेमा॒भिवाजा॑न्॥
(अष्ट० ८. अ० १. व० १४. ऋ० ८. )
‘अश्मन्वतरीियते संरभध्वमित्यर्धर्चेन नावमारोहयेत्। उत्तरेणोत्क्रमयेत्’।
**" सौचीकोऽग्निःसमवदत्सूक्तैर्महदिति त्रिभिः।
विश्वेदेवैर्मिथोलिङ्गमन्यैस्त्रैष्टुभकैः परैः॥ **
इति वचनात् अग्नेरार्षम्।त्रिष्टुप् छन्दः। विनियोगवशाद् वधूरभिधेया। संरभध्वमित्यादिमध्यमपुरुषसंयोगात् प्रत्यक्षकृतोऽयं मन्त्रः। अश्मन्वतीत्येतदनामन्त्रितम्। अतो यतच्छब्दाध्याहारेण एकवाक्यता योज्या। या त्वम् अश्मन्वती। ‘अश भोजने’ इत्यस्याश्मन्छन्दोऽशितद्रव्यवचनः, तद्वती। व्रीहिमुद्गाद्यशनसाधनसम्पन्नेत्यर्थः। सात्वं रीयये।गतिकर्मायम्। लट् च लोडर्थे। प्रथमपुरुषश्च मध्यमपुरुषस्य स्थाने।रीयस्व मम गृहं प्रतिगच्छ। तदर्थं च, संरभध्वम्। एकवचनस्य स्थाने बहुवचनम्31। संरभस्व आरोह नावमित्यर्थः। आरुह्य च प्रतरत। अत्रापि वचनव्यत्ययः। नदीं प्रतरेत्यर्थः। हे सखायः !।वचनलिङ्गव्यत्ययः। हे सखीत्यर्थः। अथोत्तरार्धर्चो व्याख्यायते32। हे वधु ! अत्रास्यां नद्यां ये असन् भवन्ति। अशेवाःशेव इति सुखनाम, असुखाः। के ते। सामर्थ्यान्मार्गाः आवर्तादिदोषदुष्टाः। यच्छ्रुतेस्तच्छब्दाध्याहारः।तान् मार्गान् वयं जहाम। ‘ओ हाक् त्यागे’। बहुवचनं द्विवचनस्य स्थाने। आवां जहाव परित्यजावेत्यर्थः। परित्यज्य च शिवान् सुखान्। तृतीयार्थे च द्वितीया। सुखैः सन्माएर्गैःअभिवाजान्। वाजयतिरर्चयतिकर्मा। इयमपि द्वितीया तृतीयार्थ एव। अभ्यर्चितैरभिपूजितैरावर्तादिदोषरहितैरित्यर्थः। उत्तरेम अत्रापि वचनव्यत्ययः। उत्तरेव नदीमित्यर्थः। सहायापेक्षं वा बहुवचनं सर्वत्र॥
जी॒व॑रु॑दन्ति॒विम॑यन्तेअध्व॒रेदी॒र्घामनु॒प्रसि॑तिंदीधियु॒र्नरः॑।
वा॒मंपि॒तृभ्यो॒यइ॒दंस॑मेरि॒रेमयः॒पति॑भ्यो॒जन॑यः परि॒ष्वजे॑॥
(अष्ट० ७. अ० ८ ६.० १९. ऋ०. १०)
‘जीवं रुदन्ती’ति। रुदत्यां जपेदिति वाक्यशेषः। घोषायाः कक्षीवत्या आर्षम्। जगती छन्दः। विनियोगसामर्थ्याद् वधूमात्रादयोऽभिधेयाः। अर्थक्रमादुत्तरोऽर्धर्चः प्रथमं व्याख्येयः। वामं, स्त्रीलिङ्गस्य स्थाने नपुंसकता। वामां वननीयां सम्भजनीयाम्। इदन्, अत्रापि लिङ्गव्यत्ययः। इमां, काम्। सामर्थ्याद् वधूम्। ‘यो वामाश्विने जागते जगावि’ति वचनादाश्विने प्राप्ठे विनियोगवशाद् वधूमात्रादयो ये जनयः जनयत्यपत्यमिति जनिर्मातात्रोच्यते। बहुवचनात् पितृभ्रात्रादयो गृह्यन्ते। मातृपितृभ्रात्रादयो बन्धुवर्गा इत्यर्थः। सेमरिरे। ‘ईर गतौ’। सङ्गमितवन्तः ऐकमत्येन सम्भूय दत्तवन्त इत्यर्थः। कस्मै। पतिभ्यः। एकस्मिन्नात्मनि बहुवचनम्। पत्ये मह्यं। कीदृशाय। पितृभ्यः। उत्पत्स्यमानापत्यापेक्षया पितृशब्दः। पूर्ववद् बहुवचनमेकस्य स्थाने, पुत्रानुत्पादयिष्यते मह्यमित्यर्थः। अथवा पितृशब्दः क्रियावचनोद्रष्टव्यः, पालयित्रे मह्यमिति पत्ये। किमर्थं समेरिरे इत्युच्यते। मयः परिष्वजे। मयःइति सुखनाम परिष्वजनक्रियाविशेषणं चैतत्। परिष्वज इति तु मत्वर्थीचप्रत्ययान्तमेतत् पदम्। सुखं परिष्वक्तुमित्यर्थः। यच्छब्दश्रुतेस्तच्छब्दमध्याहृत्य पूर्वार्धर्चोव्याख्यायते। ते मात्रादयः, जीवम्, अत्रापिलिङ्गव्यत्ययः। जीवामित्यर्थः। तथाच तैत्तरीयाणां पाठः ‘जीवां रुदन्ती’ति। सुखजीविनीमिमां रुदन्ति। रुदतिरत्र सामर्थ्यादन्तर्णीतष्यर्थः। लट् च लोडर्थे। वीत्युपसर्गश्च सामर्थ्यादत्र प्रतिषेधार्थीयः। विरोदयन्तु मा रूरुदन् इत्यर्थः। किन्तर्हि, मयन्ते, सुखनामसु मयश्शब्दस्य पाठात् सर्वनाम्नां चाख्यातजत्वान्मयतिः सुखार्थ इति गम्यते। अत्र सामर्थ्याद् मयतिरन्तणतण्यर्थः। लट् च लोडर्थे। माययन्तु सुखयन्त्वित्यर्थः। किश्चाध्वरे यज्ञनामैतत्। यज्ञे श्रौतस्मार्तलक्षणे आवाभ्यामधिकर्तव्ये दीर्घां प्रसिर्ति, ‘षिञ् बन्धने’। दीर्घंबन्धनमा शतसंवत्सरात् श्रौतस्मार्तलक्षणकर्मविषयानुष्ठानमित्यर्थः। अनुदीधियुः, ‘ध्यै चिन्तायामि’-त्यस्यैतद्रूपम्। आनुपूर्व्येण चिन्तयेयुः। अथवा ‘दीधीङ् दीप्तिदेवनयोरि’त्यस्यैतद्रूपम्।अनुदीधियुरनुदीपयेयुः। आनुपूर्व्येण कर्मास्तिक्यं वर्धयेयुरित्यर्थः। नरो मनुष्या मात्रादयः॥
‘विवाहाग्निमग्रतोऽजस्रं नयन्ती’ त्यत्र समारोपणाभ्युपगमाद् कल्पान्तरे गृह्याग्निः33समारोपण दर्शनाञ्चविवाहाग्निःसमारोपणमभ्युपगच्छन्ति केचित्। अर्थदाना समारोपणमन्त्रा व्याख्यायन्ते। तत्र ‘याते अग्नेयज्ञिया तनू’रित्यात्मनि समारोप्योपावरोहजातवेद, इति लौकिकाग्नववरोप्य जुहुयात्॥
** या ते अग्ने यज्ञिया तनूम्तयेयारोहात्मात्मानमच्छा वसूनि कृण्वन्नस्मे नर्या पुरूणि यज्ञो भूत्वा यज्ञमासीद स्वां योनिं जातवेदो भुव आजायमानः सक्षय एहि ॥**
विश्वेदेवा ऋषयः। अतिशक्वरी यजुर्वा। अग्निर्देवत। हे अग्ने! तव स्वभूता या तनूः शरीरं यज्ञिया यज्ञसम्पादिनी। तया तन्वा आ इहिआगच्छ। आगम्य चारोह। आत्मा स्वयमेव। आत्मानं स्वकीयां तनूम्।अच्छशब्दोऽत्राभेरर्थे। स चारोहेत्यनेन सम्बन्धयितव्यः अभ्यारोहेति। किं कुर्वन् वसूनि धननामैतत्। धनानि नर्या नर्याणि नृभ्यो हितानि। पुरूणि बहूनि। अस्मे सम्प्रदानचतुर्थ्यन्तमेतत् ‘अस्मे प्रयन्धि मघवन्ती’ ति यथा।अस्मभ्यम्।कृण्वन् ! क्रियासामान्यवचनः करोतिरिह सामर्थ्यात् क्रियाविशेषेदाने वर्तते। सामर्थ्यं चात्र वसुशब्दग्रहणं सम्प्रदानचतुर्थीश्रवणं च। दददित्यर्थः। किञ्च यज्ञो भूत्वा यज्ञसाधनो भूत्वा यज्ञं यज्ञसाधनभूतां त्वां योनिंस्वकीयां तनुं मम शरीरलक्षणाम्। अथवा योनिशब्दः कारणवचनः ‘अस्माद्वै त्वमजायथाः’ इति लिङ्गात्। स्वोत्पत्तिकारणं मम शरीरमित्यर्थः। आसीद आभिमुख्येन गच्छ आरोहेत्यर्थः। आदरार्थं पुनर्वचनं द्रष्टव्यम्। हे जातवेदः जातध! जातप्रज्ञ! वा। भुवः। भवति उत्पद्यत इति भूशब्देन शरीरमुच्यते। मम शरीरादाजायमान आभिमुख्येनोत्पद्यमानः सक्षयः क्षयो निवासः साश्रय इत्यर्थः। एह्यागच्छ कर्मनिर्वर्तको भवेत्यर्थः। अथवा भूशब्देनात्र पृथिव्येवोच्यते। पृथिव्या उत्पद्यमानः पृथिवीमधितिष्ठन्नित्य34भिप्रायः। शेषं पूर्ववत्।
उपावरोहजातवेदः पुनस्त्वंदेवेभ्योहव्यंवहनःप्रजानन्।
आयुःप्रजांरयिमस्मासुधेहिअजस्रोदीदिहिनोदुरोणे॥
विश्वेदेवा ऋषयः। त्रिष्टुप् छन्दः। अग्निर्देवता। हे जातवेदः! जातधन! जातप्रज्ञ! वा अग्नि! उपावरोह। उपेत्ययमुपसर्गः प्रतीत्येतस्य स्थाने। लौकिकमग्निंप्रति, पृथिवीं प्रत्यवरोहेत्यर्थः। अवरुह्यच, पुनः। अत्र वीप्सालोपो द्रष्टव्यः। पुनः पुनरित्यर्थः। त्वं देवेभ्यः तादर्थ्यचतुर्थ्यन्तमेतत्। देवानां कर्माङ्गभूतानामर्थाय हव्यं चर्वाज्यादिहविः वह प्रापय।नोऽस्माकं प्रभूतं प्रजानन् प्रकर्षेण जानन्। किम्।सामर्थ्यात् स्वमधिकारमस्मद्भक्तां वा35। किञ्च आयुर्जीवितं शतसंवत्सरलक्षणम्। प्रजां पुत्रपौत्रादिलक्षणां रथिं धनं च सर्वप्रकारमस्मासु अधिकारिषु। धेहि दधातिर्धारणार्थः। धारय स्थापयेत्यर्थः। दानार्थो वा दधातिः। अस्मिन् पक्षेऽस्मास्विति सप्तमी सम्प्रदानचतुर्थ्यर्थे द्रष्टव्या। आयुः प्रजां रयिमस्मभ्यं देहीत्यर्थः। किञ्च अजस्रः अदिच्छिन्नः अनुपशाम्यन्। दीदिहि दीप्यस्व।नः अस्माकं स्वभूते दुरोणे। दुरोण इति गृहनाम।गृहे देवयजनलक्षणे॥
अ॒यंते॒योनि॑र्ऋ॒त्वियोयतो॑जा॒तोअरो॑चथाः।
तंजा॒नन्न॑ग्र॒आरो॒था॑नोवर्धया॒रयि॑म्॥
‘अयं ते योनिर्ऋत्वियः’ इति समिधि समारोप्य ‘आजुह्वानः’ ‘उद्दुध्यस्वाग्ने’इति द्वाभ्यां लौकिकेऽग्नौसमिधमभ्याधाय जुहुयादिति। अग्निःऋषिः देवताच। त्रिष्टुप् छन्दः। समिदरण्योश्च साधारणी व्याख्या।हे अग्ने! ते तव स्वभूतोऽयमरण्याख्यः समिदाख्यो वा काष्ठविशेषो योनिः। योनिशब्द उभयलिङ्गः। स चात्र कारणवचनः स्थानवचनो वा। उत्पत्तिकारणं स्थानं वेत्यर्थः। ऋत्वियः ऋतुकालः।अर्तेर्गतिकर्मणस्तत्प्रभवः। योनिं विशिनष्टि—यतो यस्माद् योनेररण्यादेर्जात उत्पन्नस्त्वमरोचथाः दीप्तवानसि। तं योनिमरण्याख्यं समिधाख्यं वा जानन्। किम् अधिकारमस्मद्भक्ततां वारोहः।आरुह्य च, अथानन्तरं नोऽस्माकं स्वभूतं रयिं सर्वप्रकारं रयिं वर्धय प्रवृद्धं कुरु। प्रभूतं धनमस्मभ्यं देहीत्यभिप्रायः॥
आजुह्वानःसुप्रतीकः पुरस्तादग्नेस्वांयोनिमासीदसाध्या।
अस्मिन्सधस्थेअध्युत्तरस्मिन् विश्वेदेवायजमानश्चसीदत॥
आजुह्वानः सुप्रतीक इति अग्निर्ऋषिर्देवता च। त्रिष्टुप् छन्दः। आजुह्वानःप्रत्यक्षीकृतोऽयं मन्त्रः। अग्नइति संबुद्धिदर्शनादासीदेति मध्यमपुरुषयोगाच्च। सुप्रतीक इति चानामन्त्रितम्। अतो यत्तच्छब्दावध्याहृत्यैकवाक्यता योज्या। हे अग्ने! यस्त्वं सुप्रतीकः।प्रतीकशब्दो मुखवचनः। सुमुखः। स त्वमाजुह्वान आहूयमानः, मयेति वाक्यशेषः। पुरस्तात् पूर्वस्यां दिशि, ममात्र इत्यर्थः। स्वांयोनिं स्वकीयं स्थानमासीदाविश्।साध्या। द्वितीयैकवचनस्य ‘सुपां सुलुगि’ त्याकारो द्रष्टव्य। द्वितीयार्थे वा प्रथम। योनिविशेषणं चैतत्।साध्यां साधनीयां योनिमित्यर्थः। किञ्च, अस्मिन् सधस्थे। सामीपिकमिदमधिकरणम्। कूपे गर्गकुलमिति यथा। सधस्थशब्दः स्थानवचनः सह तिष्ठन्त्यत्रेति। अस्मिन् स्थानेऽधि। अधिशब्दः ‘अधिपरी अनर्थका’वित्येवं कर्मप्रवचनीयः पादपूरणः। उत्तरस्मिन्नुत्कृष्टे।हे36 विश्वेदेवाः ! सर्वे देवा अजमानश्च सर्वंयूयं सीदत उपविशतेत्यर्थः। एवं व्याख्यायमानेऽस्यार्धर्चस्य वैश्वदेवत्वं प्रसज्येत। तच्चानिष्टम्।आग्नेयत्वं चेष्यते। अतोऽग्नेःप्रसादादिति वाक्यशेषेण भवितव्यम्। एवं वाक्यशेषाध्याहारे विश्वेषां देवानामप्राधान्यम् अग्नेरेव प्राधान्यं भवति। ‘शं नो मित्रो वरुणो मामहन्तामि’तिवत्। यथास्मिन्नर्धर्चे मित्रादीनामप्राधान्यम्। ‘सत्वमग्नेस्सौभगत्वस्ये’ति अग्नेः प्रकृतत्वादग्नेरेव प्राधान्यम्। तद्वत्॥
उद्बुध्यस्वाग्नेप्रतिजागृह्येनमिष्टापूर्तेसंसृजेथामयंच।
पुनः कृण्वंस्त्वापितरंयुवानमन्वातांसीत्त्वयितन्तुमेतम्॥
उद्बुध्यस्वाग्नेइति। अग्निऋषिः देवता च।त्रिष्टुप् छन्दः। उद्बुध्यस्व हे अग्ने! उच्चैर्जानीहि। किम्। सामर्थ्यादस्माभिः क्रियमाणं कर्म। प्रतिजागृहि।प्रतिशब्दोऽत्र धात्वर्थानुवादी।लम्बते प्रलम्बत इति यथा। ‘जागृ निद्राक्षये’।जागरणे (न) चात्र क्रियमाणे कर्मणि सादरत्वं लक्ष्यते। अस्माभिः क्रियमाणे कर्मणि सादरो भवेत्यर्थः। त्वत्प्रसादादेनं यजमानमिष्टापूर्ते इष्टं श्रौतकर्मफलं, पूर्तं स्मार्तकर्मफलम्। केचित् पूर्तशब्दं पक्वदानवचनमाहुः। तस्मिन्नपि पक्षे तत्फलमेवाभिप्रेयते। उभे इष्टापूर्ते। अथवा इष्टापूर्ते इति तृतीयार्थे प्रथमा द्वितीया वा। संसृजेथामिति तु मध्यम एव पुरुषः। किन्त्वेकवचनस्य स्थाने द्विवचनम्। सृजिश्चात्रान्तर्णितण्यर्थः। एनं यजमानमिष्टापूर्ताभ्यां संसर्जय संयोजयेत्यर्थः। अयं च यजमानः। पुनःशब्दस्यात्र वीप्सालोपो द्रष्टव्यः। पुनःपुनरित्यर्थः। कृण्वन् कुर्वन् त्वा त्वां पितरं सर्वस्य जगतः पितरं पितृभूतं पातारं वा युवानं तरुणम्।अग्निर्हि पुनः पुनः काष्ठसंयोगाद् युवैव भवति। अत इदमुच्यते पुनः कृण्वंस्त्वा पितरं युवानमिति। अथवा युवानमिति ‘यु मिश्रण’ इत्यस्य क्रियाशब्दोऽयम्। मिश्रयितारमात्मनः कर्मणा। कर्माङ्गभूतमित्यर्थः। अन्वातांसीत्। अनु आ अतांसीत्। अन्वाङुपसृष्टस्य तनोतेरेतद्रूपम्।लुङ् च वर्तमाने द्रष्टव्यः। अन्वातनोति अनुपूर्वेण चाभिमुख्येन च करोतीत्यर्थः। त्वयि।निमित्त एषा सप्तमी। ‘चर्मणि द्वीपिनं हन्ती’ति यथा। त्वदर्थं त्वत्पूजनार्थमित्यर्थः। तन्तुम्।तन्तुशब्दोऽत्र यज्ञवचनः तन्यते विस्तार्यत इति। यज्ञम् एतम्॥
मावि॑दन्परिप॒न्थिनो॒यआ॒सीद॑न्ति॒दम्पती।
सु॒गे॑भिर्दु॒॒र्गमती॑ता॒मप॑द्रा॒न्त्वरा॑तयः॥
(अध० ८.अ य०३. व०ऋ० २६.ॠ०. ३१)
एवं तावत् प्रासङ्गिकमुक्तम्। अथेदानींप्रकृतमनुसरामः।कल्याणेषुदेशवृक्षचतुष्पथेषु’मा विदन् परिपन्थिनः’ इति जपेत्। मा विदन्सूर्याया आर्षम। अनुष्टुप् छन्दः। अनादिष्टदेवतामन्त्रन्चायेनास्य मन्त्रस्यदेवताकल्पनम्। पिशाचादिसङ्घा वा ,ये आसीदन्त्यागच्छन्ति पथि मोषणायाभिभवाय च, ते परिपन्थिनो मा विदन्। ‘विद ज्ञाने’। मा ज्ञासिषुः। पथि गच्छन्तौ दम्पती वधूवरौ। किञ्च सुगेभिः सुगमनैःपथिभिः दुर्गं दुर्गमं देशमतीताम् अतीत्य गच्छेतां दम्पती। किञ्चापद्रान्तु।‘द्रा कुत्सितायां गतौ’। अपसारिताः सन्तः कुत्सित गच्छन्तु पथः सकाशात्। अरातयोऽस्मच्छत्रवः। अस्य मन्त्रस्यानादिष्टदेवतात्वे विष्णोः प्रजापतेरग्नेर्वा प्रसादादिति वाक्यशेषः॥
सु॒म॒ङ्गलीरि॒यंव॒धूरि॒मांस॒मेतप॒श्य॑त।
सौभाग्य॑मस्यैद॒त्त्वायाथास्तं॒विपरे॑दन॥
(अष्ट० ८. अध्या० ३ व० २३.ॠ०. ३३)
वासेवासे सुमङ्गलीरियं वधूरिति ईक्षकानीक्षेत। सुमङ्गलीःसूर्यायाआर्षम्। अनुष्टुप् छन्दः। दम्पतिदिदृक्षवो जना उच्यन्ते। हल्ड्यादिलोपाभावःछान्दसत्वात्। सुमङ्गलीःशोभनवस्त्रालङ्कारानुलेपनादिमङ्गला इयंवधूरचिरोढा एवं ज्ञात्वा यूयं हे दिदृक्षुजनाः।समेत सङ्गच्छध्वम्।समेत्य चेमां वधूं सुमङ्गलां पश्यत कौतूहलापनोदनार्थम्। दृष्ट्वा चसौभाग्यम्। भगशब्दो धनवचनः। सौधन्यम्। अथवा भगशब्द उपस्थपर्यायः। सूपस्थत्वमस्यै वध्वै दत्त्वाय दत्त्वा अथानन्तरमस्तं गृहनामैतत्।स्वं स्वं गृहं वि परा इतन।विशब्दो वैविध्ये। विविधं नानाप्रकारं परेतननशब्दश्चोपजनः। परेत पराङ्मुखा गच्छत यूयम्॥
इ॒हप्रि॒यंप्र॒ज॑यातेस॒मृध्यतामस्मिन्गृ॒हेगाईपत्यायजागृहि।
ए॒नापत्य॑त॒न्व॑१॒॑संसृ॑जस्वाधा॒जिव्री॑वि॒दथ॒माव॑दाथः॥
( अष्ट० ८. अध्या० ३. व०. २५,ॠ०.२७)
‘इह प्रियं प्रजया ते समृध्यतामिति गृहं प्रवेशयेत्। इह प्रियंसू37र्याया आर्षम्। जगती छन्दः। गृहं प्रवेश्यमाना वधूरभिधेया। इहास्मिन् पतिगृहे मदीये वेश्मनीत्यर्थः प्रियं प्रीतिः प्रजया भाविन्या पुत्रपौत्रादिकया ते तव समृध्यतां सम्यग् वर्धताम्। अस्मिन् गृहे। सप्तमीनिर्देशात् स्थितेति वाक्यशेषः। अस्मिन् मदीये गृहेऽवस्थिता गार्हपत्याय गृहपतित्वाय गृहस्य स्वामिनीत्वाय जागृहि क्षीणनिद्रा यत्नवती भव, व्याप्रियस्वेत्यर्थः। एना अनेन मयापत्या। तन्वं शरीरमात्मीयं संसृजस्व संयोजय मां परिष्वजेथा इत्यर्थः।एवमुक्तेन प्रकारेण यौवनमनुनीय अथानन्तरं जिव्रीजीर्णौ38सन्तौ आवांदम्पती विदशम्। यज्ञनामैतत्।यज्ञम् आवदाथः।लोडर्थे पञ्चमोऽयं लकारःउत्तमस्य च स्थाने मध्यमः।आवदाव।श्रौतस्मार्तकर्मविषयां कथां कीर्तयिष्याव इत्यर्थः॥
अथ गृहप्रवेशनमन्त्र। व्याख्यायन्ते—
आनः॑प्र॒जांज॑नयतुप्र॒जाप॑तिराजर॒साय॒सम॑नक्त्वर्य॒मा।
अदु॑र्मङ्गलीःपपिलो॒कमावि॑शशन्नो॑भवद्वि॒पदे॒श॑चतु॑ष्पदे॥
अघो॑रचक्षु॒रपति॑घ्न्येधिशि॒वाप॒शु॒भ्य॑सु॒मनाः॑सुवर्चाः।
वीर॒सूर्दे॒वका॑मास्यो॒नाशन्नोभवद्वि॒पदे॒शंचतुष्पदे॥
इ॒मा॑त्वमि॑न्द्रमीद्वःसुपु॒त्रा॑सुभ॑गाँकृणु।
दशा॑स्यांपु॒त्रानाधे॑हिपति॑मेकाद॒शंकृ॑धि॥
स॒म्राज्ञी॒श्वयु॑रेभवस॒म्राज्ञी॑श्व॒श्वां॑भव।
नना॑न्दरिस॒म्राज्ञी॑भवस॒म्राज्ञी॒अधिदे॒वृषु॑॥
( अष्ट० ८. अध्या० ३. व० २८. ॠ०४३ - ४६ )
‘आनः प्रजां जनयतु प्रजापति’रिति चतसृभिः प्रत्यृचं जुहोति।आ नः प्रजां सूर्यायाश्चतस्रोऽपि39। आद्या जगती। द्वितीया त्रिष्टुप्\। तृतीयाचतुर्थ्यावनुष्टुभौ। प्रथमायाः पूर्वार्धर्चस्य प्रजापतिश्चार्यमा च देवता।उत्तरार्धर्चस्य वधूरेव। द्वितीयाचतुर्थ्योश्च वधूरेव।तृतीयाया इन्द्रः।आ नः प्रजाम्। ‘अस्मदो द्वयोश्चे’ति द्विवचनस्य स्थाने बहुवचनम्।नौ आवयोः प्रजां पुत्रपौत्रादिकाम् आजनयतु मर्यादयोत्पादयतु प्रजापतिः।किञ्च, आ जरसाय आ जराया यावज्जीर्णौतावत् समनक्तु सङ्गमयतुमैथुनयोगं नयतु अर्यमा देवः। किञ्च हे वधु ! अदुर्मङ्गलीरकुत्सितमङ्गलाकल्याणमङ्गला सती पतिलोकं मम पत्युर्गृहम् आविश।शं सुखं भव नःअस्माकम् , आवयोरित्यर्थः। द्विपदे मनुष्यादिकाय शमेव, चतुष्पदे पश्वादिकाय च सुखकरी भवेत्यर्थः॥
अघोरचक्षुरकुटिलचक्षुर भयङ्करदृष्टिः प्रसन्नदृष्टिरित्यर्थः। अपतिघ्नोपत्युर्ममाहन्त्री च वैधव्याप्रापकं कुर्वन्तीत्यर्थः। एधिभव।शिवा सुखाच भव। पशुभ्यो गवादिभ्यः पानीयभक्षणप्रदानेन सुमनाः कल्याणचित्ताभव। सुवर्चाःकल्याणदीप्तिश्च भव। निर्मलदेहेत्यर्थः। किञ्च वीरसूः,वीरशब्दः पुत्रवचनः। वीरानसूयत इति वीरसूः पुंप्रसूतिरित्यर्थः। देवकामा।देवशब्दः पितृमनुष्याणामप्युपलक्षणार्थः। देवपितृमनुष्येषु परिचर्येच्छा यस्याः सा देवकामा।देवपितृमनुष्यपरिचरणपरा च भवेत्यर्थः।स्योना। सुखनामैतत्। सर्वेषां सुखकरी च भव। किञ्चशन्नो भव द्विपदे शं चतुष्पदे इति व्याख्यातः पादः॥
इमां त्वम्। इन्द्रः प्रार्थ्यते वरेण। इमां वधूं त्वं हे इन्द्र ! मीढ्वः।‘मिह सेचने’। वृष्ट्युदकेन कृत्स्नस्य जगतः सेक्तः ḷ।अथवा मीढ्व इति धननाम तद्वान् मीढ्वान् तस्य सम्बोधनमिदं मीढ्व इति। धनवन्नित्यर्थः।सुपुत्रां शोभनपुत्रां सुभगां कल्याणधनां च कृणु कुरु। अस्यां वध्वां दशपुत्रान् दशसङ्ख्यान् पुत्रान् आवेहि आभिमुख्येन मर्यादया वा स्थापय।पतिंभर्तारं मामेकादशं कृधि, आवाभ्यां दशपुत्रान् देहीत्यर्थः॥
सम्राज्ञी श्वशुरे। वधूवरेणोच्यते। हे वधु !सम्राज्ञी।राजतिरैश्वर्यकर्मा सम्यगीश्वरी,स्वाधीनप्रवृत्तिरित्यर्थः। श्वशुरे मम पितरि भव। सम्राज्ञी श्वश्रवांमम मातरि।ननान्दरि सम्राज्ञी भव। भ्रातृभार्या भर्तृभगिनी चननान्दोच्येते। मद्भ्रातुभार्याविषये मद्भगिनीविषये वेश्वरी भव। सम्राज्ञी अधिवेतृषुदेवरेष्वित्यर्थः। अस्मद्भ्रातृविषये चेश्वरी भव। अभिशब्दः पादपूरणः॥
सम॑जन्तु॒विश्वे॑दे॒वाःसमापोहृद॑यानिनौ।
संमा॑तरि॒श्त्रा॒संधा॒तासमु॒देष्ट्री॑दधातुनौ॥
(अष्ट०८. अध्या० ३० व० २८. ऋ० ४७)
‘समञ्जन्तु विश्वेदेवाः’ इति दध्नःप्राश्य प्रतिप्रयच्छेदाज्यशेषेण वानक्ति हृदये। सूर्याया आर्षम्।अनुष्टुप् छन्दः। विश्वेदेवा देवता।समन्जन्तु सङ्गमयन्तु। विश्वेदेवाः नौ आवयोर्हृदयानि हृद्गतानि मनांसि मनोवृत्तीरित्यर्थः। आपश्च समुपसर्गाभ्यासादञ्जन्त्वित्यनुषङ्गः।समञ्जन्तु। मातरिश्वा वायुश्च समनक्तु वाता च समनक्तु। समु देष्ट्री दधातु नौ देष्ट्री नामान्तरिक्षस्थाना वाग्वादितिर्वा इहाभिप्रेता। सा च नौ आवा सन्दधातु सहितौ करोतु। यावज्जीवमथग्भूतौ करोत्वित्यर्थः। उकारः पादपूरणः॥
अथानुगतिमायश्चित्तम्। ‘यदि तूपशाभ्येत् पत्न्युपवसेदि’ त्येके। अपरे तु ‘अपिबोत्तरया जुहुयान्नोपवसेदि’ त्यापस्तम्बीयाः।
अयाश्चाग्नेऽस्यनभिशस्तीश्चसत्यमित्त्वमयाअसि।
अयसामनसाधृतोऽयसाहव्यमूहिषेऽयानोघेहिभेषजम्॥
स्वाहेत्येकामाहुतिं जुहोति। विश्वेदेवा ऋषयः। स्वराट् पङ्क्तिछन्दः। अग्निर्देवता। असि, ऊहिषे, धहि, इति मध्यमपुरुषयोगात् त्वमिति युष्मत्पदसमन्वयाच्च प्रत्यक्षकृतोऽयं मन्त्रः। अयाः अनभिशस्तीः घृत इति चा40नामन्त्रितानि। अतो यत्तच्छब्दावध्याहृत्यैकवाक्यता योज्या।हे अग्ने ! यस्त्वमयाः। अयतेर्गतिकर्मण औणादिकमेतद् रूपम्।सदा गन्तेस्पर्भः। अग्नेर्गन्तृत्वं कथमिति चेद्, दूतत्वश्रुतेः। तथाहि—‘त्वां दूतमग्ने!अमृतं’, ‘युगे त्वां दूतमरतिं हव्यवाहं’, ‘दूतो देवानामसि मर्त्यानामित्यादिषु बहुषु मन्त्रेषु दूतत्वं श्रूयते। अतो गन्तृत्वमुपपद्यते। हविर्वहनदेवताहानाद्यर्थं सदा गन्तेत्यभिप्रायः। चकारः समुच्चयार्थीयः।वक्ष्यमाणापेक्षश्चसमुच्चयः। असि भवसि। अनमिशस्तीश्च। छान्दसो दीर्घः। कर्मणि चायं क्तिन्प्रत्ययो द्रष्टव्यः।अभिशंस्तिर्गर्हानिन्देत्यनर्चान्तरम्। अनमिशंसनीयश्चासि। यस्त्वमनिन्धश्चासि केनापीत्ममिप्रायः। सत्यमित्त्वम्इच्छब्द एवार्थे त्वंशब्दात् परो द्रष्टव्यः।सत्यशब्दो जगत्कारणवचनः। तथाहि कक्षणवाक्यं “सत्यं ज्ञानमनन्तं ब्रह्मे"ति। तथैव सत्यशब्दो भगवता यास्केन निरुक्तः, ‘सत्यं कस्मात्। सत्सु तायते सत्प्रभवं वे’ति41। त्वमेव सत्यं जगत्कारणमित्यर्थः। कथमग्नेर्जगत्कारणत्वमिति चेदुच्यते। जगत्कारणकार्यत्वात्। अतः कार्यकारणयोरभेदोपचारनिबन्धनोऽयं व्यपदेशो द्रष्टव्यः। यथा सुवर्ण कुण्डलमिति। अथवा बैश्वानरोऽग्निर्जगत्कारणम्। कथं बैश्वानरस्य जगत्कारणत्वमिति चेदुच्यते। मन्त्रवर्णात्। ‘नाहं तन्तुं न विजानाम्योतुं’ ‘स इत्तन्तुं स विजानात्योतुमि’ति मन्त्रद्वयेन वैश्वानरस्य जगत्कारणत्वं प्रतिपादितम्। वैश्वानरोऽग्निर्जगत्कारणमस्तु। पार्थिवस्याग्नेर्जगत्कारणत्वे किमायातमिति42 चेदुच्यते। पार्थिव एवाग्निर्बैश्वानर इत्यभिप्रायः। तथाहि भगवता यास्केन सिद्धान्तितम्—‘अयमेवाग्निर्वैश्वानरः ’ इत्यादिना भाष्येण। अतः पार्थिवोऽग्निस्त्वमेव सत्यमिति वक्तुं युक्तम्। अया असि। अयतिरत्र पौनरुक्त्यपरिहारार्थं ज्ञानार्थो द्रष्टव्यः। गतिकर्मणां घातूनां ज्ञानकर्मत्वं शब्दविद्भिरभ्युपगम्यते। ज्ञातासि सर्वज्ञोऽसीत्यर्थः। यश्चत्वमयसा मनसा ज्ञात्रा मनसा ज्ञानपूर्वमित्यर्थः। धृतः आहवनीयादिरूपेण धारितः। अयसा अत्रापि मनसेत्यनुषक्तव्यम्। ज्ञानयुक्तेन मनसा सादरेण मनसेत्यर्थः। हव्यंहवनार्हं चरुपुरोडाशादि हविः। ऊहिषे। ‘वह प्रापण’ इत्यस्य सम्प्रसारणे कृते लटिमध्यमपुरुषैकवचनम्। वहसीत्यर्थः। स त्वम्, अया।तृतीयैकवचनान्तमेतत्। ‘अया ते अग्ने स समिषा विधेमे’ तिवत्43। अया। कया। सामर्थ्यादाज्याहुत्या।हेतावियं तृतीया। प्रयोजनस्य च हेतुत्वेन विवक्षा। इमामाज्याहुतिमुपभोक्तुमित्यर्थः। नः अस्मभ्यं, धेहि। दधातिर्दानार्थः। देहि। भेवजमनुगतस्याग्नेःसन्धानलक्षणमौषधम्। अग्निविच्छेददोषं नाशयेत्यभिप्रायः॥
अथौपासनहोममन्त्राः—
‘अग्नये स्वाहे’ ति सायं जुहुयात्। ‘सूर्याय स्वाहे’ति प्रातः। उभयत्र प्रजापतये(पतये ?) स्वाहेति द्वितीयो मन्त्रः। एते निगदसिद्धाः॥
अथ पार्वणस्थालीपाकः। तत्रब्रह्मणः परिग्रहपक्षेब्रह्माब्रह्मसदनात् तृणं प्रत्यदक्षिणा निरसेत्—
‘निरस्तः परावसुरि’ति।
वामदेवार्ष यजुरिदम्। परावसुरभिधेयः। निरस्तः। ‘असु क्षेपणे’निरुपसर्गो बहिःशब्दपर्यायः। निर्गत इति यथा। बहिः क्षिप्तः। अस्मात्स्थानादपगतः। अस्त्विति वाक्यशेषः। परावसुः परावसुर्नामासुरः कश्चित्।स चर्त्विजां स्थानेष्वास्ते। तृणनिरासेन च तन्निरासः क्रियते। तस्मात् तृणेनिरस्यमाने परावस्वध्यारोपं कृत्वा नरसिः कर्तव्यः॥
इदमहमर्वावसोःसदने सीदामीत्युपविशेत्।
वामदेवार्षं यजुरिदम्। अर्वावसुरभिधेयः। अहमिदं सदने।इदमिति सप्तम्या लुक्। अस्मिन् सदने स्थाने। अर्वावसोः अर्वावसुर्नाम कश्चिद्देवविशेषः। स चर्त्विजां स्थानेषु सीदति। अत एवमुच्यते अर्वावसोः सदनइति। सामीपिकं चैतदधिकरणम्। अर्वावसुस्थाने समीप इत्यर्थः। सीदाम्युपविशामि। स्वसमीपमुपविशन्तं मामर्वावसुरनुगृह्णात्वित्यगिप्रायः॥
दक्षिणतः कुशेषूपविश्य जपति—
बृहस्पतिर्ब्रह्मेति।
वामदेवस्य गायत्री छन्दः। बृहस्पतिर्देवता।बृहस्पतिः देवपुरोहितःब्रह्मा नाम ऋत्विग् भूत्वा ब्रह्मसदने ब्रह्मस्थाने आसिष्यते। व्यत्ययेनायं लडर्थेऌट्। आस्ते। नाहं मनुष्य इत्यर्थः। एतदुक्तं भवति —बृहस्पतिरेवाहंब्रह्मत्वं करोमि न मनुष्य इत्यात्मनि बृहस्पत्यध्यारोपः कर्तव्य इति।अतो बृहस्पतिरेवाहं ब्रह्मा भूत्वा ब्रह्मसदन आस इत्यर्थः प्रदर्शितो भवति॥
बृहस्पते ! यज्ञं गोपाय।
उत्तरोऽर्धर्चःप्रत्यक्षकृतः। अतो भिन्नं वाक्यम्।हे बृहस्पते ! यज्ञम्।‘तत् करोति तदाचष्ट’ (ग० सू० ३-१-२५) इति णिच्। ण्यन्तादपि क्विप्।‘णेरनिटि’ (६-४ ५१) इति णिलोपः। यज्ञशब्दः कर्तरि द्रष्टव्यः। यज्ञकर्तारंत्वदात्मनावस्थितमित्यर्थः। गोपाय रक्ष॥
तस्यै तस्यै देवतायै चतुरश्चतुरो मुष्टीनू निर्वपति पवित्रे अन्तर्धाय —
अमुष्मै त्वा जुष्टं निर्वपामीति।
वामदेवार्षं यजुः। निरुप्यमाणं हविरभिधेयम्।उद्देश्यदेवता वा। हे हविः ! व्रीहियवादिरूप !। अमुष्मै।अदश्शब्देनात्र चतुर्थ्यन्तेनोद्देश्यदेवतानामभिधेयमभिप्रेतमग्नये सूर्याय प्रजापतय इत्यादि। त्वात्वाम्। निर्वपामि। निर्वापो नाम संस्कारो देवतासात्कारलक्षणः। देवतासात्करोमि। देवतायै सङ्कल्पयामीत्यर्थः। कथम्। जुष्टम्। ‘जुषी प्रीतिसेवनयोः’। क्रियाविशेषणं चैतत्। यथा देवता मीणाति सेवते वा, तथा निर्वपामीत्यर्थः॥
अथैनान् प्रोक्षति यथानिरुप्तममुष्मै त्वा जुष्टं प्रोक्षामीति प्रोक्षणमन्त्रो निर्वापमन्त्रेण व्याख्यातः॥
इध्ममभ्याद ( दा? धा)ति ‘अयं त इध्म’ इत्यनेन मन्त्रेण।
अयं त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेद्ध वर्धय चास्मान् प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा ॥
वामदेवार्षं यजुरिदम्। अग्निर्जातवेदा देवता, शुद्धो वा। हे जातवेदः ! जातविद्य ! जातधनो वा। अयमिध्मः पञ्चदशदार्वात्मकः काष्ठकलापः। ते तवात्मा शरीरम्।साकाङ्क्षत्वादभ्याधीयत इति वाक्यशेषः। योऽस्माभिरभ्याहितः, तेनाभ्याहितेन इध्यस्व। ‘ञि इन्धी दीप्तौ’।दीप्यस्व।वर्धस्व च। बहुज्वालश्च भवेत्यर्थः। अस्मानपीद्ध। णिज्लोपो द्रष्टव्यः। इन्धय दीपय वर्धय च। न केवलान्, किं तर्हि। प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन। सहयोगलक्षण एतास्तृतीयाः। प्रजया पुत्रपौत्रादिकया सह। पशुभिर्गौमहिषाजादिभिः। ब्रह्मवर्चसेन। ब्रह्म वेदः, तज्जन्यं वर्चो ब्रह्मवर्चसं, तेन। एतदुक्तं भवति —वेदाध्ययनेन तदर्थज्ञानेन तदर्थानुष्ठानेन च या श्रीस्तयेत्यर्थः। अन्नाद्येन शालिगोधूमादिलक्षणेन च।समेधय सम्यक् वर्धय।उपक्रमवशात् समिद्धय चेति द्रष्टव्यम्। अथवा प्रजया पशुभिरित्यादि करणे तृतीया। प्रजादिभिरस्मान् संवर्धय घेति॥
अथ होममन्त्राः—
‘अग्नये स्वाहा44सोमाय स्वाहे’ ति आज्यभागमन्त्रौ निगदव्याख्यातौ।
‘अग्नये स्वाहा अग्नीषोमाभ्यां स्वाहे’ ति पौर्णमास्यां प्रधानहोममन्त्रौ।
‘अग्नये स्वाहा इन्द्राग्निभ्यां स्वाहे’ त्यमावास्यायाम्। एते च निगदव्याख्याताः।
स्विष्टकृद्धोममन्त्रः—
यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम्।
अग्निष्टत् स्विष्टकृद् विद्वान् सर्वं स्विष्टं सुहुतं करोतु मे॥
अग्नयेस्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे सर्वान् नः कामान् समर्धय स्वाहा॥
‘यदस्य कर्मणोऽत्यरीरिचमि’ति वामदेवार्षं यजुरिदम्। अग्निःस्विष्टकृद् देवता। अस्य प्रक्रान्तस्य कर्मणः सम्बन्धि यदत्यरीरिचम् अतिरेचितवानस्मि यदधिकं कृतवानित्यर्थः। यद्वा। वाशब्दश्चार्थे। यच्च न्यूनमपरिपूर्णमिह कर्मणि।अकरम्। वकारलोपो द्रष्टव्यः।अकरवं कृतवानस्मि। तत् सर्वमग्निःस्विष्टकृत्। दुरिष्टमपि स्विष्टं करोतीति स्विष्टकृत्।विद्वान् जानन्। किम्। सामर्थ्यात् स्वमधिकारं हविर्वहनादिकमस्मद्भक्ततां वा। स्विष्टं दुरिष्टमपि सु इष्टं सुपूजितं सगुणमित्यर्थः। तथा सुहुतंदुर्हुतमपि सुहुतं यथाशास्त्रं हुतं करोतु। मे मम स्वाहुतं मयानुष्ठितमित्याशासे। इत उत्तरं यच्छब्दाध्याहारेणैकवाक्यता योज्या। योऽग्निरस्माभिराशासितः45स्विष्टं सुहुतं करोत्विति, तस्मा अग्नये स्विष्टकृते सुहुतहुते।दुर्हुतमपि सुहुतं जुहोतीवि करोतीति सुहुतहुत्, तस्मै। यागहोमकर्तृत्वमग्नेरुपपन्नं होतृत्वात्। सर्वप्रायश्चित्तांहुतीनां सर्वस्य न्यूनातिरिक्तस्य कर्मणः प्रायश्चित्तार्थाहुतिः सर्वप्रायश्चित्ताहुतिः। प्रायो विनाशः, चित्तं सन्धानं, विनष्टस्य पुनः सन्धायिका आहुतिरित्यर्थः। तासां सर्वप्रायश्चित्ताहुतीनाम्।कामानाम्। काम्यत इति कामः कर्मफमभिप्रेतम्।कर्मफलानां चेत्यर्थः। समर्धयित्रे।समर्धनं नाम सगुणीकरणं, सगुणीकर्त्रइत्यर्थः। सम्प्रदानचतुर्थ्य एताः, न तादर्थ्यचतुर्थ्यः। अतो मन्त्रान्तेन स्वाहाकारेण सम्बन्धः कार्यः। कामानां समर्धयित्रे स्वाहेति मन्त्रशेषः प्रत्यक्षकृतः। अतो यत्तच्छब्दाध्याहारेण भाव्यमेकवाक्यतायै। योऽयमस्माभिरित्थं प्रार्थ्यते46 स त्वं नोऽस्माकं स्वभूतान् सर्वान् कामान् सर्वाः फलाभिलाषा इत्यर्थः। समर्धय सम्यग् वर्धय।प्रवृद्धान् सुसम्पूर्णान् कुर्वित्यर्थः॥
सर्वप्रायश्चित्तहोममन्त्राः—
अयाश्चाग्नेऽस्यनभिशस्तीश्चसत्यमित्त्वमया असि।
अयासावयसाकृतोऽयासन्हव्यमूहिषेऽयानोधेहिभेषजंस्वाहा॥
‘अयाश्चाग्नेऽसि’ वामदेवार्षः स्वराट् पङ्क्तिश्छन्दः। अग्निर्देवता। पूर्वार्धर्चोऽग्न्यनुगतिप्रायश्चित्तहोममन्त्रेण व्याख्यातः। उत्तरस्तु व्याख्यायते—यश्च त्वमयासा।छान्दसो दीर्घः। अयसा। अयशशब्दो हिरण्यनाम। सादृश्याद् वयोविशेषणं च। हिरण्यसदृशेन। हिरण्यसादृश्यं चोज्ज्वलत्वममृतत्वं च। तथाच श्रूयते ‘अमृतं वाज्यम् अमृतं हिरण्यमि’ति। हिरण्यवदुज्ज्वलेनामृतत्वहेतुना चेत्यर्थः। केन। वयसा।अन्ननामैतत्।आज्याहुतिलक्षणं चात्रान्नमभि प्रेतम्। आज्याहुतिलक्षणेनान्नेन।कृतो निर्मितः, वर्धित इत्यर्थः। यश्च त्वम् अयासन्। विसर्जनीयलोपो द्रष्टव्यः। अयाःसन्। तथाच कौषीतकिनां पाठः—‘अयाःसन् हव्यमूहिषे’इति। ज्ञाता सन्। किम्। सामर्थ्यात् स्वमधिकारमस्मद्भक्तां वायबुध्यमानः सन्नित्यर्थः। हव्यं हवनार्हं चरुपुरोडाशादि हविः ऊहिषे वहसि। स त्वम्। अया। तृतीयैकवचनान्तमेतत्। ‘अया ते अग्नेसमिधा विधेम’ इति यथा। अनया। कया। सामर्थ्यादाज्याहुत्या। हेतौ तृतीया।प्रयोजनस्य च हेतुत्वेन विवक्षा। इमामाज्याहुतिमुपभोक्तुमित्यर्थः। नोऽस्मभ्यम्। धेहि देहि। भेषजं47 वैगुण्ये48 समाधानलक्षणमौषधम्। पुरुषापराधकृतं वैगुण्यं नाशयेत्यभिप्रायः॥
“अतो देवा अवन्तु नः” इति द्वाभ्याम्।
अतो॑दे॒वाअ॑वन्तुनानो॒यतो॒विष्णु॑र्विचक्र॒मे।
पृ॒थि॒व्याःस॒प्तधाम॑भिः॥
( अष्ट० १ अध्या० २. व० ७. ॠ०१६)
उभयोर्मेधातिथिः काण्व ऋषिः। गायत्री छन्दः। विष्णुर्देवता। अतो विष्णुर्भगवान् वासुदेवो विचक्रमे विक्रान्तवान्। किम्। सप्तधामभिः। द्वितीया49र्थे तृतीया। सप्त धामानि।धामशब्दोऽत्र स्थानवचनः।भूरादीनि सत्यान्तानि स्थानानि। कुत आरभ्य पृथिव्याः आरभ्येति वाक्यशेषः।एतदुक्तं भवति—यो विष्णुर्भगवान् वासुदेवो बलिबन्धनकाले सुरैः समयं कृत्वा त्रिभिरात्मीयैः पदैः पृथिव्यादीन् सत्यान्तान् लोकान् विक्रान्तवान्, स विष्णुर्वैगुण्यजनिताद् दोषादस्मान् रक्षत्विति। तस्मै स्वाहा। अथवा, सप्तधामानि सप्तच्छन्दांसि गायत्र्यादीनि जगत्यन्तानि वेदितव्यानि। अस्मिन् पक्षे सप्तेति तृतीयाबहुवचनस्य लुग् द्रष्टव्यः। सप्तभिर्धामभिः। तृतीयानिर्देशात् स्तूयमान इति वाक्यशेषः। पृथिव्या इति च द्वितीयार्थे पञ्चमी षष्ठी वा। जात्यभिप्रायं चैकवचनम्। किं पृथिवीव्यक्तयो बह्वयः। ओमित्युच्यते। ‘यदिन्द्राग्नी अव50मस्यां पृथिव्यां’, ‘यदिन्द्राग्नी परमस्यां पृथिव्यामिति च मन्त्र वर्णात् पृथिवीबहुत्वं प्रतीमः। तथा द्वितीयस्यां पृथिव्यां तृतीयस्यां पृथिव्यामिति च तिस्रः पृथिवीः।त्रीन् लोकान् विचक्रम इत्यर्थः। एवं हि पौराणिका आहुः—बलिमखे वर्तमाने विष्णुमनरूपनास्थाय यज्ञवाटं गत्वा तत्रस्थः त्रैलोक्यं त्रिभिः पदैः प्रक्रान्तवानिति। अत उपपन्नतरं सप्तभिः छन्दोभिः स्तूयमानो विचक्रम इति। य इत्थंभूतो विष्णुस्तस्मै स्वाहेति॥
इ॒दं विष्णु॒र्विच॑क्रमेत्रेधानिद॑धेप॒दम्।
समु॑ह्लमस्यपांसु॒रे॥
(अष्ट० १. अध्या० २.व० ७.ऋ० १७)
“इदं विष्णुः”। इदमिति सर्वस्य प्रतिनिर्देशः। सर्वमिदं त्रैलोक्यंविष्णुर्जगत्कारणं परमात्मा वासुदेवो बलिबन्धनकाले बलियज्ञवाटे स्थित्वा विचक्रमे विक्रान्तवान्।केन प्रकारेण।त्रेधा स्थानभेदेन त्रिप्रकारम्।निदधे निहितवान्।पदमात्मीयं पदं त्रिषु स्थानेषु कृतवानित्यर्थः। पृथिव्यामन्तरिक्षे दिवि चेत्येके। समारोहणे51 विष्णुपदे गयशिरसि चेत्यन्ये। तच्च त्रिविधमपि समूहलम्52। ‘वह प्रापण’ इत्यस्य सम्पूर्वस्यैतद्रूपम्। सम्यगूढं प्रापितं सम्यक् प्रतिष्ठापितमित्यर्थः। अस्य विष्णोः स्वभूतं पदं पांसुरे। पांसवो यस्मिन् देशे सन्ति स पांसुरः। रो मत्वर्थीयः। लुप्तोपमं चैतद् द्रष्टव्यम्।पांसुर इव। यथा पांसुमति देशे सुप्रतिष्ठापितं पदं भवेत् तद्वदित्यर्थः। य इत्थम्भूतो विष्णुस्तस्मै स्वाहेति॥
भूः स्वाहेत्याद्या व्याहृतयो व्याख्याताः॥
हुत्वासंस्थाजपेनोपस्थानम्। संस्थाजपो नाम— “ओञ्चमे स्वरश्चमे " इत्ययंमन्त्रः।
ओंचमे॒स्वर॑श्चमेय॒ज्ञोप॑चते॒नम॑श्च।
यत्तेन्यूनंतस्मैतउपयत्ते॑तिरिक्तंतस्मेतेनमः॥
वामदेव ऋषिः। उपरिष्टाद् बृहती छन्दः। अग्निर्देवता। हे यज्ञ। यज्ञसाधनत्वाद् यज्ञशब्देनात्र तत्कर्मसम्बन्ध्यग्निरुच्यते। हे भगवन्नाग्ने। यज्ञसाधनभूत !।ओं च। ओंशब्देनात्र प्रणवादिविकारविकृतं क्रतुविनियुक्तं मन्त्रजातमभिप्रेतम्। तेन च। तत्साध्यं कर्म। क्रतुविनियोगविकृतमन्त्रसाध्यं कर्मेत्यर्थः। चकारः समुच्चयार्थः। वक्ष्यमाणापेक्षश्च समुच्चयः। मे मम स्वभूतं, मयानुष्ठितमित्यर्थः।स्वरश्व।स्वरशब्देनात्र त्रैस्वर्येण यथासमाम्नायमविकारेण प्रयुक्तं मन्त्रजालमभिप्रेतम्। अत्रापि चकारः समुच्चयार्थः। पूर्वापेक्षश्चसमुच्चयः। मे मम स्वभूतं मयानुष्ठितमित्यर्थः। अत्र पदान्वयसामर्थ्याद् यच्छब्दाध्याहारः कर्तव्यः। यत् कर्म विकृताविकृतमन्त्रसाध्यं विगुणं मयानुष्ठितं, तदूगतदोषापनुनुत्सया ते तुभ्यं त्वदर्थम्53। उपशब्देनार्थसामर्थ्यादुपस्थानमुच्यते। उपस्थानं च नमस्कारश्व। क्रियत इति वाक्यशेषः। तत्रोपस्थाननमस्कारयोर्विषयभेदमाह —यत् ते तवसम्बन्धि कर्म न्यूनमपरिपूर्णं मयानुष्ठितं, तस्मै।तादर्थ्य54चतुर्थी। तादर्थ्यं च नाशः, मशकेभ्यो धूम इति यथा। तन्नाशाय।न्यूनकृतदोषनाशायेत्यर्थः। ते तुभ्यम् उपस्थानं, क्रियत इति वाक्यशेषः। यच्च ते तव सम्बन्धि कर्मातिरिक्तं मयानुष्ठितं, तस्मै तन्नाशाय अतिरेकदोषनाशायेत्यर्थः। ते तुभ्यं नमः। क्रियत इति वाक्यशेषः। एतदुक्तं भवति —यच्छ्रौतस्मार्तलक्षणं कर्म प्रणवादिविकारविकृतमन्त्रसाध्यमविकृतमन्त्रसाध्यं च न्यूनातिरेकदोषं मयानुष्ठितं, तद्गतन्यूनातिरेकदोषनिर्घातार्थमुपस्थानं च नमश्च क्रियते। व्यवस्थया न्यूनकृतदोषनिर्घातार्थमुपस्थानम्। अतिरेकदोषनिर्घातार्थं नमस्कार इति॥
अथ पशुकल्पमन्त्रा व्याख्यायन्ते। तत्राज्याहुतिहोममन्त्रौ— ‘अग्निंदूतमिति द्वाभ्यां हुस्वे’ति।
अ॒ग्निदू॒तंवृ॑णीमहे॒होता॑रंवि॒श्ववे॑दसम्।
अ॒स्यय॒ज्ञस्य॑सु॒क्रतु॑म्॥
(अष्ट० १. अध्या० १ व०. २२. ऋ० १ )
अ॒ग्निम॑ग्निं॒हवी॑मभिः॒सदा॑हवन्तवि॒श्पति॑म्।
ह॒व्य॒वाहं॑पुरुप्रि॒यम्॥
(अष्ट०१. अध्या० १. व० २२. ऋ०२)
द्वयोरपि मेधातिथिः काण्व ऋषिः। गायत्र्यौ।अग्निर्देवता। अग्निंदूतम्। सन्देशेन यः प्रेष्यते, स दूत इत्युच्यते। अग्निं दूतं देवान् प्रति सन्देशेन गन्तारम्। वृणीमहे। वरणमभ्यर्थना। अभ्यर्थयामहे। न केवलं दूतमेव, किं तर्हि। होतारं च। तथाच श्रुतिः —‘अग्निर्वैदेवानां होतासीदि’ ति। तेनद्यधिष्ठितो मानुषो होता हौत्रं कर्तुं शक्नोति, नानाधिष्ठितः। क्रियाशब्दो होतृशब्दः। आह्वातारं च देवानाम्। कीदृशम्। विश्ववेदसम्।वेद इति धननाम, प्रज्ञानाम वा। सर्वधनं सर्वप्रज्ञं वा। कस्य होतारम्। अस्य प्रक्रान्तस्य यज्ञस्य। सुक्रतुं सुकर्माणं सुप्रज्ञं वा55। यत इत्थंभूतोऽग्निः तस्मै स्वाहेति वाक्यशेषः। अग्निमग्निम्।यावान् कश्चिदग्निः, तं सर्वमग्निम्।हवीमभिः आह्वानैः। सदा सर्वदा। हवन्त आह्वयन्ति, यष्टार इति शेषः। विश्पतिं मनुष्याणां स्वामिनम्।हव्यवाहं हविषां वोढारम्। पुरुप्रियं बहूनामिष्टम्। य
इत्थम्भूतोऽग्निस्तस्मै स्वाहेति वाक्यशेषः॥
‘सपलाशयार्द्रशाखया पश्चादुपस्पृशेदमुष्मै त्वा जुष्टमुपाकरोमी’ति। वामदेवार्षं यजुरिदम्। पशुरभिधेया। पशुर्देवता वा। अमुष्मै त्वा जुष्टमिति पदत्रयं हविर्निर्वापमन्त्रेण व्याख्यातम्। उपाकरोमि। उपाङ्पूर्वः करोतिरिहोपस्पर्शनार्थः। शाखयोपस्पृशामीत्यर्थः। प्रोक्षणमन्त्रोऽनेन56व्याख्यातः। अन्यत् सर्वं निगदसिद्धम्॥
अथ चैत्ययज्ञमन्त्राः। ‘यद्यु वै विदेशस्थं पलाशदूतेन यत्र वेत्थ वनस्पत इत्येतयचो द्वौपिण्डौ कृत्वा वीवधेऽभ्याधाय दूताय प्रयच्छेत्’।
यत्र॒वेत्थ॑वनस्पतेदे॒वानां॒गुह्या॒नामा॑नि।
तत्र॑ह॒व्यानि॑गामय॥
(अष्ट० ३. अध्या० ८. व० १९.ऋ० १०)
वसुश्रुत आत्रेय ऋषिः। गायत्री छन्दः। पलाश57दूतो देवता।
पलाशदूते च हविर्वहनाद्यग्निधर्मारोपो द्रष्टव्यः। वनस्पतिशब्देनापि अग्निरेवोच्यते। तथैव भगवतो यास्कस्य वचनं58—‘को वनस्पतिर्यूप इति। कार्थक्योऽग्निरिति शाकपूणिरि’ ति। एतदपि वचो वनस्पतिशब्दवाच्यस्य देवान् प्रति हविर्वहनदर्शनादिति मन्तव्यम्। कस्मिन् मन्त्रे दर्शनमिति चेत्। ‘वनस्पते रशनयानियूये’त्यस्मिन्। हे वनस्पते ! भगवन्नग्ने! यत्र देशे। सप्तमीनिर्देशात् स्थितानामिति वाक्यशेषः। देवानां नामानि। कीदृशानि। गुह्या गुह्यानि गूढानि अवैदिकैरज्ञातानि यविष्ठो वृत्रहा पूषा अर्यमा अंश इत्यादीनि। वेत्थ जानासि। नामज्ञानेन चात्र नामवतामेव देवानां ज्ञानं लक्ष्यते। यत्र देशे स्थितान् देवान् जानासीत्यर्थः। तत्र देशे। हव्यानि हवींषि गमय प्रापय। तान् देवान् प्रति हविः प्रापयेत्यर्थः॥
इमं तस्मै बलिं हरेति चैनं ब्रूयात्।
वामदेवर्षो निगदोऽयम्। दूतोऽभिधेयः। हे दूत ! इमं बलिं तस्मै चैत्याय देवाय। कस्मा इति चेत्, यो मया प्रार्थितोऽस्मिन् कामे प्राप्ते त्वामनेन हविषा यक्ष्य इति तस्मै हर प्रापय गमय प्रयच्छेत्यर्थः॥
अयं तुभ्यमिति यो दूताय।
वामदेवार्षं यजुरिदम्। दूत एवाभिधेयः। हे दूत ! अयं पिण्डस्तुभ्यमस्माभिः प्रदीयत इति वाक्यशेषः॥
‘नाव्या चेन्नद्यन्तरा प्लवरूपमपि किञ्चिदनेन तरितव्यमि’ त्यनेन मन्त्रेण। वामदेवार्षं यजुः59। दूत एवाभिधेयः। हे दूत ! अनेन प्लवेन तरितव्यं नद्याउत्तरणं कर्तव्यं, भवतेति वाक्यशेषः॥
अथ पुंसवनानवलोभनयोर्मन्त्रः—
** किं पिबसिकिं पिबसीसि पृष्टा पुंसवनं पुंसवनमिति त्रिः प्रतिजानीयात्।**
एतद्यजुर्द्वयं प्रश्नप्रतिवचनरूपम्। वामदेवार्षम्। अन्तर्वत्नीदैवतः प्रश्नः। भर्तृदैवतः प्रतिवचनः। हे अन्तर्वत्नि! किं कस्यापादकं, स्त्रीस्वापादकमुत पुंस्त्वापादकमिति प्रश्नार्थः। पिबसि। एतदुक्तं भवति —त्वया पीयमानमिदं वस्तु गर्भस्य स्त्रीत्वकारणमाहोस्वित् पुंस्त्वकारणमिति।पुंसवनम्। पुमांसमनेन सूयत इति करणे ल्युट्। आहितस्य गर्भस्य पुंस्त्वापादकमित्यर्थः। पिबामीति वाक्यशेषः॥
अथवास्यै मण्डलागारच्छायायां दक्षिणस्यां नासिकायामजीतामोषधीं नस्तः करोति। प्रजावज्जीवपुत्राभ्यां हैके।
आतेगर्भोयोनिमेतुपुमान्वाणइवेषुधिम्।
आवीरोअत्रजायतांपुत्रस्तेदशमास्यः॥
‘आ ते गर्भ’ इति पञ्चर्चमानुष्टुभं सूक्तं प्रजावान् प्राजापत्यो ददर्श। प्रथमाद्वितीये अन्तर्वत्नीदैवते। तृतीयायाः पूर्वार्धर्चोऽन्तर्वस्नीदैवतः, उत्तरस्तु वैश्वदेवः। चतुर्थ्यन्तर्बत्नीदैवत्या।पञ्चमी वायव्या। हे अन्तर्वत्नि ! ते तव स्वभूतां योनिं गर्भाशयस्थानम्। गर्भः। कीदृशः। पुमान् भविष्यन्।आ एतु आगच्छतु प्रविशतु। किमिव। बाण इवेषुधिं तद्वत्। यथा बाणः इषुधिम्। अत्र तव योनौ। सप्तमीनिर्देशात् प्रविष्ट इति वाक्यशेषः। गर्भो दशमास्यः।दशमासेषु त्वदुदरेपरिवृद्धः सन्।जायतामुत्पद्यताम्। वीरः पुत्रः शत्रुनिरसनसमर्थः। स्वचोदितकर्मानुष्ठानदक्षो वा। अथवात्रेति सप्तमी पञ्चम्यर्थे। अस्मिन् पक्षे जायतामित्यनेन सम्बन्धोऽस्माद् योनेर्जायतामिति॥
करोमितेप्राजापत्यमागर्भोयोनिमेतुते।
अनूनः पूर्णोजायतामनन्धोऽश्रोणोऽपिशाचधीतः॥
हे अन्तर्वत्नि ! ते तवमम च। प्रदर्शनार्थत्वात् तेग्रहणस्य आवयोरित्यर्थः। प्राजापत्यं प्रजायाः पातृत्वं करोमि। गर्भश्च तवयोनिमा एतु प्रविशतु। प्रसववेलायां स गर्भोऽनूनः अन्यूनाङ्गः, पूर्णः अनतिरिक्ताङ्गश्चेत्यर्थः। जायतामुत्पद्यताम्। अनन्धः चक्षुरिन्द्रिययुक्तः। अश्रोणः श्रोणशब्दो बधिरपर्यायः। ‘प्रान्धं श्रोण60ञ्चक्षस एतवैकृथः’ इति यथा। अबधिरः समग्रश्रोत्रेन्द्रिय इत्यर्थः। अपिशाचधीतः। धीत इति ‘धेट् पाने’ इत्यस्य ‘ध्यै चिन्तायामि’त्यस्य वा रूपम्। अपिशाचधीतः। पिशाचैः अधीतः अपीतः अभक्षितः अहिंसित इत्यर्थः। अथवा पिशाचैरचिन्तितोऽस्मृत इत्यर्थः॥
पुमांस्तेपुत्रोऽनादितंपुमाननुजायताम्।
निभद्राणिवीजान्यृषभाजनयन्तिनः॥
हे अन्तर्वत्नि ! ते तव त्वत्तो वा पुमान् पुत्रः पुरुमनाः पुत्रः समाज्जायमानः। अनादि। नदतेः स्तुतिकर्मणश्चिण्प्रत्ययान्तमेतद्रूपम्। अस्तावि स्तूय61तामित्य62र्थः। तं च पुमांसं जायमानं पुमानेवानुजायताम्। किञ्च, यानि बीजानि शुक्लशोणितलक्षणानि भद्राणि भजनीयानि। भन्दनीयानि वा। यच्छब्दश्रुतेस्तच्छब्दाध्याहारः। तानि बीजानि। ऋषभाः कामानां वर्षितारः प्रधाना वा के ते सामर्थ्याद् विश्वे देवाः। जनयन्ति। लोडर्थे लट्। जनयन्तु उत्पादयन्तु। नः ‘अस्मदो द्वयोश्च’ (१-२-५९) इति द्विवचनस्य स्थाने बहुवचनम्। आवयोः स्वभूतानीत्यर्थः॥
तानिभद्राणिबीजान्यृषभाजन यन्तिनो।
तैस्त्वं पुत्रान्विन्दस्वसाप्रसूर्धेनुकाभव॥
तानि। इह व्याख्यातोऽयमर्धर्चः पूर्वेण। अयं तु विशेषः—तैस्स्वमिस्युत्तरार्धचर्चेतच्छन्दश्रवणात् पूर्वार्धर्चे तानीति तच्छब्दो यच्छब्दार्थे। तानि भद्राणि। यानि भद्राणीत्यर्थः। पूर्वार्धर्चेनप्रार्थितस्यार्थस्यानुवादोऽयम। तैरुक्तलक्षणैर्वीजैस्त्वं पुत्रान् विन्दस्व लभस्व। सा त्वं प्रसूः प्रकृष्टसूः प्रकृष्टापत्योत्पादिका भव। घेनुका च। ‘घेट् पाने’। पानयोग्यस्तना च।बहुक्षीरा चेत्यर्थः। भव॥
कामः ( स १ प्र ) मृध्यतां मह्यमपराजितमेवमे।
यंकामंकामयेदेवत॑मेवायोसमर्धय॥
कामः पुत्रविषयाभिलाषः। प्रमृध्यताम्। मृधिःसङ्ग्रामार्थोऽन्यत्र। इह तु पूर्वसामर्थ्यात् संपत्त्यत्यर्थः। सम्पद्यतामित्यर्थः। मह्यमपराजितमेव मे। भावे निष्ठा। एवशब्दश्च63र्थे। शत्रुभिरपराजयश्च मे ममैव भवतु। हे वायो। भगवन् ! देव ! दानादिगुणयुक्त ! ( यं) कामं पुत्रपौत्रादिलक्षणं कर्मफलम्। कामये प्रार्थये। तं कामं समर्धय सम्पादय।आवाभ्यां देहीत्यभिप्रायः॥
अग्निरैतुप्रथमोदेवतानांसोऽस्यैप्रजांमुञ्चतुमृत्युपाशात्।
तदयंराजाबरुणोऽनुमन्यतांयथेयंस्त्रीपौत्रमधंनरोदात्॥
अग्निरैत्विति। पञ्चर्चमुत्तरं सूक्तम्। आङ्गिरसो जीवपुत्रोऽपश्यत्। प्रथमापञ्चम्यौ त्रिष्टुभौ। द्वितीया जगती। तृतीयातिजगती। चतुर्थ्यनुष्टुप्। प्रथमाग्निवारुणी। द्वितीयाचतुर्थ्यावाग्नेय्यौ तृतीयापञ्चम्यावन्तर्वत्नीदेवत्ये।
अग्निरैतु आगच्छतु कर्माङ्गभावाय। कीदृशः। प्रथमो मुख्यः देवतानामिन्द्राद्यानाम्। एत्य च सोऽग्निः अस्यै अस्याः। षष्ठ्यर्थे चतुर्थी। अस्या अन्तर्वत्न्याप्रजां पुत्रपौत्रा64दिलक्षणां मुञ्चतु मोचयतु। कुतः। मृत्युपाशाद् गर्भव्यसनलक्षणात्। यदिदं मया प्रार्थ्यते, तदयमपि राजा वरुणोऽनुमन्यताम् अनुजानातु। यथा चेयं स्त्री पौत्रमघं पुत्रनिमित्तमघं दुःखम्, प्रतीति वाक्यशेषः। न रोदात् न रोदिति, तथाच संपादयत्विति वाक्यशेषः॥
इमामग्निस्त्रायतांगार्हपत्यःप्रजामस्यैनयतुदीर्घमायुः।
अशून्योपस्थाजीवतामस्तुमातापौत्रमानन्दमभिप्रमृध्यतामियम्॥
इमामन्तर्वत्नीम्। अग्निस्त्रायतां रक्षतु गर्भानवलोभनेन। गार्हपत्यः। गृहा दाराः, पतिर्वरः, तत्संयोगनिमित्त65मौपासनाग्निरित्यर्थः। किञ्च, प्रजामस्यै अस्याः नयतु गमयतु। दीर्घमायुः शतसंवत्सरलक्षणं जीवनम्। किञ्चामिप्रसादादेवेयमशून्योपस्था66अरिक्तोपस्था प्रजासंयुक्ता। का। जीवतामायुष्मतां मे पुत्राणां माता निर्मात्री उत्पादयित्री अस्तु भूयात्। किञ्चाग्निप्रसादादेव पौत्रं पुत्रनिमित्तमानन्दं हर्षम् अभिप्रमृध्यताम्। मृधिरत्र सामर्थ्याद् गत्यर्थः। आभिमुख्येन प्राप्नुयादित्यर्थः। इयं गर्भिणी स्त्री॥
मातेगृहेनिशिघोषउत्थादन्यत्रत्वद्रुदत्यः संविशन्तु।
मात्वंविकेश्युरआवधिष्ठाजीवपत्नी पतिलोके विराजपश्यन्तीप्रजां सुमनस्यमाना॥
मा ते गृहे। हे अन्तर्वत्नि ! ते तव स्वभूते गृहे वेश्मनि। निशि मध्यरात्रे।घोषः शब्दो रोदनलक्षणः मा उत्थात् मोत्थिष्ठतु।रोदनध्वनिर्नोत्पद्यतामित्यर्थः। तथा रुदत्यो रोदनं कुर्वत्यः स्त्रियः त्वत् त्वत्तोऽन्यत्र त्वत्समीपाद देशान्तर इत्यर्थः। संविशन्तु सह प्रविशन्तु। किञ्च त्वं त्वमपि विकेशी विमुक्तकेशी सती उरो भुजमध्यमात्मीय वक्ष इत्यर्थः। मावधिष्ठाः मावधीः। केशान् विकीर्यो रस्ताडनानिमित्तं दुःखं कदाचिदपि मा भूदित्यर्थः। अपरेऽपरथा पाठं कुर्वन्ति—‘मा त्वं विकेशिनमावधीष्टे ति। तस्मिन् पक्षे एवमर्थयोजना—विकेशिनम्।छान्दसः पुल्लिँङ्गनिर्देशः। द्वितीया च प्रथमार्थे।क्रियाविशेषणं चैतत्। विकेशी मावधीष्ट।वचनव्यत्ययः। मावाधिष्ठा इत्यर्थः। अस्मिन् पक्ष उर इति वाक्यशेषः। आत्मानमिति वा। किञ्च जीवपत्नी। बहुव्रीहिसमासान्तमेतत् पदम्। जीवः पतिरस्याः सा जीवपत्नी अथवा षष्ठीसमासान्तमेतत्। जीवतो मम पत्नी यज्ञसंयुक्ता। ‘पत्युर्नोयज्ञसंयोगे’ (४-१-३३) इति स्मृतेः। जीवता सता मया सार्धं यज्ञेऽधिकृता सतीत्यर्थः। पतिलोके। लोकशब्दः स्थानवचनः।पत्युर्मम गृह इत्यर्थः। विराज विविधं दीप्यस्व। पश्यन्ती प्रजां पुत्रपौत्रादिलक्षणां, सुमनस्यमाना शोभनमनस्त्वमाचरन्ती कल्याणमनस्केत्यर्थः॥
अप्रजस्तांपौत्रमृत्युंपाप्मानमुतवाघम्।
शीर्ष्णःस्रजमिवोन्मुच्यद्विषद्भ्यः प्रतिमुञ्च मिपाशम्॥
अप्रजस्तामनपत्यत्वम्। पौत्रमृत्युं पुत्रस्येदं पौत्रं मृत्युं मरणं पुत्रनाशमित्यर्थः। पाप्मानम्। पापं वाचिकं पापं, बुद्धिपूर्वं वा। उत वा। उतशब्दोऽप्यर्थे। वाशब्दश्चार्थे। अपिचाघं कायिकं पापं बुद्धिपूर्वं वा कृतम्।शीर्णः शिरसः। स्रजमिव भुक्तपूर्वांमालामिव उन्मुच्य आच्छिद्य द्विषद्भ्यः।तादर्थ्येएषा चतुर्थी। तादर्थ्यं च नाशः। मशकेभ्यो धूम इति यथा। शत्रूणां नाशार्थमित्यर्थः। प्रतिमुञ्चामि प्रतिमोक्ष्यामि। पाशम्। ‘पश बन्धन’ इत्यस्यैतद्रूपम्। पाशयतेर्वा। शत्रूणां बन्धकमित्यर्थः॥
देवकृतं ब्रह्मणंकल्पमानंतेनहन्मियोनिषदःपिशाचान्।
क्रव्यादोमृत्यूनधरानूपातयामिदीर्घमायुस्तवजीवन्तुपुत्राः॥
देवकृतं देवार्थं कृतं देवतृप्त्यर्थं कृतमुपक्रान्तमित्यर्थः। ब्र67ह्मणम्। बृहते68वृद्धिकर्मण एतद्रूपम्। प्रवृद्धं, समग्रमित्यर्थः। कल्पमानम्। ‘कृपू सामर्थ्ये’ इत्यस्य कर्मणि छान्दसो यग्लोपो द्रष्टव्यः। कल्प्यमानं समर्थ्यमानं, सगुणमनुष्टीयमानमित्यर्थः। किं तत्। सामर्थ्याद् यदिदमनवलोभनलक्षणं कर्म। तेनानेन कर्मणा हन्मि नाशयामि। योनिषदः योनौ गर्भाशये सीदन्तीति योनिषदः। तान् पिशाचान् गर्भध्वंसनकरान् कुमारग्रहान्। कीदृशान्। फ्रव्यादो मांसादान्। मृत्यून् गर्भाणां मारयितॄन्। हत्वा अघरान् भूतले शयानान्, निर्वीर्यानित्यर्थः। पातयामि। एवं सगुणेऽस्मिन्कर्मण्यनुष्ठिते हे अन्तर्वत्नि ! दीर्घमायुः सुचिरं कालं शतसंवत्सरलक्षणम्। तव पुत्रा आवयोः पुत्रा इत्यभिप्रायः। जीवन्तु प्राणान् धारयन्तु॥
हृदयदेशमस्या आलभेत ‘यत्ते सुसीम’ इति।
यत्तेसुसीमेहृदयेहितमन्तःप्रजापतौ।
मन्येऽहंमांतद्विद्वांसमाहपौत्रमघंनियाम्॥
वामदेवार्षम्। अनुष्टुप् छन्दः, अन्तर्वत्नीदेवता। हे अन्तर्वत्नि। यत् ते तव। स्वभूते हृदये हृदयसमीपे कुक्षावित्यर्थः। कीदृशे। सुसीमे शोभनमर्यादे निर्व्यसन इत्यर्थः। हितं निहितं मया। किं तत्। सामर्थ्याच्छुक्लम् अन्तः प्रजापतौ। लुप्तोपममेतत्। प्रजापतिमध्य इव सुक्षेम इत्यर्थः। अथवान्तःशब्दो हृदय इत्यनेन समानाधिकरणः तेन शब्देन सम्बध्यते। प्रजापतिशब्दश्च क्रियावचनपत्यभिधानो हितमित्यनेन सम्बध्यते। सप्तमी च तृतीयार्थे। कोऽर्थः। तवान्तर्हृदये सुसीमे मया प्रजानां पालयित्रा पत्या निहितं यच्छुक्लमिति। तच्छुक्लमहं मां विद्वांसमेव मन्ये, मदङ्गेभ्यः सम्भूतत्वात्। तथाच मन्त्रवर्णः’अङ्गादङ्गात् सम्भवसी’ति। अतः पौत्रमघंपुत्रनिमित्तदुःखम्। अहं मा नियां मा गां मा प्राप्नुयामित्याशासे॥
चतुर्थे गर्भमासे सीमन्तोन्नयनमिति प्रकृत्य समन्वारब्धायां ‘धाता ददातु दाशुष’ इति द्वाभ्याम्। जुहुयादित्यध्याहारः।
धाताददानुदाशुषेप्राचींजीवातुमक्षिताम्।
वयंदेवस्यधीमहिसुमर्तिवाजिनीवतः॥
धाता ददातु। वामदेवार्षम्। अनुष्टुप् छन्दः। धाता देवता। धाता मध्यस्थानो देवः ददातु।दाशुषे। व्यत्ययेनायं वर्तमाने क्वसुर्द्रष्टव्यः। हवींषि ददते यजमानाय मह्यम्। किं ददातु, प्राचीं प्रागूभवित्रीं प्रवृद्धामित्यर्थः। कां पुनः ताम्।जीवातुं जीवनकर्म जीविकामित्यर्थः। कीदृशीम्। अक्षितां क्षयव र्जितामविच्छिन्नामित्यर्थः। तस्मादेवं ब्रूमः—यस्माद् वयं देवस्य दानादिगुणयुक्तस्य तस्य धातुर्धीमहि ध्यायामः।ध्यानेनात्र तत्पूर्वकं करणं लक्ष्यते। कुर्म इत्यर्थः। किम्। सुमतिम्। मन्यतेरर्चतिकर्मत्वान्मतिः स्तुतिरिहाभिप्रेता। शोभनां स्तुतिम्। कीदृशस्य वाजिनीवतः69। वाजो हविर्लक्षणम्। तद्वती वाजिनी यागसन्ततिः, तद्वान् वाजिनीवान्, तस्य॥
धाताप्रजानामुतरायईशेधातेदं विश्वंभ्रुवनंजजान।
धाताकृष्टी रनिमिषाभिचष्टेधात्रइद्धव्यंघृतवज्जुहोत॥
धाता प्रजानाम्। वामदेवस्य।त्रिष्टुप् छन्दः। धाता देवता। अत्रैकवाक्यताप्रसिद्धयर्थं यत्तच्छब्दावध्याहार्यौ। यो धाता प्रजानाम्।प्रजायन्त इति प्रजा मनुष्यादिप्राणिनः इहाभिप्रेयन्ते। स्थावराणामप्युपलक्षणं प्रजाग्रहणं द्रष्टव्यम्।कृत्स्नस्य चराचरस्य जगत इत्यर्थः। उतेत्यप्यर्थे।रायः मम धनस्य च ईशे ईष्टे। घाता घातैव। इदं विश्वं सर्वं भुवनं जजान वृष्ट्याद्यनुप्रदानेन जनितवान्। धाता धातैव। कृष्टीः। कृष्टय इति मनुष्यनाम। मनुष्यादिप्राणिजातीः। अनिमिषा अनिमेषेण अनुपरमेण सततमित्यर्थः। अभिचष्टे अभिपश्यति, लोकपालत्वात्। तस्मै धात्रे लोकपालाय। इत्70 पादपूरणः। हृव्यं हृविः। पुरोडाशलक्षणम् आज्यलक्षणं वा। घृतवत्। यदि पुरोडाशलक्षणम्, उपस्तरणाभिधारणे घृतेन।तद्वत्। अथाज्यलक्षणं, क्षरणवद्, विलीनमित्यर्थः। जुहोत। ऋत्विजामयं सम्प्रैषः पुरोडाशपक्षे। यद्याज्यं, पुरुषवचनलकारव्यत्ययः जुहोमीति॥
रा॒कम॒ह॑सु॒हवा॑सुष्टु॒तीहु॑वेशृणोतु॑नः सु॒भगा॒बोध॑तु॒त्मना॑।
सीव्य॒त्वपः॑सू॒च्याच्छि॑द्यमानया॒ददा॑तुवी॒रंश॒तदा॑यमु॒क्थ्य॑म्॥
(अष्ट० २. अध्या० ७. व० १५.ॠ० ४)
राकामहम्। आङ्गिरसो भार्गवो वा गृत्समद ऋषिः। जगती छन्दः। राका देवता। राकां मध्यस्थानां कालविशेषलक्षणाम्। अधिदेवतां वा। अहं गृत्समदः। सुहवां सुह्वानां शोभनस्तुतिकाम्। सुष्टुती। अत्र तृतीयैकवचनस्य पूर्वसवर्णः। सुष्टुत्या शोभनया स्तुत्या। हुवे।ह्वयतेर्लटि आत्मनेपदोत्तमपुरुषैकवचने ‘बहुलं छन्दसि’ (६-९-३४) इति सम्प्रसारणे शपश्च लुकि कृते सत्येत71द्रूपम्। ह्वयामीत्यर्थः। सा चाहूयमाना शृणोतु, आह्वानमिति शेषः। नोऽस्माकं स्वभूतम्। कीदृशी।सुभगा सुधना। श्रुत्वा च बोधतु बुध्यताम्। त्मना आत्मनैव यदस्माकं कर्तव्यम्। किं पुनस्तदुच्यते। सीव्यतु सन्तमोतु। अपः। कर्मनामैतत्। प्रजोत्पत्तिलक्षणम्। सूच्या पुत्रपौत्रादिसन्ततिलक्षणया। अच्छिद्यमानया सन्ततया। ददातु वीरम्।वीरशब्दः पुत्रवचनः।‘धत्तं रयिं सहवीरमि’ ति यथा। शूरं पुत्रम्। कीदृशम्। शतदायम्। शतमिति बहुनाम। बहूनां दातारमर्थिभ्य इत्यर्थः। उक्थ्यम्। प्रशस्यनामैतत्। प्रशस्यं वक्तव्यं प्रशस्यमित्यर्थः॥
यस्ते॑राकेसुम॒तयः॑सु॒पेश॑सो॒याभि॒र्ददा॑सिदा॒शुषे॒वसू॑नि।
ता॑भिर्नोअ॒द्यसुम॒ना॑उ॒पाग॑हिसहस्रपोषंसु॑भगे॒ररा॑णा॥
(अष्ट० २. अध्यः ० ७. व० १५. ॠ० ५)
यास्ते राके। गार्त्समदीयम्। जगती (छन्दः)। राका72देवता। हे राके ! यास्ते तव च स्वभूताः सुमतयः शोभनमतयः अनुग्रहात्मिका बुद्धयः। सुपेशसः।पेश इति रूपनाम।सुरूपाः। याभिः सुमतिभिर्ददासि प्रयच्छसि दाशुषे यजमानाय वसूनि धनानि। ताभिः सुमतिभिर्युक्ता त्वं नोऽस्मभ्यम्। सहस्रपोषम्। सहस्रमिति बहुनाम। पोषं पुष्यत्यनेनेति पुष्टिहेतुर्धनधान्यादिः। तं रराणा ददती दातुमित्यर्थः। अद्य इदानीमेव सुमनाःशोभनमनस्का। अस्मान् प्रति प्रीयमाणा सतीत्यर्थः। हे सुभगे।शोभनघने!। उपागहि अस्मत्समीपमागच्छ॥
नेजमेषपरापतसुपुत्रःपुनरापत।
अस्यैमेपुत्रकामायैगर्भमाघेहियःपुमान्॥
उत्तरसूक्तं ‘नेजमेषे’ ति त्र्यृचमानुष्टुभं नैजमेषः प्रजापत्यो ददर्श।प्रथमा नेजमेषदेवत्या द्वितीयान्तर्वत्नीदेवत्या।तृतीया विष्णुदेवत्या। नेजमेष। परापत भाविना पुत्रेण दुष्पुत्रश्चेत् मत्तः पराङ्मुखो गच्छ।अपसरेत्यर्थः। अथवा भाविना पुत्रेण सुपुत्रश्चेत् त्वं पुनरापत पुनः पुनर्मां प्रत्यागच्छ। सुपुत्रदानायागत्य अस्यै अन्तर्वत्न्यैमे मम पुत्रकामायै अपत्यार्थिन्यै गर्भमाघेहि आस्थापय यः पुमान् गर्भः तम्॥
यथेयंपृथिवीमह्वुत्तानागर्भमादधे।
एवंत्वंगर्भमाघेहिदशमेमासिसूतवे॥
यथेयं पृथिवी मही महती उत्ताना अनघोमुखी अतिर्यमङ्मुखी वा समस्थला वृष्ट्युदकस्य सङ्ग्नहीत्री नावस्रावयित्री गर्भमोषधिवनस्पत्यादिलक्षणमादघे वर्षास्ववश्यमाधत्ते, एवं त्वं गर्भमवश्यमाघेहि आत्मनि धारय दशमे मासि सूतवे पुत्रमुत्पादयितुम्॥
विष्णोश्रेष्ठेनरूपेणास्यांनार्यांकविन्याम्।
पुमांसंपुत्रामधेहिदशमेमासिसूतवे॥
हे विष्णो ! सकलजगव्द्याप्त ! वासुदेव !।श्रेष्ठेनातिशयेन प्रशस्येन प्रधानेन रूपेणाकारेण। युक्तमिति शेषः। अस्यां नार्यां स्त्रियाम्।कविन्याम्। ‘कमु कान्तावि’त्यस्य वर्णागमविपर्यासादिना कविनीशब्दो द्रष्टव्यः।कामिन्यां सन्दर्शनार्हायामृतुमत्यामित्यर्थः। पुमांसं पुत्रम्। पुमांसमिति पुत्रविशेषणम्। ‘पुमान् पुरुमना भवति। पुंसतेर्वेति निर्वचनात् पुरुमनसं पुत्रमित्यर्थः। आधेहि आभिमुख्येन स्थापय। दशमे मासि सूतवे प्रसवे प्रसवकाल एवोत्पादयितुमित्यर्थः॥
** ‘प्रजापते नत्वदेतान्यन्य’ इति च व्याख्यातैषा चतुर्थे खण्डे।**
अथास्यै युग्मेनेति प्रकृत्य मीमन्तं व्यूहति भूर्भुवः स्वरोमिति त्रिश्चतुर्वा।
** भूर्भुवः स्वरोम्।**
वामदेवार्षं यजुरिदम्। परमात्मा देवता।भूः।सर्वत्र भवतीति भूः।भुवः। सर्वं जगद् भावयतीति भुवः। सुष्ठु प्रेरयत्यन्तर्यामिरूपेणेति स्वः। ओं अनुज्ञाता सर्वस्य। अथवा ओतं प्रोतं जगद् यस्मिन् स ओम्। इत्थंभूतः परमा73त्मा, कर्म समर्धयत्विति वाक्यशेषः। अथवाग्निवायुसूर्यपरमात्मानो देवता॥
** वीणागाथिनौ संशास्ति सोमं राजानं सङ्गायतमिति।**
निगदोऽयं वामदेवार्षः। वीणागाथिनावभिधेयौ। हे वीणागाथिनौ ! सोमं राजानं स्वामिनम्। केषाम्। ओषधीनाम्। कुत एतत्। ‘सोम ओषधीनामधिपतिरि’ति मन्त्रवर्णात्। ‘या ओषधीः सोमराज्ञीरि’ति च। सङ्गायतम्। सम् इत्येकीभावे, सह गायतं सम्यग् वा गायतमित्यर्थः॥
तौ वोत्तरस्यामृचि गायतः—
** सोमो नो राजावतु मानुषीः प्रजा निविष्टचक्राअसौ॥**
वामदेवार्षः। द्वैपदं छन्दः। सोमो देवता। सोमो नो राजा अस्माकं स्वभूताः प्रजा मानुषीर्मनुष्यसम्बन्धिनीः।मनुष्यग्रहणं प्रदर्शनार्थं,74 मनुष्यादिप्रजा इत्यर्थः। निविष्टचक्राः। प्रजाविशेषणमेतत्। निविशतिरत्रान्तर्हितण्यर्थः। चक्रशब्दःसमूहवचनः। ब्राह्मणचक्रं क्षत्रियचक्रमिति यथा।नद्यास्तीरे निवेशितसमूहाः सङ्घीभूय निविष्टा75इत्यर्थः। असौ। अदश्शब्द्स्यस्थाने नदीति नाम प्रथमया निर्देष्टव्यम्। यां नदीं समाश्रिता अधिकारिणः। यथा गङ्गा कावेरी सरस्वती यमुनेति। अवत्वित्यनुषक्तव्यः। स्वतीरनिवासिनीः प्रजाः गङ्गा रक्षत्विति॥
कुमारस्य जातकर्म। कुमारं जातं हिरण्येन प्राशयेत् ‘प्र ते ददामी’ त्यनेन।
प्रते ददामि मधुनो धृतस्य वेदं सवित्रा प्रसृतं मघोनाम्।
आयुष्मान् गुप्तो देवताभिः शतं जीव शरदो लोके अस्मिन्॥
वामदेवार्षम्। त्रिष्टुप्। कुमारोऽभिधेयः। विश्वेदेवा वा। हे कुमार ! ते तुभ्यं प्रददामि। किम्। मधुनो घृतस्य वा। उभयत्र द्वितीयार्थे षष्ठी। वाशब्दश्चार्थे। मधु च घृतं च। इदं रसद्वयं हिरण्यानिकाषयुक्तम्। सवित्राभ्यनुज्ञात्रा देवेन प्रसूतमभ्यनुज्ञातम्।मघोनाम्। निर्धारण एषा पष्ठी। बहुवचननिर्देशाच्च मघवदादयो देवाः सर्वे लक्ष्यन्ते। मघवदादीनां देवानां मध्ये सवित्रेति सम्बन्धः। त्वं चेदं प्राश्य आयुष्मान्। भूया इति वाक्यशेषः। कथम्। गुप्तो रक्षितः सन्।देवताभिः सवित्राद्याभिः। शतं शरदः शत संवत्सरान्। जीव अस्मिन् लोके76 पार्थिवे लोक इत्यर्थः॥
कर्णयोरुपनिधाय मेधाजननं जपति ‘मेधां ते देवः सविते’ति।
मेधां ते देवः सविता मेधां देवी सरस्वती।
मेधां ते अश्विनौ देवावाधत्तां पुष्करस्रजौ॥
वामदेवस्यानुष्टुप्। वैश्वदेवी। मेधाम्। सकृच्छ्रुतग्रन्थधारणाशक्तिर्मेधेत्युच्यते, ताम्। हे कुमार ! ते तुभ्यं देवः सविता। आधत्तामित्युपरिष्टाछ्रूयमाणमाख्यातमेकवचनीभूतमत्रानुषक्तव्यम्। आदधातु। दधातिर्दानार्थः। आभिमुख्येन ददात्वित्यर्थः। मेधां मेधामेव देवी दानादिगुणयुक्ता सरस्वती वाचोऽधिष्ठात्री नदी वा। आदधात्वित्यनुषङ्गः। मेघमेधामेव ते तुभ्यमाधत्तामाभिमुख्येन दत्ताम्। कौ। अश्विनौ देवौ। कीदृशौ। पुष्करस्रजौ कमलग्नथितमालालङ्कृतौ॥
अंसावभिमृशति—‘अश्मा भव परशुर्भवे’ति।
अश्मा भव परशुर्भव हिरण्यमस्तृतं भव।
वेदो वै पुत्रनामासि स जीव शरदः शतम्॥
वामदेवस्यानुष्टुप्। कुमारोऽभिधेयः।हे कुमार ! अश्मा भव। लुप्तोपममेतत्। अश्मेव भवात्यन्तदृढगात्रो भवेत्यर्थः। परशुर्भव।इदमपि लुप्तोपमम्। परशुरिव शत्रूणां छेत्ता भवेत्यर्थः। अथवा परशुशब्दः क्रियावचनः। परशब्दात् शदेश्च धातोश्छान्दसमेतद् रूपम्।परशब्दः शत्रुपर्यायः। शदिश्च शातनार्थः। शातनं च नाशनं, शत्रूणां नाशयितेत्यर्थः। किञ्च हिरण्यम्। अस्तृतम्। ‘स्तॄहिंसायाम्। अहिंसितं, लुप्तोपममेतत्। अहिंसितं हिरण्यमिवेति। हिरण्यसादृश्येनाविनाशित्वमाशास्यते। तथाच श्रूयते—‘अमृतं वाज्यम् अमृतं हिरण्यमिवेति। हिरण्यमिवाविनाशी भवेत्यर्थः। अथवा हिरण्यास्तृतश ब्दावपि क्रियाशब्दाघेव। तथा सति लिङ्गव्यत्ययो द्रष्टव्यः। हिरण्यो77 हितरमणो हृदयरमणो वा। अस्तृतोऽहिंसितः केनचिद् भवेति। किञ्च, वेदो वै। वैशब्दः पादपूरणः। वेद इति धननाम।विन्दतेर्लाभार्थस्यासुन्प्रत्ययान्तमेतद् रूपम्। पुत्रनाम।वेदोविशेषणमेतत्। पुत्र इति नाम यस्य तत् पुत्रनाम। तदसि मातापित्रोरैहिकामुष्मिक पुरुषार्थसाधनभूतं पुत्रसंज्ञधनमसि त्वमित्यर्थः। यस्त्वमीदृशोऽसि, स त्वं शरदः शतं जीव संवत्सरशतं जीवेत्यर्थः॥
अंसाभिमर्शन एवोत्तरे अप्यृचौ।
इन्द्र॒श्रेष्ठा॑नि॒द्रवि॑णानिधेहि॒चित्ति॒दक्ष॑स्यसु॒भग॒त्वम॒स्मे।
पोष॑रयी॒णामरिष्टिंत॒नू॑नांस्वा॒ध्मानं॑घा॒चःसु॑दिन॒त्वम॒ह्नाम्॥
(अष्ट० २. अध्या० ६. व० २८. ऋ० ६)
‘इन्द्रश्रेष्ठानी’ ति गृत्समदार्षम्।त्रिष्टुप् छन्दः।इन्द्रो देवता। हे इन्द्र ! श्रेष्ठानि अतिशयेन प्रशस्यानि। द्रविणानि।धननामैतत्। धनानि। अस्मे अस्मासु धेहि स्थापय।अस्मभ्यं धनानि देहीत्यर्थः। किञ्च चित्तिम्। ‘चिती संज्ञाने’। दक्षस्य। दक्षशब्दःपरमात्मवचनः। ‘दक्ष वृद्धावि’त्यस्य।‘श्रेयांसं दक्षं मनसा जगृभ्यादि’ति यथा। सर्वस्माद् वृद्धो ह्यसौ, जगतः कारणत्वात्। तद्विषयामवगतिम्। आत्मज्ञानमित्यर्थः। अस्मे धेहीत्यनुषङ्गः। सुभगत्वं कल्याणघनत्वं च धेहीति। किञ्च, पोषं रयीणां धनानामुपर्युपरि पुष्टिं च। अरिष्टिं तनूनाम्। बहुवचनं करचरणाद्ययवापेक्षम्। अरिष्टिमरेषणमहिंसनमनाशनमित्यर्थः। तेन चारोग्यं लक्ष्यते। शरीरस्यारोग्यं च। स्वाझानं वाचः वाचः स्वादुत्वं, सुवाक्त्वमित्यर्थ। सुदिनत्वमह्नाम्। अहर्ग्रहणं रात्रेरपि प्रदर्शनार्थं द्रष्टव्यम्। अहोरात्राणां सुखत्वं च सर्वत्रास्मे घेहीति सम्बन्धः॥
अ॒स्मेप्रय॑न्धि मघवन्नृजीषि॒न्निन्द्र॑रा॒योवि॒श्ववा॑रस्य॒भूरेः।
अ॒स्मेश॒तंश॒रदो॑जी॒वसे॑धाअ॒स्मेर्वा॒राञ्छश्व॑तइन्द्रशिप्रिन्॥
(अष्ट० ३. अध्या० २. व० २०. ऋ० १०)
‘अस्मे प्रयन्धि’ घोरस्याङ्गिरसस्यार्षम्।त्रिष्टुप्। ऐन्द्री। हे इन्द्र। मघवन् ! धनवन् ! ऋजीषिन्। यत् तत् पू78यमानस्य सोमस्यातिरिच्यते तद् ऋजीषम्। तद्वानृजीषी। तद्वत्ता चेन्द्रस्य तदीयो हयो भाग इति कृत्वा, ऋजीष79दक्षाहर्यश्वेत्यर्थः(१)। शिप्रिन् !।शिप्रे हनू नासिके वा शिरःपट्टको वा। प्रशंसायां च मत्वर्थीयप्रत्ययः। प्रशस्तहनो ! प्रशस्तनासिक ! प्रशस्तशिरः पट्टक ! इति वा। अस्मे अस्मभ्यम्। प्रयन्धि प्रयच्छ।रायः धनस्य।विश्ववारस्य सर्वैर्वरणीयस्य। भूरेः। बहुनामैतत्। बहुनः प्रभूतस्येत्यर्थः। षष्ठीश्रुतेरंशमिति वाक्यशेषः। किञ्च, अस्मे अस्मभ्यमेव। शतं शरदः शतं संवत्सरान्। धाः घेहि। शतसंवत्सरमायुष्यमस्मभ्यं देहीत्यभिप्रायः। किमर्थम्। जीवसे जीवितुं जीवनायेत्यर्थः। किञ्चास्मे अस्मभ्यमेव।वीरान्।वीरशब्दः पुत्रवचनः। ‘धत्तं रयिं सहवीरं वचस्यवे’ इति तैत्तिरीये दर्शनात्। पुत्रान्। शश्वतः। बहुनामैतत्। बहून्। दशसंख्यानित्यर्थः। तच्च दशत्वं ‘दशास्यां पुत्रानाघेहि’ इति पुत्रदशत्वदर्शनाल्लिङ्गात्॥
प्रवासादेत्य पुत्रस्य शिरः परिगृह्य जपति। प्रवासप्रसङ्गात् प्रवासादागतिनिमित्ता मन्त्रा व्याख्यायन्ते यथा सूत्रे —गृहानीक्षेताप्यनाहिताग्निः’गृहा मा बिभीते`ति80।
गृहामाबिभीतोपवस्वस्त्येवास्मासुचप्रजायध्वंमाचवोगोपतीरिषत्॥
वामदेवार्षम्। प्रश्लिष्टपाठाद् यजुरिदम्। गायत्री वायवमध्या वा। गृहाअभिधेयाः। हे गृहाः !मा बिभीत भयं माकार्ष्ट। मद्वियोगजनितंभयं परित्यजतेत्यर्थः। उः पदपूरणः।पव।पवतिरत्र सामर्थ्यात् क्षरणार्थः। ‘पवस्व सोमधारये’ति यथा। व्यत्ययेनैकवचनं बहुवचनस्य स्थाने द्रष्टव्यम्। णेर्लोपश्चात्र द्रष्टव्यः।पावयत क्षारयतेत्यर्थः। किम्। सामर्थ्याद व्रीह्यद्युपभोगान्। स्वस्ति एव। एवकारश्चार्थः। अविनाशं च। अस्मासु। चकारःपदपूरणः, एवार्थे वा। चतुर्थ्यर्थे वा सप्तमीयम्।‘नमः स्वस्तिस्वाहा—’ (२-३-१६) इति भगवतः पाणिनेःस्मरणात्।अस्मभ्यमेव।प्रजायध्वम्।जानरत्र सामर्थ्यांदन्तर्णीतण्यर्थः81। जनयत, दत्तेत्यर्थः। किञ्च, वो युष्माकम्। प्रसादेनेति वाक्यशेषः। गोपतिः। गोग्रहणमत्र प्रदर्शनार्थम्। गोमहिषाजाविकादीनां पतिः सन्नहमित्यर्थः। मा च रिषत्।चशब्द एवार्थे। रिषतिर्हिसकर्मा व्यत्ययेनायं प्रथमा उत्तमस्य स्थाने मैव रिषं, युष्माकं प्रसादेनैव कामैर्न विनाशिषमित्यर्थः। अथवा गोपतिः सन् युष्मान् मा हिंसीत्॥
गृहान् प्रपद्येत ‘गृहानहं सुमनस’ इति।
गृहानहंसुमनसःप्रपद्येचीवीरध्रोवीरवतः सुवीरान्।
इरांवहतोघृतमुक्षमाणास्तेष्वहंसुंमनाः संविशानि॥
वामदेवार्षं त्रिष्टुप्। गृहा एवाभिधेयाः। गृहानहं सुमनसः।गृहा एव सुमनस इत्युच्यन्ते। तात्स्थ्यादत्र ताच्छब्द्यम्। मञ्चक्रोशनवत्। कल्याणमनस्कप्राणिभिरधिष्ठितान् गृहानित्यर्थः। प्रपद्ये प्रविशामि। किंवशिष्टान्। अवीरघ्नः।वीरशब्दः पुत्रवचनः। तद्ग्रहणं च प्रदर्शनार्थम्। पुत्रादीनामहन्तुनित्यर्थः। वीरवत उत्पाद्यैस्तद्वतः।पुत्राणामुत्पादयितॄनित्यर्थः। सुवीरान्। वीरशब्दोऽयं दासभृत्यादिपरिचारकवचनः। शोभनदासभृत्यादिपरिचारकमनुष्योपेतानित्यर्थः। किञ्च, इरां वहतः। इरेत्यन्ननाम।सर्वप्रकारमन्नं विभ्रतः। नानाविधान्नोपेतानित्यर्थः। किञ्च, घृतमुक्षमाणाः। घृतग्रहणं प्रदर्शनार्थम्।प्रथमा द्वितीयार्थे। ‘उक्ष सेचने’। घृतदधिक्षीरतक्रादि सिञ्चतः क्षरतः। क्षरणेन चात्र तेषां प्राभूत्यमभिप्रेतम्। प्रभुतघृतानित्यर्थः।प्रपद्य च तेषु गृहेषु अहं सुमनाः कल्याणचित्तः। संविशानि, संवेशनमुपवेशनं, सुखमुपविशानि सुखमास इत्याशास इत्यर्थः॥
गृहानुवीक्षणमन्त्रः82—
शिवं शग्मं शंयोः शंयोरिति त्रिरन्वीक्षमाणः।
वामदेवार्षं यजुः। गृहा एवाभिधेयाः। शिवं शग्म्म्। द्वे अप्येते सुखनामनी। ‘अभ्यासे भूयांसमर्थं मन्यन्त’ इति यास्कवचनात् सुखभूयस्त्वं प्रतिपाद्यते द्वाभ्याम्83। अस्यन्तं सुखमित्यर्थः। गृहाः प्रयच्छन्त्विति वाक्यशेषः। अथवा कालभेदेन पौनरुक्त्यम्। ऐहिकं सुखमामुष्मिकं चेत्यर्थः। शंयोः शंयोः। रोगादीनामुत्पन्नानां शमनं शम्। उत्पित्सूनां84 भयादीनां रोगादीनां यापनं पृथग्भावनं योः। यौतेः पृथग्भावार्थत्वात्। अभ्यासस्य पूर्ववत् प्रयोजनं द्रष्टव्यम्। गृहाःप्रयच्छन्विति पूर्ववद् वाक्यशेषः85। गृहाणां प्रसादादस्त्विति। अथवा शंयोरिति प्रथमं षष्ठयन्तमधिकारिविशेषणम्। शं सुखम् इच्छतीति शंयुः। तस्य शंयोः सुखकामस्य मम शंयोश्चस्यातामिति। अथ प्रकृतमनुसरामः॥
प्रवासादेत्य पुत्रस्य शिरः परिगृह्य जपति ‘अङ्गादङ्गात् सम्भवसी’ति मूर्धनि त्रिरवघ्राय।
अङ्गादङ्गात् सम्भवसि हृदयादधि जायसे।
आत्मा वैपुत्रनामासि स जीव शरदः शतम्॥
वामदेवस्यानुष्टुप्।कुमारोऽभिधेयः। स जीव शरदः शतमिति उत्तरस्मिन्नर्धर्चे तच्छब्दश्रवणात् पूर्वस्मिन्नर्धर्चे यच्छब्दोऽध्याहार्यः। हे कुमार ! यस्त्वमङ्गादङ्गात्। सर्वाङ्गपरिग्रहार्थं वीप्सावचनम्। सर्वेभ्योऽङ्गेभ्य इत्यर्थः। सम्भवसि शुक्लशोणितरूपेणोत्पद्यसे।हृदयादधि। अधिशब्दःपादपूरणः। चार्थे वा86। हृदयाश्च, हृत्स्थाद् बुद्धितत्त्वादित्यर्थः। जायसे प्रादुर्भवसि। एवं ब्रुवन् कारणस्य बोधस्य कार्येऽनुवृत्तिं दर्शयति। य एवम् अत आत्मा वै अहमेव पुत्रनामासि87 भवसि।स त्वं जीव शरदः शतं संवत्सरशतमित्यर्थः॥
षष्ठे मास्यन्नप्राशनम्। दधिमधुवृतमिश्राणां प्राशयेद् ‘अन्नपतेऽन्नस्य नो देही ‘ति।
अन्नपतेऽन्नस्यनो देह्यनमीवस्य शुष्मिणः।
प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे॥
वामदेवार्षम्। उपरिष्टाद् बृहती। अग्निर्देवता। अन्नपतिशब्दस्याग्न्यभिधानत्वात् कुत एतत्। ‘अन्नादो वा एषोऽन्नपतिर्यदग्निरि’ति श्रुतेः। हे अग्ने! अन्नपते ! अन्नस्वामिन् !।अन्नस्य।द्वितीयार्थे षष्ठी।अन्नम्। नोऽस्मभ्यं देहि। कीदृशमन्नम्। अनमीवस्य। अत्रापि द्वितीयार्थे षष्ठी। अनमीवमरोगं, रोगस्यानुत्पादकमित्यर्थः। शुष्मिणः।शुष्म इति बलनाम। तद्वच्छुष्मि।बलकरमित्यर्थः। किञ्च, प्रदातार।अन्नस्य प्रदातृभूतं माम्। प्रतारिषः। प्रपूर्वस्तरतिर्वृद्धयर्थः। प्रवर्धय। ऊर्ज रसं रसभूतमन्नं नोऽस्माकं स्वभूताय द्विपदे पुत्रपौत्रादिमनुष्याय चतुप्पदे गवादिकाय च धेहि देहीति॥
तृतीये वर्षे चौलं यथाकुलधर्मंवेति। तत्र शीतोष्णा अपः समानीय।
उष्णेन वायवुदकेनेहीति॥
वामदेवार्षं यजुः। वायुर्देवता। हे वायो ! उष्णेनोदकेन शीतेन च। सहयोगलक्षणा तृतीयैषा। शीतोप्णाभिरद्भिः सहेहि आगच्छ। उप्णाभिरद्भिः शीता अपः संसर्जयन्नागच्छेत्यभिप्रायः॥
प्रदक्षिणं शिरस्त्रिरुन्दति—
‘अदितिःकेशान् वपत्वाप उन्दन्तु वर्चसे’ इति।
वामदेवार्षा द्विपदेयं षोडशाक्षरा। अदितिरापश्च देवता। अदितिर्मध्यमस्थाना देवमाता वा। केशान् वपतु। वपिरत्रान्तर्णीतण्यर्थः। वापयतु। केशवपनमनुगृह्णात्वित्यर्थः।आपश्चेमाः संसृष्टा उन्दन्तु शिरः क्लेदयन्त्वित्यर्थः। किमर्थम्। वर्चसे दीप्तये।दीप्त्यर्थं प्रजाया इत्यर्थः॥
कुशपिञ्जूलनिधाने मन्त्रः—
‘ओषधे ! त्रायस्वैनमि’ति।
वामदेवार्षं यजुः। कुशपिञ्जूला ओषधिर्देवता। हे ओषधे ! कुशपिञ्जूलात्मिके ! त्रायस्व रक्षैनं88 कुमारम्॥
क्षुरसंयोजनमन्त्रः—
‘स्वधितेमैनंहिंसीरि’ति।
वामदेवार्षं यजुः। क्षुरदेवत्यम्।हे स्वाधिते !।स्वधितिशब्द आयुधवचनोऽन्यत्र। इह तु छेदनसाधनत्वसामान्यात् क्षुरे वर्तते। हे क्षुर ! एनंकुमारम्। मा हिंसीरिति। तीक्ष्णत्वात् क्षुरस्य तत्स्पर्शने हिंसा प्राप्नोतीति तदभाव आशास्यते॥
केशप्रच्छेदनमन्त्रः—
येनावपत् सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान्।
तेन ब्रह्माणो वपतेदमस्यायुष्मान् जरदष्टिर्यथासत्॥
‘येनावपत् सविता क्षुरेणे’ति वामदेवार्षम्।त्रिष्टुप्।सदस्या ब्राह्मणा अभिधेयाः। येन क्षुरेणावपत उप्तवान् छिन्नवानित्यर्थः। सविता आदित्यः। सोमस्य राज्ञः वरुणस्य च। केशानिति शेषः। राजसूयादिषु ऋतुषु। किंविशिष्टः। विद्वान् जानन्। किम्। सामर्थ्यात् स्वमधिकारं, लोकपालत्वात् शुभाशुभं वा प्राणिनाम्। तेन क्षुरेण। हे ब्रह्माणो ब्राह्मणाः ! सदस्याः !।वपत। वपिरत्रान्तर्णीतण्यर्थः। वापयत। क्रियमाणं वपनमनुज्ञापयतेत्यर्थः। इदं शिरः। तात्स्थ्यादत्र ताच्छब्धम्।शिरःस्थानिमान् केशानित्यर्थः। अस्य89कुमारस्य। कथं वापयामः। उच्यते। आयुष्मान् वर्षशतं जीवी। जरदष्टिः। जरा जीर्यते (इति) वार्धक्यमिहाभिप्रेतम्। अष्टिरित ‘अशू व्याप्तावि’त्यस्य कर्तरि क्तिनूप्रत्यये रूपम्। जराया अष्टिर्जरदष्टिः, जराया व्याप्तेत्यर्थः। यथा असद् भवेत्। एतदुक्तं भवति—अयं कुमारो मयोप्यमानकेशो वृद्धवयाः शतसंवत्सरजीवी यथा स्यात् ,तथा वापयतानुजानीत हे ब्राह्मणाः ! इति। तथाच प्रसिद्धिरायुष्यकर्मेति॥
द्वितीयप्रच्छेदनमन्त्रः—
येन धाता बृहस्पतेरग्नेरिन्द्रस्य चायुषेऽवपत्।
तेन ते आयुषे वपामि सुश्लोक्याय स्वस्तये॥
‘येन धाता बृहस्पतेरि’ति वामदेवार्षम्।अनुष्टुप्।कुमारोऽभिधेयः। येन क्षुरेण।धाता नामादित्यानामन्यतमः।बृहस्पतेरिन्द्रस्य च। केशानिति शेषः। आयुषे चिरजीवित्वाय। अवपद् उप्तवान्। तेनैव क्षुरेण हे कुमार ! ते तव।केशानिति शेषः। वपामीति। किमर्थम्।आयुषे वर्षशतजीवनाय। सुश्लोक्याय। श्लोक इति वाङ्नाम।शोभन श्लोकः सुश्लोकः। तद्भावः सुश्लोक्यम्। किं तत्। सामर्थ्याद् यशः।यशसे च। स्वस्तयेऽनुग्रहाय च॥
तृतीयप्रच्छेदनमन्त्रः—
येन भूयश्चरात्र्यांज्योक्च पश्याति सूर्यम्।
तेन ते आयुषेवपामि सुश्लोक्याय स्वस्तये॥
‘येन भूयश्चे’ ति वामदेवार्षम्। अनुष्टुप्।कुमारोऽभिधेयः। येन क्षुरेण।उप्यमान इति शेषः। भूयः। वीप्सालोपो द्रष्टव्यः। भूयोभूय इत्यर्थः। चकारो रात्र्यामित्यस्मात् परो द्रष्टव्यः। स च समुच्चयार्थः।रात्र्यांच पश्याति। लडर्थः पञ्चमो लकारः। पश्यति। किम्।सामर्थ्यान्नक्षत्रादीनि ज्योतींषि। रात्र्यामिति व (च) नादहनि चेत्यध्याहारः। अहनि च। ज्योक्। चिरपर्यायोऽयम्।सुचिरं कालं सूर्यं पश्यति। एतदुक्तं भवति—येन क्षुरेणोप्यमानकेशो दीर्घकालं रात्र्यांनक्षत्रादीनि ज्योतींषि पश्यति, अहनि च सूर्यमिति। एतेनाविकलेन्द्रिय बहुत्वापादकतया क्षुरस्तुतिरुच्यते। तेन त इत्याविरुक्तार्थः॥
क्षुरतेजोनिगृजेद् ‘यत् क्षुरेणं ‘ति।
यत् क्षुरेण मर्चयता सुपेशसा वप्ता वपसि केशान्।
शुन्धि शिरो मास्यायुः प्रमोषीः॥
ऋषिः वामदेवः। दशिनीविराट् छन्दः। क्षुरधाराभिधेया। यत् यदा क्षुरेण त्वया। मर्चयता। अपठितोऽपि सामर्थ्यान्मर्चयतिर्वधकर्मा द्रष्टव्यः। ‘यो नो अग्नेअररिवा अघायुररातीवा मर्चयति द्वयेने’ति यथा। तीक्ष्णस्वाद् वधहेतुभूतेन। सुपेशसा।पेश इति रूपनाम।सुरूपेण कर्मार90परिमार्जितेनेत्यर्थः। वप्ता नापितः। वपसि। प्रथमपुरुषस्य स्थाने मध्यम91पुरुषः। वपति।केशान्। यदेति वचनात् तदेत्यध्याहार्यम्। तदा।शुन्धि शोधय। निष्केशं कुर्वित्यर्थः। शिरः अस्य कुमारस्य। आयुर्जीवितं मा प्रमोषीः मा हार्षीरित्यर्थः। तीक्ष्णत्वादायुषः प्रमोषशङ्कया तदभावः प्रार्थ्यते॥
नापितं शिष्याच्छीतोष्णाभि92रद्भिरिति।
शीतोष्णाभिरद्भिरबर्थं कुर्वाणोऽक्षण्वन् कुशली केशान् कुरु।
वामदेवार्षं यजुः। नापितोऽभिधेयः। हे नापित ! शीतोष्णाभिरद्भिः शीताभिरुष्णाभि93श्च संसृष्टाभिरित्यर्थः। अबर्थमुदकप्रयोजनमुन्दनादि कुर्वाणःकुर्वन्। अक्षण्वन्। ‘क्षणु हिंसायाम्’। अहिंसन्, क्षतमकुर्वन्नित्यर्थः। कुशलीकुरु।कुशलीकरणं नाम वपनम्। ‘कुशलीकृतशिरसमि’ ति लिङ्गात्। केशान् वपेत्यर्थः॥
गोदानमन्त्रा नि गद94सिद्धा व्याख्याताश्च॥
अथेदानीं क्रमप्राप्ता उपनयनमन्त्रा व्याख्यायन्ते। तत्र माणवकस्याञ्जल्यवक्षारणमन्त्रः—
तत्सवितुर्वृणीमहे वयं देवस्य भोजनम्।
श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि॥
‘तत्सवितुर्वृणीमह’ इति। श्यावाश्व आत्रेय ऋषिः। अनुष्टुप् छन्दः। सविता देवता। यदुदकं सर्वाणि भूतानि उपजीवन्ति, तत् सवितुः सम्बन्धि। तन्मण्डल आहितमित्य95भिप्रायः। कीदृशम्। भोजनम्। अन्ननामैतत्। तत्कारणत्वात् तद्व्यपदेशः। अन्नकारणम्। श्रेष्ठमतिशयेन प्रशस्यम्। सर्वधातमं सर्वेषां भूतानामतिशयेन धारयितृतमम्।तुरम्।तुर्वतेर्हिंसार्थस्यैतद् रूपम्। तुर्वितृ हिंसितृ। व्याध्यादीनां नाशक96रमित्यर्थः। कीदृशस्य सवितुः। देवस्य दानादिगुणयुक्तस्य। भगस्य भजनीयस्य सर्वैः प्राणिभिः सेव्यस्य। वयम्। वृणीमहे। ‘वृङ् सम्भक्तौ’। सम्भजामहे। सम्भजनं चात्र पृथिव्या सम्बन्धः। पृथिव्या सम्बन्धयामः, पृथिव्यामवक्षारयाम इत्यर्थः। अव97क्षार्य, धीमहि। ‘ध्यैचिन्तायाम्’। चिन्तयामः। किम्।सामर्थ्यान्माणवकनिःश्रेयसम्॥
इस्तग्रहणमन्त्रः—
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्वाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृहाम्यसौ।
‘देवस्य त्वे’ति। वामदेवस्य यजुः। माणवकोऽभिधेयः। हे माणवक ! देवस्य दानादिगुणयुक्तस्य सवितुरादित्यस्य। प्रसवेऽभ्यनुज्ञाते सति, सवित्राभ्यनुज्ञातोऽहमित्यर्थः। त्वा। षष्ठ्यर्थ एषा द्वितीया। तव स्वभूतं हस्तं गृह्वामि। केन। उच्यते। अश्विनोर्बाहुभ्याम्।बाहुशब्देनात्र तत्संबद्धौ हस्तौ लक्ष्येते। हस्ताभ्याम्। नच केवलाभ्यां, किं तर्हि। पूष्णो हस्ताभ्यां नतु मदीया98भ्याम्। एतदुक्तं भवति— हस्तग्रहणवेलायामाचार्येणात्मन्यश्विपूषाध्यारोपः कर्तव्यइति। असौ। सर्वत्रादःप्रयोगे नामग्रहणं वेदितव्यम्। इह तु सामर्थ्यात् सम्बुद्द्यन्तं द्रष्टव्यम्।यथा हे चक्रपाणे ! इति॥
हस्तग्रहणे द्वितीयो मन्त्रः—
सविता ते हस्तमग्रभीदसौ।
‘सविता त’ इति। वामदेवार्षं यजुः।माणवको99ऽभिधेयः। हे माणवक ! ते तवहस्तं सवितादित्योऽग्रभीत् अग्रहीत्। लडर्थे लुङ्।गृह्णाति।नाहम्। एतदुक्तं भवति—अत्रापिपूर्ववदाचार्येण सवित्रध्यारोपः कर्तव्य इति। असौ देवदत्तः॥
हस्तग्रहमे तृतीयो मन्त्रः—
अग्निराचार्यस्तवासौ।
‘अग्निराचार्य’ इति100। पूर्ववदृष्यादयः। हे माणवक।अग्निराचार्यस्तव, नाहम्। पूर्ववदध्यारोपः। हस्तं गृह्णामीति वाक्यशेषः। असौ यज्ञदत्तः॥
आदित्यमीक्षयेद् ‘देव सवितरि’ति—
देव सवितरेष ते ब्रह्मचारी तं गोपाय स मामृत।
वामदेवः। यजुः। द्विपदा वा। सविता देवता। हे देव ! दानादिगुणयुक्त ! सवितः ! सर्वस्य प्रसवितः आदित्य ! एष ब्रह्मचारी ते तव स्वभूतः। त्वमेवास्याचार्योनाहमित्यर्थः। अतस्तमिमं गोपाय रक्षस्व। स च त्वया रक्ष्यमाणः मा मृत मा म्रियेत, मा विनङ्क्षीदित्यर्थः॥
परिदानमन्त्रः—
कस्य ब्रह्मचार्यसि प्राणस्य ब्रह्मचार्यसि कस्त्वा कमुपनयते काय त्वा परिददामि।
‘कस्य ब्रह्मचार्यसी’ति। वामदेवार्षम्। माणवकोऽभिधेयः। हे माणवक ! कस्य प्रजापतेः। ब्रह्मचारी।ब्रह्मचारिशब्देन प्रथमाश्रमोऽभिधीयते। सोऽसि। किंविशिष्टस्य प्रजापतेः। प्राणस्य कृत्स्नस्य जगतः प्राणभूतस्य। तथाच भगवान् यास्कः—‘अभ्यासे भूयांसमर्थं मन्यन्ते’ इति। कः। कशब्दएकः प्रजापतेरभिधानार्थः। अपरस्तु तद्विशेषणार्थः। कथं विशिनष्टि। कमिति सुखनाम। निरतिशयसुखः प्रजापतिरित्यर्थः। त्वा त्वामुपनयते आचार्यकुलं प्रापयति, नाहम्। प्रजापत्यध्यारोपार्थमिदं वचनम्। किञ्च काय त्वाप्रजापतये त्वा त्वां परिददामि। परिदानं नाम रक्षणार्थं दानम्। त्वां प्रजापतये ददामीत्यर्थः॥
‘युवा सुवासाःपरिवीत आगादि’ त्यर्धर्चेनैनं प्रदक्षिणमावर्तयेत्।
युवा॑सु॒वासाः॒परि॑वीत॒आगा॒त्सउ॒श्रेया॑न्भवति॒जाय॑मानः॥
विश्वामित्रस्य त्रिष्टुप् ! माणवकोऽभिघेयः। स उ श्रेयानिति तच्छब्दश्रवणाद् यच्छब्दोऽध्याहार्यः। यो माणवको युवा।‘यु मिश्रणे’। मिश्रणमनुष्ठानम्। अनुष्ठातेत्यर्थः। केषाम्। सामर्थ्याद् ब्रह्मचारिधर्माणां समिदाधानभिक्षाचर्यादीनाम्। सुवासाः शोभनवासाः शुद्धवस्त्र इत्यर्थः। परिवीतः परिवेष्टितः। केन। सामर्थ्यात् कृष्णाजिनादिना। आगात् आगच्छति, प्राप्नोति। ब्रह्मचर्यमिति शेषः। उशब्दः पदपूरणः। सोऽयं माणवकः श्रेयान् श्रेष्ठो विद्यया भवति। लोडर्थे लट्। भवतु।जायमानो ब्रह्मचारित्वेनोत्पद्यमानः। तथाच स्मर्यते— ‘तेषां मातुरग्रेऽधिजननं द्वितीयं मौञ्जीबन्धनम्’ इति॥
तस्याध्यंसौपाणी हृत्वा हृदयदेशमालभेतोत्तरेण।
तंधीरा॑सःक॒वय॒उन्न॑यन्तिस्वा॒ध्यो॒३मन॑सादेवयन्तः॑।
(अष्ट० ३. अध्या० १. व० ३. ऋ० ४)
तं प्रकृतं माणवकं, धीरासः। धीरिति प्रज्ञानाम।रो मत्वर्थीयः। प्रज्ञावन्तः। कवयः। मेधाविनामैतत्। मेधाविनः तत्त्वदर्शिनः। उन्नयन्ति लोडर्थेलट्। ऊर्ध्वं नयन्तु उत्कृष्टतां गमयन्त्वित्यर्थः। किंविशिष्टाः कवयः। स्वाध्यः शोभनाध्यानाः।कल्याणचित्ता इत्यर्थः। मनसा, देवयन्तो देवान् यष्टुमिच्छन्तः। श्रौतस्मार्तकर्मनिरतमानसा इत्यर्थः॥
अथ समिदाधानमन्त्रः—
अग्नये समिधमाहार्षं बृहते जातवेदसे।
तया त्वमग्नेवर्धस्व समिधा ब्रह्मणा वयं स्वाहा॥
‘अग्नये समिघ101माहार्षमि’ति। वामदेवार्षम्। भुरिगमनुष्टुप् छन्दः।अग्निर्देवता। अग्नयेयां समिधमाहार्षमाहृतवानस्मि। आहरामि वा। किंविशिष्टायाग्नये। बृहते महते जातवेदसे जातप्रज्ञानाय, जातधनाय वा। तयासमिधा त्वं हे अग्ने ! वर्धस्वब्रह्मणा वेदेन वयं, वर्धिषीमहीति वाक्यशेषः। स्वाहा इति प्रदानार्थः॥
अग्निमुपस्पृश्य मुखं निमार्ष्टित्रि’स्तेजसा मा समनज्मी’ति।
** तेजसा मा समनज्मि।**
वामदेवार्षं यजुः102। अनादिष्टदेवतत्वादग्निर्देवता।तेजसाग्नेःस्वभूतेन तेजसा मा मां, समनज्मि। अञ्जिर्गत्यर्थोऽन्तर्णीतण्यर्थः। सङ्गमयामि103 संयोजयामि। अग्नेः प्रसादात् तदीयेन तेजसा मामपि तेजस्विनं करोमीत्यर्थः॥
मयि मेधामित्यादयः षडग्न्युपस्थानमन्त्राः।
मयि मेधांमयि प्रजां मय्यग्निस्तेजो दधातु। मयि मेधांमयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधांमयि प्रजां मयि सूर्यो भ्राजो दधातु। यत् ते अग्ने तेजस्तेनाहंतेजस्वी भूयासम्। यत् ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासम्। यत् ते अग्ने हरस्तेनाहंहरस्वी भूयासम्।
वामदेवार्षाः षोडशाक्षराः द्विपदाः। यजूंषि वा। षण्णामप्यग्निर्देवता। आदितस्त्रयः परोक्षकृताः। उत्तरे त्रयः प्रत्यक्षकृताः। मयि ब्रह्मचारिणि मेधांग्रन्थधारणप्रज्ञाम्। दधास्विति मन्त्रान्ते श्र्यमाणेनाख्यातेन सम्बन्धः। दधातिश्च धारणार्थः। धारणं च स्थापनम्। मां मेधाविनं करोत्वित्यभिप्रायः। न चैतावदेव। किं तर्हि। मयि प्रजां पुत्रपौत्रादिलक्षणाम्। दधात्वित्यनुषङ्गः। प्रजावन्तं मां करोत्वित्यर्थः। प्रजाशासनेन चगृहस्थाश्रमाशंसा गम्यते। किञ्च मयि तेजः दीप्तिं दधातु। कोऽसौ। अग्निः। मयि मेधां मयि प्रजामिति गतम्। मन्त्रभेदात् पौनरुक्त्यमदोषः। मयि, इन्द्रः। इन्द्रशब्देनात्राग्निरेवोच्यते। अग्न्युपस्थाने विनियोगात् ‘ऐन्द्र्यागार्हपत्यमि’तिवत्। तथा कृत्वा इन्दतेरैश्वर्यकर्मण इन्द्रोऽग्नि। एषः सर्वेषां भूतानामीश्वरः। इन्द्रियं धननामैतत्। तथाच स्मर्यते—‘अग्नेरपत्यं प्रथमं सुवर्णमि’ति। ‘धनमिच्छेद्धुताशनादि’ति च। दधातु।मयि मेधांमयि प्रजामिति गतम्। मयि, सूर्यः। अत्रापि सूर्यशब्दो योगादग्नौवर्तते। तमसां स्वीकरणात् सूर्योऽग्निः। भ्राजो दीप्तिं दधातु। यत्ते। हे अग्ने! यत् ते तवस्वभूतं तेजो दीप्तिस्तेन तेजसाहंतेजस्वी भूयासमित्याशासे। त्वदीयेन तेजसा मामपि तेजस्विनं कुर्वित्यभिप्रायः। उत्तरौ मन्त्रावनेनैव व्याख्यातौ। हरोवर्चश्शब्दयोस्तेजोऽभिधानत्वात्॥
जान्वाच्योपसङ्गृह्य ब्रूयादधीहि भोः—
सावित्रीं भो अनुब्रूहीति।
वामदेवार्षं यजुरिदम्। आचार्योऽभिधेयः। हे भोः ! भवन् ! आचार्य ! सावित्रीं सवितृदेवत्यामृचं तत्सवितुर्वरेण्यमित्येताम्।कुत एतत्।निरुपाधिकप्रयोगे तस्या एव प्रसिद्धेः। अनुब्रूहि। अनुगृह्योपदिशेत्यर्थः॥
तस्य वामसा पाणिभ्यां च पाणी सङ्गृह्य सावित्रीमन्वाह पच्छोऽर्धर्चशः सर्वामिति।
तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्।
विश्वामित्रो गाधिपुत्र ऋषिः। निचृद् गायत्रीच्छन्दः। सविता देवता। यच्छब्दसम्बन्धादुत्तरोऽर्धर्चःं प्रथमं व्याख्याते—यः सविता सूर्यस्य प्रसविता, उदयास्तमयाभ्यां सर्वप्रवृत्तेरभ्यनुज्ञातेत्यर्थः। धियः धीरिति कर्मनाम, प्रज्ञानाम वा। श्रौतस्मार्तकर्मविषयाः प्रज्ञाः, तानि वा कर्माणि प्रतीति वाक्यशेषः। नोऽस्मान्। प्रचोदयात्।लढर्थेऽयं पञ्चमो लकारः। प्रचोदयति प्रेरयति। अस्मान् श्रौतस्मार्तलक्षणेषु कर्मस्वधिकारयतीत्यर्थः। यच्छन्दश्रुतेस्तच्छब्दः षष्ठ्यन्तः प्रथमेऽर्धर्चेऽध्याहार्यः।तस्य सवितुः स्वभूतम्। अत्रापि तदिति तच्छब्दश्रुतेर्यच्छब्दोऽध्याहार्यः। यद् भर्गः। ‘भ्रस्जोपाक’ इत्यस्मासुन्प्रत्ययान्तस्यैतद् रूपम्।पापानां भर्जनहेतुत्वाद् भर्गशब्देन मण्डलमिहाभिप्रेयते। किंविशिष्टम्।वरेण्यं वरणीयम्। मुमुक्षुभिः प्रार्थनीयमित्यर्थः। देवस्य दानादिगुणयुक्तस्य। तन्मण्डलं धीमहि चिन्तयामः, उपास्मह इत्यर्थः। अथवा पूर्वस्मिन्नर्धर्चे सवितृदेवशब्दौ षष्ठ्यन्तौ व्यत्ययेन द्वितीयान्तौ द्रष्टव्यौ। तदिति च सवितुर्विशेषणत्वेन पुल्ँलिङ्गो द्रष्टव्यः। तं सवितारं वरेण्यं भर्गः पापानां भर्जयितारं दानादिगुणयुक्तमुपास्मह इत्यर्थः। होमे तु यदा विनियुज्यते, तदैवं योजना—उत्तरोऽर्धर्चः पूर्ववत्। सवितृदेवशब्दौ षष्ठ्यन्तौ चतुर्थ्यन्तौद्रष्टव्यौ। ध्यायतिः सामर्थ्माज्जुहोत्यर्थः। भर्गशशब्दश्चहविर्वचनः भृज्यते पाकादिना संस्क्रियत इति। वरेण्यशब्दस्तद्विशेषणम्। तदिति चतुर्थ्यन्तंसवितृविशेषणं द्रष्टव्यम्। कोऽर्थः। यो देवः सवितास्मान् श्रौतस्मार्तकर्मविषयासु प्रज्ञासु तेषु वा प्रवर्तयति, तस्मै सवित्रे दानादिगुणयुक्ताय वरेण्यं हविर्जुहुम इति। उदकाभिमन्त्रणे तु, ध्यायतिरभिमन्त्रणार्थः। वरेण्यमर्गश्शब्दौ उदकाभिधायकौ। तत्सवितृदेवशब्दाश्च सामर्थ्यात् चतुर्थ्यन्ता द्रष्टव्याः। उत्तरोऽर्धर्चः सर्वसाधारणयोजनः।तस्मै सवित्रे देवाय वरेण्यं भर्जनं रक्षसां नाशनम्। किं तत्। सामर्थ्यादुदकं प्रक्षेप्तुमिति वाक्यशेषः। धीमह्यभिमन्त्रयामहे। जलपाने तु ध्यायतिः पानार्थः। षष्ठी च सम्बन्धलक्षणे वेदितव्या। तच्छब्दश्चसवितृसमानाधिकरणः।वरेण्यभर्गश्शब्दावुदकवचनावेव।तस्य सवितुर्देवस्य स्वभूतं वरेण्यमुदकम्।कुत एतद् गम्यते तदीयमुदकमिति। तथाच स्मर्यते श्रूयते च—‘आदित्याज्जायते वृष्टिरि’ति स्मृतिः। ‘यदा खलु वा असावादित्यो न्यङ् रश्मिभिः पर्यावर्ततेऽथ वर्षती’ ति श्रुतिः। धीमहि पिबाम इत्यर्थः। एवं सर्वत्र सर्वेषु मन्त्रेषु विनियोगानुरूपमर्थयोजना कार्या॥
हृदयदेशेऽस्योर्ध्वाङुलिंपाणिमुपदधाति ‘मम व्रत’ इति।
मम व्रते हृदयं ते दधामि मम चित्तमनु चित्तंते अस्तु।
मम वाचमेकव्रतो जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यम्॥
प्राजापत्यो हृद्य ऋषिः।त्रिष्टुप्।माणवकोऽभिघेयः।हे माणवक मम स्वभूते, व्रते। कर्मनामैतत् कर्मण्याचारलक्षणे। हृदयं, तास्थ्यादत्र ताच्छ्ब्द्यम्।हृद्गतंमन इत्यर्थः। अथवा क्रियाशब्दोऽयं हृदयमिति। ते तव स्वभूतं दधामि धारयामि, मन्मनोवृत्त्यनुसारिरूपमानसं त्वां करोमीत्यर्थः। किश्चमम चित्तमनु चित्तं ते। चित्तं, चेततेर्ज्ञानमिहाभिप्रेतम्। अनुः सादृश्ये। ‘अन्वर्जुनं योद्धार’ इति यथा। मम ज्ञानसदृशं ते तवचित्तं ज्ञानमस्तु। किञ्चमम वाचं शब्दम्। एकव्रतः, एकमेवापृथग्भूतं कर्म यस्य सः एकव्रतः। स भूत्वेति शेषः। जुषस्व सेवस्व। एतदुक्तं भवति —यच्चमनसा ध्यायामि। यच्चजानामि, यच्चवदामि तदेवानुतिष्ठ।मा विरोत्सीरिति। एवम्भूतं त्वां बृहस्पतिर्देवपुरोहितो नियुनक्तु। निपूर्वो युजिरत्र सामर्थ्याद् दानार्थः। ददातु मह्यम्। अथवा युजिः स्वार्थ एवान्तर्णीतण्यर्थः। नीत्युपसर्गः समित्येतस्य स्थाने। मद्यमिति च तृतीयार्थे चतुर्थी। मया संयोजयत्वित्यर्थः॥
ब्रह्मचर्यमादिशेत्—
ब्रह्मचार्यस्यपोऽशान कर्म कुरु दिवा मा स्वाप्सीराचार्याधीनो वेदमधीष्वेति ॥
वामदेवार्षम्। उष्णिक्। प्रश्लिष्टपाठात् यजुर्वा। माणवकोऽभिधेयः। हे माणवक ! ब्रह्मचारी। ब्रह्म चरतीति ब्रह्मचारी।ब्रह्म वेदस्तस्य चरणं ब्रह्मचरणं, वेदाध्ययनमित्यर्थः। तत्कारी ब्रह्मचारी, वेदाध्ययनार्ह इत्यर्थः। असि भवसि। अनेनाश्रमप्राप्तिर्लक्ष्यते। ब्रह्मचार्याश्रमं प्राप्तवानसीत्यर्थः। अत एवाप उदकानि अशान पिब। अपामशनेनाचमनं लक्ष्यते। भक्षणादिषु प्राप्तेषु आचम्यैव भक्षयेत्यर्थः। कर्म आश्रमधर्मलक्षणमुक्तमुदकुम्भसमित्पुष्पकुशाहरणादि कुरु।दिवा अहनि मा स्वाप्सीः निद्रां मा कृथाः।आचार्याधीन आचार्योक्तकारी, न स्वतन्त्र इत्यर्थः। वेदमभीष्व वेदाक्षराणि स्वीकुरु। आचार्याधीनो वेदमधीष्वेत्येवं ब्रुवतोऽयमभिप्रायः—मदधीनोऽधीष्व मम विरोधेसति मयानुज्ञाता104धीनोऽधीष्वेति। एतदुक्तं भवति —आचार्येणाध्ययनेक्रियमाणे तस्याध्यापनविरोधे सति तदनुज्ञातेनैव पुरुषान्तरेणाध्ययनं कर्तव्यं, न येनकेनचिदिति॥
अनुप्रवचनीयमिक्षाचरणमन्त्रौ निगदव्याख्यातौ॥
अथानुप्रवचनीयहोममन्त्राः। आचार्यःसमन्वारब्धे जुहुयात् ‘सदसस्पतिमद्भुतमि‘ति।
सद॑स॒स्पति॒मदूभु॑तंप्रि॒यमिन्द्र॑स्यकाम्य॑म्।
स॒नि॑मे॒धाम॑यासिषम्॥
(अष्ट. १. अध्या० १. व० ३५. ॠ०. ६. )
मेधातिथिः काण्व ऋषिः। गायत्री छन्दः। सदसस्पतिर्देवता। सदसस्पतिम्। अद्भुतम्। म105हन्नामैतत्। महान्तम्। प्रियमिष्टम् इन्द्रस्य तदायत्तस्वात् सर्वयज्ञानां काम्यं प्रार्थयितव्यम्। सर्वैः स्तोतृभिर्यष्टभिश्च। सनिम्। ‘षणु दाने’। धनदानम्। मेधांग्रन्थधारणप्रज्ञां च अयासिषम्। ईमहे यामीति याच्ञाकर्मसु पाठाद् यातियांच्ञाकर्मा। याचे॥
सावित्र्या द्वितीयम्।
सावित्री106 व्याख्याता। शिष्टा मन्त्रा निगदव्याख्याताः॥
‘चरितव्रताय मेधाजननं करोती’ति प्रकृत्य’प्रदक्षिणमुदकुम्भेन त्रिः परिषिञ्चतं वाचयति ‘सुश्रवः सुश्रवा असीति।
** सुश्रवः सुश्रवा असि यथा त्वं सुश्रवः सुश्रवा अस्येवं मां सुश्रवं सुश्रवसं कुरु। यथा त्वं देवानां यज्ञस्य निधिषोऽस्येवमहं मनुष्याणां वेदस्य निधिपोभूयासम्।**
कुर्वित्यन्तमेको मन्त्रः। तत ऊर्ध्वमपरो मन्त्रः। द्वाववामदेवार्षौ। अक्षरसंख्यया चानुष्टुभौ। पादक्लृप्त्यनवगमादेकं वायजुः। पलाशोऽभिधेयः। हे सुश्रवः ! ‘देवा107वैब्रह्मन्नवदन्त तत् वर्ण उपाशृणोत् सुश्रवा वै नामे’ ति श्रुतिदर्शनात् सुश्रवा इति सुश्रवश्शब्दः पलाशवचनो द्रष्टव्यः। तस्यसंबोधनं सुश्रवः इति। शोभनस्य ब्रह्मवादस्य श्रोतरित्यर्थः। सुश्रवाअसि भवसि यथा त्वं हे सुश्रवः ! सुश्रवा असि, एवं मां हे सुश्रवः ! सुश्रवसं शो108भनस्य वेदशब्दस्य श्रोतारं कुरु। अत्र बहुकृत्वःसंबोधनमादरार्थमिति मन्तव्यम्। किञ्च यथा त्वंदेवानां संबन्धिनो यज्ञस्य, निधिपः। निधीयत इति निधिः। यज्ञफलमुच्यते। तस्य पाता रक्षिता निधिपः। यज्ञनिर्वर्तकतया यज्ञफलदातेत्यर्थः। कथं पलाशस्ययज्ञनिर्वर्तकत्वमिति चेत्। उच्यते। तथाहि श्रूयते—‘तृतीयस्यामितो दिवि सोम आसीत्। तं गायत्र्याहरत्। पर्णमच्छिद्यत। तत् पर्णोऽभवदि’ति पलाषोत्पत्तिः सोमादेवगम्यते। सोमो हि यज्ञनिर्वर्तकः पलाशकारणम्। अतः कारणधर्मेण कार्यभूतपलाशःस्तूयते यज्ञस्य निधिप इति अग्निभवसि। एवमहं मनुष्याणां त्रैवर्णिकानां संबन्धिनो वेदस्य निधिपः। अत्र निधिशब्देन वेदार्थज्ञानमुच्यते वेदेषु निधीयत इति। तस्य पाता रक्षिता निधिपः। त्वत्प्रसादाद् वेदमधीत्यवेदार्थं109 श्रोता च भूयासमित्याशासे॥
‘तस्सवितुर्वृणीमह’ इति सावित्रीम्।
तत्सवितुर्वृणीमहे वयं देवस्य भोजनम्।
श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि॥
आत्रेयः श्यावाश्व ऋषिः। अनुष्टुप्।सावित्री। तदिति तच्छ्रुतेर्यच्छब्दोऽध्याहार्यः। यन्मण्डलं सर्वे प्राणिनः संभजन्ते, तत्। सवितुः सर्वस्य प्रसवितुरादित्यस्य स्वभूतम्। किं तत्। सामर्थ्यान्मण्डलम्। वृणीमहे।‘वृङ् संभङ्क्तौ’। संभजामहे। वयम्। कीदृशस्य सवितुः। देवस्य दानादिगुणयुक्तस्य। कीदृशं मण्डलम्। भोजनं, भुजिरत्र पालनार्थः। सर्वप्राणिनां पालयितृ। अथवा भुजिरभ्यवहारार्थ एव। भुज्यते उपजीव्यते हि तच्चराचरेण। किञ्च, श्रेष्ठं अतिशयेन प्रशस्यं च सर्वधातमं सर्वेषां प्राणिनामतिशयेन धारयितृ च। अथवासर्व इत्युदकनाम। दधातिर्दानार्थः। वृष्ट्युदकस्यातिशयेन दातृ च। तुरं तुर्वतिहिंसाकर्मा तुर्वृतृ हिंसितृ च तमसाम्। भगस्य भजनीयस्य सवितुः। किं सकृदेव संभजामहे, न। किं तर्हि। धीमहि। सततं चिन्तयामः मण्डलोपासनेन। अत्र तदन्तर्गत पुरुषोपासनं विवक्षितम्। सवितृमण्डलमध्यवर्तिनं हिरण्मयं पुरुषम्। उपास्मह इत्यर्थः। अस्या ऋचो होमे विनियोगे भोजनशब्देन हविरभिप्रेयते देवतया भुज्यत इति। वृणीमहे इत्यनेन च हविस्संस्कार उच्यते। सवितुरिति सम्प्रदानचतुर्थ्यर्थे षष्ठी द्रष्टव्या।धीमहीति च ध्यानेनात्र होमः प्रतिपाद्यते। एतदुक्तं भवति— यद् देवतार्हं हविस्तद्भोजनं देवतोपयोगार्हमित्यर्थः। श्रेष्ठमतिशयेन प्रशस्यं, सर्वधातमं देवताप्रीतिद्वारेण सर्वस्य जगतोऽतिशयेन धारयितृ, तुरम् अनर्थस्य हिंसितृ, त्वरयितृ वा कर्मफलागमे। वृणीमहे संस्कुर्म इत्यर्थः। संस्कृत्य च सवित्रे देवाय दानादिगुणयुक्ताय भगाय भजनीयाय धीमहि जुहुम
इत्यर्थः॥
‘एतेन वापनादिपरिदानान्तं व्रतादेशनं व्याख्यातमि’ तीह गृह्ये व्रतादेशनविधानात् सूत्रे च ‘एतद्विदं ब्रह्मचारिणमनिराकृतिनं संवत्सरावमं चारयित्वा व्रतमनुयुज्यानुक्रोशीने ‘‘प्रब्रूयादुत्तरमहर्मुहानाम्नीरग्रे’ इति महानाम्न्यादीनां प्रवचनविधानात् तेषां प्रवचनप्रकृतिभूतस्य महानाम्नी110व्रतस्य मन्त्रा इहाकृष्य व्याख्यायन्ते “अन्वारब्धे जुहुयादग्नावग्निरिति—
अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः।तस्मै जुहोमि हविषा घृतेन मा देवानां मोमुहद्भागधेयं
मो अस्माकं मोमुहद्भागधेयं स्वाहा ॥
वा111मदेवार्षम्। अतिजगती शाक्करी वा छन्दः। अग्निर्देवता। तस्मै जुहोमीत्युत्तरार्धर्चेतच्छब्दश्रवणात् पूर्वस्मिन्नर्धर्चे यच्छब्दोऽध्याहार्यः। योऽग्निनिर्मन्थ्यात्मा। अग्नावाहवनीयात्मनि प्रविष्टः संचरति। कीदृशः। ऋषीणां पुत्रः। ऋषिशब्देनात्र ऋत्विज उच्यन्ते, कर्मणां दृष्टत्वात्। तथाहि भगवान् यास्कः—‘ऋषिर्दर्शनादि’ति। अध्वर्थ्यादीनामृत्विजां पुत्रः। तैर्मथ्यमाने यस्माज्जायते तस्मात् तत्पुत्रव्यपदेशः। अधिराजः। अधीत्युपरिभावे। ‘राजृदीप्तौ’। अघिकदी112प्तः। अथवा राजतिरैश्वर्यकर्मा। सर्वेषामीश्वर इत्यर्थः। अस्मिन् पक्षेऽधीत्युपसर्गो धात्वर्थानुवादी। लम्बते प्रलम्बते इति यथा। तथाचोक्तं—
“धात्वर्थं बाधते कश्चित् कश्चित् तमनुवर्तते।
तमेव विशिनष्ट्यन्य उपसर्गगतिस्त्रिधा॥”
इति। एषः। अध्याहृतेन यच्छब्देनास्य सम्बन्धो य एष इति। तस्मै अग्नये। तादर्थ्यएषा चतुर्थी। अग्न्यर्थं जुहोमि होमं निर्वर्तयामि। केन। हविषा चरुलक्षणेन। घृतेन घृतवता। उपस्तीर्णाभिधारितेनेत्यर्थः। अथवा तस्मा इति सम्प्रदानचतुर्थी। अस्मिन् पक्षे जुहोतिरपि दानार्थः। हविषा घृतेनेति च तृतीया113द्वितीयार्थे।तस्मा अग्नये घृतसंयुक्तं हविर्ददामीत्यर्थः। किञ्च देवानामन्येषामपि भागघेयम्। भागश्चासौ धेयश्चेति भागधेयः। भागशब्देनात्र हृविरभिप्रेयते, देवैर्भज्यते सेव्यत इति। द114धातिर्दानार्थः। भागशब्दस्य पूर्वनिपातश्छान्दसः। धेयभागं हविरित्यर्थः। अथवा भागशब्दोंऽशवचन एव। हविषोंऽशं देयम्। अस्मिन् पक्षे नपुंसकलिङ्गनिर्देशश्छन्दसः। अग्नैप्रक्षिप्तं सदिति वाक्यशेषः। मोमुहत्। मिश्रणेन मोहं मा गमत् यथायथं देवता गच्छत्वित्यभिप्रायः। मो। उकारश्चार्थे। मा चास्माकं भागधेयं कर्मफललक्षणं मोमुहत् मोहं मागमत्। यथायथं तद् गच्छत्वित्यभिप्रायः। अनेन प्रकारेण कर्मफलमाधिकारिकमिति दर्शितं भवति। अन्यथा चेदन्यस्य फलमन्यस्यापि
भवेत्। आधिकारिकत्वे तु य एवाधिकारी, तस्यैवाधिकारनियोगस्य सिद्धये फलमाक्षिपतीत्यसङ्करः सिध्यति115 अग्नेः प्रददादिति वाक्यशेषाध्याहाराद् अग्नेः प्राधान्यम्।स्वाहेति प्रदानार्थो निपातः॥
या तिरश्चीनिपद्यतेहंविधरिणी इति !
तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा॥
‘यातिरश्चीति’ वामदेवर्षिः, अनुष्टुप् छन्दः संराधनी नाम देवता। नैरुक्तपक्षे संराधनी माध्यमिका वाक्। वृष्टिप्रदानद्वारेण सर्वं जगत् संराधयतीति। देवपक्षे116 देवतान्तरम्। सा च स्त्री।या त्वं संराधनी तिरश्ची तिर्यग्गामिनी निपद्यते। मध्यमस्य स्थाने प्रथमपुरुषः। तथाच तैत्तिरीयाणां पाठः। निपद्यसे शेषे। केनाभिप्रायेण। उच्यते। अहं विधरिणीति। विपूर्वोधरतिर्निवारणार्थः। निवारयन्ती।निवारणं च सामर्थ्याद् रक्षःपिशाचादीनाम्। एतदुक्तं भवति—कर्मसाधनार्थं कर्मविरोधिनां रक्षः पिशाचादीनामप्रवेशाय द्वारदेशे रक्षेत्यर्थः। तां त्वा त्वां घृतस्य धारयोपस्तरणाभिधारणलक्षणया युक्तेन हविषेति शेषः। यजे पूजयामि संराधनीं देवतामहम्। स्वाहेति प्रदानार्थः॥
यस्मै त्वा काम कामाय वयं साम्राड्यजामहे।
तमस्मभ्यं कामं दत्त्वाथेदं त्वं घृतं पिब स्वाहा॥
‘यस्मै त्वा’ वामदेवार्षम्, अनुष्टुप् छन्दः, कामो देवता। कामश्च नैरुक्तपक्षे पार्थिवोऽग्निर्मध्यमो वा। ऐतिहासिकपक्षे मन्मथः। हे काम ! यस्मै कामाय। काम्यते इति कामः फलमुच्यते। यस्मै फलाय त्वा त्वां वयं सम्राट् हे सम्राट् ! कामविशेषणमेतत्। सम्यग् दीप्त ! दीपयितर्वा विषयरागस्य। यजामहे पूजयामः। हविषेति वाक्यशेषः। तं कामं तत्फलमस्मभ्यं दत्त्वा। अथानन्तरमिदं घृतं घृतसंयुक्तं हविरित्यर्थः। त्वं पिब भक्षय।स्वाहेत्युक्तार्थः॥
अयं नो अग्निर्वरिवः कृणोत्वयं मृधः पुर एतु प्रभिन्दन्।
अयं शत्रूञ्जयतु जर्हृषाणोऽयं वाजं जयतु वाजसातौ स्वाहा॥
‘अयं नोऽग्निः’। अयमग्निर्नोऽस्मभ्यं, वरिवः।धननामैतत्। धनम्। कृणोत्विति। न इति सम्प्रदानचतुर्थीश्रवणाद् वरिव इतिच सम्प्रदेयश्रवणात्करोतिरिह क्रियासामान्यवचनः क्रियाविशेषे दाने वर्तते। करोतु ददात्वित्यर्थः। अयभेवाग्निःमृधः। मृधं करोति मृधयतीति ‘तत् करोति तदाचष्ट’ इति णिच्। ण्यन्तात् क्विप्। क्विपो लोपे द्वितीयाबहुवचनान्तमेतद्रूपम्। मृधः सङ्ग्रामकारिणः शत्रूनित्यर्थः। प्रभिन्दन् प्रकर्षेण विदारयन्। ज्वालाभिर्निर्दहन्नित्यर्थः। पुरः अस्माकमग्रत एतु गच्छतु। अयम् अयमेवाग्निः शत्रूनस्मदीयान् जयतु। जर्हृषाणः अत्य117र्थं हृष्यन् लीलयैवेत्यर्थः। अयमेवाग्निः। वाजम्।अन्ननामैतत्।अन्नं शत्रूणां स्वभूतं जयतु। वाजसातौ। सङ्ग्रामनामैतत् सङ्ग्रामे। स्वाहेति गतार्थः॥
‘असूयन्त्यै चानुमत्यै च स्वाहा’।
वामदेवार्षं यजुरिदम्। असूयन्ती चानुमतिश्च देवते। अनुमतिर्मध्यमस्थाना स्त्री। असूयन्त्यपि तत्साहचर्यात् तत्स्थानैवेति नैरुक्तसिद्धान्तः। उभयं देवतान्तरम् ऐतिहासिकपक्षे।ताभ्यां स्वाहुतमस्तु !
‘प्रदात्रे स्वाहा’।
वामदेवार्षं यजुः,प्रदाता देवता।प्रदाता मध्यमस्थानेन्द्रः। देवतान्तरं वैतन्नामकम्।तस्मै स्वा118हुतमस्तु॥
व्याहृतयो व्याख्याताः॥
“हुत्वाहैतंस्थालीपाकं सर्वमशाने” ति।
वामदेवो वा विश्वामित्रो वा ऋषिः। यजुरिदम् ! माणवकोऽभिधेयः। एतं स्थालीपाकं119 हुतशिष्टं सर्वमशान भक्षय।हे माणवक ! सर्वं कृत्स्नमशान भुङ्क्ष्वेत्यर्थः॥
‘आदित्यमुपस्थापयेत् त्वं व्रतानां व्रतपति’रिति।
त्वं व्रतानां व्रतपतिरसि व्रतं चरिष्यामि तच्छकेयं तेन शकेयं तेन राध्यासम्॥
वामदेवार्षं यजुरिदम् आदित्योऽभिधेयः। हे आदित्य ! त्वम्। व्रतानामित्येतत् व्रतपतिरित्येतेन सम्बध्यते। व्रतपतिशब्दश्च यद्यपि व्रतानां पतिर्व्रतपतिरित्येवमन्वाख्यायते। तथापि यथा प्रवीणशब्दः प्रकृष्टोवीणीयामित्येवमन्वाख्यायमानः प्रकृष्टमात्रस्य वाचको न वीणायामेव प्रकृष्टस्य एवमयमधिपतिमात्रस्य वाचको न व्रतानामेवाधिपतेः। तेन व्रतानामित्येतस्य व्रतपतिरित्येतेनापौनरुक्त्यम्। अत एतदुक्तं भवति—व्रतानां पतिरिति। इयमेव प्रक्रिया ‘गणानां त्वा गगपतिं’, ‘विशां कविं विश्पतिं’, ‘त्वामग्नेवसुपतिं वसूनाम्’, ‘वसूयवो वसुपते वसूनां’, ‘गोपतिः शूरगोनामि’त्येवमादिषु मन्त्रेषु120 द्रष्टव्या। व्रतानां कर्मणां पतिः पालयिता। असि लोडर्थेलट्। भवेत्यर्थः। व्रतं चरिष्यामि त्वत्प्रसादादहं महानाम्न्यध्ययनशेषभूतं कर्म चरिष्यामि। तत् कर्म शकेयमनुष्ठातुं शक्नुयामित्याशासे। तेन व्रतेनानुष्ठितेन शक्नुयामध्ययनं कर्तुमिति वाक्यशेषः। तेनाधीतेन वेदभागेन, राध्यासम्। ‘राध साध संसिद्धौ’। सिद्धो भूयासम्, अध्ययनपारमविघ्नेनाप्नुयामित्यर्थः॥
** “आचार्योऽहतेन वाससा त्रिः प्रदक्षिणं शिरसः सम्मुखं वेष्टयित्वाहैतं कालमेवम्भूतोऽस्वपन् भवे” ति।**
वामदेवो विश्वामित्रो वर्षिः। यजुरिदम्।माणवकोऽभिधेयः। एतं कालमेतावन्तं कालमित्यर्थः। यावान् कालस्त्वया सङ्कल्पितः, एकरात्रं त्रिरात्रं वा तावन्तं कालमेवंभूतः परिवेष्टितशिरस्कः अस्वपन् स्वापमकुर्वन् भव। एवंभूतशब्देनास्य भवतेः सम्बन्धः॥
पृष्ठेन121 पृष्ठं सन्धाय महानाम्नीर्भो! अनुब्रूहीति मनसा ब्रूयात्।
वामदेवार्षं यजुः। आचार्यो देवता। ’ सावित्रीं भो’ इत्यनेन व्याख्यातम्॥
‘पुनः पृष्ट्वांनुक्रोशन’ इत्यारभ्यादित्यमीक्षयेद् ‘मित्रस्य त्वे’त्यनेन।
मित्रस्य त्वा चक्षुषा प्रतीक्षे मित्रस्य त्वा चक्षुषा समीक्षे मित्रस्य त्वा चक्षुषानुवीक्षे॥
वामदेवार्षं द्वैपदम्, आदित्यो देवता। हे आदित्य ! मित्रस्य देवस्य चक्षुषा न मदीयेन। त्वा त्वां प्रतीक्षे प्रतिपश्यामि। आत्मनि मित्राध्यारोपंकृत्वा त्वां प्रतिपश्यामीत्यर्थः। अनेनैव प्रथमपादव्याख्यानेन द्वितीयपादो व्याख्यातः॥
“मित्रस्य वश्चक्षुषानुवीक्ष” इति दिशः ससम्भाराः।
दिक्सम्मारा देव122त्या। वामदेवार्षैकपदा दशाक्षरा। मित्रस्य चक्षुषा वो युष्मान् दिशः सम्भाराश्च नुवीक्षे आनुपूर्व्येण क्रमेणाहं पश्यामीत्यर्थः॥
पुनरादित्यं मित्रस्य त्वेत्यादिना। ई123क्षयेदित्यनुषङ्गः।
मित्रस्य त्वा चक्षुषा प्रतिपश्यामि योस्मान् द्वेष्टि यं च वयं द्विष्मस्तं चक्षुषोर्हेती ऋच्छतु॥
वामदेवार्षं यजुरिदमादित्यदैवतम्। हे आदित्य ! मित्रस्य चक्षुषा त्वा त्वां प्रतिपश्यामि त्वत्प्रसादादू योऽस्मान् द्वेष्टि यं च वयं द्विष्मः तं शत्रुं चक्षुषोः गोलकाभिप्रायं द्विवचनम्। हेतिः। आयुधनामैतत्। आयुधं शस्त्रमृच्छतु गच्छतु। अस्मच्छत्रोश्चक्षुर्द्वये तक्ष्णिं शस्त्रं पततु। अस्मच्छत्रुरन्धो भूयादत्यभिप्रायः॥
“भूमिमुपस्पृशेदग्नइलेत्यादिभिःस्योनापृथिवी भवेत्यन्ताभिर्नवभिः’। तासु प्रथमाद्वितीययोः षष्ट्यादेस्त्वृचस्य वामदेव ऋषिः। नवम्याः काण्वो मेधातिथिर्ॠषिः। तृतीयाया राहुगणो गौतमः। चतुर्थ्या वसिष्ठः। पञ्चम्या ऋषिश्च भारद्वाजः। प्रथमा काविराट् नामानुष्टुप्।यजुर्वा। द्वितीया षष्ठ्याद्याश्चतस्त्रश्च गायत्र्यः। तृतीयाद्यास्तिस्रस्त्रिष्टुभः। प्रथमा वैश्वदेवी।द्वितीया सारस्वती। तृतीयाद्यास्तिस्रो वैश्वदेव्यः। षष्ठ्याद्यास्तिस्र ऐन्द्र्यः।नवमी पार्थिवी।सर्वासां भूम्युपस्पर्शने विनियोगात् भूमेरेव प्राधान्यं द्रष्टव्यम्। तथा च व्याख्यायन्ते।
अग्नइला नम इला नमऋषिभ्यो मन्त्रकद्भ्यो मन्त्रपतिभ्यो नमो वो अस्तु देवेभ्यः॥
अग्नइला। हे अग्ने! इला पृथिवीनामैतत्। तात्स्थ्यादत्र ताच्छब्द्यम्। प्रथमा च सम्बुद्धौ द्रष्टव्या। अग्नेर्विशेषणमेतत्। हे पृथिवीस्थाग्ने! नमः। अस्त्वित्युत्तरत्र श्रूयमाणमिहानुषक्तव्यम्। तुभ्यमिति वाक्यशेषः। तुभ्यं नमोऽस्तु। इला, इदमपिसम्बुद्धयन्तं द्रष्टव्यम्। हे इले ! पृथिवि ! तुभ्यं नमोऽस्त्विति शेषः। नम ऋषिभ्यो मन्त्रकृद्भ्यः मन्त्राणांप्राप्नुयाम। देवहितं देवैर्हितं दत्तं देवैर्वाभिहितं स्थापितमुपकल्पितं यदायुर्जीवितं वर्षशतपरिमाणम्। तत् सर्वं युष्मान् स्तुवन्तो युष्मत्प्रसादेन प्राप्नुयाम।मान्तरा मृत्युरित्यभिप्रायः। भूम्यां तु देवाः यजत्राः इति पदद्वयमेकवचनस्य स्थाने बहुवचनान्तं द्रष्टव्यम्। देवशब्दस्य ङीबन्तता च द्रष्टव्या॥
शंन॑इन्द्रा॒ग्नीभ॑वतामवो॑भिः॒शंनइन्द्रा॒वरु॑णा॒रात ह॑व्या।
शमिन्द्रा॒सोमा॑सुवि॒ताय शंयोःशं॒नइ॒न्द्रा॑पू॒षणा॒वाज॑सातौ॥
(अष्ट०५. अध्या० ३. व० २८. ऋ० १)
‘शन्नइन्द्रामी’।नोऽस्माकं इन्द्राग्नीशं सुखनामैतत्। इन्द्राग्निविशेषणम्। सुखौ सुखकरावित्यर्थः। भवताम्।अवश्शब्दः सुखसंवेदनवचन एव, न तत्कर्तृवचनः। अस्मिन् पक्षे भवतिः सामर्थ्यात् करोत्यर्थः। सुखं कुरुतामित्यर्थः। अवोभिः।सहयोग एषा तृतीया पालनैःसह। अथवा अवोभिरिति करणे तृतीया। एतदुक्तं भवति—इन्द्राग्नी भगवन्तावस्मान् पालयन्तौ सुखकरौ भवतां सुखमस्माकं कुरुतामिति। एवं सर्वत्र।शं सुख नोऽस्माकमिन्द्रावरुणौ। कीदृशौ। रातहव्या रातहव्यौ। दत्तहविष्कौ।भवतावित्यनुषक्तव्यम्। शं सुखमिन्द्रासोमौ नो भवतामिति चानुषङ्गः। किञ्च, सुविताय, सुवितशब्दोऽत्रापत्यवचनः। तथाच भगवता यास्केन निरुक्तम्— ‘सुविते सु इते सूते सुगते प्रजायामिति वे’ति। अस्माकमपत्याय शं श मनं रोगादीनामुत्पन्नानां नाशनम्। योः, योरिति पृथग्भावार्थः। यापनं च पृथग्भावन124म् उत्पन्नैः भयादिभिरनिष्टैरसंयोगं च इन्द्रासोमौकुरुतामिति शेषः। शं सुखं नः अस्माकमिन्द्रापूषणौ भवतां कुरुताम्।वाजसातौ, सङ्ग्रामनामैतत्। सङ्ग्रामे। एतदुक्तं भवति—युद्धे वर्तमानानामस्माकं शत्रुजयलक्षणं सुखं कुरुतामिन्द्रापूषणौ। शत्रुजयेन सुखकरौ वा भवतामिति। भूम्यभिधाने तु इन्द्रादयः शब्दाः क्रियावचनाः यथासम्भवं योजयितव्याः॥
स्तु॒षे जनं॑सुव्रतंनव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णासुम्नयन्ता॑।
तआग॑मन्तु॒तइह॒॑श्रुव॒न्तुसुक्ष॒त्रोसा॒व॑रुणोमि॒त्रो अ॒ग्निः॥
( अष्ट० ४. अ० ८. व० ५ .ऋ० १)
‘स्तुषेजनं’।स्तुषे इति व्यत्ययेनायं मध्यम उत्तमस्थाने। स्तौमीति। जनम् अरण्योर्जायमानत्वाद् यागद्वारेण कृत्स्नस्य जगतो जनयितृत्वाद्वा जनशब्देनाग्निरुच्यते। अरण्योर्जातं यागद्वारेण जगतो जनयितारं वाग्निम्। सुव्रतं, व्रतमिति कर्मनामः। शोभनं हविर्नयनादिकर्म कुर्वाणम्। नव्यसीभिरन्यैरप्रमुक्तपूर्वाभिर्गीर्भीर्वाग्भिः। न च केवलमात्मनः सुखमिच्छन्तौ किं तर्हि। मित्रावरुणा मित्रावरुणौ च।सुम्नयन्ता। सुम्नमिति सुखनाम तमिच्छन्तौ सुम्नयन्तौ, स्तुतिनिमित्तंसुखमात्मन इच्छन्तौ। ते चाग्न्यादय आगमन्तु आगच्छन्तु। आगत्य च ते देवा इहास्मदीये यज्ञे। सप्तमीनिर्देशात् स्थिताः सन्त इति वाक्यशेषः। श्रुवन्तु शृण्वन्तु। स्तुतिलक्षणा गिरः इति शेषः। कीदृशा देवाः। सुक्षत्रासः। क्षत्रमिति धननाम बलनाम वा। सुधनाः सुबला वा। वरुणमित्रौ अग्निश्च। भूम्यभिघाने वचनव्यत्ययो लिङ्गव्यत्ययश्च॥
कया॒॑नश्चित्रआभु॑वदूतीसदा॒वृधःसखा॑।
कया॒शचि॑ष्ठयावृता॥
(अष्ट० ३. अध्या० ६ व० २४. ऋ० १.)
‘कयानः’। ऊती,तृतीयैकवचनस्य पूर्वसवर्णादेशः। ऊत्या। केन पालने नेत्यर्थः। नोऽस्माकं सदा वृधः सर्वदा वर्धयिताभिलषितार्थैः। स्तोतॄणां यष्टॄणां च सर्वदा वर्धनीयो वा इविर्भिः स्तुतिभिश्च। आभुवदाभिमुख्येन भवति। चित्रः चायनीयः पूजनीय इन्द्रः।सखा समानख्यानः कया वा शचिष्ठयातिशयेन कर्मवस्या वृता, वर्ततेर्गतिकर्मणो रूपमेतत्। वृद् गमनम्।सामर्थ्यादनुपूर्वो वर्ततिर्द्रष्टव्यः। केनागमनेनास्मद्यागादिकर्मफलसहितेनास्मान् प्रत्यागच्छेदित्याशास्महे।आगमनविलम्बननिर्वेदोक्तिरियम्। भूम्यभिधाने लिङ्गव्यत्ययः॥
कस्त्वा॑स॒त्योमदा॑नांमंहि॑ष्ठोमत्स॒दन्ध॑सः।
दृ॒ह्लाचिदारु॒जे॒वसु॑॥
(अष्ट० ३. अध्या० ६. व० २४. ऋ० २.)
‘कस्त्वा सत्य.’। हे इन्द्र ! कः यष्टा त्वा त्वां सत्यः अविसंवादी। मदानां, निर्धारण एषा षष्ठी। मदकराणां द्रव्याणां मध्ये।अन्धसः।अन्ननामैतत्। तृतीयार्थे षष्ठी। अन्धसा हविर्लक्षणेनान्नेन। अथवा अन्धस इति षष्ठीनिर्देशादेकशेषेण स्वलक्षणेनेति शेषः। मत्सद् मादयति, तर्पयति वा। मंहिष्ठः, मंहतिर्दानकर्मा अतिशयेन दाता। अस्मद्यज्ञं प्रत्यागच्छन्तं त्वां को यष्टा निवार्य हविषा तर्पयतीत्यागमनविलम्बनात् परिदेवनैवेयम्। दृह्वाचिद् दृढान्यपि वसूनि धनानि भाण्डागारे शत्रुभिः सुगुप्तं निक्षिप्तान्यपि सन्ति धनानीत्यर्थः। आरुजे आभिमुख्येन मिनत्ति। भाण्डागारं विमृद्य तत्स्थं धनमाहरतीत्यर्थः। अत्रैकवाक्यतायै यत्तच्छब्दावध्याहार्यौ।यो भवान् शत्रूणां स्वभूतानि सुगुप्तान्यपि धनानि तान् हत्वापहरति, तं त्वां को यष्टा हविषा मत्सदिति। भूम्यामप्यविशिष्टा योजना॥
अ॒भीषुणः॒सखी॑नामवि॒॑तारज॑रितॄणा॒म्।
श॒तंभ॑वास्यूतिभिः॥
(अष्ट० ३. अध्या० ६. व० २४. ॠ० ३.)
‘अभीषुणः’। प्रत्यक्षकृतोऽयं मन्त्रो मध्यमपुरुषयोगात्। हे इन्द्र ! नः अस्माकं सखीनां समानख्यानानां जरितॄणाम्। स्तोतृनामैतत्। शतम्, तृतीयैकवचनस्य लुक्। शतेन। ऊतिभिर्बहुभिः पालनैर्नानाप्रकारै रक्षणोपायैरस्मान् स्तोतॄन् पाहीत्यर्थः। सुः पादपूरणः। भूम्यमभिधाने लिङ्गव्यत्ययः॥
स्यो॒ना॑पृथिवीभवानृक्ष॒रानि॒वेश॑नी।
यच्छा॑नः॒शर्मस॒प्रथः॑॥
(अष्ट० १. अध्या० २. व० ६. ऋ. १५.)
‘स्योना पृथिवी’। हे पृथिवि ! योना सुखनामैतत्। सुखा, सुखकरीत्यर्थः। भव। अनृक्षरा ऋक्षरं कण्टकं तद्वर्जिता भव। निवेशनी निवेशयन्त्येतस्यामिति निवेशनी। अधिकरणे ल्युड् द्रष्टव्यः। निवेष्टुं योग्या सूपसर्पणा च भव।किञ्च यच्छ प्रयच्छ देहि नोऽस्मभ्यं शर्म सुखम्। किंविशिष्टम्।सप्रथः सर्वतः पृथु विस्तीर्णम् असंबाधम्॥
प्रकृतमनुसरामो वयम्।ऋत्विजो वृणीते।तत्र सदस्यप्रशंसापरौ मन्त्रौ ‘यमृत्विजो बहुधा कल्पयन्त ‘, ‘एक एवाग्निर्बहुधा समिद्व’इत्येतौ। तदुक्तमृग्भ्याम्—‘य- मृत्विजो बहुवा कल्पयन्त’ इति हविष्यातीये मूक्ते कत्यग्नयः कति सूर्यासः कत्युषासः कत्युस्विदिनि प्रश्नः। एक एवाग्निरित्यस्य प्रतिचवनप्रतिपाद्येयमृक्। यमृत्विजो बहुधेत्युत्तरा125।अनेन क्रमेण स्निलमन्त्रद्वयं पठित्वा व्याख्यातमुद्गीथःचाः संहिताव्याख्यानं कुर्वद्भिः। इह तु विनियोगक्रमेण मन्त्रद्वयं व्याख्यायते.—
यमृ॒त्विजो॑बहु॒धाक॒ल्प॑यन्तः॒सचेतसो॑य॒ज्ञमि॒मंवह॑न्ति।
योअ॑नूचा॒नोब्रा॑ह्म॒णोयु॒क्तआ॑सी॒त्का॒स्वित् तत्र॒॑यजमानस्यसं॒वित्॥
आङ्गिरसस्य मूर्धन्वत आर्षम्।त्रिष्टुप् छन्दः। सूक्तस्य वैश्वानरीयत्वाद् वैश्वानरीयत्वे प्राप्ते विनियोगसामर्थ्यादिह सदस्योऽभिधीयते। यम् इमं यज्ञमृत्विजो होत्रादयः सचेतसः चेतोयुक्ता मन्त्रब्राह्मणार्थज्ञानिन इत्यर्थः। बहुधा नानाप्रकारं कल्पयन्तः, विचारोऽत्र कल्पनं विवक्षितम्।विचारयन्त. वहन्ति प्रापयन्ति निर्वर्तयन्तीत्यर्थः। तत्र यज्ञे यो ब्राह्मणः सदस्याख्यः अनूचानः वदेवदाङ्गज्ञानीत्यर्थः। युक्तोऽङ्गीकृतः। आस्ते उपविशति। तस्मिन् सतीति वाक्यशेषः। तस्मिन् सदस्ये एवंलक्षणे सति यजमानस्य कास्वित् काचन, काचिदपीत्यर्थः। संवित् संवित्तिः कर्मनिष्पादनशक्तिः नान्यस्य। कस्य तर्हि सामर्थ्यं, सदस्यस्यैवेत्यभिप्रायः॥
एक॑ ए॒षाग्निर्ब॑हु॒धासमि॑द्ध॒एकः॒ सूर्योविश्व॒मनुप्रभू॑तः।
एकै॒वोषाः सर्वमि॒दं विभा॒त्येकं॒वा इदं॒॑विव॑भूवसर्व॑म्॥
‘एक एवाग्निः’ एक एव बहुधा बहुप्रकारमादित्यात्मना गाईरत्यन्वाहार्याहवनीयात्मना च समिद्धःसन्दीप्तो लोकानुग्रहाय भवति। यथाच सूर्य एक एव विश्वं सर्वं चराचरात्मकं जगदनुप्रभूतः अनुग्रहीतुं समर्थो भवति। यथाच एकैवोषाः सर्वमिदं चराचरात्मकं जगद् विभाति विविधं दीपयति। यथाच वृष्टिलक्षण मेकमेवोदकमिदं सर्वं चराचरात्मकं जगद् विबभूव। वीत्युपसर्ग उदित्यस्य स्थाने। भवतिः सामर्थ्यादन्तर्णीतण्यर्थः। उद्भावयति उत्पादयतीत्यर्थः। लिट् च लडर्थे। एवमेवानूचानः सदस्य एकएव सर्वं यज्ञं जानाति ज्ञापयति चान्यानि सर्वाणि। सदस्यस्तुतितया चव्याख्याता॥
होतारमेव,प्रथमं वृणीते “ऽग्निर्मेहोता स मे होते” ति।
यजुरिदं प्रश्लिष्टपठितत्वात्। वामदेव ऋषिः होतात्राभिषेयः। अग्निः पार्थिवो मे मम होता ऋग्वेदविहितस्य पदार्थस्य मुख्यस्य कर्ता। स्यादिति वाक्यशेषः। यथाचार्येणोक्तं—स मे होता स एव मम होता स्यान्न मानुष इति। आदरार्थमभ्यासः। अतस्तमेव होतारं त्वामुं वृण इति। स र्वत्र चादश्शब्दप्रयोगे नामनिर्देशः। विभक्तिस्तु यथावाक्यम्।देवदत्तं वृणे प्रार्थये। एतदुक्तं भवति—यः पार्थिवोऽग्निर्देवानां होता तं त्वय्यध्यारोप्य। तदधिष्ठितं त्वां होतारं वृण इति। अनेनैव सर्वे वरणमन्त्रा व्याख्याताः॥
चन्द्रमा मे ब्रह्मा स मे ब्रह्मा ब्रह्माणं त्वामुं वृण इति ब्रह्माणम्।
** आदित्यो मेऽध्वर्युरित्यध्वर्युम्। पर्जन्यो मे उद्गातेत्युद्गातारम्। आपो मे होत्राशंसिन्य इति होत्रकान्। रश्मयो मे चमसाध्वर्यव, इति चमसाध्वर्यून्। आकाशो मे सदस्य इति सदस्यम्॥**
ब्रह्मवरणमन्त्रवदितरेषां मन्त्राणां यथालिङ्गं यथावचनं च वाक्कशेषोऽनुषक्तव्यः सामर्थ्यात्॥
** स वृतो जपेद् महन्मेऽवोचो भर्गो मेऽवोचो भगो मेऽवोचो यशो मेऽवोचः स्तोमं मेऽवोचः क्लृप्ति मेऽवोचस्तृप्तिंमेऽवोचो भुक्तिं मेऽवोचः सर्वं मेऽवोच इति॥**
वामदेवार्षं यजुः। यियक्षुरभिघेयः। “हे यियक्षो। महद्"भूतम्। किं तत्। सामर्थ्यात् दक्षिणा द्रष्टव्या। मे सह्यमवोचः। लोडर्थोऽयं लुङ्। ब्रूहि। भर्गः भजनीयः। अथवा भर्जेरेतद्रूपम्।पापानां भर्जनम्। प्रागुक्त द्रव्यमेव विशेष्यम्। विहितोपायार्जितमित्यर्थः। यशःयशोनितिम्।स्तोमं स्तोमार्हं, स्तुत्यमित्यर्थः। क्लृप्तिं क्लृप्तिसाधनं, सामर्थ्यप्रतिपादकमित्यर्थः। भुक्ति भोजनसाधनं, पालनसाधनं वा। सर्वं सर्वपुरुषार्थस्यापादकम्। एतृदुक्तं भवति— द्वादशशतादिप्रभूतद्रव्यदक्षिणाकल्पं महृं, ब्रूहि,नाल्पद्रव्यमितिसमस्तार्थः॥
अग्निष्टे होता स ते होता अहं ते मानुष इति होता प्रतिजानीते॥
वामदेवार्षयजुरिदम्। यियक्षवोऽभिधेयाः। हे यियक्षो ! अग्निः ते तव होता। यथा त्वयाभ्यर्थितः, तथैव स होता भवतु।अहं ते तव मानुषः मनुष्यो होता। भविष्यामीति वाक्यशेषः। एतदुक्तं भवति —देवानां होतायोऽग्निः, स एवास्मीति तद्भावनया तव हौत्रं करिष्यामीति॥
चन्द्रमास्ते ब्रह्मा स ते ब्रह्मा।
ब्रह्मैवास्मि॥
एवमितरे यथादेशम्।
होतुःप्रतिवचनमन्त्रेण इतरे प्रतिवचनमन्त्रा व्याख्याताः। यथालिङ्गं वाक्यशेषोऽनुषक्तव्यः॥
तन्मावतु तन्मा विशतु तेन भुक्षिर्षयेति च याजयिष्यन्।
जपतीति शेषः। वामदेवार्षं यजुरिदम्। अधिक्रियमाणकर्म दैवतम्। तदितिः तच्छ्रुतेर्यदध्याहारः। येन कर्मणा याजयिष्यामि तत् कर्म मा माम् अवतु।अवतिरत्र गत्यर्थः गच्छतु। कर्मगमनेनात्रार्त्विज्ययोग्यत्वं प्रतिपाद्यते। प्रक्रान्ते कर्मण्यार्त्विज्ययोग्यो भूयासमित्यभिप्रायः। तदेवकर्म मा विशतु। प्रवेशनादत्र तदङ्गभूतदक्षिणाद्रव्यप्रवेशो लक्ष्यते। कर्मङ्गभूतं दक्षिणाद्रव्यं मां प्रविशत्वित्यर्थः। तेनद्वितीरयार्थ एषा तृतीया। तत्कर्माङ्गभूतं दक्षिणाद्रव्यं भुक्षिषीय भुञ्जीयेत्याशास इत्यर्थः॥
‘को यज्ञ’ इत्यादिप्रश्नमन्त्रा वामदेवार्ष निगदव्याख्याताः। सोम कोकोऽभिधेयः। कुत एतत्। ‘सोमप्रवाकं परिपृच्छेदि’ ति वचनात्॥
आहिताग्नेरृत्विजः संस्थाजपोत्तरकालं स्वकीये दक्षिणाग्नावाज्याहुतिः कर्तव्या ‘एते.नाग्ने’इति।
ए॒तेना॑ग्ने॒ब्रह्म॑णाबावृधस्वश॑क्तीवा॒य॑त्तेचकृ॒मावि॒दावा॑।
उ॒तप्रण॑ष्य॒भिवस्यो॑अ॒स्मान्त्सं॒नः॑सृजसु॒मत्यावाज॑वत्याः॥
( अष्ट० १. अध्या २. व० ३६. ऋ० १८.)
हिरण्यस्तूप आङ्गिरस ऋषिः। त्रिष्टुप् छन्दः। दक्षिणाग्निर्देवता। एतेन ब्रह्मणा। अन्ननामैतत्। आज्याहुतिलक्षणेनान्नेनाग्ने! दक्षिण ! वावृधस्व अत्यर्थं वर्धस्व। शक्ती वा। तृतीयैकवचनस्यायं पूर्वसवर्णः। वाशब्दश्चार्थे। शक्त्या च यत् ते तुभ्यं चकृम। करोतिः सामर्थ्याद् दानार्थः। दत्तवन्त इत्यर्थः। विदा वा, अयमपि वाशब्दश्चार्थे।विज्ञानेन यद् वयं दत्तवन्त इत्यर्थः। उतापि च त्वमेवाभिप्रणेषि अभिप्रणयसि होमं करेण प्रापयसीत्यर्थः। कीदृशः। वस्यः वसीयान् वसुनत्तरः126। कान्। अस्मान्। एतदुक्तं भवति—त्वां यष्टुं कुतो नः शक्तिर्ज्ञानं घा।त्वदनुग्रहादेव वयं तव होमं कृतवन्तो न स्वमहिम्नेति। अथवोतेत्येतत् प्रणेषीत्यस्मात् परं द्रष्टव्यम्।लट् च लोडर्थे। अभिप्रणेष्युत अभिप्रणय च। एतेन ब्रह्मणात्यर्थंवर्धस्व। प्रापय चास्मानित्यर्थः। किम्। वस्यः। द्वितीया बहुवचनमेतच्छान्दसम्। वसूनि धनानि चास्मभ्यं देहीत्यर्थः। किञ्च सं नः सृज।सृजिरत्रान्तर्णीतण्यर्थः। संसृज संसर्जय सम्बन्धयास्मान् सुमत्या शोभनया मत्या बुद्ध्या वाजवत्यान्नसहितया।ज्ञानमन्नं चास्माकं जनयेत्यर्थः॥
एवमनाहिताग्निर्गृह्य"इमामग्नेशरणिं मीमृषो नः” इत्येतयर्चा।ऋचेति चाधिकवचनात् स्नातकादीनामपि लौकिकाग्नौकर्तव्य इति।
इ॒माम॑ग्नेश॒रणिंमीमृ॒षोनइ॒ममध्वा॑नं॒ यमगाम॑दुरात्।
आ॒पिःपि॒ताप्रम॑तिःसो॒म्यानां॒भ्रमि॑रस्यृषि॒कृन्मर्त्या॑नाम्॥
( अष्ट. १. अध्या० २. व० ३५. ऋ० १६. )
हिरण्यस्तूप ऋषिः। त्रिष्टुप् छन्दः। अग्निर्देवता। इमां शरणिम्। ‘शॄहिंसायाम्’। आत्मनो हिंसां परिचरणाभावकृतां हे अग्ने ! मीमृषः। ‘मृषस्तितिक्षायामि त्यस्य स्वार्थिके णिचि चङिलोडर्थे लुङ्। मृष्य मृष्यस्व। नः अस्माकं स्वभूताम्। कतमाम्। उच्यते। इममध्वानं मार्गंपरयज्ञवास्तुलक्षणं, यम्। पञ्चम्यर्थे द्वितीयैषा यस्माद् अगाम गतवन्तो वयं द्रव्यलोभात्। दूराद्, अध्वविशेषणमेतत्। अतो द्वितीयार्थे पश्चमी। दूरम्। कस्मात्। क्षमेति। उच्यते। यस्मादापिः ज्ञातिस्त्वम्। कीदृशः। पिता सोम्यानां सोमसंवादिनां सर्वयजमानानान्। किञ्चभ्रमिरसि लोकत्रयं भ्रमितासि लोकत्रयगन्तासि।त्रिष्वपि लोकेष्वप्रतिहतगतिरित्यर्थः। ऋषिकृत् तमोपनयनद्वारेण दर्शनकृत् मर्त्यानां मनुष्याणाम्। अत एवमुच्यते शरणिं मीमृषो न इति॥
अथ मधुपर्कमन्त्रा व्याख्यायन्ते। अत्र विष्टरोपवेशने तदाक्रमणमन्त्राः।
अहं वर्ष्म सजातानां विद्युतामिव सूर्यः।
इदं तमधितिष्ठामि यो मा कश्चाभिदासति॥
‘अहं वर्ष्मेति’। वामदेवार्षम्।अनुष्टुप् छन्दः उपवेष्टाभिधेयः। अहं वर्ष्म। वर्ष्मशब्दो वरिष्ठवचनः। वरिष्ठः, भूयासमिति वाक्यशेषः। केषाम्। सजातानां ब्राह्मणादीनामित्यर्थः। विद्युतामिव सूर्यः। विद्युच्छब्देनात्र विद्योतनस्वभावा अग्निचन्द्रादयः पदार्था अभिप्रेयन्ते। यथा सूर्योऽग्निचन्द्रादीनां प्रकाशधर्माणां वरिष्ठः, तद्वत्। यो मा कश्च यः कश्चिच्छत्रुर्माम्। अभिदासति। दसिरुपक्षयार्थः। सामर्थ्यादन्तर्णीतण्यर्थः। आभिमुख्येनोपक्षपयति। इदम्, द्वितीयैकवचनस्य लुक्, लिङ्गव्यत्ययो वा। इमं ते शत्रुमधितिष्ठामि। एतदुक्तं भवति —विष्टरे शत्रुबुद्धिं कृत्वोपवेशने कृते शत्रवो नश्यन्तीत्यभिप्रायः॥
अथाचमनमन्त्रः—
अमृतोपस्तरणमसि।
वामदेवार्षं यजुः। पीयमानं जलमभिधेयम्। अमृतशब्देनात्र मधुपर्क उच्यते। अमृतस्य मधुपर्कस्योपस्तरणम्।लुप्तोपममेतत्। उपस्तरणमिव। असि। लोडंर्थे लट्। भवेत्यर्थः। एतदुक्तं भवति — यथा पुरोडाशादिहविष आज्यमुपस्तरणं, तद्वत्। अथवा अमृतशब्देन पीयमानं जलमेवोच्यते, न मधुपर्कः। उदकनामसु पठितत्वात्। अस्मिन् पक्षे सम्बुद्ध्यन्तं चैतत्। हे अमृत ! जल ! उपस्तरणं भव। कस्य सामर्थ्यान्मधुपर्कस्येति॥
मधुपर्केक्षणप्रतिग्रहणमन्त्रौ व्याख्यातौ—
‘मधुवाता ऋतायते’ इति तृचेनावेक्ष्य।
मधु॒ वाता॑ ॠताय॒तेमधु॑ क्षरन्ति॒ सिन्ध॑वः माध्वी॑र्नः स॒न्त्वोष॑धीः।
मधु नक्त॑मु॒तोषसो॒ मधु॑मत् पार्थिवं॒ रजः मधु॒धौर॑स्तु नः पि॒ता।
मधु॑मान् नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ माध्वी॒र्गावो॑ भवन्तु नः॥
(अष्ट०१. अध्या० ६. व० ११. ऋ० ६. ७,८.)
गौतमो राहुगण ऋषिः। गायत्री छन्दः। विश्वेदेवा देवताः। मधु वाताः, मधुशब्दो रसविशेषवचनः सन्निह विनियोगसामर्थ्यान्मधुपर्कद्रव्ये वर्तते। वाता वायवः, ऋतायते। ऋतशब्दः कर्मवचनः। श्रौतस्मार्तलक्षणं कर्म कामयमानाय मह्यमित्यर्थः। क्षरन्तीत्युत्तरत्र श्रूयमाण127मनुषक्तव्यम्। लटच लोडर्थे। क्षरन्तु।सिन्धवो नद्यःमधुक्षरन्तु।माध्वीः,मध्वेव माध्वम्। स्वार्थिकस्तद्धितश्छान्दसत्वात्। तद्वत्यो माध्व्यः’ईद्वनिपोश्छन्दसि’ इतीकारप्रत्ययः। मधुमत्य इत्यर्थः। प्रथमार्थे द्वितीयैषा। ओषधयः सन्तु भवन्तु। नोऽस्माकम् ओषधयोऽपि मधुप्रदा भवन्त्वित्यर्थः। मधु नक्तम्। नक्तमितिं नेदमव्ययम् अधिकरणभूताया रात्रेर्वाचकं रात्रेरिहाधिकरणत्वासम्भवात्। किन्तर्हि। प्रथमान्तस्येदं छान्दसं ह्रस्वत्वं नपुंसकलिङ्गत्वं च। साकांक्षत्वाच्च अस्तु न इति पदद्वयं सर्वत्रानुषक्तव्यम्। मधु नक्तमस्तु नः मधुशब्दोऽन्तर्णीतमत्वर्थो रात्रिविशेषणम्। मधुमती रात्रिरस्तु नः।मधुमत्त्वेन चात्र तद्दातृत्वं लक्ष्यते। रात्रिर्मधुप्रदास्माकं भवत्वित्यर्थः। उत उषसः उषसोऽपिं मधुप्रदाः सन्तु।मधुमत् मधुप्रदं पार्थिवं रजः। रजश्शब्दोऽत्र लोकवचनः। ‘लोका अपि रजांस्युच्यन्त’ इति यास्कवचनात् पृथिवीलोक इत्यर्थः। मधु द्यौरस्तु नः। कीदृशी द्यौः उच्यते। पिता। विवाहकाले ‘द्यौरहं पृथिवी त्व’मिति वरे द्युत्वाध्यारोपात् सर्वमनुष्याणां च वरयितृत्वात् तद्धर्मेणैवैष दिवो व्यपदेशः द्यौः पितेति च। मधुमान्नो वनस्पतिः। वनानां पतिर्वनस्पतिः। वनस्पतिशब्देनात्र सूर्यसाहचर्याच्चन्द्रमा अभिप्रेतः। वनशब्देन चौषधयः। ओषधीशश्चन्द्रमा इत्यर्थः। मधुमानस्तु भवतु सूर्यः। सूर्योऽपि मधुप्रदोऽस्माकं भवतु।माध्वीर्मधुप्रदा गाव आदित्यरश्मयः, सास्नादिमत्यो वा। भवन्तु नः॥
अथ मधुपर्कनिमार्जनमन्त्राः—
वसवस्त्वा गायत्रेण छन्दसा भक्षयन्तु।.
रुद्रास्त्वा त्रैष्टुमेन छन्दसा मक्षयन्तु॥
आदित्यास्त्वा जागतेन छन्दसा भक्षयन्तु।
विश्वेस्वा देवा आनुष्टुभेन छन्दसा भक्षयन्तु॥
‘वसवरत्वे’ त्यादयश्चत्वारो वामदेवार्षा याजुषः128। मधुपर्कोऽभिधेयः। वसवो रुद्रा आदित्या विश्वे देवाः क्रमेण देवताः।हे मधुपर्क।वसवः पृथिवीस्थानाः प्रातःसवनदेवता वसुसंज्ञा अष्टौ। ते च गायत्रेण छन्दसा, युक्ता इति वाक्यशेषः। तद्योगश्च प्रातस्सवनच्छन्दस्त्वात्। गायत्र्या त्वां भक्षयन्तु प्राश्नन्तु, मया प्राशिष्यमाणमनुजानन्त्वित्यर्थः। रुद्रा अन्तरिक्षस्थाना माध्यन्दिनसवनदेवता एकादश।ते च त्रैष्टुभेन माध्यन्दिनसवनच्छन्दसा युक्ता भक्षयन्त्विति। आदित्याः द्युस्थनाः तृतीयसवनदेवता द्वादश। ते च जागतेन तृतीयसवनंच्छन्दसा युक्ता भक्षयन्त्विति। विश्वे देवाः तार्तीयसवनिका एव त्वाम् आनुष्टुभेन छन्दसा युक्ताः भक्षयन्त्विति। ननु विश्वेषां देवानां जगत्या सह सम्बन्धो नानुष्टुभा, ‘विश्वान् देवान् जगत्याविवेशे’ति मन्त्रलिङ्गाद्, ‘जगतीं विश्वेभ्यो देवेभ्य’ इति ब्राह्मणलिङ्गाच्च। सत्यं मन्त्रवर्णो ब्राह्मणवर्णश्च। जगत्या पन्त्रवर्ण सम्बन्धा बहवः। अयं तावदेकः —– ‘विश्वे त्वा देवा आनुष्टुभेन छन्दसा भक्षयन्तु’ इति। ‘विश्वे त्वा देवा आनुष्टुभेन छन्दसा रोहन्तु तानन्वारोहामि’। अयमपि ‘विश्वे त्वा देवा आनुष्टुभेन छन्दसैकलिङ्गेन स्तोमेन वैराजेन साम्नारोहन्तु तानारोहामि वैराज्याय’ इत्यपरः विश्वेषां देवानामनुष्टुभा सम्बन्धः। बहुषुमन्त्रवर्णेषु दृश्यमानेषु सत्सु ब्राह्मणवादो नोपलभ्यत इ129ति कुचोद्यमेतत्।अनुष्टुभा च सम्बन्धे ब्राह्मणवादाश्च कल्पनीयाः130॥
उद्गृह्णाति
भूतेभ्यस्त्वेति’।
वामदेवार्षं यजुः। उद्गृह्यमाणो रसोऽभिधेयः। भूतेभ्यः। भवन्ति उत्पद्यन्त इति भूतशब्देनात्र चराचराणि अभिप्रेयन्ते। तादर्थ्य एषा चतुर्थी। चगणाम् अचराणां च भूतानामर्थाय त्वा त्वां हे मधुपर्क ! उद्गृह्णामीति वाक्यशेषः॥
प्राशनमन्त्रास्त्रयः—
विराजो दोहोऽसि। विराजो दोहमशीय।मयि दोहः पद्यायै विराजः॥
‘विराजो दोहोऽसी’त्यादयो वामदेवार्षा याजुषाः। प्राश्यमाना अभिधेयाः। विरा-ट्शब्देनात्रान्नमभिप्रेयते। ‘अन्नं वै विराडि ‘ति लिङ्गात् अन्नस्यदोहः सारो रसोऽसि। यस्त्वं भवसि, तं त्वां प्राश्नामीति शेषः। विराजः अन्नस्य दोहं रसम्।अशीय, ‘अश भोजने’, भुञ्जीयेत्यर्थः मयि।पष्ठ्यर्थे सप्तमीयं मम।विराजो दोहः अन्नस्य रसः। प्राश्यमान इति शेषः। पद्यायै।‘पद गता-वित्यस्य।पद्या गतिः। गत्यर्थाश्च बुद्ध्यर्थाः।पद्यायै गतये ज्ञानायेत्यर्थः। अस्त्विति वाक्यशेषः। एतदुक्तं भवति - मया प्राश्यमानो रसो मम ज्ञानोत्पादको भवत्विति॥
अमृतापिधानमसि॥
वामदेवार्षं यजुः। आचम्यमानमुदकमभिधेयम्। अमृत ! अपिधानम्। अपिपूर्वो दधातिः प्रच्छादनार्थः। अपिधीयतेऽनेनेत्यापिधानम्।करणे ल्युट् द्रष्टव्यः। अपिधानशब्देन चाभिधारणं लक्ष्यते। शेषो व्याख्यात आचमनमन्त्रेण॥
द्वितीयाचमनमन्त्रः—
सत्यं यशः श्रीर्मयि श्रीः श्रयताम्॥
‘सत्यं यश’ इति वामदेवार्षं यजुः। आचम्यमानमुदकमभिधेयम्। सत्यम्।उदकनामैतत।अन्वाचम्यमानमुदकम्।मयि श्रयतां ममोदरे प्रविशत्विंत्यर्थः। किञ्च यशः प्रख्यातिर्मयि, श्रयता मित्यनुषङ्गः सर्वत्र।श्रीर्विभूति लक्षणा। श्रीर्विद्यालक्षणा। तथाच श्रूयते —‘ऋचो यजूंषि सामानि सा हि श्रीरमृता सतामि’ति। एतदुक्तं भवति —– अनेन पीयमानोदकेन यशस्वी धनवान् वेदत्रयाध्यायी तदर्थज्ञानी च भूयासामेति॥
जपति—
हतो मे पाप्मा।पाप्मा मे हतः।
‘हतो मे पाप्मे’ ति वामदेवार्षं यजुः। प्राजापत्यमाग्नेयं वैष्णवं वा। मे मम पाप्मा वाचकभेदेनापौनरुक्त्यम्॥
अथ विशसनानुज्ञानमन्त्रः—
ओं कुरुत।
‘ओं कुरुत’। वामदेवार्ष यजुः। मधुपर्कदातुः परिकर्मिणोऽभिधेयाः। ओमनुज्ञानाक्षरमिदम्। अनुजानामि पश्वालम्भनमित्यर्थः। कुरुत। सामान्यवाचिना करोतिनात्र सामर्थ्यात् क्रियाविशेषो विशसनं लक्ष्यते।पशुमालभ्य वपोद्धरणादि कृत्वाङ्गान्युत्कृत्य मेभोजनार्थं हे परिकर्मिणः ! कुरुतेत्यर्थः॥
पशोरुत्सर्गपक्षे जपति—
मा॒तारु॒द्राणां॑दुहि॒तावसू॑नां॒स्वसा॑दि॒त्याना॑म॒मृत॑स्य॒नाभिः।प्रनुवो॑चंचिकि॒तुषे॒जना॑य॒मागामना॑गा॒मादि॑तिंवधिष्ट॥
(अष्ट० ६. अध्या० ७. व० ८. ऋ० १५)
‘माता रुद्राणामि’ति। जमदग्निर्भार्गव ऋषिः। त्रिष्टुप् छन्दः। गौर्देवता। अत्रैकवाक्यताप्रसिद्ध्यर्थं यत्तच्छब्दावध्याहार्यौ।या गौः। रुद्राणाम्। रुद्राणामिति निर्देशः सामर्थ्यादेवावगम्यतां, मन्त्रान्तरे दर्शनाच्च। ‘गोमातरो यच्छुभयन्तेऽञ्जिभिरि’ति। दुहिता वसूनां स्वसादित्यानाम्। गोर्वस्वादित्यदुहितृस्वसृत्वे इतिहासो मृग्यः।अमृतस्य।एकवचनं जात्यभिप्रायं प्रदर्शनार्थं च। अमृतानां देवानां मनुष्याणां च। नाभिर्नाभिस्थानीया। यथा नाभिः सर्वप्राणानामाधारभूता, तद्वद् देवानां मनुष्याणां चाधारभूतेत्यर्थः। कथं देवमनुष्याधारत्वं गोरिति चेत्, तदधीनत्वाद् यज्ञस्य यज्ञनिमित्तत्वाद् वृष्टेर्वृष्ट्यधीनत्वाज् जगत्स्थितेः। अथवामृतशब्देनाज्यमभिप्रेयते। ‘अमृतं वाज्यमि’ति श्रुतेः। चिकितुषे ज्ञानवते। जनायातिथिप्रभृतये मनुष्याय।निवेद्यत इति वाक्यशेषः। तामिमां गाम्। अनागामनपराधाद131पापाम्। अदितिमदीनाम् अक्षीणभोगामित्यर्थः। मा वधिष्ट मा हिंसिष्ट हे परिकर्मिणः !।नुशब्दः पादपूरणः। क्षिप्रार्थो वा। एवं युष्मान् प्रत्यहं प्रवोचं प्रब्रवीमि गां मा वधिष्टेति॥
उत्सिसृक्षोरनुज्ञानमन्त्रः—
ओम् उत्सृजत।
‘ओम् उत्सृजत’ इति वामदेवार्षं यजुः। परिकर्मिणोऽभिधेयाः। ओम् अनुजानामि पशोरुत्सर्गम्। तस्मादुत्सृजत मोचयत गां हे परिकर्मिण इत्यर्थः॥
आश्वलायनगृह्योक्तपाकयज्ञेषु कर्मसु।
मन्त्रा ये विनियुक्तास्ते व्याख्याताश्चक्रपाणिना॥
इति गृह्यमन्त्रव्याख्यायां प्रथमोऽध्यायः॥
______________________
.
अथ द्वितीयोऽध्यायः।
श्रावाण्यां पौर्णमास्यां श्रवणाकर्मेति प्रकृत्य अस्तमिते स्थालीपाकं श्रपयित्वैककपालञ्चपुरोडाशं ‘अग्ने नय सुपथाराये अस्मानि’ ति चतसृभिः प्रत्यूचं जुहुयात्।
अग्ने॒नय॑सु॒पथा॑रा॒येअ॒स्मान्विश्वा॑निदेवव॒युना॑निवि॒द्वान्।
यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒भूयिष्ठांते॒नम॑उक्तिंविधेम॥
(अष्ट० २. अध्या० ५.व० १०. ॠ.० १.)
आगस्त्यो मैत्रावरुणिः132 ऋषिः। चतस्रोऽपि त्रिष्टुभः।अग्निर्देवता। हे अग्ने।अस्मान्नय प्रापय। सुपथा शोभनेन मार्गेण श्रौतस्मार्तलक्षणेन। राये। धननामैतत्। द्वितीयार्थे चतुर्थ्येषा।धनम्। देव ! दानादिगुणयुक्त !।विश्वानि सर्वाणि। वयुनानि। प्रज्ञाननामैतत्। प्रज्ञानानि। सर्वेषां प्राणिनामितिशेषः। विद्वान् जानन्। लोकपालत्वात् सर्वप्राणिनां शुभाशुभवृत्तं जानन्नित्यर्थः। किञ्च युयोधि। यौतिः पृथग्भावार्थः। पृथग्भावय पृथक् कुरु।अपनयेत्यर्थः। अस्मत् अस्मत्तः। किम्। एनः पापम्। किंविशिष्टम्।जुहुराणम्। ‘ह्वृकौटिल्ये’ इत्यस्य साभ्यासस्यैतद्रूपम्। अत्यन्तकुटिलम्।अधःपातहेतुभूतमित्यर्थः। वयं च भूयिष्ठामतिशयेन भूयसीं ब133ह्वीमित्यर्थः। नमउक्ति नम इत्येतामुक्तिम्। अग्नये नम इत्येवमादिकां स्तुतिमित्यर्थः। अथवा नमःशब्दोऽन्ननाग।उक्ति शब्दोऽपि समवायवचनः’उच समवाय’ इति। हविर्लक्षणेनान्नेन समवायः सङ्गतिर्नम उक्तिः। तां नमउक्तिं हविषां संयोगमित्यर्थः। ते तव विधेम कुर्यामेत्याशास्महे॥
अग्ने॒त्वंपा॑रया॒नव्यो॑अ॒स्मान्त्स्वस्तिभि॒रति॑दु॒र्गाणि॒विश्वा॑।
पूश्च॑पृ॒थ्वीब॑हु॒लान॑उ॒र्वीभवा॑तो॒काय॒तन॑याय॒शंयोः॥
(अष्ट. २. अध्या० ५. व० १०. ॠ.० २.)
अग्ने ! त्वं पारय। हे अग्ने !।द्वितीये पादे श्रूयमाणोऽतिशब्दः पारयेत्यनेन सम्बन्धयितव्यः। अतिपारय अतिगमय। अतिक्रामयेत्यर्थः। नव्यः। प्रत्यक्षकृतोऽयं मन्त्रः। न चेदमामन्त्रितम्। अतो यत्तच्छब्दाध्याहारेणैकवाक्यता नेया। यस्त्वं नव्यस्तुत्यः स त्वम्। अस्मान् स्वस्तिभिः अविनाशनैः। कान्यतिपारयाणि। उच्यते। दुर्गाणि दुर्गतिहेतुभूतानि पापानि। विश्वा विश्वानि सर्वाणि। किञ्च पूश्च पृथ्वी। त्वत्प्रसादान्निवासभूतं नगरं विस्तीर्णमसम्बाधम्। अस्त्विति वाक्यशेषः। बहुला न उर्वी उर्वी च बहुलास्माकमस्तु। उर्वीशब्देनात्र सस्यसम्पन्ना पृथ्वी अभिप्रेता।सा च बहुला बह्वीप्रभूता। अथवा बहुला बहुरा बहून् भोगान् रातीति बहुरा। रातर्दानार्थस्य रेफस्य लत्वापत्त्या रूपम्। बहूनां भोगानां दात्री प्रसवित्रीत्यर्थः। किञ्च भवा तोकाय तनयाय ! द्वे अप्यपत्यनामनीःअतः पौनरुक्त्यपरिहारार्थं पुत्रविषयमेकं पौत्रविषयमपरं द्रष्टव्यम् एकवचनं च जात्यभिप्रायम्। अस्मत्पुत्रेभ्यः। अस्मत्पौत्रेभ्यश्चेत्यर्थः। शंयोः। उत्पन्नानां रोगादीनां शमनं शमित्युच्यते। उत्प134त्म्यमानादीनां भयानां च पृथग्भावनं योरित्युच्यते। रोगादीनां प्रागभावं प्रध्वंसाभावं च सम्पादयेत्यर्थः॥
अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्य॑मीवा॒अन॑ग्नित्राअ॒भ्यम॑न्तकृ॒ष्टीः।
पुन॒॑रस्मभ्यं॑सुवि॒ताय॑देव॒क्षांविश्वे॑भिर॒मृतो॑भिर्यजत्र॥
(अष्ट० २. अध्या० ५ .व० १० .ऋ० ३.)
अग्ने त्वम्। हे अग्ने ! त्वम्। अस्मत् अस्मत्तः। युयोधि पृथक्कुरु। अपनयेत्यर्थः। किम्।अमीवाः रोगजातीः। किंविशिष्टाः। अनग्नित्राः। अग्निं त्रायन्त इत्यग्नित्राः135तदितरेऽनग्नित्राः। औदरस्याग्नेरपालयित्रीः उदराग्निमान्द्यकारिणीरित्यर्थः। अभ्यमन्त। अत्रैकवाक्यतायै यत्तदध्याहारः। या अभ्यमन्त। ‘अम रोगे’। आभिमुख्येन रुजन्ति पीडयन्तीत्यर्थः। कृष्टीः मनुष्यनामैतत्। मनुष्यजातीः। ता अमीवाः अस्मत्तः युयोधि। पुनः रोगापनुत्त्युत्तरकालम्। अस्मभ्यं सुविताय सुगमनाय यथेष्टप्रचाराय।हे देव ! दानादिगुणयुक्त !।यजत्र ! यष्टव्य !। क्षां पृथिवीनामैतत् क्षयन्त्यस्यां भूतानीति। पृथिवीं, सस्यसम्पन्नामिति शेषः। विश्वेभिरमृतेभिः। सहयोगलक्षणैषा तृतीया। र्सैवर्देवैःसह। अस्मभ्यमिति सम्प्रदानश्रुतेः क्षामिति च कर्मश्रुतेर्योग्यक्रियापदाध्याहारः। अस्मभ्यं पृथिवीं देहीति॥
पा॒हिनो॑अग्नेपा॒युभि॒रज॑स्रैरु॒तप्रि॒येसद॑न॒आशु॑शुक्वान्।
माते॑ भ॒यंज॑रि॒तारंयविष्ठनू॒नंवि॑द॒न्माप॒रस॑हस्वः॥
(अष्ट० २. अध्या० ५. वर्ग० १०. ऋ० ४.)
पाहि नो अग्ने। हे अग्ने !। नः अस्मान्।पाहि रक्ष। पायुभिः पालनैः सर्वप्रकारैः। अजस्रैः अविच्छिन्नैः। कैः। सामर्थ्यात् ज्वालासमूहैः। अथवा अजस्रैरिति पायुविशेषणम्।अविच्छिन्नैः पालनैरिति। उत अपि। प्रिये सदने स्थाने। आशुशुक्वान्। ‘शुच दीप्तौ’। वर्तमाने क्वसुर्द्रष्टव्यः। आभिमुख्येन मर्यादया वा दीद्यत् अत्यर्थं दीप्यमानरत्वमित्यर्थः। किञ्च मा ते तव स्वभूतम्। जरितारम्। स्तोतृनाभैतत् स्तोतारम्। हे यविष्ठ ! युवतम !। भयम्। बिभेत्यस्मादिति भयशब्देन पापमुच्यते। वाङ्गनः कायकृतं त्रिप्रकारं पापम्। मा विदत्। विन्दतेर्लाभार्थस्यैतद्रूपम्। मा प्रापत्। मा गमदित्यर्थः। नूनम् इदानीं इह लोक इत्यर्थः। मा च अपरम् अपरस्मिन्नागामिनि अमुष्मिन्लोक इत्यर्ः। एतदुक्तं भवति—तव स्तोतारं सन्तमुभयोलोकयोः पापं मा136भिभवत्विति। हे सहस्वः ! बलवन् !॥
पाणिनैककपालम्।
अध्युताय भौमाय स्वाहेति।
वामदेवार्षंयजुः।अगिर्देवता, अनादिष्टदेवतात्वात्। अच्युताय। च्युतिर्नाशः तद्रहिताय।अनाशाय नित्यायेत्यर्थः। भौमाय। भौमशब्देनात्राग्निरभिप्रेयते भूमेरधिष्ठातृत्वात्। पार्थिवायाग्नय इत्यर्थः। स्वाहेत्युक्तार्थम्॥
‘मानो अग्नेऽवसृजो अघाये’ त्येनमाशयेनाभिजुहोति—
मानो॑अग्रेव॑सृजो अ॒तघाया॑वि॒ष्यवे॑रि॒पवे॑दु॒च्छुना॑यै।
माद॒त्वते॒दश॑ते॒मादेत॑नो॒मारीप॑तेसहसाव॒न्परा॑दाः॥
(अष्ट०२. अध्या० ५. व० १०. ऋ० ५)
अगस्त्यस्य मैत्रावरुणेरार्षम्। तृष्टुप् छन्दः। अग्निर्देवता। हे अग्ने!। नः अस्मान् मा अवसृज।अवपूर्वःसृजिर्दानार्थः। मो दाः। अघाय पापाय।अविष्यवे। ‘विप्लृव्याप्तावि’त्यम्य भावप्रत्ययान्तस्य क्यच्प्रत्यये तदुपरि उप्रत्यये भावप्रत्ययलोपे137 च विष्युरिति रूपं भवति। व्याप्तिकाम इत्यर्थः। तद्विपरीतोऽविष्युः तस्मै अविष्यवे। अस्मद्व्याप्ति मनिच्छते। अस्मत्समृद्धिमसहमानायेत्यर्थः। रिपवे शत्रवे। किञ्च दुच्छुनायै।दुच्छुनाशब्दो दुर्भिक्षवचनः। दुर्भिक्षाय।अथवा शुनमिति सुखनाम।दुश्शुनं दुच्छुना वर्णव्यापत्तिर्द्रष्टव्या। असुखमित्यर्थः। तस्मै। अस्मान् मावसृज इत्यनुषङ्गः। एतदुक्तं भवति —पापानामस्मत्समृद्धिमसहमानानामस्मच्छत्रूणां138 च दुर्भिक्षमसुखं वास्मान्मा जीगम इति। किञ्च मा दत्वते दन्तवते।दशते खादते। अदते भक्षयते। कस्मै। सामर्थ्याद् व्याघ्रादिकाय प्राणिने प्रदात मन्त्रान्ते इतिश्रूयमाणमाख्यातमिहानुषक्तव्यम्। अथवा मा अदते दन्तवर्जिताय प्राणिने।नः अस्मान्।मा च रिषते हिंसते करचरणादिभिः। हे सहसावन् !। सह इति बलनाम। तस्मात् प्रथमैकवचनस्य स्थाने सुपांसुलुगित्याकारे कृते तस्माच्चोपरि मतुप्प्रत्यये कृते संबुद्धौ सहस बन् इति रूपं भवति। सहस्वन् ! बलवन्नित्यर्थः। परादाः। पराशब्दोऽत्र धात्वर्थानुवादी लम्बते प्रलम्बत इति यथा। मा दा इत्यर्थः। एतदुक्तं भवति— दंशनप्रधानानां निगरणप्रधानानां करचरणादिभिहिंसाप्रधानानां न वशमस्मान् मा जीगम इति॥
शन्नो भवन्तु वाजिनी हष्वित्यक्ता धाना अञ्जलिना जुहोतीत्यनुषङ्गः।
शंनो॑भवन्तुवा॒जिनो॒हवे॑षुदे॒वता॑तामि॒तद्रवःस्वर्काः।
ज॒म्भय॒न्तोहिं॒वृक॒॑रक्षांसि॒सनेम्य॒स्मद्यु॑यव॒न्नमी॑वाः॥
(अष्ट० ५. अध्या० ४. व० ५. ऋ० ७.)
वसिष्ठस्यार्षम्। त्रिष्टुप् छन्दः। देवा139श्चाभिधेयाः। शम्। सुखनामै तत्। वाजिनां च साध्यविशेषणमेतत्। सुखाः नः अस्माकं भवन्तु। के। वाजिनः। ते देवाश्वाः। हवेषु आह्वानेषु सत्सु, स्तूयमानाः सन्त इत्यर्थः। देवताता। यज्ञनामैतत्। यज्ञे।मितद्रवः। मितमल्पं पदानि न्यस्यन्तो द्रवन्ति ये ते मितद्रवः।लघुगमनाः शीघ्रगतय इत्यर्थः। स्वर्काः। अञ्चतेर्गत्यर्थस्यार्चतेर्वापूजार्थस्यार्कशब्दः। सुगमनाः स्वर्चना वा। कल्याणगतयः कल्याणस्तुतयो वेत्यर्थः। किञ्च जम्भयन्तः प्रतिबघ्नन्तः। हिंसाकर्मा वा। जम्भयन्तःहिंसयन्तः। कम्। अहिं सर्पम्।वृकं श्वानं व्यालं वा। रक्षांसि च। सनेमि। पुराणनामैतदन्यत्र।इह तु पदान्तरसम्बन्धसामर्थ्यात् क्षिप्रार्थम्।क्षिप्रम्। अस्मत् अस्मत्तः। युयवत्। यौतिः पृथग्भावार्थोऽन्तर्णीतण्यर्थश्च। पृथग्भावयन्तु अस्मत्सकाशादपनयन्त्वित्यर्थः। न केवलं सर्पादीन्। किं तर्हि। अमीवाः रोगान् हिंसितव्यान्। स्त्रीलिङ्गनिर्देशो जात्यभिप्रायः। रोगजातीरित्यर्थः॥
अथ सर्पबलौ बलिहरणमन्त्रः^(१)—
सर्पदेवजनेभ्यः स्वाहेति॥
वामदेवार्षं यजुः। सर्पदेवमनुष्या अभिधेयाः। सर्पाश्च देवाश्च जनाश्च सर्पदेषजनाः। सर्पाः नागाः। देवा अमराः। जना मनुष्याः।तेभ्यः स्वाहा हुतमस्तु॥
हुत्वा नमस्करोति—
** ये सर्पाःपार्थिवा।ये आन्तरिक्ष्या ये दिव्याये दिश्यास्तेभ्य इमं बलिमाहार्पं तेभ्य इमं बलिमुपाकरोमिति॥**
ये सर्पाःपार्थिवाः इति वामदेवार्षं यजुः। सर्पदेवत्यम्।ये सर्पाः ये नागाः। पार्थिवाः पृथिव्यां भवाः। ये च आन्तरिक्ष्याः अन्तरिक्षे भवाः। ये दिव्याः दिवि भवाः। दिश्याः दिक्षु भवाः। तेभ्यः सर्वेभ्य इमं बलिमाहार्षम् आहृतवानस्मि। प्रदत्तवानस्मीत्यर्थः। तेभ्य इमं बलिमुपाकरोमि। उपाकरणं नाम देववासात्कारः। देववासात्करोमि। आदरार्थं पुनर्वचनम्॥
बलेःपश्चादुपविश्यजपति—
सर्पोऽसि सर्पतां सर्पाणामधिपतिरस्यन्नेन मनुष्यांस्त्रायसेऽपूपेन सर्पान् यज्ञेन देवांस्त्वयि मा सन्तं त्वयि सन्तः सर्पा मा हिंसिषुः॥
सर्पेऽसीत्यादि वामदेवार्षं यजुः। सर्पदैवत्यम्। बलिमुपभोक्तुमागतः सर्पः प्रार्थ्यते। यस्त्वं सर्पः असि भवसि।सर्पतामधिपतिरसि ये के च आणिनः सर्पन्ति तेषां सर्वेषां स्वामी भवसि। अन्नेन मनुष्यांस्त्रायसे रक्षसि। अपूपेन सर्पान् रक्षसि। यज्ञेन देवान्।यज्ञशब्देन यज्ञसाधनं हविरभिप्रेतम्।
________________________________
कलशात्सक्तूनां दुर्वी पूरयित्वा प्रागुपनिष्क्रम्य शुचौ देशेऽषोऽपनीय’ ख,पाठः.हविषा देवांस्त्रायसे। तस्मिंस्त्वयि सन्तं मा तव स्तोतारं मामित्यर्थः। त्वयि स्थिताः तव भृत्यभूता इत्यर्थः। सर्पाः मा हिंसिषुः॥
परिदानमन्त्रः’ध्रुवान् ते परिददामी ’ त्यादि।
ध्रुवान् ते परिददामि ध्रुवामुंते ध्रुवामुंते परिददामि॥
वामदेवार्षं यजुरिदम्।ध्रुवसंज्ञः सर्प एव प्रार्थ्यते। हे ध्रुव ! ते तुभ्यं मत्पुत्रान् मां च ध्रुवान् परिददामि। परिदानं नाम निक्षेपः। यथा ध्रुवा भवन्ति तथा त्वयि निक्षिपामीत्यर्थः। समाश्रितानां ध्रुव (त्वं) सिध्यति हि। अत एवं प्रार्थ्यते। कं च कं च परिददामीति चेत्। उच्यते। ध्रुव ! अमुम्।नामनिर्देशार्थोऽदश्शब्दः।देवदत्तम्। ते तुभ्यम्। परिददामीत्यनुषङ्गः। सर्वत्र मन्त्रादौ मन्त्रान्ते च श्रुतत्वात्। तत्र ध्रुवान् ते परिददामीति सामान्योक्तिः। ध्रुवामुं ते इत्यादिर्विशेषोक्तिः॥
अथाश्वयुजीकर्मणि स्थालीपाकहोममन्त्रः। आश्वयुज्यां जुहुयुः ‘पशुपतय’ इत्यादिना।
पशुपतये शिवाय शङ्कराय पृषातकाय स्वाहा॥
वामदेवार्षं यजुः। रुद्रो देवता। पशुपतये। पश्यन्तीति पशवः। पशुशब्देनात्र सर्वे प्राणिन उच्यन्ते। पतिशब्दःपालयितृवचनः स्वामिवचनो वा। सर्वेषां प्राणिनां पालयित्रे स्वामिने वा। अथवा पशुशब्दश्चतुष्पात्पशुवचन एव। शिवाय। सुखनामैतत्। सुखाय, नित्यसुखिने। शङ्कराय। शमिति सुखनाम। शं करोतीति शङ्करः तस्मै शङ्कराय, स्तोतॄणां यष्टॄणां च सुखप्रदायेत्यर्थः। पृषातकाय।पृषातकशब्देनं पयश्चाज्यं च संसृष्टं हविरुच्यते। तत्सम्बन्धात् तद्वानत्र पृषातकशब्देनोच्यते। तत्सम्बन्धश्चात्र पृषातकहोममन्त्रे पृषातकायेति दर्शनात्। एतदुक्तं भवति— स्थालीपाकहोममन्त्रेऽस्मिन् पशुपतय इत्यादिभिः शब्दैः पृषातकशब्दस्य सामानाधिकरण्य-दर्शनात्पृषातकहोममन्त्रे रुद्र एव देवतेति॥
पृषातकहोममन्त्रः पृषातकमञ्जलिना जुहुयाद् ‘ऊनं मे पूर्यतामि’ त्यादिना।
ऊनं मे पूर्वतां पूर्ण मे मोपसदत् पृषातकाय स्वाहा।
वामदेवार्षं यजुः। रुद्र एवं देवता। ऊनम् अपरिपूर्णं वस्तु।मे मम स्वभूतम्। पूर्यतां परिपूर्यताम्। पूर्णेवस्तु मे मम स्वभूतम्। माउपसदत्।सदिरुपक्षयार्थः। उपक्षयं मा गमत्। तदर्थं च पृषातकाय पृषातकवते,पृषातकहविष्कायेत्यर्थः। स्वाहेति स्वाहुतं हविर्जुहोमीत्यर्थः॥
सजूर्ऋतुभिः सजूर्विधाभिः सजूरिन्द्राग्निभ्यां स्वाहा।सजूर्ऋतुभिः सजूर्विधाभिः सजूर्विश्वेभ्यो देवेभ्यः स्वाहा।सजूर्ऋतुभिः सजूर्विधाभिः सजूर्द्यावापृथिवीभ्यां स्वाहा॥
अथाग्रयणस्थालीपाकहोममन्त्राः सजूर्ऋतुभिरित्यादयो वामदेवार्षाः। त्रीणि यजूंषि।ऐन्द्राग्नंप्रथमम्। वैश्वदेवं द्वितीयम्। द्यावापृथिवीयंतृतीयम्। सजूः। जूतिरत्र प्रीत्यर्थः। समानप्रीतिः सह सम्प्रीयमाणः। अहमिति वाक्यशेषः। केन सह। उच्यते। ऋतुभिः। ऋतुभिः सह सम्प्रीणनं नाम ऋतुषु सुखजीबनम्। न च केवलैःकिं तर्हि। सजूर्विधाभिः। विधीयन्तेऽनुष्ठीयन्ते इति विधाः श्रौतस्मार्तलक्षणाः क्रिया इहाभिप्रेयन्ते। ताभिः सह समानप्रीतिः श्रौतस्मार्तलक्षणाः क्रियाः कुर्वन्नित्यर्थः। किञ्च, सजूरिन्द्राग्निभ्याम्। इन्द्रामिभ्यां च सह सम्प्रीयमाणः। इन्द्राग्नीस्तुवन्नित्यर्थः। खाहा। इन्द्राग्निभ्यामित्यत्रापि सम्बध्यते अविशेषादपेक्षितत्वाच्च। उपरितनमन्त्रद्वयमनेनैव व्याख्यातार्थम्। मध्यमे तु मन्त्रे सजूर्विश्वैर्देवैरिति व्यत्ययेन तृतीयया भाव्यम्। स्वाहाशब्दसम्बन्धे तु यथाम्नातं चतुर्थ्यन्तमेव॥
गृह्यान्तरप्राप्तस्याप्रयणस्थालीपाकशेषभक्षणस्य वैकल्पिकस्य करणपक्षेऽभिमर्शनप्राशनाभ्यालभनमन्त्राः प्राप्नुवन्ति। ‘ऐतेन भक्षिणां भक्षा सर्वत्र नवभोजन’ इति वचनात्। तत्र भक्ष्यद्रव्याभिमर्शनमन्त्रः—सव्ये पाणौ कृत्वेतरेणाभिमृशेत्। ‘प्रजापतये त्वे’ति।
प्रजापतये त्वा ग्रहं गृह्णामि मह्यंश्रियै।
मह्यंयशसे मह्यमन्नाद्याय।
वामदेवार्षं पुरः। उष्णिक् छन्दः। प्रश्लिष्टपाठाद् यजुर्वा। भक्ष्यद्रव्यम भिधेयम्। हे भक्ष्यद्रव्य ! त्वा त्वां गृह्णामि अभिमुशामीत्यर्थः। किमर्थमिति चेत्। मह्यं प्रजापतये। षष्ठ्यर्थ एषा चतुर्थी मम प्रजापतेः प्रजानां पालयितुः गृहस्थस्येत्यर्थः। श्रियै विभूत्यर्थम्। कीदृशं त्वाम्। ग्रहम्। गृह्यत इति ग्रहः। सव्येन हस्तेन गृहीतम्। नच केवलायै श्रियै, किंतर्हि। मह्यं यशसे मम प्रख्यानार्थ च। मह्यमन्नाधाय ममान्नद्यसिद्धये च॥
‘भद्रान्नःश्रेय’ इति प्राश्नाति।
भद्रान्नः श्रेयस्समनैष्ट देवास्त्वया
वसेन समशीमहि त्वा।
स नो मयोभूः पितवाविशेहा
शन्नोभव द्विपदे शं चतुष्पदे॥
वामदेव ऋषिः। त्रिष्टुप् छन्दः। भक्ष्यमाणद्रव्यमभिधेयम्। हे पितो। पितुरित्यन्ननाम। तस्य सम्बोधनं पितो इति। हे भक्ष्य !।त्वयावसेन। अवसशब्दो भक्ष्यवचनः। अवसायवद्वतेरुद्रमृलेति यथा। त्वया भक्ष्येण। कीदृशेन। भद्रात्। तृतीयार्थ एषा पञ्चमी। भद्रेण भजनीयेन त्वया। हेतावियंतृतीया। भजनीयेन भक्ष्येण त्वया हेतुना। नः अस्मान् देवाः अग्नयादयः। श्रेयः कल्याणं समनैष्ट। प्रथमपुरुषस्य स्थाने मध्यमः। लुङ् चलोटस्थाने। सन्नयन्तु सम्यक् प्रापयन्त्वित्यर्थः। तदर्भ च त्वा त्वां समशीमहि। ‘अश भोजने’। सम्यक् भक्षयेमेत्याशास्महे। स त्वं नः अस्माकं मयोभूः।मय इति सुखनाम। भवतिरन्त्अर्णीतण्यर्थः। सुस्वस्य भावयिता सन्। आविश प्रविश।क्वविशानि। इह अस्मदीये कुक्षौ। आविश्य च शम्। सुखनामैतत्। सुख सुखकर इत्यर्थः। भव। नः अस्माकं स्वभूताय द्विपदे। जात्यभिप्रायमेकवचनम्। द्विपाभ्यश्च।शं सुखो भव चतुष्पदे चतुष्पाद्भ्यश्च। एतदुक्तं भवति —त्वद्भक्षणेन हेतुनास्मान् देवाः श्रेयः सङ्गमयन्तु। भक्षितश्चत्वमस्माकमस्मत्सम्बन्धिमनुष्याणां पशूनां च सुखो भवेति। केचितु देवशब्दं पितुविशेषणं मन्यन्ते। तस्मिन् पक्षे देवाः समनैष्टेति बहुवचनमेकवचनस्य स्थाने द्रष्टव्यम्। एवं च योजना —हे पितो ! देव ! येन त्वया भक्षितेन सर्वे प्राणिनो जीवन्ति, यं च त्वां वयं समशीमहि, स त्वमस्मान् श्रेयः सन्नय कुक्षौ च प्रविश्येत्यादि पूर्ववत्॥
आचम्य नाभिमालभेत ‘अमोऽसि प्राणे’ति।
अमोऽसि प्राण तदृतं ब्रवीमि
अमासि सर्वानसि प्रविष्टः।
स मे जरां रोगमपनुद्य
शरीरादमा म एधिमा मृथा म इन्द्र॥
वामदेवार्षम्। त्रिष्टुप् छन्दः। भक्षितद्रव्यमभिधेयम्। स मे जरामिस्युत्तरस्मिन्नर्धर्चे तच्छब्दश्रवणात् पूर्वस्मिन्नर्धर्चे यच्छब्दोऽध्याहर्तव्यः। यस्त्वं हे प्राण ! प्राणस्थितिहेतुत्वात् प्राणशब्देनात्र भक्षितः पितुरेवोच्यते। हे पितो ! अमः असि। ‘अम रोगे’ इत्यस्य कर्तर्यप्रत्ययान्तस्यैतद्रूपम्। रोगकर्ता भवसि। तहतं ब्रवीमि। रोगकरस्त्वमिति यत्तदेतत् सत्यमेव ब्रवीमि। अमासि। प्रथमैकवचनस्यायमाकारः। अमोऽसीत्यर्थः। दाढयीर्थ पुनर्वचनं गच्छ गच्छेति यथा। सर्वानसि प्रविष्टः। यश्च त्वं सर्वानवयवान् मम प्रविष्टोऽसि। स त्वं मे मम स्वभूतात् शरीरात् जरां वार्धक्यवयः कृतां रोगम् अभक्ष्यभक्षणजं व्याधिं च।अपनुद्य अपगमय्य।अमा मे। तृतीयाथें पषा चतुर्थी षष्ठी वा। मया सहेत्यर्थः। एधि भव। सर्वदा मत्संयुक्तो भवेत्यर्थः। अथवा अमेति गृहनाम। अस्मिन् पक्षे मे इति सम्बन्धलक्षणा षष्ठी। मम सम्बन्धिनि स्वकीये गृहे भव।मदुदरे तिष्ठेत्यर्थः। स्थित्वा मा मृथाः। ‘मृङ् प्राणत्यागे’। इह सामर्थ्यादन्तर्णीतण्यर्थः। मा मारय। मे। द्वितीयार्थ एषा षष्ठी चतुर्थी वा। माम्।हे इन्द्र !।‘इन्धी दीप्तावि’ त्यस्यैतद्रूपम्। सर्वेषां भूतानां दीपयितरित्यर्थः॥
मार्गशीर्ष्याम् अस्तमितेपायसस्य जुहुयुः ‘अप श्वेत पदा जही’ ति द्वाभ्याम्।
अप श्वेत पदा जहि पूर्वेण चापरेण च
सप्त च वारुणीरिमाः सर्वाश्चराजबान्धवीः स्वाहा।
न वै श्वेतस्याध्याचारेऽहिर्जघान
किञ्चनश्वेताय वैदार्वाय नमः स्वाहा॥
वामदेव ऋषिः। अनुष्टुप्गायत्र्यौ। श्वेतो देवता। श्वेतो नाम कश्चित् सर्पराजः। तस्य सम्बोधनं हे श्वेत ! सर्पराज !।पदा पदेन।किंविशिष्टेन। पूर्वेण चापरेण च। गमनावस्थामभिप्रेत्यैतदुच्यते। पूर्वापरवचनात् पुरुषाकृतिः श्वेत इति गम्यते। उभाभ्यां पादाभ्यामित्यर्थः। अपजहि। किमपहनानि। उच्यते। सप्त च। सप्तसङ्ख्याताश्च। वारुणीःवरुणसम्बन्बिनीः। कास्ताः। स्त्रीलिङ्गसामर्थ्यात् पाशसंहतीः। वारुणान् पाशानित्यर्थः। न चैतावतीः, किन्तर्हि, सर्वाश्चराजबान्धवीः। राजा वरुण तत्सम्बन्धिनी सर्ववरुणपाशानित्यर्थः। जलवासी हि श्वेतः। अत एवं प्रार्थ्यते जलव्यसनानि नाशयति। नवै अत्रैकवाक्यताप्रसिद्धचर्यंयतच्छब्दाध्याहारः यस्य श्वेवस्याध्याचारे उपर्याचारे अनुशासन इत्यर्थः। अहिः सर्पः न जघान न हिंसितवान् न दष्टवानित्यर्थः। किञ्चन किमपि भूतजातम्। वैशब्दः पादपूरणः। तस्मै श्वेताय वैदार्वाय। विदर्वपुत्रो वैदर्वः। वैदर्व एव वैदार्वः। छान्दसो दीर्घः। तस्मै वैदार्वाय नमः।अन्ननामैतत्। नमो भरन्त एवमसीति यथा। पायसहविर्लक्षणमन्नम्। स्वाहा स्वाहुतमस्तु जुहोमीत्यर्थः॥
‘अभयं नः प्राजापत्येभ्यो भूयात्’ इति अग्निमीक्षमाणो जपतेि॥
वामदेवार्षं यजुः आग्नेयम्। अग्निमीक्षमाण इति वचनात्। अनादिष्टदेवतत्वाञ्चग्नेयत्वम्। हे अग्ने ! नः अस्मभ्यं प्राजापत्येभ्यः। प्रजापतय एव प्राजात्याः। स्वार्थिकस्तद्धितः। प्रजापतिभ्यः प्रजानां पालयितृभ्यः। गृहस्धेभ्य इत्यर्थः। अभयं भूयात् अभयङ्करो भवेत्यर्थः॥
‘शिवो नः सुमना भवे’ ति हेमन्तं मनसा ध्यायेत्।
वामदेवार्षं यजुः। विनियोगसामर्थ्याद्धेमन्तोऽभिधेयः। हे हेमन्त ! ऋतो ! नः अस्माकं शिवः। सुखनामैतत्। सुखः सुखकरः सुमनाश्च।अस्मदुपरि शोभनमनाश्च भवेति॥
‘स्योना पृथिवी’त्येषा महानाम्नीप्रकरणे व्याख्याता।
‘अतो देवा अवन्तु न’ इत्येषा स्थालीपाके व्याख्याता॥
संहाय सौर्याणिस्वस्त्ययनानि च जपित्वेति। अत्र सौर्याणि प्रतिपाद्यन्ते। सूर्यो नो दिवः’ ‘उदुत्यं जातवेदसमि’ ति नव, ‘चित्रं देवानां’ ‘नमो मित्रस्य’ एतानि सौर्याणि। स्वस्त्ययनानि तु ‘अनो भद्रा’ इत्येतत् सूक्तं च। ‘स्वस्ति नो मिमीतामि’ति ‘पराधतो ये दिधिषन्त आप्यमित्येतत् सूक्तं च। एतानि त्रीणि स्वस्त्ययनानि। तत्र ‘सूर्यो नो दिव’ इति पञ्चर्चंगायत्रं सूर्यदैवतं सूर्यपुत्रश्चक्षुर्ददर्श॥
सूर्यो॑नोदि॒वस्पा॑तु॒वातो॑अन्तरि॑क्षात्।
अ॒ग्निर्नः॒ पा॑र्थिवेभ्यः॥
(अष्ट० ८. अध्या० ८. व० १६. ऋ० १.)
सूर्यो नः। दिवः। तात्स्थ्यात् ताच्छब्द्यंमञ्चक्रोशनवत्। द्युस्थेभ्यो भूतेभ्य140इत्यर्थः। पातु रक्षतु। वातोअन्तरिक्षात् सूर्यानुज्ञया वातोऽप्यन्तरिक्षस्थेभ्यो भूतेभ्योऽस्मान् पात्वित्यनुषङ्गः।अग्निर्नः अग्निरपि नः अस्मान्पार्थिवेभ्यो भूतेभ्यः पातु॥
जोषा॑सवित॒र्यस्य॑ते॒हरः॑ श॒तंसवाँअर्ह॑ति।
पा॒हिनो॑दि॒द्युतःपत॑न्त्याः॥
(अष्ट० ८. अध्या०८. व० १६. ऋ० २.)
जोषा सावेतः। हे सवितः ! सर्वस्यानुज्ञातः ! सूर्य !।अथवा देवतान्तरं सविता। अस्मिन् पक्षे सूर्यस्यानुज्ञयेति भाव्यम्। जोषेर्यकारलोपो द्रष्टव्यः। जोषय सेवय अस्मान्। किम्।सामर्थ्यात् पुत्रपश्वन्नाद्यादिभोगान्।यस्य ते तव सवितुः स्वरूपम्। हरः। क्रोधनामैतत्। अवैदिकविषयः क्रोधः। अथवा तेजः—शब्दः। ‘यत्तेअग्ने हरस्तेनाहमि’ति यथा। सकलजगद्वयापितेज इत्यर्थः। शतं बहुनामैतत्। बहूननन्तान्। सवान्।सूयते अस्मिन् सोम इति सवशब्दो यज्ञवचनः। अथवा सवनशब्दस्य यज्ञनाम्नो नकारलोपो द्रष्टव्यः। सवनान् बहून् यज्ञान्। अर्हति पूजयति लभत इत्यर्थः। हरसा चात्र लक्षणया तदूनेवोच्यते। यस्त्वं हरस्वी इह सोमयागानर्हसि इत्यर्थः। यस्येति श्रुतेस्तच्छब्दोऽध्याहार्यः। स त्वं पाहि रक्ष नः अस्मान्। कुतः। दिद्युतः। वज्रनामैतत्। इहत्वायुधमात्रोपलक्षणं द्रष्टव्यम्। शत्रोः स्वमूतादायुधात्।पतन्त्याः अस्माकमुपरि पतत इत्यर्थः॥
चक्षु॑र्नोदे॒वः स॑वि॒ताचक्षु॑र्नउ॒त पर्व॑तः।
चक्षु॑र्धा॒ताद॑धातुनः॥
(अष्ट० ८. अध्या०८. व० १६ ऋ० ३.)
चक्षुर्नः। चक्षुः सर्ववस्तुदर्शन समर्थं नयनेन्द्रियं ज्ञानं वा। नः अस्मभ्यं देवः सविता दधातु इत्यपक्रष्टव्यम्। सूर्यानुमतो दधातु। चक्षुर्नः अस्मभ्यम् उत पर्वतः पर्वतोऽपि। पर्वतशब्दः शिलोच्चयवचनः मेर्वादिभूधरवचनः। ऋषिर्वा पर्वतः। ‘पर्वतनारदौ सोमकाये’ ति नारदसाहचर्यात्। अथवा देवतान्तस्मेतन्नामकम्। दधात्वित्यनुषङ्गः। सूर्यानुमतः पर्वतोऽप्यस्मभ्यं चक्षुर्ददात्वित्यर्थः। चक्षुः चक्षुरेव धाता देवः दधातु ददातु नः अस्मभ्यम्। सूर्यानुमत एव॥
चक्षु॑र्नोधेहि॒चक्षु॑षे॒चक्षु॑र्वि॒ख्यैत॒नू॒भ्यः॑।
संचे॒दंविच॑पश्येम॥
( अष्ट०८अ० ८. व० १६. ऋ० ४.)
चक्षुर्नः। चक्षुः दर्शनशक्तिम्। नः अस्माकं स्वभूताय धेहि देहि। चक्षुषो गोलकाभिप्रायमिदं वचनम्। इन्द्रियाधिष्ठानभूताभ्यामक्षिभ्यामित्यर्थः। अथवा चक्षुष इति चतुर्थ्यन्तसृष्याभेधानं द्रष्टव्यम्। अस्मिन् पक्षे न इति बहुवचनमेकवचनस्य स्थाने द्रष्टव्यम्। मह्यं चक्षुर्देहीति। किञ्च विख्यै विविधाख्यानाय नानाविधपदार्थदर्शनाय। तनूभ्यः अत्र तनूशब्दस्य जकारलोपो द्रष्टव्यः। तनूजेभ्यः। अस्मत्पुत्रपौत्रादिभ्य इत्यर्थः। किञ्च इदं कार्यभूतं प्रपञ्चंहे सूर्य ! तव प्रसादात् सं च पश्येम। समित्येकीभावे। कारणात्मना त्वया एकमभिन्नं पश्येम। वि च पश्येम विभिन्नं च पश्येम। वीत्यनेकीभावे। कारणात्मना त्वया समस्तं जगद् भिन्नाभिन्नं पश्येमेत्याशास्मह इत्यर्थः॥
सु॒स॒न्दृशं॑त्वाव॒यंप्रति॑पश्येमसूर्य।
विप॑श्येमनृ॒चक्ष॑सः॥
(अष्ट० ८. अ० ८. व०. १६. ऋ० ५.)
सुसन्दॄशं सुष्टु सम्यग् भक्तानुग्राहकतया लोकपालतया वा द्रष्टारं शुभाशुभप्रत्यवेक्षितारमित्यर्थः। त्वा त्वां वयं प्रतिपश्येम स्तुतिभिर्हविर्भिश्चाराधयेमेत्यर्थः। अथवा प्रतिपश्येम कारणात्मकत्वेनोपास्मह इत्यर्थः। हे सूर्य ! किञ्च विपश्येम विविधं पश्येम।स्तुतिभाक्त्वेन हविर्भाक्त्वेन चेत्यर्थः। नृचक्षसः स्तोतृयष्टृनराणामनुग्रहबुद्ध्या द्रष्टुन्। कान्। सामर्थ्यादन्यान् देवान्। एतदुक्तं भवति —त्वदनुज्ञयैवान्यानपि देवान् स्तुमो यजामश्चेति॥
उदु॒त्यंजा॒तवे॑द॒संदेवंव॑हन्तिके॒तवः।
दृ॒शेविश्वाय॑सूर्य॑म्॥
(अष्ट०. १. अ०. ४. व० ७. ऋ० १.)
उदुत्यं जातवेदसमिति नव प्रस्कण्वः कण्वपुत्र ऋषिः सर्वा गायत्र्यः। सूर्यो देवता। तच्छब्दपर्यायस्त्यच्छब्दः। तच्छब्दश्रुतेर्योग्यार्थसम्बन्धो यच्छब्दोऽध्याहार्यः। यं सर्वे प्राणिनो नमस्यान्त त्यं तम्। जातवेदसं जातधनं जातप्रज्ञं वा। देवं दानादिगुणयुक्तम्। उद्वहन्ति। के सामर्थ्यादश्चरश्मयो वा। कीदृशाः।केतवः चिह्नभूताः। अथवा केतुरिति प्रज्ञानाम।सूर्यस्य प्रज्ञानरूपत्वात् तदीयाश्वादीनामपि प्रज्ञानरूपत्वमुपपन्नम्। तथा च भगवता यास्केनोक्तम् — ‘आत्मैवैषां रथो भवत्यात्माश्वा आत्मायुधमात्मेषव आत्मा सर्वमि’ति। किमर्थमुद्वहन्ति। दृशे द्रष्टुं दर्शनार्थमित्यर्थः। कस्य। विश्वाय।षष्ठ्यर्थे एषा चतुर्थी। सर्वस्य प्राणिजातस्य। उदिते सूर्ये सर्वं प्राणिजातं द्रष्टुं प्रभवति नानुदिते। कमुद्रहन्ति। सूर्यम् आदित्यम्॥
अप॒त्येता॒य॒वो॑यथा॒नक्ष॑त्राय॒न्त्य॒क्तुभिः॑।
सूरा॑यवि॒श्व॒च॑क्षसे॥
( अष्ट० १. अ० ४. व० ७. ॠ०.२.)
अपत्ये। त्ये इत्यस्य पदस्य नक्षत्रसामानाधिकरण्याद् व्यत्ययेन नपुंसकलिङ्गत्वम्।तानीत्यर्थः। तच्छब्दश्रुतेश्च योग्यार्थसम्बन्धो यच्छब्दोऽध्याहार्यः। यानि रात्रावदृश्यन्त तानि।तायवो यथा।तायुरिति स्तेननाम।चोरा इव। नक्षत्रा नक्षत्राणि अपयान्तिअपगच्छन्ति। अदृश्यतां प्रतिपद्यन्त इत्यर्थः। नच केवलानि, किं तर्हि।अक्तुभिः। रात्रिनामैतत्। सहयोगलक्षणा चैषा तृतीया।रात्रिभिः सह। कुतोऽपयन्ति। सूराय।सूरशब्दः सूर्यशब्दपर्यायः। पञ्चम्यर्थे चतुर्थी। सूर्यात् सूर्योदयोत्तरकालं हि नक्षत्राणि रात्रयश्च न दृश्यन्ते। कीदृशात् सूर्यात्। विश्वचक्षसे सर्वचक्षुषे स्वेन ज्योतिषा सर्वस्य द्रष्टुर्वा लोकपालत्वात्॥
अदृ॑श्रमस्यके॒तवो॒विर॒श्मयो॒ जनाँ॒अनु॑।
भ्राज॑न्तोअ॒ग्नयो॑यथा॥
(अष्ट० १. अ० ४. व० ७. ऋ० ३.)
अदृश्रम्।लडर्थे लुङ्। ‘छन्दसि लुङ्लङ्लिटः’ (३-४-६) इति कर्मणि च प्रथमपुरुषबहुवचनस्य स्थाने व्यत्ययेनेदमुत्तमस्यैकवचनम्।दृश्यन्ते इत्यर्थः। कुत एतत्। केतवं इत्यादिष्वमिहितकर्मत्व निमित्तायाः प्रथमाया दर्शनात्। के दृश्यन्ते। उध्यते। अस्य सूर्यस्य केतवः रश्मयः प्रज्ञानस्वरूपाः किरणाः। विशब्दस्य भ्राजन्त इत्यनेन सम्बन्धः क्वदृश्यन्ते। मनुष्यान् जनान्। (मनु) प्रतिमनुष्यलोकं व्याप्य स्थिता इत्यर्थः। किं कुर्वन्तः। विभ्राजन्तः। विविधं भ्राजमाना दीप्यमानाः। किमिव। अग्नयो यथा, अग्नय इव। अथवा अदृश्रम् इत्युत्तमपुरुषश्रुतिसामर्थ्याद् रश्मीनां च दर्शनकर्मत्वात् केतव इत्यादिषु द्वितीयार्थे प्रथमा। अदर्शमहमस्य केतून् छन्नान् अग्नीनिव॥
त॒रणि॑र्वि॒श्वद॑र्शतोज्योति॒ष्कृद॑सिसूर्य।
विश्व॒माभा॑सिरोच॒नम्॥
( अष्ट० १. अध्या० ४, व० ७. ऋ० ४.)
तरणिः। क्षिप्रनामैतत्। क्षिप्रस्त्वम्। विश्वदर्शतः सर्वस्य दर्शनीयो द्रष्टावा। ज्योतिष्कृत् ज्योतिषां च कर्ता त्वमसि। हे सूर्य ! विश्वं सर्वं जगत्। आभासि। णिज्लोपो द्रष्टव्यः। आभासयसि। रोचनं प्रकाशस्वभावम्॥
प्र॒त्यङ्देवानां॒॑विश॑प्रत्यङ्ङुदेषि॒मानु॑षान्।
प्र॒त्यङ्विश्व॒॑स्व॑र्दृशे॥
(अष्ट० १, अध्या० ४. व० ७.ऋ० ५.)
प्रत्यङ् देवानाम् उदेषीत्यनेन सम्बन्धः।उदेतुश्चेदं सूर्यस्य विशेषणं नोदयक्रियायाः। कुत एतत्। पुल्लिँङ्गत्वात्। प्रतीच्यां दिशि सूर्योदयस्यासम्भवात्। प्रत्यङ् उदेषि प्राच्यां दिशि प्रत्यङ्मुखः स्थित्वा त्वमुदेषीत्यर्थः। किमर्थम्। देवानां विशः। साकांक्षत्वात् दृश इत्येतत् परस्ताच्छ्रुतं सर्वत्रानुषक्तव्यम्। दृशेशब्दो द्रष्टुमित्यस्य स्थाने वर्तते। ‘दृशे विख्ये च’ (३-४-११) इति तुमर्थे निपातनात्। देवानां स्वभूता या विशः ताः दृशे द्रष्टुम्। पुरस्तादुदितस्य भ141वतः पश्चादवस्थितान् देवान् द्रष्टुमित्यर्थः। न च देवविश एव केवलाः, किन्तर्हि, प्रत्यङङुदेषि मानुषान्। मनुष्यानपि द्रष्टुम्। प्रत्यङ् विश्वं सर्वं जगद् द्रष्टुम्।स्वर्दृशे। स्वशब्दोऽत्र द्युनामा।द्युलोकं द्रष्टुम्।यावदिदं किञ्चित् पञ्चादवस्थितं सर्वं द्रष्टुं सर्वतः पूर्वं प्रत्यङ्मुखस्त्वमुदेषीति समस्तार्थः॥
येना॑पावक॒चक्ष॑साभुर॒ण्यन्तं॒जनाँ॒अनु॑।
त्वंव॑रुण॒पश्या॑सि॥
(अष्ट० १.अ० ४. व० ७ .ऋ० ६.)
येनापावक। येन चक्षसा दर्शनहेतुना ज्योतिषा।हे पावक ! कृत्स्नस्य जगतः शोधयितरित्यर्थः। भुरण्यन्तम्। गतिकर्मायम्। गच्छन्तं सूर्यम्। जनान् अनु मनुष्यान् प्रति मनुष्यलोकं व्याप्नुवन्तमित्यर्थः। त्वं हे वरुण ! पश्यसि।यच्छब्दश्रुतेः साकाङ्क्षत्वाद् वाक्यस्य तद् वयं स्तुम इति वाक्यशेषः। एवमत्र सत्यपि वरुणस्यामन्त्रणे अथापि प्रत्यक्षकृता हि स्तोतारो भवन्ति। परोक्षकृतानि स्तोतव्यानीत्यनेनैव न्यायेन सूर्यस्यैव प्राधान्यं न वरुणस्य। सौर्य हीदं सूक्तं न वारुणम्। अथवा सूर्यस्य सूक्तभाक्त्वाद् वरुणेति क्रियायोगात् सूर्यस्यैवामन्त्रणम्।भुरण्यच्छब्दः क्षिप्रकारिवचनः क्षिपनामसु भुरण्यच्छब्दस्य पाठात्। सर्वनाम्नां चाख्यातजत्वाद् भुरण्यतिः क्षिप्राथोंऽपि न गतिकर्मैवेति गम्यते। हे पावक ! येन चक्षसा अनुग्रहात्मकेन दर्शनेन भुरण्यन्तं क्षिप्रं यागान् स्तुतीश्च कुर्वन्तं मनुष्यं जनान् अनु मनुष्यान् प्रति वर्तमानं मनुष्यमध्यगतमित्यर्थः। त्वं हे वरुण ! ज्योतिषा कृस्त्रस्य जगत आवारितः ! सूर्य ! पश्यसि। साकाङ्क्षत्वात् तत् ते वयं स्तुम इति वाक्यशेषः। अथवा तेनास्मानपि पश्येति वाक्यशेषः। अथवा तच्छब्दमात्रमध्याहृत्य पूर्वयर्चैकवाक्यता योज्या, येन चक्षुषा भुरण्यन्तं पश्यसि तेन प्रत्यङ्मुख उदेषीति। परया वा। येन चक्षसा भुरण्यन्तं पश्यसि तेन विद्यामेषीति॥
विद्यामे॑षिरज॑स्पृ॒थ्वहामिमा॑नो अ॒क्तु॑भिः।
पश्य॒न्जन्मा॑निसूर्य॥
(अष्ट० १. अध्या०. ४. व० ८. ॠ० ७)
विद्यामेषि। द्यांद्युलोकम्। व्येषि विविधं गच्छसि। रजः पृथु। रजश्शब्दोऽत्र लोकवचनः सामर्थ्यादन्तरिक्षलोके वर्तते। पृथु विस्तीर्णं चान्तरिक्षम्। अहा अहानि। मिमानः कुर्वन्। केन। अक्तुभिः। अक्तुशब्दोऽयं ज्योतिर्वचनः। ‘अक्तुनह्नांवयुनानि साघदि’ ति यथा। आत्मीयैर्ज्येतिर्भिः रश्मिभिर्हि सूर्योऽहानि करोति। अथवा अक्तुशब्दो रात्रिवचनः। सहयोगलक्षणैषा तृतीया अक्तुभिः रात्रिभिः सह। केन मिमानः।सामर्थ्यादुदयास्तमयाभ्याम्।उदयेन हि सूर्योऽहानि करोति, अस्तमयेन रात्रिम्। पश्यन् अनुग्राहकतया, अनुगूह्णातीसीत्यर्थः।जन्मानि जननधर्माणि भूतजातानि, हे सूर्य !॥
स॒प्तत्वाह॒॑रितो॒रये॒वह॑न्तिदेवसू॒र्य।
शो॒चिष्के॑शंविचक्षण।
(अष्ट० १. अध्या० ४. ३० ८. ऋ० ८.)
सप्तत्वा। सप्त सप्तसंख्याकाः। त्वा त्वाम्। हरितः। हरिच्छब्दो हरितशब्दपर्यायो नीलवर्णवचनः। हरितवर्णा बडवाः। रथे। सप्तमीनिर्देशात्स्थितमिति वाक्यशेषः। रथे स्थितं वहन्ति हे देव ! सूर्य। कीदृशम्। शोचिष्केशम्। शोचिर्दीप्तिः रश्म्याख्या केशस्थानीया यस्य स शोचिष्केशःतं शोचिष्केशं दीप्तिरश्मिकमित्यर्थः। हे विचक्षण।सर्वस्य विविधं द्रष्टः !॥
अयु॑क्तसप्त॒शुन्ध्यु॒वःसूरोरथ॑स्य॒नप्त्यः॑।
ताभि॑र्या॒तिस्वयु॑क्तिभिः॑।
(अष्ट० १. अध्या० ४. व० ८. ऋ० ९.)
अयुक्त। ताभिर्यातीति तच्छब्दश्रुतेर्यच्छब्दोऽध्याहार्यः। याः अयुक्त युक्तवान्। सप्तसंख्या बडबाः। शुन्ध्युवः। शुन्ध्युरादित्यो भवति शोधनात्, तस्य स्वभूता आत्मन एव स्वभूता इत्यर्थः। अथवा उदकचरो मद्गुनामा यः शकुनिः स शुन्ध्युरुच्यते। द्वितीयाबहुवचनं चेदम्। शुन्ध्युव इव शुन्ध्युवः। मद्गुसदृशीरित्यर्थः। क्रियाशब्दो वा शुन्ध्युशब्दः। शोधयित्रीः शुन्ध्युवः। को युक्तः। उच्यते। सूरः सूर्यः।रथस्य नप्त्यः।नपाच्छब्दस्यापत्यनाम्नोऽयं नप्त्यं। देशः। रथस्याषत्यभूताः। अत्रेतिहासमाचक्षते — पुरा किलानश्वः सूर्यस्य रथ आसीत्। सोऽह्नास्तं गन्तुं यावन्नाशक्नोत् तं सूर्योऽह्रास्तं ग (च्छ?न्तु) मैच्छत् तस्माद्रथयात् सप्त हरितवर्णा बडबा अजायन्त। ता एनमह्नास्तं नयन्तीति। तदेतदुक्तं रथस्य नप्त्योऽपत्यभूता इति। अथवा रथस्येति सप्तम्यर्थे षष्ठी। अयुक्तेत्येतेन सम्बन्धः रथेऽयुक्तेति। नपत्य इति तु नप्तृशब्दपर्यायः प्रथमैंकवचनान्तः सूर्यस्य विशेषणार्थः नप्ताइति। कस्य नप्तासामर्थ्यांदपाम्। अद्भ्यो हि वैद्युताग्निर्जायते। अग्नेःसूर्यः। ‘अग्नेर्वादित्यो जायते’ इति श्रुतेः। अथवा नप्त्य इति क्रियाशब्दो द्वितीयाबहुवचनान्तो बडबानामेव विशेषणार्थः। न न पतन्ति पतन्त्येव यास्ता नप्त्यः।सततगामिनीरित्यर्थः। ताभिर्याति। कीदृशीभिः। स्वयुक्तिभिः।याः स्वयमेव रथे युज्यन्ते ताःस्वमुक्तयः, ताभिःस्वयुक्तिभिः॥
चित्रंदेवानामुदगादनीकंचक्षुर्मित्रस्यवरु॑णस्याग्रेः।
आप्राद्यावा॑पृथिवीअन्तरिक्षंसूर्य आत्माजग॑तस्त॒स्थुषश्च॥
(अष्ट० १ अध्या० ८. वर्ग० ७. ऋ० १.)
चित्रं देवानाम्। कुत्स आङ्गिरस ऋषिः। त्रैष्टुभं सौर्यम्। चित्रंप्रातर्मध्यन्दिनापराह्नेषु नानारूपत्वाद् विचित्रं पूज्यं वा। किं तत्। सामर्थ्याज्ज्योतिः। किंरूपम्। उच्यते। देवानां रश्मीनाम् अनीकं समूहं रश्मिसमूहरूपमित्यर्थः। चक्षुः चक्षुःस्थानीयं प्रकाशकत्वात्। कस्य। मित्रस्य वरुणस्याग्रेः।मित्रादिप्रहणं चात्र प्रदर्शनार्थं द्रष्टव्यम्। देवानां मनुष्याणां च प्राणिनां चक्षुःस्थानीयमित्यर्थः। उदगात् उद्गतम्। उद्गम्य च आप्राः। ‘प्रा पूरणे’।लट्स्थाने लुङ्। आपूरयति। किम्। (द्यावापृथिवी)। द्यावापृथिव्यौ च अन्तरिक्षंच। केन। सामर्थ्यात् स्वरश्मिभिः। कतमदिदमीदृशं ज्योतिः। उच्यते।योऽयं सूर्यो नाम आत्मा आत्मशब्दः कारणवचनः। कारणमस्य जगतःजङ्गमस्य तस्थुषश्ध स्थावरस्य च॥
सूर्यो॑दे॒वीमु॒षस॑रोच॑मानांमर्यो॑नयोषाम॒भ्येतिपश्चात्।
यत्रानरो॑दे॒वयन्तो॑यु॒गानि॑वितन्व॒तेप्रतिभ॒द्राय॑भद्रम्॥
(अष्ट० १. अध्या० ८. व० ७. ऋ० १.)
सुर्यो देवीमुषसं रोचमानां मर्यो न योषाम्। यथा कश्चिन्मनुष्यः काश्चित्स्त्रियं यान्तीं पश्चादभिगच्छति एवमभ्येति अभिगच्छति। पश्चादुषस्युदितायांपश्चादुद्गच्छतीत्यर्थः। कस्मिन् काले। उच्यते। यत्रानरः मनुष्याः देवयन्तःसूर्यमेव देवं यष्टुमिच्छन्तः। युगानि। युगशब्दः कालवचनः। सामर्थ्याचाग्रिहोत्रकालेषु वर्तते। प्रतीत्येतेन च सम्बध्यते। अग्निहोत्रकालान् प्रति। अग्निहोत्रकाले। उपोदयं व्युषित उदिते वेत्येवमादिष्वित्यर्थः। वितन्वते विततंकुर्वन्ति। भद्राय तत्फलाय भद्रमग्रिहोत्रलक्षणं कर्म। यदा स्वेषु मनुष्या अग्रिहोत्रं जुह्वति तदा सूर्य उषसः पश्चादभ्येतीति समस्तार्थः॥
भ॒द्राअश्वा॑हरितःसूर्यस्य॑चि॒त्राएत॑ग्वाअनु॒माद्या॑सः।
न॒मस्यन्तोदि॒वआपृष्ठम॑स्थु।परि॒द्यावा॑पृथि॒वीय॑न्तिसद्यः॥
(अष्ट० १. अध्या० ८. व० ७. ऋ० ३.)
भद्रा अश्वा। हरितः हरितवर्णाः सूर्यस्य स्वभूताः।चित्राःविचित्राःपूज्या वा। एतगवाः। एतग्व इत्यश्वनामान्यत्र। इह त्वश्वा इति पौनरुक्त्यप्रसज्ञात् क्रियाशब्दः। एतद्गामिनः अतीतेष्वहःस्वस्यैव मार्गस्य गन्तारइत्यर्थः। अनुमाद्यासः। मदतिरर्चतिकर्मा। अनुस्तुत्याः। नमस्यन्तः पूजयन्तःसूर्य दिवः पृष्ठमुपरिभागं आस्थुः आतिष्ठन्ति। आस्थाय च द्यावापृथिवी उभेअपि परियन्ति सद्यः समान एवाहनि॥
तत्सूर्य॑स्यदेवत्वंतन्महित्वंमध्याकर्तोर्वित॑तंसं॑जभार।
य॒देदयु॑क्तह॒रितः॑स॒धस्था॒दाद्रात्रीवास॑स्तनुतेसि॒मस्मै॑॥
(अष्ट० १. अध्या०८. व० ७. ऋ० ४.)
तत्सूर्यस्य देवत्वं तन्महित्वं तच्च महत्त्वम्। तच्छब्दाद् यच्छब्दोऽध्याहार्यः। यद् मध्या मध्ये। कर्तोः। कर्मनामैतत्। कृष्यादेः कर्मणः। अपरिसमाप्तेष्वेव प्रारब्धेषु कृष्यादिषु कर्मस्वित्यर्थः। विततम् आत्मीयं रश्मिजालंविस्तीर्णम्। सञ्जभार सद्य एव संहरति। अतिमहत्त्वाद्धीदमन्यत्र दुरुपसंहारम्।सूर्यादन्यः सद्य एव संहर्तुं न शक्नोतीत्यर्थः। कदा पुनरुपसंहरति।उच्यते। इत् पादपूरणः। यदास्तमयानन्तरं मेरुमन्तरेण गन्तुमयुक्त युड्क्तेहरितः स्वकीया बडवाः। क्व। सधस्थात्। सह तिष्ठन्ति यत्राश्वाः स सधस्थो रथोऽभिप्रेतः। सप्तम्यर्थे चैषा पञ्चमी। अश्वानां सहस्थाने आत्मीये रथेइत्यर्थः। आत् तदैव च रात्री शर्वरी। वासः। वासशशब्दोऽत्र क्रियावचनःअभिप्रेतः ‘वस आच्छादने’ इत्यस्य वस्त्रवचनो वा, सामर्थ्यात् कृष्णं वास आह। तत्सारूप्याच्चात्र तमसि प्रयुज्यते। कृत्स्नस्य जगत आच्छादयितृकृष्णवासःस्वरूपं वा तमः। तनुते विस्तारयति। सिमस्मै। समसिमेत्येतौ सर्वशब्दपर्यायौ। सप्तम्यर्थे चात्र चतुर्थी। सर्वस्मिन् जगति॥
तन्मि॒त्रस्य॒वरु॑णस्याभिचक्षेसूर्यो॑रूपं॑कृ॑णुतेद्योरु॒पस्थे॑।
अनन्तमन्यद्रुश॑दस्यपाज॑।कृष्णम॒न्यद्धरितः संभ॑रन्ति॥
(अष्ट०१ आध्या० ८. व० ७.ऋ० ५.)
तन्मित्रस्य। तच्छब्दश्रुतेर्योग्यक्रियासम्बन्धो यच्छब्दोऽध्याहर्तव्यः।यदिदं प्रातः प्रागुदयाद् दीप्तिवर्जितं प्रकाशमात्रसम्बन्धात्, तन्मित्रस्य वरुणस्य। मित्रवरुणग्रहणमत्र प्रदर्शनार्थं द्रष्टव्यम्। देवानां मनुष्याणां चप्राणिनाम्। अभिचक्षे अभिदर्शनाय। सूर्यः आत्मनो रूपं कृणुते करोति। द्योरुपस्थे दिवः समीपे। द्युलोकस्य समीपे पूर्वस्मिन् भाग इत्यर्थः। अनन्तमन्यत् अन्यत्तु मध्येऽन्हःअनन्तम् अत्यन्तं महद् रुशत् अत्यन्तदीप्तम्। अस्यसूर्यस्य स्वरूपम्। पाजः। बलनामैतत्। सामर्थ्यादन्तर्णीतमत्वर्थम्। बलवत्,अत्यन्ततीव्रस्वाद् दुरभिभवमित्यर्थः। कृष्णमन्यत् अन्यदपि कृष्णं तमोकक्षणमस्य रूपम्। हरितः अश्वाः। सम्भरन्ति मेरुमुत्तरेण सूर्यं नयन्तः प्रकल्पयन्ति। मेरुणा हि व्यवधीयमानः सूर्यस्तमः करोति। अतस्तस्यैव देशान्तरस्थस्यतद्रूपमिति व्यपदिश्यते। मेरुणा च व्यवधीयमानाः सूर्यस्याश्वाः कुर्वन्ति। अत एतदुच्यते कृष्णमन्यद्धरितः सम्भरन्तीति॥
अद्यादे॑वाउदि॑तासूर्य॑स्यनिरंह॑सःपिपृतानिर॑वद्यात्।
तन्नो॑मिंत्रोवरु॑णोमामहन्तामदि॑तिःसि॑न्धुःपृथिवीउतद्यौः॥**
(अष्ट० १. अध्या० ८. व्० ७. ऋ० ६.)
अद्यादेवाः। सौर्यत्वादस्य मन्त्रस्य देवा इति रश्मय उच्यन्ते नान्ये।अद्य हे देवाः ! सूर्यस्य रश्मयः !। उदिता सूर्यस्य, सूर्यस्योदये सूर्योदयवेलायाम्। अंहसः पापादधर्माख्यात्। निष्पिपृता। ‘पृपालनपूरणयोः’ इत्यस्यैतच्छान्दसं ह्रस्वत्वम्। निश्चयेन पालयतास्मान्। न च केवलादंहसः, किं तर्हि,निरँवद्यात्। अवद्यंगर्ह्यमुच्यते। अन्यस्मादपि गर्ह्यान्निश्चयेनास्मान् पालयत।सूर्यरश्मिप्रार्थनमा सूर्य एव प्रार्थ्यत इति मन्तव्यं रश्मिरश्मिमतोरभेदात्।तच्छब्दश्रुतेर्योग्यक्रियासम्बन्धोयच्छब्दोऽध्याहर्तव्यः। यन्मया प्रार्थितमंहसोऽवद्याच्च निष्पिपृत्तेति, तन्नः अस्मत्प्रार्थितं हे सूर्य ! त्वत्प्रसादादेव मामहन्तामित्यर्थं पूजयन्तु अनुमन्यन्तामित्यर्थः। के। मित्रः वरुणः अदितिः देवमातासिन्धुः पृथिवी उत अपि द्यौः। एवमत्र सूर्यस्य प्राधान्यान्मित्रादीनामप्राधान्यात्कृत्स्नस्य सूक्त्तस्य सौर्यस्वंद्रष्टव्यम्। अयं न्यायः सार्वत्रिको द्रष्टव्यः॥
नमो॑मि॒त्रस्य॒वरु॑णस्य॒चक्ष॑सेम॒होदे॒वाय॒तदृत्ंस॑पर्यंत।
दूरेदृशेदे॒वजाताय॒केतवे॒दिचवस्पु॒त्रायसूर्या॑यशंसत॥
(अष्ट• ७. अध्या० ८. व० १२. ऋ० १.)
नमो मित्रस्येति सूक्तं द्वादशर्चंजागतं सौर्यं सूर्यपुत्रोऽमितपाददर्श।दशमी त्रिष्टुप्। नमो मित्रस्य। नमः। अन्ननामैतत्। अन्नं चरुपुरोडाशादिलक्षणम्। सपर्यतेत्यनेन सम्बन्धः। सपर्यतिः परिचरणकर्मा सामर्थ्यादिहकरोत्यर्थः। हे मदीया ऋत्विजः ! चरुपुरोडाशादि हविर्लक्षणमन्नं सपर्यंतकुरुत। निर्वापादिसंस्कारैरुत्पादयतेत्यर्थः। कस्मै। सूर्याय। तादर्थ्यचतुर्थ्यन्तमेतत्। सूर्यस्यार्थाय। किंविशिष्टाय। उच्यते। मित्रस्य वरुणस्य चक्षसे। मित्रवरुणग्रहणमत्र प्रदर्शनार्थं द्रष्टव्यम्। मित्रादिदेवानां मनुष्याणां चान्येषच प्राणिनां चक्षसे दर्शनहेतवे। द्रष्टे वा लोकपालत्वात्। देवाय दानादिगुणयुक्ताय। दूरेदृशे दूर एव स्थितो यो दृश्यते प्राणिभिः स दूरेदृक्। तस्मै। अथवाकर्तृसाधनः, दूरे स्थितः पश्यति सर्वमिति। तस्मै दूरेदृशे। देवजाताय। देवात्प्रजापतेरुत्पन्नाय। अग्रेर्वा जाताय ‘अग्रेर्वा आदित्यो जायते’ इति श्रुतेः।केतवे। प्रज्ञानामैतत्। प्रज्ञानस्वरूपाय प्रकाशद्वारेण प्रज्ञापयित्रे वा। दिवस्पुत्राय। अहन्यहनि दिवो जायमानत्वाद् दिवस्पुत्रे इत्युच्यते सूर्यः। तस्मै।न च हविरेव केवलं, किन्तर्हि, तदृतम्। तच्छब्दश्रुतेर्यच्छन्दोऽध्याहार्यः। ऋतमिति च सत्यनाम। यत् सत्यं परमार्थभूतम्। किं तत्। सामर्थ्यात् स्तोत्रम्। महःपूजनीयम्। सपर्यतिना सम्बन्धः। यत् स्तोत्रं सत्यभूतं सगुणं च तत् सपर्यंत हेऋत्विज इत्यर्थः। किञ्च शंसत च शस्त्राणि। एतदुक्तं भवति— हे अध्वर्यवः !सूर्याय हविः संस्कुरुत। उद्गातारः ! स्तोत्रं कुरुत। होतारः ! शस्त्राणिशंसतेति॥
सामास॒त्योक्तिःपरिपातु॒बिश्वतो॒द्यावा॑चयत्रततनन्नहानिच।
विश्व॑म॒न्यंनिविशतेयज॑तिवि॒श्वाहापोविश्वाहोदेतिसूर्यः॥
(अष्ट० ७. अभ्या० ८. ६० १२. ऋ० १.)
सा मा। सूर्यस्य तनूरित्यध्याहार्यम्। स्त्रीलिङ्गनिर्देशात्। सा माम्।सत्योक्तिः। उच्यन्ते देवतागुणाः अनयेत्युक्तिः स्तुतिरभिप्रेता। सा सत्या अविसंवादिनी यस्याः सा सत्योक्तिः यथाभूतगुणग्राहिणी तनूरित्यर्थः। परिपातुसर्वप्रकारं रक्षतु विश्वतः सर्वतः सम्बन्धिनश्च\। द्यावा च रश्मिलक्षणादीप्तिश्च अहानि च यत्र यस्यां सूर्यतनौ ततनन् विस्तारितानि गतानि अवस्थितानीत्यर्थः। उत्तरार्धर्चः स्तुतिरेव नाशीः। विश्वमन्यं सर्वमन्यद् भूतजातम्।निविशते विश्रमार्थमुपविशति स्वपिति चेत्यर्थः। यद् भूतजातम् एजतिकम्पते गच्छति परिस्पन्दते। विश्वाहा सर्वदा आपः सूर्यमण्डलस्थाः सर्वव्याप्तारो रश्मयः उद्यन्ति। विश्वाहा सर्वदैव उदेति वृद्धिं गच्छति सूर्यः। श्रमाभावाद्रश्मयश्च सूर्यश्च विश्रमार्थं कदाचिदपि न निविशन्ते इत्यर्थः॥
नते॒अदे॑वःप्र॒दिवो॒निवासते॒यदे॑तशेभिःपत॒रैर॑थ॒र्यसि।
प्रा॒चीन॑म॒न्यदनु॑वर्तते॒रज॒उद॒न्येन॒ज्योति॑षायासिसूर्य॥
(अष्ट० ७. अध्या० ८. व० १२. ऋ० ३.)
नते। हे सूर्य ! ते तव, समीपे इति शेषः। अदेवः देवादन्यः असुरराक्षसादिकः। प्रदिवः। पुराणनामैतत्। पुराणं चिरन्तनम्। आदिसर्गोऽपि प्राजापत्योऽपि सन्नित्यर्थः। न निवासते न वसति। मरणभयान्न तिष्ठतीत्यर्थः।कदा। यद् यदा। एतशेभिः। अश्वनामैतत्। अश्वैरात्मीयैर्हरित्संज्ञकैः। पतरैःपतनशीलैः गमनशीलैः सह। रथर्यसि। अनवगतसंस्कारमेतत्पदं रथर्यसीतिसिद्धम्। तत् प्रेप्सुः। रथं कामयन्त इति वेति प्रच्छन्नावगमप्रदर्शनवाक्यम्।रथं हर्यासि(?) रथीयसीति चावगमः। रथमिच्छसि योक्तुमित्यर्थः। किञ्चान्यत्प्राचीन प्रागञ्चितम्। प्राक्शब्दश्चात्र सामर्थ्यात् तिर्यगधोवचनः। तिर्यगधोमुखमित्यर्थः। अन्यद् रजः रश्मिलक्षणं ज्योतिस्तव स्वभूतम् अनुवर्ततेअनुपूर्वं गच्छति। अन्येन ज्योतिषा रश्मिलक्षणेन उद्यासि ऊर्ध्वं गच्छसि।त्वं कदम्बगोलकवत् तव मण्डलस्य अवस्थानात् तिर्यगूर्ध्वमधश्च स्वरश्मिजालेन व्याप्नोषि इत्यर्थः॥
येन॑सूर्य॒ज्योति॑षा॒बाध॑से॒तमो॒जग॑च्चविश्व॑मु॒दियर्षि॑भा॒नुना॑।
तेना॒स्मद्विश॒वामनिरा॒मना॑हुति॒मपामी॑वा॒मप॑दुः॒ष्वप्नयंसु॒व॥
(अष्ट० ७. अध्या० ८. व०१२ ऋ० ४.)
येन सूर्य। हे सूर्य ! येन ज्योतिषा बाधसे अभिभवसि। तमःशार्वरम्। जगच्चसंसारमण्डलं च। विश्वं सर्वं प्रति। उदियर्षि उद्गच्छसि।भानुना तेन ज्योतिषा। अस्मत् अस्मत्तः। विश्वां सर्वप्रकाराम्। अनिराम्। मकारलोपोऽत्र द्रष्टव्यः। अनिरमाम् अविद्यमानरतिम् अत्यन्ताप्रीतिकरीमित्यर्थः। अनाहुतिम् अविद्यमानजठराग्न्याहुतिम् अग्निशमनकरीमित्यर्थः।अमीवां रोगजातिम्। अपसुव। ‘षु प्रेरणे’ अपप्रेरय अपगमय नाशयेत्यर्थः।दुष्वप्न्यं दुःस्वप्नभवं च दोषम् अपसुव॥
विश्व॑स्य॒हिप्रेषि॑तो॒रक्ष॑सिव्र॒तमहे॑लयन्तु॒च्चर॑सिस्व॒धाअनु॑।
यद॒द्यत्वा॑सूर्योप॒ब्रवा॑महै॒तन्नोदे॒वाअनु॑मंसीरत॒क्रतु॑म्॥
(अष्ट० ७. अध्या० ८. ३० १२. ऋ० ५.)
विश्वस्य हि। सर्वस्य यजमानस्य हि यस्मात् प्रेषितः अभ्यर्थितइत्यर्थः। रक्षसि यज्ञविध्वंसकरेभ्यः सकाशात् पालयसि। व्रतम्। कर्मनामैतत्।कर्म यज्ञाख्यम्। अहेलयन् अक्रुध्यन्। उच्चरसि ऊर्ध्वं गच्छसि। स्वधाअनु प्रातर्होमानां पश्चाद् प्रातर्होमे निवृत्ते इत्यर्थः। यद् यस्माच्च। अद्य यागदिवसे। त्वा त्वां हे सूर्य ! उपव्रवामहै उपगम्य ब्रूमः अभ्यर्थयामहै याचामहैइत्यर्थः। यस्मादिति वचनात् तस्मादित्यध्याहार्यम्। तस्मादस्माकमपि यज्ञंप्रातर्होमं च रक्षेत्यर्थः। तं तं च ऋतुं कर्मलक्षणम्। नः अस्माकंयज्ञस्य प्रातर्होमस्य च सम्बन्धितया क्रियमाणम्। देवाः सर्वे अनुमंसीरतत्वत्प्रसादादनुमन्यन्ताम् अन्याघातेन वर्त्तयन्तामित्यर्थः॥
तन्नो॒द्यावा॑पृथि॒वीत॑न्न॒आप॒इन्द्रः॑शृण्वन्तुम॒रुतो॒हवं॒वचः॑।
माशूनेभूम॒सूर्य॑स्यसं॒दृशिभ॒द्रंजीव॑न्तोजर॒णाम॑शीमहि॥
(अष्ट० ७ अध्या ८. व० १२. ऋ० ६.)
_____________________________________________
तन्नो द्यावापृथिवी। तन्नः अस्माकं स्वभूतं हवम् आह्वानम्। तत् तच्चनः वचः स्तुतिलक्षणम्। द्यावापृथिव्यौ आपश्चेन्द्रश्च मरुतश्च शृण्वन्तु सूर्येणाभ्यनुज्ञाताः। किञ्चमा भूम वयं शुने। ‘टु ओ श्वि गतिवृद्ध्योः’।वृद्धे महति। सामर्थ्यात् पापे तत्कार्येदुःखे वा। (सूर्यस्य) सन्दृशि सन्दृष्टौअनुग्रहबुद्धौ वर्तमाना इत्यर्थः। (न केवल पापेदुःखे वा माभूम), किं तर्हि,भद्रं कल्याणं धर्मं तत्कार्यं सुखं वा जीवन्तः वर्षशतं प्रागान् धारयन्तः।जरणां जरां च अशीमहि प्राप्नुयामेत्याशास्महे॥
वि॒श्वाहा॑त्यासु॒मन॑सःसु॒चक्ष॑सप्र॒जाव॑न्तोअनमी॒वाअना॑गसः।
उ॒द्यन्त॑त्वामित्रमहोदि॒वेदि॑वे॒ज्योग्जी॒वाः प्रति॑पश्येमसूर्य॥
(अष्ट० ७. अध्या० ८. व० १३. ऋ० ७.)
विश्वाहा त्वा। सर्वदा त्वा त्वाम्। स्तुमो यजामश्चेति शेषः। कीदृशाःसन्तः। सुमनसः कल्याणचित्ताः। सुचक्षसः शोभनचक्षुषः। चक्षुर्ग्रहणमिन्द्रियार्थोपलक्षणं द्रष्टव्यम्। प्रजावन्तः पुत्रादिप्रजासहिताश्च। अनमीवाः अरोगाः।अनागसः कर्मवैगुण्यजनितापराधवर्जिताश्च सन्तः। किन्च। दिवे दिवेअहन्यहनि उद्यन्तं त्वा त्वाम्। हे मित्रमहः ! मित्राणां स्तोतृयष्टमनुष्याणांपूजित ! ज्योक् चिरं जीवाः जीवन्तो वयं प्रतिपश्येम प्रतिदिनं पश्येमेत्याशास्महे हे सूर्य ॥
महि॒ज्योति॒र्बिभ्र॑तंत्वाविचक्षण॒भास्व॑न्तं॒चक्षुषे॑चक्षुषे॒मयः॑।
आ॒रोह॑न्तंबृह॒तःपाज॑स॒स्परि॑व॒यंजी॒वाःप्रति॑पश्येमसूर्य॑ ॥
(अष्ट० ७. अध्या० ८. व०१३. ऋ० ४.)
महिज्योतिः। महि महत् ज्योतिः रश्मिलक्षणं। बिभ्रतं भारयन्तंत्वा त्वाम्। हे विचक्षण ! सर्वस्य विशेषेण द्रष्टव्य !। भास्वन्तं रश्मिमन्तंस्वदीप्त्या दीप्तिमन्तम्। चक्षुषे चक्षुषे। चक्षुश्शब्दोऽन्तर्हितमत्वर्थः।षष्ठ्यर्थे च चतुर्थी। यावान् कश्चिच्चक्षुष्मान् प्राणी तस्य सर्वस्य। मयः।सुखनामैतत् तत्कारिणि वर्तते। मयस्करं सर्वार्थप्रकाशनद्वारेण सुखकरमित्यर्थः। आरोहन्तं बृहतः महतः पाजसः। बलनामैतत् अन्तर्णीतमत्वर्थम्।बलवतः सर्वस्यासुरराक्षसादेः गरि। बलवन्तम् असुरराक्षसादिकमभिभवन्तमित्यर्थः। वयं जीवाः चिरं जीवन्तः सन्तः प्रतिपश्येम प्रतिदिनं पश्येमहे सूर्य !॥
यस्य॑ते॒विश्वा॒भुव॑नानिके॒तुना॒प्रचेर॑ते॒निच॑वि॒शन्ते॑अ॒क्तुभिः॑।
अ॒ना॒गा॒स्त्वेन॑हरिकेशसू॒र्या॑ह्ना॑ह्वानो॒वेस्य॑सावस्य॒सोदि॑हि॥
(अष्ट० ७.अध्या० ८ व० १३. ऋ० ९.)
यस्य ते। यस्य ते तवत्वभूतेन केतुना। प्रज्ञानामैतत्। प्रज्ञयाचात्र तत्कारणमहर्लक्ष्यते। सप्तम्यर्थे च तृतीया। सर्वार्थज्ञानहेतुभूतेऽहनीत्यर्थः।विश्वां विश्वानि सर्वाणि भुवनानि भूतानि प्रचेरते प्रचरन्ति स्वे स्वेकर्मणि प्रवर्तन्ते। निविशन्ते च विश्रमार्थं स्वपन्ति चेत्यर्थः। अक्तुभिःरात्रिनामैतत्। अत्रापि सप्तम्यर्थे तृतीया। अक्तुषु तत्कार्यासु रात्रिषु। सत्वम् अनागास्त्वेन अस्माकं कर्मवैगुण्यजनितापराधवर्जितत्वेन हे हरिकेश !।भौमरसाहरणाद्धरयो रश्मय इहाभिप्रेयन्ते। रश्मिकेश !। हरिवर्णरश्मिकेशया। हे सूर्य ! अह्नाह्ना वस्यसा वस्यसा दिवसेन दिवसेन वसुमत्तरेण वसुमत्तरेण अस्मभ्यं दातव्येन धनेनातिशयेन तद्वता तद्वता दिवसनोपलक्षितःसन्। नः अस्मभ्यम्। धनं दातुमिति शेषः। उद् इहि उद्गच्छ। उद्गच्छन्नस्मभ्यंप्रभूतं धनं देहीत्यभिप्रायः॥
शंनो॑भव॒चक्ष॑सा॒शंनो॒अह्नाशंभा॒नुनाशंहि॒माशंघृ॒णेन॑।
यथा॒शमध्व॒ञ्छमस॑द्दुरो॒णेतत्सू॑र्य॒द्रवि॑णंधेहिचि॒त्रम्॥
(अष्ट० ७. अध्या० ८. व० १३. ऋ० १०.)
शं नो भव। शं सुखं नः अस्माक भव सुखकरो भवेत्यर्थः।केन। चक्षसादर्शनेन। शं नो अह्ना। भवेति सर्वत्रानुषक्तव्यम्। दिवसेनास्माकंसुखकरो भवेत्यर्थः। शं भानुना रश्मिलक्षणेन तेजसा। शं हिमा रात्रिनामैतत्। तृतीयाया लुक्द्रष्टव्यः। रात्र्याच शं नो भव। शं घृणेन। ‘घृ क्षरणदीप्त्योः’। क्षरणेन। कस्य। सामर्थ्यादुदकस्य। वृष्टिप्रदानेन चास्माकं सुखकरो भवेत्यर्थः। किञ्च यथा। प्रातिपदिकार्थेऽत्र प्रकारवचनः थाप्रत्ययः।यद्। द्रविणमित्यनेन सम्बन्धः। यद् द्रविणं शं सुखप्रदम्। असद् भवति। अध्वन्। सप्तम्या लोपः। अध्वनि।सप्तमीनिर्देशात् वर्तमानानामिति शेषः। शे सुखमेव। दुरोणे गृहनामैतत्। गृहेऽपि वर्तमानानामस्मकं यद् द्रविणं सुखकरं भवतीत्यर्थः। तत्। हे सूर्य ! द्रविणं धनम्। चित्रं विचित्रं नानाजातीयं हस्त्यश्वरथपदातिगोमहिषाजाविहिरण्यरजतमणिमुक्तावस्त्रधान्यादिकं धेहि देह्यस्मभ्यम्। अथवा यथेति श्रुतत्वात् तत्सूर्येत्यत्र तच्छब्दात् परस्य प्रकारवचनप्रत्ययस्य लोपो द्रष्टव्यः। तथा सूर्य !द्रविणमिति॥
अ॒स्माकं॑देवाउ॒भया॑य॒जन्म॑ने॒शर्म॑यच्छतद्वि॒पदे॒चतु॑ष्पदे।
अ॒दत्पिव॑दू॒र्जय॑मान॒माशित॒॑तद॒स्मेशंयोर॑र॒पोद॑धातन॥
(अष्ट० ७. अध्या० ८ व० ३. ऋ० ११. )
अस्माकम्। हे देवाः ! अस्माकं स्वभूताय उभ्याय उभयप्रकाराय द्विप्रकारायेत्यर्थ। जन्मने। अन्तर्णीतमत्वर्थमेतत् पदम्। जन्मग्रहणं चेतरेषामपि प्राणिधर्माणां प्रदर्शनार्थम्। जन्मजरामरणादिदुःखनिमित्तप्राणिधर्मवते तस्मै। द्विपदे चतुष्पदे मनुष्येभ्यो गवादिभ्यश्च शर्म सुखं व्याध्याद्यनिष्टसंयोगोपशमनलक्षणमिष्टसंयोगलक्षणं च। सूर्येणाभ्यनुज्ञाताः सन्तो यच्छत दत्त यूयम्। किञ्च अदत् मोदकादि कठिनं भक्षणीयम्। पिबत् क्षीरोदकादि द्रवं पानार्हम्। ऊर्जयमानम्। ‘ऊर्ज बलप्राणनयोः’। बलवन्तमिवात्मानमाचरत्। आशितं दध्योदनाद्यशनार्हमशितवच्च। तद्द्विपाच्चचतुष्पाञ्च। कुरुतेति शेषः। किञ्च अस्मे अस्मभ्यं शं शमनमुत्पन्नानां रोगाणाम्। योः यापनं च पृथग्भावनं च उत्पत्स्यमानैर्भयैरसम्बन्धं चेत्यर्थः। अरपः अपापत्वं च दधातन दत्त यूयम्॥
यद्वो॑देवाश्रकृमजिह्वया॑गु॒रुमन॑सोवाप्रयु॑तीदेव॒हेल॑नम्।
अरा॑वा॒योनो॑ अ॒भिदु॑च्छुना॒यते॒तस्मि॒न्तदेनो॑वसवो॒निधे॑तन॥
(अष्ट० ७. अध्या० ८. ३० १३. ऋ० १२.)
यद्वोदेवाः। हे देवाः ! यदेनः पापं गुरु देवहेलनं वः युष्माकं देवानां हेलनं क्रोधनं क्रोधनिमित्तमित्यर्थः। चकृम कृतवन्तो वयम्। केन। जिह्वयान्दन्ति फलानीत्युद्भिदः जनयितारः फलानामित्यर्थः। कथञ्च पुनरायन्तु। उच्यत। देवाः नः अस्माकम्। यथा सदमित् सदमिति सदाशब्दपर्यायः। इच्छब्द एवार्थे। सदैव। वृधेचतुर्थ्यन्तमेतत्। वर्धनाय। असन् भवेयुः। अप्रायुवः अप्रमोषितारः आयुषः प्रायुषः। जीवितस्थानपहर्तारो भवेयुरित्यर्थः। अथवा प्रायुव इत्ययतेर्गतिकर्मणो रूपम। अप्रगन्तारःनित्यसन्निहिता इत्यर्थः। अथवा प्रायुव इति योतेरूपम्। अन्यैरर्थैरप्रांगेश्रिता बुद्धिर्देषां ते अप्रायुवः। अनाक्षिप्तचेतस्काः यत्नवन्त इत्यर्थः। अथवा प्रायुव इत्यस्य माद्यन्त इत्यर्थः। रक्षितारः पालयितास्श्चदिवे दिवे अहन्यहनि तथा क्रतवः आयन्त्विति॥
देवानां॑भ॒द्रासु॑म॒तिर्ऋजूयतां॒दे॑वानां॑रा॒तिर॒भिनोनिव॑र्तताम्।
देवानां॑सख्य॒मुव॑सेदिभाव॒य॑देवान॑आयुः॒प्रति॑रन्तुजीवमे॑॥
(अष्ट० १अभ्० ६. व० १५ ऋ० २)
देवानां भद्रा स्वभूता भद्रा देवानां कल्याणी सुमतिः शोभना परानुग्रहबुद्धिः। किंविशिष्टानाम्। ऋजूयता। ऋजवः सदाचारा मनुष्याः। तत्कामिनां देवानां रातिर्दानम्। अभि नो निवर्त ताम्142 अस्मान् प्रति निवर्तताम्। देवा अस्मभ्यमेव धनं ददत्वित्यर्थः। देवानां सख्यं सखिभावं स्तोतृत्वंयष्टृत्वं चेत्यर्थः। उपसंदिम उपगच्छेम वयमित्याशास्महे। किञ्च देवा नः अस्माकं स्वभूतमायुः प्रतिरन्तु प्रपूर्वस्तिरतिः सर्वत्र वृद्ध्यर्थः प्रवर्धयन्तु जीवसे चिरजीवनाय॥
तान्पूर्व॑यानि॒विदा॑हूमहेव॒यंभ॑गंमि॒त्रमदि॑तिं॒दक्ष॑म॒स्त्रिध॑म्।
अ॒र्य॒मणंव॒रु॒॑णंसोम॒॑मश्वि॒नासर॑स्वतीनःसु॒भगा॒ मय॑स्करत्॥
(अष्ट० ४ अध्या० ६ व० १५. ऋ ३.)
तान् पूर्वया। तान् देवान् पूर्वया चिरन्तन्यानादिसिद्धया। निविदा। वाङ्नामैतत्। वाचा स्तुतिलक्षणया। हूमहे आह्वयामो वयम्। कतमांस्तान्। उच्यते। भगं मित्रम् अदितिं देवानां मानरं दक्षम्। कीदृशम्। अस्त्रिधम्। न स्त्रेधति न व्यथते न रिष्यतीति प्रयोगदर्शनात् स्त्रिधिः क्षयार्थः शोषणार्थो वा। अक्षयमशोषं वा। न चैतानेव केवलान्, किन्तर्हि अर्यमणं वरुणंसोममश्विनौ च। किञ्च सरस्वती नदी वा देवता वा। नः अस्माकम्।सुभगा सुधना कल्याणीपस्था वा। मयः। सुखनामैतत्। सुखम्। करत्करोतु। अस्मान् सुखयत्वित्यथः॥
तन्नो॒वातोमयो॒भुवा॑तुभेष॒जंतन्मा॒तापृ॑थि॒वीततूपि॒ताद्यौः।
तद्ग्रावा॑णःसोम॒सुतो॑मयोभुव॒स्तदा॑श्विनाश्रृणुतंधिष्ण यु॒वम्॥
(अष्ट० १. अध्या० ५. व० १५. ऋ० ४.)
तन्नो वातः। तच्छन्दश्रुतेर्यदव्याहारः। यद् वयमिच्छामः तन्नःअस्मान् प्रति वातः मयोभु सुखस्य भावयितृ। आगामिन्यपि काले सुखकरमित्यर्थः। वातु वातिर्गतिकर्मा सामर्थ्यादन्तर्णीतण्यर्थः। गमयतु। अस्मभ्यंददात्वित्यर्थः। किं तत्। भेषजं व्याधिप्रशमनमौषधम्। नच केवलो वातः,किं तर्हि, तन्माता पृथिवी तदेव पिता द्यौः। वात्वित्यनुषङ्गः। विवाहकाले’द्यौरहं पृथिवी त्वमि’ति वरे वध्वां च घुपृथिवीत्वाध्यारोपात् सर्वमनुष्याणांच वधूवरमातापितृकत्वात् तद्धर्मेण पृथिव्या दिवश्वायं मातापितृव्यपदेशःतन्माता पृथिवी तत्पिताद्यौरिति। किञ्च तत् तदेव भेषजं ग्रवाणः पाषाणाः। सोमसुतः सोमाभिषवकारिणः। मयोभुवः यागनिर्वर्तकतया सुखस्य भावयितारः। तत् तदेव हे अश्विनौ। शृणुतम्। श्रवणेनात्र तत्पूर्वकं करणं लक्ष्यते।कुरुतं दत्तमित्यर्थः। हे धिष्ण्यौ ! धिषणा वाक् तस्याः पुत्रौ। अथवा धीःप्रज्ञा। ‘षण वेष्टने’। धीर्वेष्टयित्री सर्वार्थग्रहणसमर्था ययोस्तौ घिष्णौ धिष्णावेवधिष्ण्यौ। खार्थिकस्तद्धितः। छान्दसं ह्रखत्वं च। अत्यन्तप्रज्ञावित्यर्थः। युवंयुवामपि॥
तमीशा॑नंजगतस्त॒स्थुष॒स्पतिंधियंजि॒न्वमव॑सेहूमहेव॒यम्।
पू॒षानो॒यथा॒वेद॑सा॒मस॑द्वृधेर॑क्षि॒तापा॒युरद॑ब्धःस्व॒स्तये॑॥
(अष्ट० १. अध्या० ६. वर्ग० १५. ऋ० ५.)
तमीशानम्। तमिति तच्छन्दश्रुतेर्यदध्याहारः। यमन्येऽपि सर्वेआह्वयन्ति, तमीशानम्। रुद्रनामैतत्। रुद्रम्। किंविशिष्टम्। जगतस्तस्थुषस्पतिंजङ्गमस्य स्थावरस्य च स्वामिनम्। चराचराधिपतिरित्यर्थः। धियंजिन्वम्। धीरितिकर्मनाम प्रज्ञानाम वा। जिन्वतिः प्रीतिकर्मा। सर्वकर्मणां सर्वप्रज्ञानां वा(प्रीणयितारम्। अवसे पालनायात्मनः हूमहे आह्वयामो वयम्। कथं च पुनराह्वयामः। उच्यते। आहूतः ईशानः नः अस्माकं यथा वेदसां धनानां ज्ञानानां वा)असद्भवेत् वृधे वर्धनाय। रक्षिता चास्माकम्। पायुः पाता सोमानाम्।अदब्धः अहिंसितः केनचित्।स्वस्तये। स्वस्तीत्यविनाशनाम। अविनाशाय चभवेत्। तथा पूषणमपि हूमह इति सम्बन्धः। केचितुतमीशानमित्यादिभिःशब्दैः पूषैवाभिधीयते न रुद्र इति वर्णयन्ति। तस्मिन् पक्षे ईशानशब्दःस्वामिवचनः न रुद्रनाम। एवञ्च योजना— तं पूषाणमीशानं जगतो जङ्गमस्यतस्थुषश्च स्वामिनमिति। शिष्टयोजना सदृशी॥
स्व॒स्तिन॒इन्द्रो॑वृ॒द्धश्र॑वाःखस्तिनः॑पू॒षावि॒श्ववे॑दाः।
स्व॒स्तिन॒स्तार्क्ष्यो॒अरि॑ष्टनेमिःस्व॒स्तिनो॒बृह॒स्पति॑र्दधातु॥
(अष्ट० १. अध्या० ६. व० १६. ऋ० ६.)
स्वम्ति नः। दधात्वित्येतत् पदं सर्वत्रानुवर्तितव्यम्। स्वस्ति दधातुददातु नः अस्मभ्यम् इन्द्रः। कीदृशः। वृद्धश्रवाः। श्रव इत्यन्ननामकीर्तिशब्दपर्यायो वा, धननाम वा वृद्धान्नः वृद्धकीर्तिवृद्धधनो वा। स्वस्तिनः पूषा विश्ववेदाः सर्वज्ञानः सर्वधनो वा। स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः।नेमिरिति वज्रनाम इहायुधमात्रोपलक्षणमिष्यते। शत्रुभिरहिंसितायुध इत्यर्थः।स्वस्तिं नो बृहस्पतिर्दधातु ददातु ॥
पृष॑दश्वाम॒रुतः॒पृश्निमातरःशुभं॒यावा॑नोवि॒दथेषु॒जग्म॑यः।
अ॒ग्नि॒जि॒ह्वामन॑वः॒सूर॑चक्षसो॒विश्वे॑नोदे॒वाअव॒साग॑मन्निह॥
(अष्ट०१. अध्या० ६. व० १६. ऋ० ७.)
पृषदश्वाः। पृषतोऽश्वायेषां ते पृषदश्वाः मरुतः पृश्निमातरः पृश्निर्द्यौःसा माता येषां ते पृश्निमातरः। शुभंयावानः शुभमुदकं तत्प्रतिगन्तारः।वृष्ट्युदकार्थं मेघान् प्रतिगन्तार इत्यर्थः। विदथेषु, जग्मयः यज्ञेषु गमनशीलाः। न च केवलं मरुतः, किं तर्हि, अग्निजिह्वाः। वक्ष्यमाणानां विश्वेषांदेवानां विशेषणमेतत् न मरुताम्। कुत एतत्। ‘येऽग्निजिह्वाः। उत वा यजत्राः’इत्यादिषु प्रसिद्धेः। अग्निर्जिह्वास्थानीयो येषां ते अग्निजिह्वाः। अग्नौहिप्रक्षिप्तं हविर्देवा अश्नन्ति। अत एषामग्निर्जिह्वास्थानीयः। मनवः। क्रियाशब्दोऽयम्। अनुमन्तारः ज्ञातार इत्यर्थः। सूरचक्षसः सूर्यस्येव चक्षो दर्शनं येषांते सूरचक्षसः। अत्यन्तोज्ज्वलरूपा इत्यर्थः। एवंरूपा विश्वे देवा नः अवसाअस्माकं पालनेन हेतुना। वयं पालयितव्या इत्येवमित्यर्थः। आगमन् आगच्छन्तु। इह यज्ञे। पृषदश्वादिगुणा मरुतः अग्निजिह्वादिगुणा विश्वेदेवाश्चास्मत्पालनार्थ-मिहास्मद्यज्ञे आगच्छन्त्विति समस्तार्थः॥
भ॒द्रंकर्णे॑भिःशृणुयामदेवाभ॒द्रंप॑श्येमा॒क्षभि॑र्यजत्राः।
स्थि॒रैरङ्गैस्तुष्टु॒वांस्व॑स्त॒नूभि॑र्व्यशेमदे॒वहि॑तंयदायुः॑॥
(अष्ट० १. अध्य० ६. व० १६ ऋ० ८.)
भद्रम्। हे देवाः युष्मत्प्रसादेन भद्रं कल्याणं शब्दं कर्णेभिः श्रोत्रैः शृणुयाम। भद्रमेव पश्येम। अक्षभिश्चक्षुर्भिः। हे यजत्राः ! यष्टव्याः !। किञ्च स्थिरैरङ्गैर्दृढैःशरीरावयवैः। तनूभिः शरीरैश्च स्थिरैः। जरानुपहतशरीरावयवाः सन्त इत्यर्थः।तुष्टुवांसः। शत्रर्थेऽयं क्वसुर्द्रष्टव्यः। स्तुवन्तो युष्मान्। व्यशेम विविधं प्राप्नुयाम। देवहितं देवैर्विहितं स्थापितमुपकल्पितं यदायुः। यद् वर्षशतपरिमाणमायुःदेवैर्मनुष्याणामुपकल्पितं तत् कृत्स्नं प्राप्नुयाम, मान्तरा मृषीमहीत्यभिप्रायः॥
श॒तमिन्नु॒श॒रदो॒अन्ति॑देवा॒यत्रा॑नञ्च॒क्राज॒र॑संतनूना॑म्।
पुत्रासो॒यत्र॑पि॒तरोभव॑न्ति॒मानो॑म॒ध्यारीरिष॒तायुर्गन्तोः॥
(अष्ट० १. अध्या० ६. वर्ग० १६. ऋ० ९.)
‘शतमिन्नु’। नु इदिति च पादपूरणौ। अत्रैकवाक्यताप्रसिद्ध्यर्थं प्रथमेपादे यच्छब्दोऽन्त्ये पादे षष्ठ्यन्तस्तच्छब्दश्चाध्याहार्यः। यदेतच्छतं शरदःवर्षशतम्। अन्ति अन्तिकं सन्निकृष्टमल्पकमित्यर्थः। हे देवाः !। यत्र चवर्षशते आयुषि। नः अस्माकम्। चक्रा कृतवन्तः स्थ जरसं जरां तनूनां शरीराणाम्। स्वरूपेणैवाल्पकं जरया चोपहतमित्यर्थः। यत्र च पुत्रासः पुत्राः पितरोभवन्ति स्वेषामपत्यानाम्। यत्रैकमेव शरीरमत्यन्तविरुद्धे पितापुत्रावस्थे शीघ्रमेवप्रतिपद्यत इत्यर्थः। अथवा पितृशब्दोऽत्र क्रियाशब्दः पालयितृवचनः। येपुत्राः पाल्याः आसन्, त एव वार्धक्ये जरयाभिभूतस्य यत्र पालयितारो भवन्तीत्यर्थः। तस्य मध्या मध्ये। नः अस्माकम्। मा रिरिषत मा हिंसिष्ट आयुर्जीवितम्। गन्तोर्गमनशीलस्य। स्वरसेनैव शीघ्रक्षयिण इत्यर्थः॥
अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मादि॑तिर्मा॒तासपि॒तासपुत्रः।
विश्वे॑दे॒वाअदि॑तिः॒पञ्च॒ज॒ना॒अदि॑ति॒र्जा॒नि॑त्वम्॥
(अष्ट० १. अध्या० ६. व० १६. ऋ० १०.)
अदितिर्द्यौः। अदितिर्देवमाता तत्प्रभवाः सर्वे द्युप्रभृतयः। अत इदंकारणशब्देन कार्यस्य गौण्या वृत्याभिधानम्। अदितिर्द्यौः अदितेः कार्यभूतेत्यर्थः। अदितिरेवान्तरिक्षम्। अदितिरेव माता। स पिता स पुत्रः। स इतिव्यत्ययेन पुल्ँलिङ्गता। सैवादितिः पिता। सैव पुत्रः। विश्वेदेवाः अदितिः पञ्चजनाश्च। गन्धर्वाः पितरो देवा असुरा राक्षसाः इत्येते पञ्चजना अभिप्रेताः।निषादपञ्चमा वा ब्राह्मणादयो वर्णाश्चत्वारः। अदितिरेव जातमुत्पन्नम्। अदितिरेवजनित्वं जनिष्यमाणम्। एवमशेषजगत्कारणत्वेनादितेर्विभूतिमाचष्टे। अथवाअदितिशब्दोऽत्र क्रियाशब्दः अदीनपर्यायः। द्युप्रभृतीनि वस्तून्यदीनानिअनुपक्षीणानीत्यर्थः॥
स्व॒स्तिनो॑मिमीताम॒श्विना॒भगः॑स्व॒स्तिदे॒व्यादि॑तिरन॒र्वणः॑।
स्वस्तिपू॒षाअसु॑रोदधातुनःस्व॒स्तिद्यावा॑पृथि॒वीसु॑चेतुना॑॥
(अष्ट० ४. अध्या० ३. व० ७. ॠ० ११. )
स्वस्ति नो मिमीतामश्विनामग इति त्यृचम्। ऋषिस्त्वात्रेयः। तिस्रोजगत्यस्त्रिष्टुभा वा। विश्वेदेवा देवताः। स्वस्ति अविनाशं नः अस्माकं मिमीताम्। व्यत्ययेनैकवचनं वा। मिमतां, कुर्वन्त्वित्यर्थः। के। उच्यते। अश्विानाअश्विनौ भगश्च। स्वस्त्येव देवी दानादिगुणा। अदितिः देवमाता। अनर्वणःअन्यप्रत्याश्रिततया यो न गच्छति सोऽनर्वा। न इत्यस्य विशेषणं चेदंव्यत्ययेनैकवचनं च। अनर्वणः अन्यप्रत्याश्रिततया न गच्छतामस्माकमित्यर्थः। स्वस्त्येव पूषा। कीदृशः असुरः। असुरिति प्रज्ञानाम। रोमत्वर्थीयः। प्रज्ञावान् दधातु धत्ताम् करोत्वित्यर्थः। नः अस्माकं स्वस्त्येवद्यावापृथिवी द्यावापृथिव्यौ सुचेतुना शोभनेन सानुग्रहेण चित्तेनास्मामु ॥
स्व॒स्तये॑चा॒युमुप॑ब्रवामहै॒सोमं॑स्व॒स्ति भुष॑नस्य॒यस्पतिः।
बृह॒स्पतिं॒सर्व॑गण॑स्व॒स्तये॑स्व॒स्तय॑आदि॒त्यासो॑भवन्तुनः॥
(अष्ट० ४. अध्या० ३. व० ७. ऋ० १२.)
स्वस्तये अविनाशाय वायुमुपब्रवामहै उपगम्य ब्रूमः प्रार्थयामहेइत्यर्थः। सोमं च। उपब्रवामहै इत्यनुषक्तव्यंम्। स्वस्ति। चतुर्थ्या लुक्।स्वस्तये इत्यर्थः। कीदृशः सोमः। उच्यते। भुवनस्य भूतजातस्य यः पतिःस्वामी बृहस्पर्ति देवपुरोहितं च सर्वगणं सर्वेणानुचरगणेनोपेतं स्वस्तयएवोपब्रुवामहै। स्वस्तय एवादित्यासः भवन्तु नः। आदित्या अप्यस्माकमविनाशं कुर्वन्त्वित्यर्थः॥
विश्वे॑दे॒वानोअ॒द्यास्व॒स्तये॑वैश्वान॒रोवसु॑र॒ग्निःस्व॒स्तये॑।
दे॒वाअ॑वन्त्वृ॒भवः॑स्व॒स्तये॑स्व॒स्तिनो॑रु॒द्रःपात्वंह॑सः॥
(अष्ट० ४ अध्या० ३. व० ७. ऋ० १३.)
‘विश्वे’। अवन्त्वित्याख्यातं पुरस्तादनुषक्तव्यम्। विश्वेदेवाः नः अस्मान् अद्य वर्तमानकाले अवन्तु पालयन्तु। स्वस्तय एव वैश्वानरश्च वसुः।प्रशस्यनामैतत्। प्रशस्यः। अग्निश्चावतु स्वस्तय एव। देवा अवन्तु ऋभवः। ऋभुर्विश्वावाज इत्यर्थः। स्वस्तय एव। स्वस्ति स्वस्तये नः अस्मान्रुद्रः परमेश्वरः पातु रक्षतु अहंसः पापात्।\।
प॒रा॒वतो॒येदिधि॑षन्त॒आप्यं॒मनु॑प्रीतासो॒जनि॑मावि॒वस्व॑तः।
य॒याते॒र्येन॑हु॒ष्य॑स्यब॒र्हिषिदे॒वाआस॑ते॒तेअधिब्रुवन्तुनः॥
(अष्ट० ४. अध्या० ३. व० ७. ऋ० १४)
परावत इति सूक्तं सप्तदशर्चं वैश्वदेवं जागतं त्रिष्टुबन्तं गयः प्लातोददर्श। परावतः दूरात्। आगत्येति शेषः। ये देवाः दिधिषन्ते। धिषिर्धारयतिकर्मा। अत्यर्थं धारयन्ति कुर्वन्तीत्यर्थः। आप्यम्। अपिर्बन्धुः तस्य भावआप्यं बान्धवं सख्यं स्तुत्यस्तोतृत्वेज्ययष्टृत्वलक्षणम्। कैः सामर्थ्याद्ऋत्विग्यजमानैः। ये च मनुप्रीतासः मनुना कल्पिताः। येषां च जनिमजन्म विवस्वतः आदित्याद् यजमानाद् वा स्थितिकरणद्वारेण। ये देवाःययातेः राज्ञः नहुष्यस्य नहुषपुत्रस्य बर्हिषि वेदिस्तरणे आसते यागाङ्गभावेनतिष्ठन्ति। ते देवा अधिब्रुवन्तु नः। अधीत्युपरिभावमैश्वर्यं वाह। उपरिभूत्वा वदन्तु आशंसन्त्वस्मान् इदं दृष्टादृष्टफलं शुभं कर्म कुरुतेति। ईश्वरान्वास्मान् वदन्तु कुर्वन्त्वित्यर्थः॥
विश्वा॒हिवो॑नम॒स्या॑नि॒वन्द्या॒नामा॑निदेवाउ॒तयज्ञिया॒॑निवः।
येस्थजा॒ताअदि॑तेर॒द्भ्यस्परि॒येपृ॑थि॒व्यास्तेम॑इ॒हश्रु॒ताहव॑म्॥
(अष्ट ० ८. अध्या० २. व० ३. ऋ० २.)
विश्वाहि। हि यस्माद् विश्वा विश्वानि सर्वाणि वः युष्माकं नामानि रूढानिगौणानि क्रियाजानि वा नमस्यानि नमस्कारार्हाणि वन्द्या वन्द्यानि वन्दनार्हाणि चेत्यर्थः। हे देवाः ! उत अपि यज्ञियानि यज्ञार्हाणि वो युष्माकं सम्बन्धीनि। अतः कारणाद् ये यूयं स्थ भवथ जाता उत्पन्नाः अदितेर्देवमातुः। सकाशादिति शेषः। अद्भ्यः परि। अप इत्यन्तरिक्षनाम। अन्तरिक्षस्यचोपरि ये जाताः, ये च पृथिव्या उपरि जाताः, ते सर्वेऽपि देवाः मे ममइह अस्मिन् यज्ञे वर्तमानस्य हवं यागार्थमाहानं श्रुत श्रृणुत यूयम् ॥
येभ्यो॑मा॒तामधु॑म॒त्पि॒न्व॑ते॒पयः॑पी॒यूष॒॑द्यौरदि॑ति॒रद्रि॑बर्हाः।
उ॒क्थशु॑ष्मान्वृ॒षभ॒रान॒स्वप्नस॒स्ताँआ॑दि॒त्याॅंअनु॑मदास्व॒स्तये॒॑॥
(अष्ट०८. अध्या० २. व० ३ ऋ० ३.)
येभ्यो माता। येभ्य आदित्येभ्यो माता जनन्यदितिः मधुमत् मधुस्वादुवत्। पिन्वते पिबति। ददातीत्यर्थः। पयः वृष्ट्युदकं क्षीरं स्तुत्यलक्षणम्।कीदृशम्। पीयूषम्। आप्यायितृ। द्यौः दीप्ता स्तुत्या वा। अद्रिबर्हाःअद्रिभिर्मेघैःपरिवृद्धाः। उक्थशुष्मान् उक्थानि शस्त्राणि तदुपलक्षितसर्वस्तुतिबलान्। वृषभरान् वृष्टेराहर्तॄन्। अथवा भर इति सङ्ग्रामनाम। वृष्टिनिमित्तसङ्ग्रामान्वेत्यर्थः। स्वप्नसः सुकर्मणः। सुरूपान् सुप्रजान् वा। तान् आदित्यानदितेःपुत्रान्। अनुमंद अनु पूर्वं स्तुहि तर्पय वा हे मदीयान्तरात्मन् !। किमर्थम्।स्वस्तये अविनाशाय आत्मनो वृद्ध्यर्थमित्यर्थः॥
नृ॒चक्ष॑सो॒अनि॑मिषन्तो अ॒र्हणा॑वृ॒हद्दे॒वासो॑अमृत॒त्वमा॑न॒शुः।
ज्यो॒तीर॑थाअहि॑माया॒अना॑गसोदि॒वोव॒र्ष्मा॑णंवसतेस्व॒स्तये॑॥
(अष्ट० ८. अध्या० २. व० ३. ऋ० ४.)
नृचक्षसः कृताकृतप्रत्यवेक्षणार्थमनुग्रहार्थं वा नराणां द्रष्टारः। कथम्। अनिमिषन्तः। अक्षिनिमेषमकुर्वन्तः, सततमित्यर्थः। अर्हणा पूजया च युक्ताइत्यर्थः। बृहत् सुष्ठ्वित्यर्थः। अमृतत्वं मरणवर्जितत्वं नित्यत्वमित्यर्थः। देवासः सर्वदेवाः आनशुः प्राप्तवन्तः। किञ्च, ज्योतीरथाः दीप्तिमद्रथाः। अहिमायाः।मायेति प्रज्ञानाम।अहीनप्रज्ञाः। अथवा अहेर्मेघस्यासुरस्य वामायाभिः परवञ्चनप्रज्ञाभिः प्रज्ञावन्तः। अनागसः अनपराधाः निर्दोषा इत्यर्थः। दिवो द्युलोकस्य वर्ष्माणं परिवृद्धिं वसते आच्छादयन्ति। स्वेन तेजसेति शेषः। दिवोऽपि सकाशान्महत्तरा इत्यर्थः। य इत्थम्भूता विश्वेदेवाः स्वस्तये अविनाशायास्माकम्। भवन्त्विति वाक्यशेषः॥
स॒म्राजो॒येसु॒वृधो॑य॒ज्ञमा॑य॒युरप॑रिह्वृतादधि॒रेदि॒विक्षय॑म्।
ताँआवि॑वास॒नम॑सासुवृ॒क्तिभि॑र्म॒होआ॑दि॒त्याँअदि॑तिंस्व॒स्तये॑॥
(अष्ट० ८. अध्या० १. व० ३. ऋ० ५.)
सम्राजः सम्यग् दीप्ताः ये आदित्याः सुवृधःशोभनवृद्धयः।यज्ञमाययुरागता अङ्गभावाय। अपरिह्वृताअहिंसिताः केनचिदपि। अकुटिला वा।दधिरे धारयन्ति कुर्वन्तीत्यर्थः। दिवि द्युलोके क्षयं निवासम्। द्युलोके निवसन्तीत्यर्थः। तान् आविवास परिचर हे मदीयान्तरात्मन् !।नमसा।अन्ननामैतत्। हविर्लक्षणेनान्नेन। सुवृक्तिभिः दोषैः सुष्ठुवर्जिताभिः स्तुतिभिश्च। महःमहतः आदित्यान् अदितेः पुत्रान्। अदितिं च स्वस्तये अविनाशाय।आत्मनो वृद्ध्यर्थमित्यर्थः॥
कोवः॒स्तोमंराधति॒यंजुजो॑षथ॒विश्वे॑देवासोमनुषो॒यतिष्ठन॑।
कोवोध्व॒रंतु॑विजाता॒अरंकर॒द्योनः॒पर्ष॒दत्यंह॑स्व॒स्तये॥
(अष्ट० ८. अध्या० २. व० ४. ऋ० ६.)
‘को वः स्तोमम्’। को मनुषः मनुष्यः वः युष्माकं स्तोमं स्तुतिं राधतिसंसाधयति करोतीत्यर्थः। युष्मान् स्तौतीत्यर्थः। यं मनुष्यं जुजोषभ श्रुतिश्रवणेन सेवध्वे सततं यूयम्। येनास्मत्स्तुतिश्रवणाय चिरादागतवन्त इत्युपालम्भवचनमेतत्। किञ्च हे विश्वेदेवासः ! यति परिमाणतः स्थन भवत। यूयंकिमल्पारमाणाः येन कियन्तोऽप्यस्मत्स्तुतिश्रवणाय शीघ्रं नायात इत्यभिप्रायः।किञ्च को वा स मनुष्यः वः युष्मदर्थम् अध्वरं यज्ञम्। हे तुविजाताः ! बहुजन्मानः !। अथवा बहुभूताः !। बहूनां प्राणिनामुपकाराय जाता वा। अरं पर्याप्तंकरत् करोति। यो यजमानः नः अस्मानपि दृष्टमात्रान् पर्षदति पारयति अंहःपापम्। पापमतिगमयतीत्यर्थः। अथवातिनीय पापमस्मान् पर्षत् पालयतिस्वस्तये अविनाशाय। उपालम्भनमेतत्। अयमभिप्रायः कोऽन्यो मत्तोविशिष्टतरो युष्माकं स्तोता यष्टा वास्तियेनास्मान् स्तोतॄन् यष्टॄंश्च प्रति शीघ्रंनागच्छत यूयमिति॥
येभ्यो॒हात्रांप्रथ॒मामा॑ये॒जेमनुः॒समि॑द्धाग्नि॒र्मन॑सास॒प्तहोतृ॑भिः।
तआ॑दि॒त्या॒अभ॑यं॒शर्म॑यच्छतसु॒गानः॑कर्तसु॒पथा॑स्व॒स्तये॥
(अष्ट० ८. अध्या० २. वर्ग० ४. ऋ० ७.)
‘येभ्यो होत्राम्’। येभ्यो युष्मभ्यम् आदित्येभ्यः होत्राम्। हूयत इति होत्राहुतिरिहाभिप्रेता आहुतिम्। प्रथमां प्रकृष्टाम् आद्यां वा। आयेजे आभिमुख्येनमर्यादया वा ददाति। मनुः यजमानमनुष्यः। अथवा मनुरादिक्षत्रियः।तस्मिन् पक्षे दत्तवानिति। किंविशिष्टः समिद्धाग्निः। मनसा। वाक्यशेषोऽत्रद्रष्टव्यः वषट्करिष्यन् देवतां मनसा ध्यायतीति। सप्तहोतृभिः सप्तभिर्ऋत्विग्भिः होतृपूर्वैः सह। ते यूयं हे आदित्याः ! अदितेः पुत्राः। अभयं भयरहितं शर्म विमानाख्यं गृहं स्वर्गसुखं वा। यच्छत दत्तास्मभ्यम्। स्वर्गं गच्छतां च नः अस्माकं सुगा सुगमान् सुपथा सुपथान् शोभनान् मार्गान्।कर्त कुरुत यूयं स्वस्तयेऽविनाशायास्माकम्॥
यईशि॑रे॒भुव॑नस्य॒प्रचे॑तसो॒विश्व॑स्यस्था॒तुर्जग॑तश्च॒मन्त॑वः।
तेनः॑कृ॒॒वादकृ॑ता॒देन॑स॒स्पर्य॒द्यादे॑वासः पितृतास्व॒स्तये॑॥
(अष्ट०८. अध्या० २. व० ४. ऋ० ८.)
‘य ईशिरे’। ये यूयं भवन्तः ईशिरे ईशते। भुवनस्य वृष्ट्युदकस्यस्वर्गादिलोकजातस्य वा। प्रचेतसः प्रकृष्टज्ञाना इत्यर्थः। विश्वस्य सर्वस्यस्थातुःस्थावरस्य जगतश्च जङ्गमस्य च। मन्तवः स्वरूपतो ज्ञातारः सर्वज्ञाइत्यर्थः। ते यूयं नः अस्मान्। कृतादेनसः प्रतिषिद्धसेवनेन जनितात्पापात्। अकृतादेनसः विहिताकरणेन च जनितात् पापात्। परि सर्वतोऽद्यवर्तमानेऽहनि हे देवाः ! पिपृत पालयत स्वस्तये अविनाशायास्माकम्॥
भरे॒ष्विन्द्रं॑सु॒हवं॑हवामहेंहो॒मुचं॑सु॒कृतं॒दैव्यं॒जन॑म्।
अ॒ग्निंमि॒त्रंवरु॑णंसा॒तये॒भगं॒द्यावा॑पृथि॒वी॒मरुतः॑स्व॒स्तये॑॥
(अष्ट० ८. अध्या० २. व० ४.ऋ० ९)
भरेषु सङ्ग्रामेषु इन्द्रं सुहवं शोभनाह्वानं हवामहे आह्वयामो वयम्।आत्मनः पालनार्थमिति शेषः। किञ्च अंहोमुचम् अंहसः पापान्मोचयितारं भक्तजनस्य सुकृतं पुण्यकृतं दैव्यं देवेषु भवं जनम्। उक्तव्यतिरिक्तं देवजनमित्यर्थः। हवामहे इत्यनुषङ्गः। अग्निं मित्रं वरुणं चाह्वयामः सातये शत्रुपरिभवलाभाय च। भगं द्यावापृथिव्यौ मरुतश्चाह्वयामः स्वस्तयेसर्वप्रकारायाविनाशाय च अस्माकम्॥
सु॒त्रामा॑णंपृथि॒वींद्याम॑ने॒हसं॑सु॒शर्मा॑ण॒मदि॑तिंसु॒प्रणी॑तिम्।
दैवीं॒नावं॑स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मारु॑हेमास्व॒स्तये॥
(अष्ट० ८. अध्या० २. व० ४. ऋ० १०. )
सुत्रामाष्पंसुष्ठुत्रात्री स्तोतृयष्टृजनस्य पालयित्रीम्। पृथिवीं विस्तीर्णं प्रख्यातां वा। द्यांदीप्तां स्तुत्यां वा अनेहसं क्रोधरहितां प्रसन्नचेतसमित्यर्थः। सुशर्माणं सुगृहां सुसुखां वा। अदितिमदीनाम् अनुपक्षीणां देवमातरम्। सुप्रणीतिं सुष्ठु प्रणेत्रीं स्तोतॄणां यष्टॄणां चेप्सितान् कामान्प्रतिपादयित्रीमित्यर्थः। दैवीं देवसम्बन्धिनीं नावं स्वरित्राम् नौः प्रणोद्यते येन तदरित्रं अपल्लकं केमालमिति वापभ्रंशेन नाविकानां प्रसिद्धम्। शोभनस्तुतियागमणोदनामित्यर्थः। अनागसमनपराधां निर्दोषामित्यर्थः। अस्रवन्तीम्अविच्छिन्नाम् अविनश्यन्तीमित्यर्थः। आरुहेम अधितिष्ठेम स्वस्तयेऽविनाशायास्माकम्। एवङ्गुणविशिष्टामदितिं नावमारोहेम अविनाशाय। यथालोके सामुद्रं जलमुतितीर्षवः पुरुषा लौकिकीं नावमारोहन्ति तद्वदित्यभिप्रायः। अथवा दैवीमिति देवाः सर्वे नौरिति स्तूयन्ते॥
विश्वे॑यजत्रा॒अधि॑वोचतो॒तये॒त्राय॑ध्वंनोदु॒रेवा॑या अभिहूनु॒तः॑।
स॒त्यया॑वोदे॒वहू॑त्याहु॒वेमशृण्व॒तोदेवा॒अव॑सेस्व॒स्तये॑॥
(अष्ट० ८. अध्या० २. व० ५. ऋ० ११.)
विश्वे यजत्राः। हे ! विश्वेदेवाः ! यजत्राः यष्टव्याः ! यूथम् अधिवोचत। अधीत्युपरिभावमैश्वर्यं वाह। उपरि भूत्वा ब्रूत अस्मानिंदं दृष्टादृष्टफलं कर्म कुरुतेति। ईश्वरान् वास्मान् ब्रूत कुरुतेत्यर्थः। ऊतये गमनायसर्वकामावाप्तये इत्यर्थः। किञ्च त्रायध्वं पालयत नः अस्मान् दुरेवायाः।एवाः कामाः। दुष्कामायाः अशुभाभिलाषायाः। अभिहुतः अभिहिंसितुः कुटिलगतेर्वा राक्षसजातेः सकाशात्। किञ्च सत्यया सद्गुणग्राहिण्या देवहूत्या।देवा आहूयन्ते यया सा देवहूतिः स्तुतिरिहाभिप्रेता तया देवहूत्या। वःयुष्मान् शृण्वतः स्तुतीराकर्णयतः। हुवेम आह्वयेमेत्याशास्महे। किमर्थम्।अबसे हविषा युष्माकं तर्पणाय। स्वस्तये अस्माकं चाविनाशाय॥
अपामी॑वामप॒विश्वा॒मना॑हुति॒मपारा॑तिंदुर्विद॒त्रा॑मघाय॒तः।
आ॒रेदेवा॒द्वेषोअ॒स्मद्यु॑योतनो॒रुणः॒शर्मयच्छतास्व॒स्तये॑॥
(अष्ट० ८. अध्या० २ व० ५. ऋ० १२.)
अपामीवाम्। हे देवाः ! अमीवां रोगजातिम्। अप। युयोतन इत्युत्तरस्मिनर्धर्चे श्रूयमाणमाख्यातमिहापक्रष्टव्यम्। अस्मदारे इति च। युयोतन यौतिःपृथग्भावार्थः। अपगमयत नाशयतेत्यर्थः। अस्मत् अस्मत्तः। आरे दूरे। अपयुयोतन च विश्वाम् अनाहुतिम्। आहुत्यात्र यज्ञो लक्ष्यते। भावप्रत्ययस्यलोपोद्रष्टव्यः। अनाहुतिताम् अकर्मण्यत्वं चेत्यर्थः। अपयुयोतन च भरातिम्अरातित्वम् अदानशीलतां च। दुर्विदत्रां दुर्ज्ञानतां च। अघायतः अघंपापमस्माकं यतमानान् अस्मदनर्थेव्याप्रियमाणान् अस्मच्छत्रूनित्यर्थः। अपयुयोतन। किञ्च आरे दूरे अस्मत् अस्मत्तः अपयुयोतन द्वेषः द्वेष्टॄनस्मच्छत्रून्उदासीनानपि। न चैतावदेव, किं तर्हि। उच्यते। उरु बहुविस्तीर्णं वा। शर्म। सुखनामैतत्।गृहनाम वा। गृहं सुखं वा। नः अस्मभ्यंयच्छत प्रयच्छत। स्वस्तयेऽविनाशायास्माकम् ॥
अरि॑ष्टः॒समर्तो॒विश्व॑एधते॒प्रप्र॒जाभि॑र्जायते॒धर्म॑ण॒स्परि॑।
यमा॑दित्यासो॒नय॑थासुनी॒॑तीभि॒रति॒विश्वा॑निदुरि॒तास्व॒स्तये॑।
(अष्ट० ८. अध्या० २. व० ५. ऋ० १३.)
‘अरिष्टः’। उद्देशार्थं यच्छन्दश्रुतेरुत्तरोऽर्धर्चः प्रथमं व्याख्येयः। यंस्तोतारं यष्टारं च हे आदित्यासः। अदितेः पुत्राः ! सर्वे देवाः ! अतिनयथ ऋतील्य गमयभ सुनीतिभिः शोभनैर्नयैः। कल्याणैरुपदेशैरित्यर्थः। विश्वानि सर्वाणि दुरिता दुरितानि पापानि। स्वस्तयेऽविनाशाय अभिवृद्धये इत्यर्थः। समर्तः मनुष्यः स्तोता यष्टा च अरिष्टःअहिंसितः केनचिदपि विश्वः एघते पुत्रपौत्रधनादिभिर्वर्धते। किञ्च प्रजामिः पुत्रपौत्रलक्षणाभिः।सहयोगरूक्षणा चैषा तृतीया। प्रजाभिः सह प्रजायते धर्मणैः कर्मणः परि उपरि। श्रौतस्मार्तलक्षणेषु कर्मसु प्रजाभिः सह। श्रद्धावान् जायते इत्यर्थः॥
य॑दे॑वा॒सोव॑थ॒वाज॑सातौ॒र्य॑शूर॑सातामरुतोहि॒येधने॑।
प्रा॒त॒र्यावा॑ण॑रथ॑मि॒न्द्रसान॒सिमरिष्यन्त॒मारु॑हेमास्व॒स्तये॑॥
(अष्ट० ८. अध्या० २ व० ५, ऋ० १४)
‘यं देवासः”। हे विश्वेदेवाः। यं रथमात्मीयम्। अवथगच्छथ अघितिष्ठयेत्यर्थः। वाजसातौ। सङ्ग्रामनामैतत्। सङ्ग्रामे राक्षसादिभिः सह। यं चरथमवथ शूरसाता शूरसातौ सङ्ग्राम एव यूयमपि हे मरुतः !। यं च रथं हे इन्द्र ! त्वमप्यवसि। किमर्थमिति चेत्। उच्यते। हिते धने। निमित्तेएते सप्तम्यौ चर्मणि द्वीपिनमितिवत्। प्रिये शत्रुधनेनिमित्ते। शत्रून् जित्वा तदीयं धनं सारवत् प्राप्तुमित्यर्थः। यमित श्रुतेस्तमित्यध्याहार्यम्। तं रथं प्रातर्यावाणं प्रातर्यज्ञान्प्रति गन्तारम्। सानसिम्। ‘वन षण सम्भक्तावि’ त्यस्य सनोतेःसाभ्यासस्य कर्तरि कर्मणि वैतद्रूपम्। अत्यर्थं सम्भक्तारं शत्रूणाम्। अत्यर्थंसम्भजनीयं वा युष्माभिः। अरिष्यन्तम् अहिंस्यमानं शत्रुभिः अविनाशिनमित्यर्थः। आरुहेम युष्माभिः सह। वयमपि युष्माभिः सायुज्यं गच्छेमेत्यभिप्रायः।स्वस्तयेऽविनाशायास्माकम्॥
स्व॒स्तिनः॑प॒थ्या॑सु॒धन्वसुस्व॒स्त्य१॒प्सुवृ॒जने॒स्व॑र्षति।
स्व॒स्तिनः॑पुत्रकृ॒थेषु॒योनिषु॑स्व॒स्तिरा॒येम॑रुतोदधातन॥
(अष्ट० ८. अध्या०२. व० ५. ऋ० १५.)
‘स्वस्ति नः’। स्वस्ति अविनाशं नः अस्मभ्यम्। मरुतो दधातनेतिमन्त्रान्ते श्रूयमाणं पदद्वयं सर्वत्रानुवर्त्यम्। हे मरुतः। अस्मभ्यं स्वस्ति दधातनेति। क्क। पथ्यासु। पत्स्याशब्दस्य गृहनाम्नः सकारलोपो द्रष्टव्यः तकारस्यच थकारः। गृहेषु। सप्तमीनिर्देशाद् वर्तमानेभ्य इति शेषः। धन्वसु उदकवर्जितस्थलीषु च स्वस्ति। अप्सु सर्वेषु उदकेषु। वृजने सङ्ग्रामे च। कीदृशे।स्वर्वति। स्वश्शब्दः सर्वपर्यायः। सर्वयुद्धोपकरणवति। अतिभयङ्करे सङ्ग्रामेइत्यर्थः। स्वस्ति नः अस्माकं पुत्रकृथेषु पुत्राणां कर्तृषु जनयितृषु स्त्रीयोनिषु।स्वस्ति अविनाशमेव राये। सप्तम्यर्थे एषाचतुर्थी। धने चदधातन धत्तदत्तेत्यर्थः॥
स्व॒स्तिरिद्धिप्रप॑थे॒श्रेष्ठा॒रेक्ण॑स्वत्य॒भियावा॒ममेति॑।
सानो॑अ॒मासोअर॑णे॒निपा॑तु॒स्वावे॒शाभ॑वतुदे॒वगोपा॑॥
(अष्ट० ८, अध्या० २. व० ५.ऋ० १६.)
‘स्वस्तिरित्’। इदेवार्थे। हिः पादपूरणः। मध्यमस्थाना स्त्रीदेवता स्वस्तिरित्युच्यते। स्वस्तिरेव नान्या काचिद् देवता। प्रपथेप्रकृष्टे पथि अन्तरिक्षलक्षणे।श्रेष्ठा अतिशयेन प्रशस्या। रेक्णस्वती वृष्ट्युदकधनेन धनवती। एति गच्छतिचया वामम् अभि वननीयं प्रशस्यं वा प्रायणीयेष्टिहविः प्रति। सास्वस्तिर्नः अस्मान्निपातु नियमेन रक्षतु। क्क। अमा। गृहनामैतत्। गृहेसप्तमीनिर्देशात्स्थितानिति शेषः। गृहे स्थितानस्मान्। सो। सा उ सो।उकारोऽवधारणे। सैव। अरणे अरण्ये च निपातु। अथवा निसो लोपोऽत्रन दृष्टव्यः। निररणे गृहान्निर्गमने गृहादू बहिश्चेत्यर्थः। किञ्चस्वावेशासूपसर्पा सुखसेव्या च भवतु अस्तु। देवगोपा। देवी चासौ गोप्त्री च सर्वस्यवृष्टिद्वारेण देवगोपा। देवानां वा गोप्त्री देवगोपा। देवा वा गोप्तारो यस्याः सा देवगोपा॥
ए॒॒वाप्ल॒तेःसू॒नुर॑वीवृधद्बो॒विश्व॑आदित्याअदितेमनी॒षी।ई॒श॒नासो॒नरो॒अम॑र्त्त्ये॒नास्ता॑वि॒जनो॑दि॒व्योगये॑न॥
(अष्ट० ८. अध्या० २. व० ५. ऋ० १७. )
‘एवाप्लतेः’। एवमुक्तेन प्रकारेण प्लतेः प्लतिनाम्नः ऋषेः सूनुः पुत्रःगयो नाम मनीषी मेधावी अवीवृधत् वर्धितवान् वीर्येण स्तुवन् वः युष्मान्। हे विश्वे ! सर्वे आदित्याः ! अदितेः पुत्राः ! हे अदिते ! हे ईशानासः सर्वस्येश्वराः ! हे नरः ! मनुष्याकाराः ! शूरा वा। कथं वर्धेितवान्। यतः अमर्त्येन अमर्त्यसदृशेन गुणैर्देवतुल्येनेत्यर्थः। अथवा ‘देवो भूत्वा देवानप्येती’ति वचनाद् अमर्त्येन सता मया देवेनेत्यर्थः। अमर्त्यता चित्राद्या (?) मर्त्येन मया गयेन अस्तावि स्तुतः। जनः दिव्यः दिवि भवः सर्वदेवजन इत्यर्थः। ‘स्तूयमाना हि देवता वीर्येणविवर्धते’ इत्यत एवमुच्यते वर्धितवान् वीर्येणेति॥
अथाष्टकायाः पिण्डपितृयज्ञप्रकृतित्वात् पिण्डपितृयज्ञमन्त्राः आकृष्य व्याख्यायन्ते तत्र एकोन्मुकः प्राग्दक्षिणा प्रणयेद् ‘ये रूपाणि प्रतिमुञ्चमानाः’ इत्यनया वामदेवार्षयात्रिष्टुभा, उन्मुकाभिरभिधेयः।
ये रूपाणि प्रतिमुञ्चमानाः असुरास्सन्तः स्वधया चरन्ति।परापुरो निपुरो ये भरन्ति अग्निष्टा-ल्लोकात्प्रणुदात्वस्मात्॥
ये असुरा रूपाणि शरीराणि। पितॄणामिति वाक्यशेषः। प्रतिमुञ्चमानाः। प्रतिपूर्वो मुचिः परिग्रहार्थः। परिगृह्णन्तः। स्वयमसुराः सन्तः। स्वधया। स्वधेत्यन्नामामपि विशिष्टेऽन्नेपितृसम्बन्धिनि वर्तते। हेतौ च तृतीया। प्रयोजनस्यच हेतुत्वेन विवक्षा। पित्र्यमन्नमुपभोक्तुमित्यर्थः। चरन्ति वेद्यामितस्ततश्चरन्ति। ये च परापुरः। पुरिति शरीरमुच्यते। पराग्गतशरीराः प्रच्छन्नशरीरा इत्यर्थः। निपुरश्च नीचैर्गतशरीराश्च अल्पशरीरा इत्यर्थः। भरन्ति हरन्ति।किम्। सामर्थ्यात् स्वभाम्। अग्निःउन्मुकाख्यः तान् असुरान् लोकाद्अस्मात् स्थानात् प्रणुदातु प्रेरयतु अपकालयत्वित्यर्थः॥
स्फये लेखामुल्लिखेद् ‘अपहता’ इति।
अपहता असुरा रक्षांसि वेदिषदः।
वामदेवार्षं यजुः। असुरा राक्षसा अभिधेयाः। अपहताः। हन्तिरत्रगत्यर्थः। अपगताः। हिंसार्थ एव वा। अस्मिन् पक्षे अपेत्युपसर्गो धात्वर्थानुवादी। अपहता हिंसिता इत्यर्थः। सन्त्विति वाक्यशेषः। उभयस्मिन् पक्षेअसुरा रक्षांसि च। वेदिषदः वेद्यां सीदन्तः। एतदुक्तं भवति—पितृरूपं धारयन्तो ये वेद्यां सीदन्ति हविरपजिहीर्षया असुरा रक्षांसि च ते अस्मात् स्थानादपगताः सन्तु भवन्त्विति॥
मेक्षणेनादायावदानसम्पदा जुहुयात् ‘सोमाय पितृमते स्वधा नमः’ ‘भग्नयेकव्यंवाहनायस्वधा नम’ इति द्वाभ्यां यजुर्भ्यां वामदेवार्षाभ्याम्।
सोमाय पितृमते स्वधा नमः। अग्नये कव्यवाहनाय स्वधा नमः।
प्रथमस्य सोमः पितृमान् देवता। द्वितीयस्याग्निःकव्यवाहनः। सोमायकिंविशिष्टाय। पितृमते पितृभिस्तद्वते। स्वधा। अन्ननामैतत्। हविर्लक्षणमन्नम्। दीयते इति वाक्यशेषः। नमः। प्रह्वीभावश्चक्रियत इति वाक्यशेषः।अथवा स्वधा नम इति पदद्वयं प्रदानार्थीयम्। स्वधा नम इति वषट्कारलिंङ्गात्। अग्नये कव्यवाहनाय। कव्यशब्देन पित्र्यं हविरुच्यते। तस्य वोढाकव्यवाहनः। तस्मै कव्यवाहनाय। स्वधा नम इत्युक्तार्थः॥
लेखां त्रिरुदकेनोपनयेत् ‘शुन्धन्तां पितर’ इत्यादिभिर्यर्जुर्भिःत्रिभिर्वामदेवार्षैःपितृपितामहप्रपितामहदैवतैः।
शुन्धन्तांम् पितरः। शुन्धन्तां पितामहाः। शुन्धन्तां प्रपितामहाः।
शुन्धन्ताम्। ‘शुन्ध शौचे’। शुध्यन्तु शुचयो भवन्तु आचामन्त्वित्यर्थः।पितरः। एकवचनस्य स्थाने बहुवचनम्। लेखायामुपरि दीयमानेनोदाकेनस्मत्पिता शुध्यतुआचामत्वित्यर्थः। अनेनैव व्याख्याते उत्तरे यजुषी ॥
पिण्डनिपरणमन्त्रः— ‘एतत् ते ततासौये च त्वमित्रान्वि’ ति —
एतत् तेततासौ ये च त्वामत्रानु। एतत् ते पितामहासौ येच त्वामत्रानु। एतत् ते प्रपितामहासौ ये च त्वामत्रानु॥
_______________________________________________________
वामदेवार्षं यजुः। पितृपितामहप्रपितामहाः क्रमेण देवताः। हे असौ। असौशब्दस्थाने पितुर्नाम सम्बुद्ध्या निर्दिशेत्। हे देववत्त ! एतत् पिण्डलक्षणमन्नं ते तुभ्यम्। दीयते इति वाक्यशेषः। न च केवलाय, किन्तर्हि। ये च त्वामनु। गच्छन्तीति वाक्यशेषः। अत्रास्मिन् कर्मणि तेभ्यश्च। एतदुक्तं भवति— हे पितः ! देवदत्त ! तुभ्यं त्वदनुचरेभ्यश्चास्मिन् कर्मणि पिण्डलक्षणमन्नंदीयत इति। अयमेव मन्त्रः पितामहप्रपितामहयोरपि पिण्डनिपरणे। अयं तु विशेषः— असौशब्दस्थाने तदीयं नाम निर्देष्टव्यम्। पित्रादीनां नामापरिज्ञाने असौशब्दस्थाने ततपितामहप्रपितामहशब्दा यथाक्रमं प्रयोक्तव्याः॥
निपृताननुमन्त्रयेत—‘अत्र पितरः’ इति।
** अत्र पितरो यथाभागं मादयध्वम्। यथाभागमांवृषायध्वम्।**
वामदेवार्षं यजुः। पितृपितामहप्रपितामहा देवताः। अत्रास्मिन् काले अस्मिन् कर्मणि वा। हे पितरः। पितृशब्देनात्र साहचर्यात् पितृपितामहप्रपितामहाःउच्यन्ते। हे पितृपितामहप्रपितामहाः !। मादयध्वम्। मदिस्तृप्त्यर्थः। स्वार्थे च णिच्। माद्यत तृप्यत इत्यर्थः। यथाभागं यो यस्य यस्य भागस्तं तम्। वहन्तीभुक्त्वेति शेषः। आकारो वाक्यपूरणः। वृषायध्वं वृषा इषाचरत। वृषवदाचरणेन तृप्त्यतिशयो लक्ष्यते। अत्यर्थं तृप्यतेत्यर्थः॥
पुनः पिण्डानुमन्त्रणमन्त्रः— ‘अमीमदन्ते’ति।
अमीमदन्त पितरो यथाभागमावृषायिषत।
वामदेवार्षं यजुः। पित्रादय एवाभिधेयाः। अमीमदन्त अत्यर्थं तृप्यत। पितृपितामहप्रपितामहाः। यथाभागं यथांशम्। भुक्त्वेति वाक्यशेषः।आ वृषायिषत। आकारो वाक्यपूरणः। वृषा इवाचरितवन्तः अत्यर्थं तृप्ता भवथ इत्यभिप्रायः। अतः पित्रादीनां तृप्त्या कृतकृत्योऽहं भवामीत्यर्थः॥
** असावभ्यङ्क्ष्वासावाङ्क्ष्व।**
इति नामदेवार्षे यजुषि पित्रादयोऽभिधेयाः। असौ हे देवदत्त ! पितरभ्यङ्क्ष्व। अञ्जिर्मृक्षणार्थः। अभ्यञ्जनं कुरु। तैलेनेति वाक्यशेषः। एवं पितामहप्रपितामहयोः॥
वासोदानमन्त्रः— ‘एतद् वः पितर’ इति।
** एतद्दः पितरो वासः। मा नोऽतोऽन्यत् पितरो युङ्ध्वम्।**
वामदेवार्षं यजुः पित्रादिदैवतम्। हे पितरः ! एतद्वः वासो दशादिलक्षणं वः युष्मभ्यम्। प्रदीयते इति वाक्यशेषः। प्रदीयमानं च नः अस्माकं स्वभूतं युङ्ध्वम्। शुद्धोऽप्ययं युजिरुपपूर्वो द्रष्टव्यः। उपयुङ्ध्वं परिधत्तेत्यर्थः। अतो वाससोऽन्यत् मा उपयुङ्ध्वम्। इदमेव वासः कार्ये कुरुतेत्यर्थः॥
अथ पितॄनुपतिष्ठेत ‘नमो वः पितर’ इत्यादि।
नमो वः पितर इषे। नमो वः पितर ऊर्जे। नमो वः पितरश्शुष्माय। नमो वः पितरो घोराय। नमो वः पितरो जीवाय। नमो वः पितरो रसाय। स्वधा वः पितरो नमो वः पितरो नम एता युष्माकं पितरः। इमा अस्माकं जीवा वो जीवन्त इह सन्तः स्याम।
इह सन्तः स्यामेत्येतदन्तमेकं यजुः। अथवा प्रतिवाक्यं मन्त्रभेदः। वामदेवार्षं पितृदैवतम्। हे पितरः ! पितृपितामहप्रपितामहाः ! वः युष्मभ्यं नमः कर्म। क्रियते इति वाक्यशेषः। किमर्थम्। इषे। तादर्थ्ये एषा चतुर्थी। अन्नार्थमित्यर्थः। ऊर्जे रसाय। न च केवलाय, किन्तर्हि। नमो वः पितरः शुष्माय। शुष्ममिति बलनाम। बलाय च। नमो वः पितरो घोराय। ‘घृ क्षरणदीप्त्योरि’त्यस्यैतद् रूपम्। दीप्तये च। नमो वः पितरो जीवाय सुखजीवनाय चेत्यर्थः। नमो वः पितरो रसाय। रसो वीर्यमित्यनर्थान्तरम्। वीर्याय चेत्यर्थः। हे पितरः ! वः युष्मभ्यं स्वधा कव्यलक्षणमन्नम्। अस्माभिर्दत्तमिति वाक्यशेषः। नमो वः पितरः !असकृन्नमस्कृतिश्चकृता नम एताः। नमस्कृतय एता इत्यर्थः। युष्माकम्। प्रीतिमुत्पादयन्त्विति वाक्यशेषः। हे पितरः ! इमाः। काः। सामर्थ्यादस्मत्प्रार्थनाः अस्माकम्। सिध्यन्त्विति वाक्यशेषः। जीवाः। जीवशब्दोऽत्र प्रजावचनोऽन्तर्णीतमत्वर्भः। प्रजावन्तः। वः युष्माकम्। प्रसादेनेति वाक्यशेषः। जीवन्तः शतसंवत्सरलक्षणं कालं प्राणान् धारयन्तः इह लोके स्याम भवेमेत्याशास्महे॥
मनो॒न्बाहु॑वामहेनाराशं॒सेन॒सोमे॑न।
पि॒तॄ॒णांच॒मन्म॑भिः॥
(अष्ट० ८. अध्या०१. व० १९. ॠ० ३.)
मनोन्वा हुवामहे इति च तिसृभिः। पितॄनुपतिष्ठेतेत्यनुवर्तते।बन्धुर्गौपायनो कौपायनो वा ऋषिः। तिस्रो गायत्र्यः। पितरोऽभिधेयाः।पित्र्यं कर्म कुर्वतां मनः पितृलोकस्थं भवति। ततस्तदाहूयते जीवनायअस्मदीयं मनः षष्ठमिन्द्रियं नु क्षिप्रम् आहुवामहे पितृलोकस्थं पितृलोकादागमनायाह्वयामः। केन। उच्यते। नाराशंसेन। नरैर्मनुष्यैर्ऋत्विग्यजमानैःप्रशस्तेन स्तुतेन। सोमेन। पितृभ्यो दत्तेनेति शेषः। पितॄणां च सम्बन्धिभिःमन्मभिः मदनीयैः स्तोमैश्च। पितॄन् स्तुत्वेति वाक्यशेषः॥
भात॑एतु॒मनः॒पुनः॒क्रत्वे॒दक्षा॑यजी॒वसे॑।
ज्योक्च॒सूर्यदृ॒शे॥
(अष्ट० ८. अध्या० १. व०१९. ऋ० ४.)
‘आ त एतु’। ते तवयजमानस्यान्तरात्मनो वा मनः आ एतु आगच्छतु पितृलोकात् पुनः भूयोऽपि। क्रत्वे सङ्कल्पितार्थायेत्यर्थः। दक्षाय। ‘दक्ष वृद्धौ’। वृद्धये च। सङ्कल्पितार्थसमृद्धये चेत्यर्थः। ‘स यदेव मनसा कामयते इदं मेस्याद् इदं कुर्वीयेति, स एव क्रतुः। अथ यदस्मै तत् समृध्यति स दक्षः’ इतिब्राह्मणवचनात्। जीवसे जीवनाय च। ज्योक् च सुचिरं कालं सूर्यं दृशे द्रष्टुम्।सुचिरं कालं सूर्यस्य सन्दर्शनाय चेत्यर्थः॥
पुन॑र्नःपितरो॒मनो॒ददा॑तु॒दैव्यो॒जनः॑।
जी॒वंव्रातं॑सचेमहि॥
(अष्ट० ८. अध्या० १. व०१९. ॠ० ५.)
‘पुनर्नः’। हे पितरः ! युष्माभिर्दत्तमस्मन्मनः पुनः पश्चात् नः अस्मभ्यं ददातु दैव्यः देवेषु भवः इन्द्रादिदेवजन इत्यर्थः। तेन दत्तेन मनसाजीवं भोक्तृपुरुषं व्रातमिन्द्रियसङ्घातं च सचेमहि सेवेमहि भोगोपहारैः॥
अथैनान् पितॄन् प्रवाहयेत्—‘परेतन पितरः’ इत्यनया वामदेवार्षया त्रिष्टुभा जगत्यावा पितृदेवतया।
परेतन पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेभिः दत्त्वायास्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं नियच्छत।
हे पितरः। परेतन। नशब्द उपजनः। कर्तन गन्तन यातनेतियथा। अस्मद्यज्ञगृहात् स्वं स्वं गृहं प्रति परेत पराङ्मुखा गच्छतेत्यर्थः। सोम्यासः सोमसम्पादिनः। केन परागच्छाम। पथिभिर्मार्गैः। किंविशिष्टैः। गम्भीरेभिः। गम्भीरैः प्रहतैः प्रसिद्धैरित्यर्थः। पूर्विणेभिः। पूर्वएव पूर्विणः स्वार्थिकस्तद्धितः। पूर्वैरनादिसिद्धैश्चिरन्तनैरित्यर्थः। दत्त्वायदत्त्वा अस्मभ्यं द्रविणा। धननामैतत्। द्रविणानि धनानिहिरण्यादिलक्षणानि। बलं वा द्रविणम्। रयिशब्देन पौनरुक्त्यप्रसङ्गात्। इहास्मिन्लोके। भद्रं भजनीयं रयिं च धनं च व्रीह्यादिलक्षणम्। (सर्वप्रकारं वा ? ) सर्ववीरम्। वीरशब्दः पुत्रवचनः। सर्वैः पुत्रैरुपेतम्। पुत्राणां सर्वत्वं दशत्वम्।“दशास्यां पुत्रानाघेही"ति लिङ्गात्। दशभिः पुत्रैरुपेतमित्यर्थः। नःअस्मभ्यम्। नियच्छत नियमेन दत्त। अथवा उपसर्गव्यत्ययः। प्रयच्छतेत्यर्थः॥
अग्निं प्रत्येयात् अग्नेतमद्याश्वमिति।
अग्ने॒तम॒द्याश्वं॒नस्तोमैः॒क्रतुं॒नभ॒द्रंहृ॑दि॒स्पृश॑म्।
ॠ॒ध्यामा॑तओहैः॑॥
(अष्ट०३. अध्या० ५. व० १० ऋ० १.)
वामदेवोगौतमऋषिः। पङ्क्तिश्छन्दः। अग्निर्देवता।हे अग्ने! यस्तुतोऽसि सर्वैः तं त्वाम् अद्यास्मिन् काले। स्तोमैःस्तोत्रैः त्वद्गुणप्रकाशकैः। तृतीयानिर्देशात् स्तौमीति शेषः। किमिव।अश्वं न। अश्वमिव। यथाश्वं क्षिप्रगामिनं स्तुवन्त्यश्ववाराः तद्वत्। किञ्च।क्रतुं न। क्रतुशब्दोऽत्र प्रज्ञावचनःअन्तर्णीतमत्वर्थः ऋतुमन्तमिव। यथा चप्रज्ञावन्तं पुरुषं स्तुवन्त्यन्ये तद्वत्। स्तुत्वा च भद्रं भजनीयं स्तुत्यं, भजनीयंवा सेव्यम्। हृदिस्पृशं हृदयेन स्पृश्यं सर्वदा स्मर्तव्यमित्यर्थः। ऋध्याम ऋधिरत्रान्तर्णीतण्यर्थः। अर्धयाम वर्धयामेत्यर्थः। ते। द्वितीयार्थ एषा चतुर्थी षष्ठीवा। त्वाम्। ओहैः उह्यन्तेदेवताः प्रतीत्योहशब्देनात्र हवींष्यभिप्रेयन्ते। हविर्भिःपुरोडाशादिलक्षणैः। अथवा ओहशब्दः स्तोमविशेषणम्। ते च देवता प्रत्युह्यन्तेप्राप्यन्ते। प्राप्त्या च प्रीतिर्लक्ष्यते प्रीतिकरैः स्तोमैस्तं त्वां वर्षग्रामेति॥
गार्हपत्यं प्रत्येयाद् ‘यदन्तरिक्षमि’ति।
** यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वाजिहिंसिस। अग्निर्मा तस्मादेनसः प्रमुञ्चतु करोतु मामनेनसम्।**
वामदेवार्षम्। जगती। गार्हपत्योऽभिधेयः औपासनो वा। यदन्तरिक्षम्।तत्स्था अभिप्रेयन्ते। अन्तरिक्षस्थान् वाय्वादिदेवानित्यर्थः। अर्धर्चान्ते श्रूयमाणमजिहिंसिमेत्याख्यातमिहानुषक्तव्यम्। अन्तरिक्षस्थान् देवानजिहिंसिम।एकवचनस्य स्थाने बहुवचनम्। अग्निर्मा तस्मादित्येकवचनश्रवणात्। अत्यर्थंहिंसितवानस्मि। स्तुतियागयोरकरणं हि देवतानां हिंसा। यदहमन्तरिक्षस्थान् देवान् अस्तुतवान् अनिष्टवांश्चेत्यर्थः। यत् यच्च पृथिवीं पृथिवीस्थान्देवान् अजिहिंसिम। उत अपि यदपि द्यां द्युस्थान् देवानजिहिंसिम। यच्चमातरं पितरं वा। वाशब्दश्चार्थे। पितरं चाजिहिंसिम।मातापित्रोर्हिसा यथाप्राप्तकालायाः पूजाया अकरणम्। यच्च मातापितरावपूजितवानित्यर्थः। तस्मादेनसः स्थानत्रयसम्बन्धिदेवतास्तुतियागाकरणनिमित्तान्मातापितृपूजाकरणनिमित्ताञ्चपापाद् अग्निर्गाहपत्याख्यः। गृह्ये गाईपत्यशब्दस्यैवं योजनागृहशब्दो दारवचनः। पतिशब्दो वरवचनः। तयोः संयोगजत्वाद् गार्हपत्यशब्देनौपासनाग्निरभिप्रेयते। मा मां प्रमुञ्चतु। मुचिरत्रान्तर्णीतण्यर्थः। प्रमोचयतु। प्रमोच्य च करोतु मामनेनसम् अर्थमाप्तवचनमेतदादरार्थम्॥
‘वारं मे दत्त पितर’ इति पिण्डानां मध्यमम्। उपाददीत इति शेषः।
** वीरं मे दत्त पितरः।**
वामदेवार्षं यजुः पितृदैवतम्। हे पितरः ! वीरं पुत्रं मे मह्यं दत्तप्रयच्छत॥
मध्यमं पत्नी प्राशयेत् ‘आधत्त पितर’ इति।
आधत्त पितरो गर्भं कुमारं पुष्करस्रजं यथायमरपा असत्।
वामदेवार्षम्। गायत्री। पितृदैवतम्। हे पितरः ! गर्भमाधत्त। दधातिरत्रान्तर्णीतण्यर्थः। आधापयत आस्थापयतेत्यर्थः। कीदृशं गर्भम्।कुमारं पुमांसं पुष्करस्रजम्। भविष्यद्वृत्त्याविशेषणमेतत्। पुष्करादिपुष्पग्रथितमालालङ्कारयोग्यमित्यर्थः। यथा येन प्रकारेण अयं कुमारः। उत्पन्नःसन्निति शेषः। अरपः। रप इति पापनाम। अपापः। असत्। लेडन्तमेतद्।भवेदित्यर्थः। तथा यूयं प्रसीदतेति वाक्यशेषः॥
पिण्डपितृयज्ञः समाप्तः॥
_____________
‘हेमन्तशिशिरयोश्चतुर्गामपरपक्षाणाम्’ इति प्रकृत्य ‘उदीरतामवर’ इत्यष्टाभिर्हुत्वा’यावतीभिर्वा कामयीने’ति।
उदी॑रता॒मव॑र॒उत्परा॑स॒उन्म॑ध्यमाःपि॒तरः॑सोम्यासः॑।
असुं॒॒यई॒यु॑रवृ॒काऋ॑त॒ज्ञास्तेनो॑वन्तुपि॒तरो॒हवे॑षु॥
(अष्ट० ७, अध्या० ६. व० १७, ऋ० १.)
उदीरतामवर इत्येतत् सूक्तं चतुर्दशर्चं त्रैष्टुभं पितृदैवतं शङ्खो ददर्श। एकादशी तु जगती। उदीरताम्। उदाङ्स्थाने। ‘ईर गतौ’। आगच्छन्तु। पितृलोकादिति शेषः। अवरे अवरस्थाः पृथिवीस्थाना इत्यर्थः। उदीरतां परासःपरे द्युःस्थाना इत्यर्थः। उदीरतां मध्यमाः अन्तरिक्षस्थाना इत्यर्थः। पितरःसोम्यासः सोमसम्पादिनः। पित्र्याः शंसतीत्यादिस्तुतिसम्बन्धात् सोमसम्पादित्वंपितॄणां द्रष्टव्यम्। किञ्च असुं प्राणं ये ईयुः गताः स्थूलशरीरं परित्यज्य प्राणंसूक्ष्मशरीरं लिङ्गात्मानं हिरण्यगर्भम्।उत्तमां गतिं गता इत्यर्थः। अवृकाःवृकवद्धिंसकत्वाद् वृकः शत्रुः तद्रहिताः। सर्वस्य मित्रभूता इत्यर्थः। अथवा’वृक आदाने’। आप्तकामत्वान्न कस्यचिदादातारः। ऋतज्ञाः सत्यस्य यज्ञस्यवृष्ट्युदकस्य वा ज्ञातारः। (ते पितरः) नः अस्मान्।अवन्तु रक्षन्तु। हवेषुआह्वानेषु सत्सु। अस्माभिराहूताः सन्तः पितृलोकादागत्यास्माभिर्दत्तमोदनादिहविर्भुक्त्वा अस्मान् रक्षन्त्वित्यर्थः। सर्वेषु मन्त्रेष्वन्ते स्वाहाकरणं कर्तव्यम्॥
इ॒दंपि॒तृभ्यो॒नमो॑अस्त्व॒द्ययेपूर्वा॑सो॒यउप॑रासर्ह॒युः।
येपार्थि॑वे॒रज॒स्यानिष॑त्ता॒येवा॑नू॒नंसु॑वृ॒जना॑सुवि॒क्षु॥
(अष्ट० ७ अध्या० ६. व० १७. ॠ० २.)
इदं पितृभ्यः। ये पूर्वास इति यच्छब्दश्रुतेर्द्वितीयेपादे व्याख्यारम्भः। ये पितरः पूर्वासः पूर्वाः। ईयुः अस्माल्लोकादमुं लोकं गताः। ये उपरासः उपराः पूर्वेभ्योऽपि पराः चिरन्तना इत्यर्थः। ईयुः अस्माल्लोकादमुं लोकं गताः। ये च पार्थिवे रजसि पार्थिवे लोके। आनिषत्ताः ब्राह्मणादिविशिष्टजातिसम्बन्धादाभिमुख्येन मर्यादया वा निषण्णाः अवस्थिता इत्यर्थः।ये वा। वाशब्दश्चार्थे। ये च। नूनमिति पदपूरणः। सुवृजनासु सुष्ठुवर्जनीयासु विक्षु चण्डालादिमनुष्यजातिषु ईयुर्गताः उत्पन्ना इत्यर्थः। अथवावृजनमिति बलनाम। विट्शब्दश्च विशन्त्यासु पापिन इति यातना अभिप्रेताः। सुबलासु यातनासु गता इत्यर्थः। यच्छब्दश्रुतेः तच्छब्दमध्याहृत्यप्रथमपादो व्याख्येयः। तेभ्यः पितृभ्य इदं नमः। अन्ननामैतत्। अन्नमोदनादि हविर्लक्षणम्। अस्तु भवतु। अद्यास्मिन्नहनि॥
अहंपि॒तॄन्त्सुवि॒दत्राॅं॑अवित्सि॒नपा॑तंचवि॒क्रम॑णंच॒विष्णोः।
ब॒र्हि॒षदो॒येस्व॒धया॑सु॒तस्य॒भज॑न्तपि॒त्वस्त॒इ॒हाग॑मिष्ठाः॥
(अष्ट ७ अध्या० ६. व० १७. ऋ० ३.)
आहं पितॄन्। अहम् आ अवित्सि मर्यादयाभिमुख्येन वा जानामि।कान्। पितॄन्। किंविशिष्टान्। सुविदत्रान् शोभनदन्तान्। नपातं च।एकस्य नञोऽत्र लोपो द्रष्टव्यः। न न पातीति नपात् सर्वस्य जगतः पातेत्यर्थःकोऽसौ। लोकः। तं नपातं च। विक्रमणं च यत्र त्रैलोक्यं विक्रान्तवान्विष्णुस्तं च त्रैलोक्यं विष्णोः स्वभूतम्। प्रत्यवस्थितानिति शेषः। विष्णुलोकंत्रैलोक्यं च समाश्रितानित्यर्थः। अवित्सीत्यनेन सम्बन्धः। अत्रोत्तरार्धर्चेनैकवाक्यतायै यत्तदध्याहार्यम्। यानवित्सि ते च। य पितरः बर्हिषदः वेद्यां स्तीर्णेबर्हिषि सत्तारः एवंसंज्ञाः। स्वधया। अन्ननामैतत्। सहयोगलक्षणा चैषा तृतीया।पुरोडाशलक्षणेनान्नेन सह। सुतस्य (पित्वः) सोमरसलक्षणस्यान्नस्य।षष्ठीनिर्देशादेकदेशं स्वांशलक्षणम्। भजन्त भजन्ते सेवन्ते उपयु॒ञ्जते च। ते इहअस्मद्यज्ञे आगमिष्ठाः आगन्तारः। भवन्त्विति शेषः। अस्मद्यज्ञनिर्वृत्तयेअस्मदभिलषितार्थप्राप्तये चागच्छन्त्वित्यर्थः॥
बर्हि॑षदःपितरऊ॒त्य१॑र्वागि॒मावो॒॑हव्याच॑कृमा॒जुषध्वम्।
तआग॒ताव॑सा॒शंत॑मे॒नाथा॑नः॒शंयोर॑र॒पोद॑धात॥
(अष्ट ७. अध्या० ६. च० १७, ऋ० ४
बर्हिषदः। उत्तरार्धर्चेतच्छब्न्द्श्रुतेर्यच्छब्दोऽध्याहार्यः। हे बर्हिषदः ! पितरः ! येषां वः युष्माकम् ऊती ऊत्या अस्मत्पालनेन युष्मत्तर्पणेन वानिमित्तेन। अस्मत्पालनार्थं युष्मतर्पणार्थं वा इत्यर्थः। इमा इमानि।हव्या हवींषि। चकृम कृतवन्तो वयम्। ते यूयम् आगत आगच्छत।कथम्। अर्वाक्। अस्मदभिमुखम्। किमर्थमागच्छामः ! उच्यते। अवसा शन्तमेन। हेतावियं तृतीया। प्रयोजनस्य च हेतुत्वेन विवक्षा। सुखतमेनअस्मत्पालनेन हेतुना। अस्मान् सुखतमं पालयितुमित्यर्थः। युष्मत्तर्पणार्थंवा। आगत्य जुषध्वं सेवध्वम्। हवींषीति शेषः। अथ हविरुपभोगानन्तरंनः अस्मभ्यं शं शमनम् उत्पन्नानां रोगाणाम् उपशमनमित्यर्थः। योः यापनंपृथग्भावनमुत्पत्स्यमानैर्भयैरसम्बन्धं चेत्यर्थः। अरपः। भावप्रत्ययलोपो द्रष्टव्यः।अपापत्वं च। दधात यूयम्॥
उप॑हूताःपि॒तरः॑सो॒॑म्यासो॑बर्हि॒ष्ये॑षुनि॒धिषु॑प्रि॒येषु॑।
तआग॑मन्तु॒तइ॒हश्रु॑व॒न्त्वधि॑ब्रुवन्तु॒ते॑वन्त्व॒स्मान्॥
(अष्ट० ७ अध्या० ६. व० १७ ॠ० ५.)
उपहूताः पितरः। यच्छब्दमध्याहृत्य द्वितीयः पादः पूर्वं व्याख्येय।आर्थिकोऽयं क्रमः। ये पितरः बर्हिष्येषु बर्हिषि भवेषु बर्हिषि सादितेषु।केषु। सामर्थ्याद्धविःषु। कीदृशेषु। निधिषु। निधिवन्महादरेण संस्कृतेष्वित्यर्थः। प्रियेषु इष्टेषु। निमित्त एषा सप्तमी। बहिस्सादितानि हवींष्युपभोक्तुमित्यर्थः। उपहूताः अस्माभिराहूताः। सोम्यासः सोमसम्पादिनः। तेपितरः आगमन्तु आगच्छन्तु। इहअस्मद्यज्ञे ते त एव श्रुवन्तु शृण्वन्तु।अस्मत्स्तुतीरिति शेषः। अधिब्रुवन्तु अस्मद्धुतमुशन्त्वित्यर्थः। ते त एवभवन्तु रक्षन्तु अस्मान् सर्वदा सर्वत्र॥
आच्या॒जानु॑दक्षिण॒तोनि॒षद्ये॒मंय॒ज्ञम॒भिगृ॑णीत॒विश्वे॑।
माहिं॑सिष्टपितरः॒केन॑चिन्नो॒यद्व॒आगः॑पुरु॒षता॒करा॑म॥
(अष्ट० ७. अध्या० ६ व० १८ऋ० ६.)
आच्याजानु। पितॄणामयं स्वाभाविको धर्मः। ‘अथैनं पितरः प्राचीनावीतिनः सव्यं जान्वाच्ये’ति वचनात्। जानु आच्य दक्षिणं जानु भूमौनिपात्य। दक्षिणतः दक्षिणपार्श्वे। निषद्य उपविश्य। इमम् अस्मदीयं यज्ञम्।अभिगृणीत आभिमुख्येन स्तुत विशिष्टतृप्तियोगात् परया प्रीत्या सगुणमिदंकर्मेति प्रशंसत इत्यर्थः। विश्वे सर्वे यूयं, महता यत्नेनापि कर्म कुर्वन्तो वयंप्रमादाद् यदागः कर्मवैगुण्यंजातमपराधम्। वः युष्माकम्। पुरुषता। ‘सुपासुलिगि’त्यनेन तृतीयैकवचनस्याकारः। पुरुषतया मनुष्यत्वेन हेतुना करामकृतवन्तः। कृतेन तेन केनचित् केनाप्यपराधेन नः अस्मान् मा हिंसिष्ट ईपितरः !॥
आसी॑नासोअरु॒णीना॑मु॒पस्थे॑र॒यिंध॑त्तदा॒शुषे॒मर्त्या॑य।पु॒त्रेभ्यः॑पितर॒स्तस्य॒वस्वः॒प्रय॑च्छत॒तइहोर्जे॑दधात॥
(अष्ट० ७. अध्या० ६. व. १८ ॠ० :०)
आसीनासः। पितरः॥ आसीना उपविष्टाः अरुणीनामारोचमानानाम्।कासाम् सामर्थ्यादग्निज्वालानां देवतानां वा। अरुणीविशेषणादिष्टोपयोजनगवोपलक्षितोषसां वा। उपस्थे उपस्थाने समीपे वेद्याख्ये रयिं धनं धत्त दत्तदाशुषे हविर्दत्तवते यजमानाय मर्त्यायमनुष्याय। किञ्च तस्य यजमानस्यपुत्रेभ्यः पौत्रेभ्यश्च प्रयच्छत। किम्। वस्वः। द्वितीयार्थे षष्ठऎचेषा। वसु धनम्।षष्ठीनिर्देशाद् वा एकदेशमिति शेषः। ये यूयमित्थं प्रार्थ्यध्वे ते इह सन्निहितेष्वस्मासु ऊर्ज रसवदन्नं दधात दत्त। अस्मभ्यं चान्नं दत्तेत्यर्थः॥
येनः॒पूर्वे॑पि॒तरः॑सो॒म्यासो॑नूहि॒रेसो॑मपी॒थंवासि॑ष्ठाः।
तेभि॑र्य॒मःसं॑ररा॒णोह॒वी॑ष्यु॒शन्नु॒शद्भिः॑प्रतिका॒मम॑त्तु ॥
(अष्ट० ७. अध्या० ६. व० १८.ऋ० ८.)
ये नः पूर्वे। ये नोऽस्माकं पितरः पूर्वेऽतीतकाले सोम्यासः सोमसम्पादिनः वसिष्ठाः वसीयांसः अतिशयेन धनवन्तः। आच्छादयितृतमा वा स्वेनतेजसा। परिहितवसना वा। अनूहिरे। ‘वह प्रापणे’। आनुपूर्व्येणोढवन्तः।आत्मानं प्रति प्रापितवन्त इत्यर्थः। सोमपीथं सोमपानम्। तेभिः तैः अस्मत्पितृभिः सह। यमः पितृराजः। संरराणः। समित्येकीभावे। एकीभूय रममाणः।अथवा रातेर्दानकर्मण एतद् रूपं न रमेः। अस्मत्पितृमिः संभूयास्मदभिरक्षितं दददित्यर्थः। हवींषि अस्मद्दैतानि। उशन्। ‘वश कान्तौ’। कामयमानः। सशद्भिः हवींषि कामयमानैः पितृभिः प्रतिकामं कामं प्रति यावदभिलषितमित्यर्थः। अत्तु भक्षयत्वित्यर्थः॥
येता॑तृ॒षुर्दे॑व॒त्राजेह॑मानाहोत्रा॒विदः॒स्तोम॑तष्टासोअ॒र्कैः।आग्ने॑याहिसुवि॒दत्रे॑भिर॒र्वाङ्स॒त्यैःक॒व्यैःपि॒तृभि॑र्घर्म॒सद्भिः॑॥
(अष्ट० ७. अध्या० ६. व० १८. ऋ० ९.)
ये तातृषुः। ये पितरः तातृषुः तीर्णाः प्राप्ता इत्यर्थः। देवत्रा। ‘देवमनुष्यपुरुषपुरुमर्त्येभ्यः’ इति द्वितीयायाः त्रा द्रष्टव्यः। (देवान्।) जेहमानाः॥‘ओहाङ् गतौ’। ज्ञानकर्मसमुच्चयेन क्रमेण गच्छन्तः। देवत्वं क्रमेण प्राप्ताइत्यर्थः। होत्राविदः। होत्रेति यज्ञनाम। यज्ञानां यथावद्वेदितारः। स्तोमतष्टासः। तक्षतिः करोतिकर्मा। स्तोमानां कर्तारः। अर्कैः लक्षणैः अनैर्वा हविर्लक्षणैःसह। हृविषां च कर्तार इत्यर्थः। पुरस्ताद् यच्छ्रुतेस्तदध्याहारः। तैः पितृभिःसह। हे अग्ने ! अर्वाङ् अस्मदभिमुखम्। आयाहि आगच्छ। कीदृशैः। सुविक्षत्रेभिः शोमनविद्यैः। कल्याणज्ञानैरित्यर्थः। सत्यैः अविसंवादिभिः। अवितथप्रसादैरित्यर्थः। कव्यैः। पितृदेवत्यं हविः कव्यम्। तत्सम्बन्धात् कव्यभुजः कव्या इत्युच्यन्ते। तैः कव्यभुग्भिः। अथवा कवय एव कव्याः। स्वाथिंको यत्। मेधाविभिर्वा। घर्मसद्भिः घर्मइति यज्ञनाम। यज्ञसादिभिरित्यर्थः ॥
येस॒त्यासो॑हवि॒रदो॑हवि॒ष्षाइन्द्रे॑णदे॒वैःस॒रथं॒दधा॑नाः।
आग्ने॑याहिस॒हस्रं॑देव॒वन्दैःप॒रैःपूर्वैः॑पि॒तृभिर्घर्म॒सद्भिः॑ ॥
(अष्ट० ७. अध्या० ६. व० १८. ॠ१०.)
ये सत्यासः। ये पितरः सत्यासः सत्याः अवितथवचनाः। हविरदः अदनयोग्यस्य पुरोडाशादेर्हविषोऽत्तारः भक्षयितारः। हविष्याः पानयोग्यस्म सोमरसादेर्हविषः पातारः। इन्द्रेण देवैरपि सरभं समानमेकं तुल्यंबा रथम्। दधानाः। लडर्भेऽयं शानच्। गमनाय धारयन्ति प्रेरयन्तीत्यर्थः।पुरस्ताद्यच्छ्रतेस्तदध्याहारः। तैः पितृभिः सह। हे अग्ने ! आयाहि आगच्छ।सहस्रम्। बहुनामैतत्। तृतीयार्थे च प्रथमा। सहस्रेण बहुभिरित्यर्थः। देववन्दैः। वदिःस्तुत्यर्थः। देवस्तुतिभिः। परैः परकालीनैः। पूर्वैः पूर्वकालीनैश्च। घर्मसद्भिः यज्ञसादिभिः महावीरसादिभिरादित्यसादिभिर्वा॥
अग्नि॑ष्वात्ताःपितर॒एहग॑च्छत॒सदः॑सदःसदत्तसुप्रणीतयः।अ॒त्ताह॒वींषि॒प्रय॑तानिब॒र्हिष्यथा॑र॒यिंसर्व॑वीरंदधातन॥
(अष्ट० ७. भध्या० ६. व० १९. ऋ० ११.)
अग्निष्वात्ताः। अग्निनास्वादिताः शोभनमुपभोजिताः। एतन्नामानो वा। हे पितरः ! इहास्मिन् वर्तमाने कर्मणि पितृकर्मणि आगच्छत। आगत्यच सदःसदः। सीदत्यस्मिन्निति सदः स्थानमुच्यते। (तत्) तत् स्थानम्।सदत सीदत। (तत्र) तत्र स्थाने यथेष्टमुपविशतेत्यर्थः। हे सुप्रणीतयः !शोभनप्रणयनाः ! कल्याणोपदेशा इत्यर्थः। उपविश्य चात्त भक्षयत। हवींषिओदनादिलक्षणानि। प्रयतानि शुद्धानि प्रबद्धानि वा। आसादितानीत्यर्थः।क। बर्हिषि। अथ भक्षणानन्तरं च रयिं धनं सर्ववीरं सर्वैवीरैःपुत्रैश्चोपेतंदशभिः पुत्रैः सहितमित्यर्थः। दघातन दत्तास्मभ्यम्॥
त्वम॑ग्नईलि॒तोजा॑तवे॒दोवा॑ड्ढ॒व्यानि॑सुरभीणि॑कृ॒त्वी।प्रादाः॑पि॒तृभ्यः॑स्व॒धया॒तेअ॑क्षन्न द्वित्वंदे॑व॒प्रय॑ताह॒वींषि॑॥
(अष्ट० ७. अध्या० ६. व० १९. ऋ० १२.)
त्वमग्ने। हे अग्ने ! जातवेदः ! उत्पन्नधन ! उत्पन्नज्ञानेति वा। त्वम्ईलितः अस्माभिः स्तुतः अवाट् ऊढवान् असि पितॄन् प्रति प्रापितवानसिहव्यानि हवींषि सुरभीणि सुगन्धीनि कृत्वी कृत्वा प्रादाः प्रत्तवांश्चासि येभ्यःपितृभ्यस्ते च पितरः। स्वधया। अन्ननामैतत्। द्वितीयार्थे तृतीया। त्वयाप्रतं हविर्लक्षणमन्नमक्षन् जग्धवन्तः भक्षितवन्तः। अथेदानीं कृतोपकारः सन्अद्धि भक्षय त्वम्। हे देव ! प्रयता प्रयतानि शुचीनि हवींषि। अथवा प्रादाइति च लोडर्थे लुङ्। वह हवींषि ऊर्ध्वं च प्रदेहीति। शिष्टं समानम्॥
येचे॒हपि॒तरो॒येच॒नेहयांश्चवि॒द्मयाँउ॑चनप्र॑वि॒द्म।त्ववे॒॑त्थयति॒तेजा॑तवेदःस्व॒धाभि॑र्य॒ज्ञंसुकृ॑तंजुषस्व॥
(अष्ट० ७. अध्या० ६ ० १९. ऋ० १३.)
येचेह।ये च पितरः इह अस्मत्समीपे वर्तन्ते। ये च नेह इह न सन्ति न वर्तन्ते। यांश्च पितॄन् विद्म संनिकृष्टत्वाज्जानीमो वयम्। उ च। उः पादपूरणः। यानपि न प्रविद्म विप्रकृष्टत्वास जानीमो वयम्। यति यत्सङ्ख्यानुक्ताश्च ते तिरस्तान् सर्वान् यथोक्तान् त्वं वेत्थ तत्त्वतो जानासि हेजातवेदः ! उत्पन्नधन ! उत्पन्नज्ञान ! वा। यस्मादेवमतो ब्रूमः इमं यज्ञं पित्र्यंदर्म। स्वधाभिर्हविर्लक्षणैः अन्नैः। युक्तमिति शेषः। सुकृतं साधु कृतम्। अविगुणमस्माभिरनुष्ठितमित्यर्थः। जुषस्व जुषिरत्रान्तर्णीतण्यर्थः। अस्मत्पितॄन्जोषय सेवय उपभोजयेत्यर्थः। अथापि ‘प्रत्यक्षकृताः स्तोतारो भवन्ति परोक्षकृतानि स्तोतन्यानी’त्यनेन न्यायेनाग्नेरप्राधान्यं पितॄणामेव प्राधान्यं द्रष्टव्यम्॥
येअ॑ग्निद॒ग्धायेअन॑ग्निदग्धा॒मध्येदि॒वःस्व॒धया॑मा॒दय॑न्ते।
तेभिः॑स्व॒रालसु॑नीतिमे॒तांय॑थाव॒शंत॒न्वंकल्पयस्व॥
(अष्ट० ७. अध्या० ६. व० १९. ऋ० १४.)
ये अग्नि। ये पितरः अग्निदग्धाः अग्निना भस्मीकृताः श्मशानकर्मप्राप्ता इत्यर्थः। ये अनग्निदग्धाः श्मशानकर्म न प्राप्ता इत्यर्थः। मध्ये दिवःधुलोकमध्ये। सप्तमीनिर्देशात् स्थिता इति वाक्यशेषः। स्वघया अन्नेन स्वकर्मफकलक्षणेन। मादयन्ते तृप्यन्ति। तेभिः तैः पितृभिः संयुक्तः सन्नितिशेषः। यस्त्वं स्वराट् स्वयंराजिता अपराश्रयदीप्तिरित्यर्थः। स त्वम् असुनीतिम्असूनां प्राणानां विषयेषु नेत्रीं स्वकर्मफलभोगीय प्रवर्तयित्रीम्। एताम्अस्मत्पिन्नन्तरात्मलक्षणाम्। तन्वं शरीरम्। यथावशं यथाकामम्। यथाभिलषितमित्यर्थः। कल्पयस्व। अर्चतिकर्मायम्। अर्चय हविर्वहनादिनास्मत्पितॄन् समर्चयेत्यर्थः। कस्य प्रार्थनेयम्। अग्नेरेव सामर्थ्यात्, पूर्वमन्त्रे तस्यैव प्रकृतत्वाच्च॥
अथाष्टकायां वपाहोममन्त्रः वपासुत्स्विद्य जुहुयाद् ‘वह वपामि’ति।
वह वपां जातवेदः पितृभ्यो यत्रैनान् वेत्थ निहितान् पराकेमेदसः कुल्या उपैनान् स्रवन्तु सत्या एता माशिषः सन्तु सर्वाः स्वाहा।
वामदेवार्षं त्रिष्टुप्। पितरो देवता। हे जातवेदः ! अग्ने !। वह प्रापयगमयेत्यर्थः। वपां पितृभ्यः। तादर्थ्ये एषा चतुर्थी। पितॄणामर्थाय। यत्र पराकेपराकान्ते विप्रकृष्टे देशे। निहितानवस्थितान् एनानेतान् वेत्थ जानासि। तंदेशं प्रति वहेति सम्बन्धः। मेदसः। वपाभिधानमेतत्। सम्बन्धलक्षणा चेयं षष्ठी।त्वया प्रापितस्य वपाख्यस्य हविषः सम्बन्धिन्यः। कुल्याः। नदीनामैतत्। तेनच प्राभूत्यं लक्ष्यते। वपाया उपस्तरणाभिधारणादिलक्षणान्याज्यानि नदीजलवत् प्रभूतानीत्यर्थः। एनानुपस्रवन्तु एषां पितॄणां समीपं गच्छन्तु। उपस्तीर्णाभिघारिता वपा पितॄणामुपभोगार्हा भवत्वित्यर्थः। एता आशिषः प्रार्थनाः सर्वाः कृत्स्नाः। मा। षष्ठ्यर्थ एषा द्वितीया। मम स्वभूताः सत्या अवितथाःसन्तु भवन्तु॥
अथावदानानां स्थालीपाकस्य च होममन्त्राः सप्त। तेषु सप्तसु ‘अग्नेनये’ति द्वे ऋचौ श्रवणाकर्मणि व्याख्याते ‘ग्रीष्मो हेमन्त ऋतव’ इत्याद्याश्चतस्रो वामदेवार्षास्त्रिष्टुभः। तासुप्रथमाया ग्रीष्मादिकालाभिमानिनो देवता। यथासामर्थ्य मन्त्रा व्याख्यायन्ते। यथाविनियोगं त्वर्थो द्रष्टव्यः॥
ग्रीष्मो हेमन्त ऋतवः शिवा नो वर्षाः शिवाभया शरन्नः।संवत्सरोऽधिपतिः प्राणदो नोऽहोरात्रे कृणुतां दीर्घमायुः स्वाहा।
ग्रीष्मः गण्यन्तेऽस्मिन् रसा इति निरुक्तः कालविशेषः शुक्रशुचिमासद्वयात्मा ऋतुरित्यर्थः। तथा हेमन्तः हिमवान् हिमबहुलः सहस्सहस्यमासद्वयात्मा ऋतुरित्यर्थः। तथा वर्षाः। वर्षत्यासु पर्जन्य इति वर्षाः नभोनभस्यमासद्वयात्मा ऋतुः। तथा शरत्। शीता अस्यामोषधयो भवन्ति, शीर्णाआप इति वेति निर्वचनादिषोर्जमासद्वयात्मा ऋतुः। शरदं विशिनष्टि—शिवा।सुखनामैतत्। सुखा सुखकरीत्यर्थः। अभया भयवर्जिता। य एते ऋतवः तेनः अस्मभ्यं शिवाः सुखकराः। भवन्त्विति वाक्यशेषः। किं च संवत्सरःद्वादशमासात्मकः कालविशेषः। अधिपतिः स्वामी। कस्य। सामर्थ्यादृतूनाम्।सर्वस्य वा जगतः। ‘संवत्सरः प्रजापतिः’ इति लिङ्गात्। किंविशिष्टः। प्राणदःजीवनस्य दाता। नः अस्माकमायुर्जीवितं शतसंवत्सरलक्षणम्। कृणुयादित्यनुवर्त्यम्। तथा अहोरात्रे दीर्घमायुः कृणुतामिति।
शान्ता पृथिवी शिवमन्तरिक्षं द्यौर्नो देव्यभयं कृणोतु शिवादिशः प्रदिश उद्दिशो न आपो विद्युतः परिपान्तु विश्वतः स्वाहा॥
शान्ता पृथिवी। अस्याः पृथिव्याद्याविद्युदन्ता देवताः। शान्ताशान्तिकरी सर्वप्राणिनामाधारत्वेन सुखप्रदेत्यर्थः। पृथिवी अस्माकमभयं कृणोतु इत्यपक्रष्टव्यम्। शिवमवकाशदानेन सर्वप्राणिनां सुखकरमन्तरिक्षमस्माकमभयं कृणोतु। द्यौः देवी दीप्ता ग्रहनक्षत्रादिभिः नः अस्माकमभयं कृणोतुकरोतु। शिवाः सुखकर्यः दिशः। किंविशिष्टाः। प्रदिशः। प्रदृश्यन्ते सर्वैरपीति प्रदिशःप्राच्याद्या इहाभिप्रेयन्ते। तथा उद्दिशः उद्दिक्शब्देनात्र कोणाअधश्चोर्ध्वा च गृह्यन्ते। केचित्तु वर्णयन्ति दिशः प्रसिद्धाः। प्रदिशः कोणाः। उद्दिशश्चोर्ध्वा अघश्चेति। किञ्चआपः सर्वाः विद्युतश्च तदभिमानिन्यो देवताः।नः अस्मान् विश्वतः सर्वतः स्वतस्सम्बन्धितश्च परिपान्तु सर्वतो रक्षन्तु॥
आपो मरीचीः प्रवहन्तु नो धियो धाता समुद्रोऽवहन्तु पापम्। भूतं भविष्यदभयं विश्वमस्तु मे ब्रह्माभिगुप्तः स्वा रक्षाणि स्वाहा॥
आपो मरीचीः। भवादयो देवताः आपो मरीचीः। व्यत्ययेनेयंद्वितीया प्रथमायाः स्थाने। मरीचिशब्दोऽन्तर्णीतमत्वर्थोऽपां विशेषणम्।मरीचिमत्यो रश्मिमत्यःदीप्तिमत्य इत्यर्थः। प्रवहन्तु प्रकृष्टं। देशं प्रणयन्तु।न अस्माकं स्वभूता धियः। कर्मनामैतत्। कर्माणि। अथवा धीशब्दः प्रज्ञानाम। अस्मत्प्रज्ञाः प्रवहन्तु आपः अस्मभ्यं प्रज्ञां ददत्वित्यर्थः। किञ्चधातादेवविशेषः मध्यमस्थानः। पापं वाङ्मनःकायकृतम्। अवहन्तु। हन्तिर्गस्यर्थोऽन्तर्णीतण्यर्थश्च। अधो गमयतु। अथवा हन्तिहिँसार्थ एव। अपेत्युपसर्गोवा। अपहन्तु नाशयतु इत्यर्थः। तथा समुद्रश्च। किञ्च भूतं भविष्यद् वर्तमानमर्थगृहीतं कालत्रयसम्बन्धिभूतजातं विश्वं सर्वे मे मम अभयम् अभयङ्करम्अस्तु भवतु। किञ्च ब्रह्माभिगुप्तः। ब्रह्मशब्दोऽत्र वेदवचनः परमात्मवचनोवा। ब्रह्मणा वेदेन परमात्मना वा अभिगुप्तः अभिरक्षितः। केचिद् ब्रह्मशब्दं हिरण्यगर्भाभिधानमिच्छन्ति। स्वाः स्वकीयाः रक्षाणि रक्षितुं समर्थोभूयासमित्याशासे॥
विश्व आदित्याः वसवश्चदेवा रुद्रा गोप्तारो मरुतः सदन्तु।ऊर्जंप्रजाममृतं पिन्वमानः प्रजापतिर्मयिपरमेष्ठीदधातु स्वाहा॥
विश्व आदित्याः द्युस्थाना द्वादश। तथा वसवश्वाष्टौ पृथिवीस्थानाः। देवा दानादिगुणयुक्ताः। तथा रुद्राः अन्तरिक्षस्थाना एकादश। मरुतःसप्तसप्तका गणाः एकोनपञ्चाशत्। किंविशिष्टाः। गोप्तारः। वृष्टिप्रदानद्वारेणकृत्स्नस्य जगतो रक्षितारः। सदन्तु। सदिरत्र गत्यर्थः। शुद्धोऽपि सोपसर्गार्थोद्रष्टव्यः। आसदन्तु अस्मत्समीपमागच्छन्त्वित्यर्थः। किञ्च ऊर्जं रसलक्षणमन्नंप्रजां पुत्रपौत्रादिलक्षणाम् अमृतम् अमृतत्वं च। पिन्वमानः। पिन्वतिः सेचनकर्मा। सेचनं क्षरणं ददात्वित्यर्थः। परमेष्ठी। प्रजापतर्विशेषणमेतत्। परमेप्रकृष्टे सत्यलोकाख्ये स्थाने स्थितः परमेष्ठी (प्रजापतिः)।मयि कर्मकर्तरिअधिकारिणि। दधातु स्थापयतु। ‘प्रजापते न त्वदि’ वि विवाहप्रकरणे व्याख्यातम्॥
समाप्तमष्टकाप्रकरणम्॥
____________
अथ रथारोहणम्। तत्र चक्राभिमर्शनमन्त्रः ‘अहं ते पूर्व’ इति।
अहं ते पूर्वः पादावारभेबृहद्रथन्तरे ते चक्रे।
वामदेवार्षा द्विपदा। यजुर्वा। रथोऽभिधेयः। हे रथ ! अहं ते तवस्वभूतौ पादौ। पूर्वः प्रथमः।कस्य। सामर्थ्याच्छत्रोः। आरभे संस्पृशामिअभिमृशामीत्यर्थः। कीदृशौ। उच्यते। बृहद्रथन्तरे सामनी ते तव स्वभूतेचक्रे। चक्रे एव हि पादौ रथस्य। सामान्योक्त्या विशेषोक्त्या चापौनरुक्त्यम्। बृहद्रथन्तरवचनेन चक्रयोः संस्तवः क्रियते। एतदुक्तं भवति—बृहद्रथन्तरवत् सैस्तुतचक्रलक्षणौ तव स्वभूतौ पादौ शत्रोः पूर्वमभिभृशामीति॥
वामदेव्यमक्षः।
वामदेव्यमक्ष इत्यक्षाधिष्ठाने। अभिमृशेदित्यनुवर्तते। वामदेवार्षं यजुः।रथ एवाभिधेयः। अत्रैकवाक्यताप्रसिद्ध्यर्थं यत्तच्छब्दावध्याहार्यौ। यस्तवाक्षोवामदेव्यं साम तस्याधिष्ठाने द्वे अक्षाधिष्ठाने इत्यर्थः। अभिमृशामीति शेषः अक्षशब्देनचक्रप्रोहणकाष्ठमुच्यते। अधिष्ठानशब्देन नाभ्याः फलकमुच्यते॥
रथारोहणमन्त्रः ‘वायोष्ट्वावीर्येणे’ति।
** वायोष्ट्वा वीर्येणारोहामीन्द्रस्यौजसाधिपत्येन।**
वामदेवार्षं यजुः। रथदैवतम्। हे रथ ! त्वा त्वां वायोवीर्येण।हेतावियं तृतीया। प्रयोजनस्य च हेतुत्वेन विवक्षा। वायोः स्वभूतस्य वीर्यस्यप्राप्तये इत्यर्थः। आरोहामि। त्वदारोहणेन वायुवीर्योऽहं भूयासमित्यर्थः।तथा इन्द्रस्यौजसाधिपत्येन। ओजश्शब्दो बलनाम। आधिपत्यमधिपतेर्भावःस्वाम्यमित्यर्थः। उभयत्र हेतावेव तृतीया।त्वामारुह्येन्द्रवद् बलवानधिपतिश्च भूयासम्॥
रश्मीन् संमृशेद् अरश्मिकान् वा दण्डेन ‘ब्रह्मणो वस्तेजसा संगृह्णामी ‘ति।
** ब्रह्मणो वस्तेजसा संगृह्णामी सत्येन वस्तेजसा संगृह्णामी।**
वामदेवार्षं यजुः। द्विपदा वा। अश्वप्रग्रहा अश्वा वाभिधेयाः। ब्रह्मणः वृहेर्वृद्धिकर्मणो ब्रह्मञ्शब्दाच्छस्येतद्रूपम्॥ प्रवृद्धानित्यर्थः। वः युष्मान् अश्वप्रग्रहान् अश्वान् वा। तेजसा। हेतौ तृतीया। प्रयोजनं हेतुः। तेजोर्थमित्यर्थः। संगृह्णामि संमृशाभिम इत्यर्थः। न च केवलेन। किन्तर्हि। सत्येन। उदकनामैतत्। तत्प्रभवं धनमिहाभिप्रेयते। धनार्थं च वो युष्मान् संगृह्णामि संमृशामि। युष्मान् संगृह्य तेजस्वी धनवांश्च भूयासमित्यर्थः॥
अभिप्रवर्तमानेषु जपेत् ‘सहस्रसानेमि’ति।
** सहस्रसनिंवाजमभिवर्तस्व रथ देव प्रवह।**
वामदेवार्षं यजुः। द्विपदा वा। रथोऽभिधेयः। हे रथ ! देव ! दानादिगुणयुक्त !। सहस्रसनिम्। सहस्रमिति बहुनाम। सनिर्लाभः। बहुधा धनंलभ्यते यस्मिन् स सहस्रसनिः। तं सहस्रसनिम्। वाजम्। सङ्ग्रामनामैतत्। सङ्ग्रामम्। अभिवर्तस्वअभिगच्छ। अभिगम्य च प्रवह प्रकर्षेणप्रापय। अस्मच्छत्रूनस्मभिर्घातयित्वा सङ्ग्राममस्मान् गमयेत्यर्थः॥
‘वनस्पते वङिवङ्गो हि भूया’ इत्येतयान्यान्यपि वानस्पत्यान्यभिमृशेत्।
वन॑स्पतेवी॒ड्व॑ङ्गो॒हिभू॒याअ॒स्मत्स॑खाप्र॒तर॑णः॒सु॒वीरः॑।
गोभिः॒ सन्न॑द्धोअसिवी॒लय॑स्वास्था॒तातेजयतु॒जेत्वा॑नि॥
(अष्ट० ४. अध्या० ७. व० १५. ॠ० १३.)
गर्गस्य बार्हस्पत्यस्यार्षं त्रिष्टुप् छन्दः। रथोऽभिधेयः। वनस्पतिशब्दोऽयम्। ‘अथाप्यस्यां तद्धितेन कृत्स्नवन्निगमा भवन्ती’त्येवं वनस्पतिविकारेप्रयुक्तः। हे वनस्पते ! वनस्पतिविकार ! रथ !। वीड्वङ्ग। वीलूनि संस्तब्धानि दृढान्यङ्गान्यवयवा यस्य स वीड्वङ्गः। हिः पादपूरणः। दृढावयववान्। भूयाः भवेः। त्वम् अस्मत्सखा अस्मत्सखिस्थानीयः व्यसनेष्वस्माकंसहायो भवेत्यर्थः। प्रतरणः। प्रतीर्यते येन स प्रतरणः। संग्रामनिवर्तने समर्थइत्यर्थः। सुवीरः शोभनवीरयुक्तः। वीरो योद्धा सु शोभनः अभीरुरित्यर्थः।गोभिः संनद्धोऽसि। गोशब्देनात्र तद्विकारश्चर्माणि श्लेष्मा चोच्यते। अत्रैकवाक्यताप्रसिद्ध्यर्थं यत्तच्छब्दावध्याहार्यौ। यस्माद् गोविकारैश्चर्मभिः श्लेष्मणा च सन्नद्धः। ‘नह बन्धने’। सम्यक् बद्धः। असि भवसि। तस्मात्कृतदार्ढ्यत्वात् वीलयस्व। वीलयतिः संस्तम्भकर्मा। संस्तम्भय दृढीकुर्वात्मानम्। दृढे च त्वयि आस्थाता आरोढा ते तव जयतु जेत्वानि। कृत्यार्थेऽयं त्वन्प्रत्ययः। जेतव्यानि। कानि। सामर्थ्यात् शत्रुबृन्दानि शत्रुसैन्यानि वा॥
‘स्थिरौ गावौ भवतां वीलुरक्ष’ इति स्थानमभिमृजेत्।
स्थि॒रौगावौ॑भवतांवी॒लुरक्षो॒मेषाविव॑र्हि॒मायु॒गंविशा॑रि।
इन्द्रः॑पात॒ल्ये॑ददतां॒शरीतो॒ररि॑ष्टनेमेअ॒भिनः॑सचस्व॥
(अष्ट० ३. अध्या० ३. व० २२. ॠ० १७.)
विश्वामित्रार्षा त्रिष्टुप्। रथाङ्गान्यभिधेयानि। स्थिरौ अचलौ भवतांभूयास्तां गावौ। गोशब्दश्चात्राश्ववचनः ‘एतौ मे गावौप्रमरस्य युक्तावि’तियथा। अथवा गोजातिवचन एव। तस्मिन् पक्षे बलीवर्दयुगलमभिप्रेतम्।वीलुर्दृढः। अक्षः रथावयवः। भवत्वित्यनुषङ्गः। ईषा रथावयवः कश्चित्।सा मा विवर्हि। वर्हिरुद्यमनार्थः। उद्यमनेन पृथग्भावो लक्ष्यते। मा पृथगभूयाद् इत्यर्थः। पृ143थग्भावेन चास्थैर्यं लक्ष्यते। स्थिरा भूयादित्यर्थः। मा युगम्।युज्यन्तेऽस्मिन्निति युगं काष्ठविशेषः। विशारि। शृणातिहिंसाकर्मा। हिंसयाचात्र शैथिल्यमभिप्रेतम्। मा शिथिलीभूयादित्यर्थः। इन्द्रः देवराजः। पातल्ये। पातल्यशब्दोऽत्र सामर्थ्याच्चक्रवचनः। कथम्। पततिर्गत्यर्थः। तस्मात् करणसाधनेऽरप्रत्यये रेफोपजने वृद्धौ च पातर्यमिति रूपं भवति। ततश्चरेफस्य लत्वापत्त्या पातल्यमिति। रथस्य पतनसाधने चक्रे इत्यर्थः। ददतांप्रयच्छतु। स्थिरे इति वाक्यशेषः अनुषको वा। शरीतोः। शृणातिहिंसाकर्मा।शरीतुं शत्रून् हिंसितुमित्यर्थः। चतुर्थः पादः प्रत्यक्षकृतः। अतो भिन्नंवाक्यम्। इन्द्रो रथो वाभिधेयः। हे अरिष्टनेमे !। नेमिरिति वज्रनाम। अहिंसितवज्र ! इन्द्र !। रथपक्षे अहिंसितवज्रोपलक्षितायुध ! अहिंसितचक्रनेमे ! वां। नः अस्मान् अभिसचस्व। ‘सच सेवायाम्’। अभिमुख्येन सेवस्व॥
‘सुत्रामाणं पृथिवीं द्यामनेहसमि’ति नावम्। आरोहेदित्यनुषङ्गः।नौरभिधेया। व्याख्यातेयं प्रत्यवरोहणे स्वस्त्ययनत्वेन।
अथ व्यवहारार्थे संसदमुपयायाद्’ ‘अस्माकमुत्तमंकृधी’त्यादित्यमीक्षमाणो जपित्वावरोहेत्।
अ॒स्माक॑मुत्त॒मंकृं॑धि॒श्रवो॑दे॒वेषुसूर्य।
वर्षि॑ष्ठं॒द्यामि॑वो॒परि॑।
(अष्ट० ३. अध्या० ६. व० २६.ॠ० १५.)
वामदेवस्य गायत्री। आदित्योऽभिधेयः। हे144 सूर्य ! आदित्य ! अस्माकं श्रवः श्रव इत्यन्ननाम घननाम कीर्तिपर्यायो वा। अन्नादीनामन्यतमम्। उत्तमत्कृष्टं कृधिकुरु। देवेषु। देवशब्देनात्र हविषो दातृत्वाद्यजमाना अभिप्रेयन्ते। निर्धारणे च सप्तमी। हविषो दातॄणां यजमानानांमध्येऽस्मानेवोत्कृष्टश्रवसः कुर्वित्यर्थः। किंविशिष्टं श्रवः। वर्षिष्ठम्। अतिशयेन वृद्धम्। किञ्च द्यामिव उपरि। यथा दिवं सर्वेभ्यो लोकेभ्य उपरि करोषितद्वदस्मानपि सर्वयजमानेभ्यः उपरिभूतान् कुर्वित्यभिप्रायः। अथवा श्रवशशब्दो हविर्लक्षणान्नवचनः। देवशब्दोऽप्यग्नचादिदेववचनः। अयं च
वाक्यार्थः—अस्माकं स्वभूतमुत्तमं हविर्लक्षणमन्नं देवेषु कुरु। अथवा देवेषु श्रवइति सम्बन्धः। देवेषु स्थितं यदन्नम् उत्तमं वर्षिष्ठं च तदस्माकं कुरु।अस्मभ्यं देहीत्यर्थः। दृष्टान्तयोजना तु सदृशी॥
‘ऋषभं मे ‘त्यभिक्रामन्। जपतीति शेषः।
ऋ॒ष॒भंमा॑समा॒नानांस॒पत्ना॑नांविषास॒हिम्।
इ॒न्ता॒र॑शत्रू॑णा॑क॒धिवि॒राज॒॑गोप॑ति॒॒गवा॑म्॥
(अष्ट० ८. अध्या० ८. व० १४. ॠ० १.)
ऋषभंमेति पञ्चर्चं सूक्तमानुष्टुभं महापङ्क्त्यन्तमृषभो वैराजः शाक्वरोवा ददर्श। अनादिष्टदेवतात्वाद् विष्णुरग्निर्वा देवता। तृतीयाया वाचस्पतिः।हे विष्णो !। अग्ने ! वा। ऋषभं प्रधानम्। मा मां समानानां समानजातीयानां मनुष्याणां मध्ये। कृधित्युत्तरत्र श्रूयमाणमिहानुषक्तव्यम्। ज्ञातीनांमध्ये मां प्रधानं कुर्वीत्यर्थः। किञ्च सपत्नानां शत्रूणां विषसहिम्। विविधंसोढारम् अभिभवितारं न्यक्कर्तारमित्यर्थः। कुरु। किञ्चहन्तारं हिंसितारं मारयितारं शत्रूणामतिबलानां कृधिकुरु। विराजं विविधं राजितारं शरीरदीप्त्यादीप्तं च कुरु। गोपतिं गवाम्। गोपतिशब्दो यद्यपि गवां पतिर्गोपतिरित्य- न्वाख्यायते, तथापि यथा प्रवीणशब्दः प्रकृष्टो वीणायामित्येवमन्वाख्यायमानोऽपि प्रकृष्टमात्रस्य वाचको न वीणायामेव प्रकृष्टस्य, प्रवीणो मीमांसायांप्रवीणो व्याकरणे इति, एवमधिपतिमात्रस्य वाचको न गवामेवाधिपतेः। तेनगवामित्यस्य गवामित्येतेन न पौनरुक्त्यम्। गवां स्वामिनं कुर्वित्यर्थः। अथवाऋषभमिति मन्त्रदृशोऽभिधानम् ऋषभनामानं मामिति। अस्मिन् पक्षेसमानानामिति सपत्नविशेषणम्। समानवीर्याणां सपत्नानां विससहिमिति॥
अ॒हम॑स्मिसपत्न॒हेन्द्र॑इ॒वारि॑ष्टो॒अक्ष॑तः।
अ॒घःस॒पत्ना॑मेप॒दोरि॒मेसर्वे॑अ॒भिष्ठि॑ताः।
(अष्ट० ८. अध्या० ८. व० २४. ॠ० २.)
अहमस्मि। अस्मि भूयासमित्यर्थः। सपत्नहा शत्रूणां हन्ता। कइव इन्द्र इव। यथेन्द्रः शत्रुहा। अरिष्टः स्वसैनिकहिंसया अहिंसितः। अक्षतःक्षतवर्जितः शत्रून् हन्त्येव च। किञ्च उच्चैरुपविष्टस्य मे मम स्वभूतयोःपदोः पादयोः अधः अधस्तात् अभिस्थिताः अभिमुखस्थिताः। सन्त्वितिशेषः। के।सपत्नाः। इमे हतशिष्टाः सर्वे। विष्णोरग्नेर्वाप्रसादेनेति शेषः॥
अत्रै॒ववोपि॑नह्याम्यु॒भेआत्नी॑इव॒ज्यया॑।
वाच॑स्पते॒निषे॑धे॒मान्यथामदध॑रं॒वदा॑न्॥
(अष्ट० ८. अध्या० ८. व० २४. ॠ० ३.)
अत्रैव। किञ्च, अत्रैव मम पादयोरधः स्थितान् वः युष्मान् अपिनयामि। अपिरत्र धात्वर्थानुवादी। ‘नह बन्धने’। बध्नामि। किमिव। उभे आर्त्नीइव ज्यया। यथा उभे आत्न्यौ धनुष्कोट्यौ ज्यया बध्नाति कश्चिद् धानुष्कः,एवं बध्नाम्यसतः। हे वाचस्पते ! मध्यमस्थानदेव ! निषेध नियमेन साधयवशीकुरु। इमान् सपत्नान्। यथा येन प्रकारेण मत् मत्तः अधरंन्यग्भूतम्अत्यन्तदीनं वदान् वदन्ति, तथा निषेध॥
अ॒भि॒भूर॒हमाग॑मंवि॒श्वक॑र्मेण॒धाम्ना॑।
आव॑श्चित्तमावो॑व्र॒तमावो॒हंसमि॑तिंददे॥
(अष्ट. ८. अध्या० ८. व० २४. ऋ० ४.)
अभिभूरहम्। अभिभूः अभिभविता युष्माकम्। अहम् आगमम्आगच्छामि युष्मान् प्रति। विश्वकर्मेण। वृद्धिलोपोऽत्र छान्दसः प्रत्ययलोपश्च। वैश्वकर्मणेनेत्यर्थः। विश्वकर्मेन्द्रः। तत्सम्बन्धिना बाम्ना प्रतापेन।युक्त इति शेषः। आगत्य च वो युष्माकं स्वभूतं चित्तमाददे गृह्णामि।न चैतावदेव ! किन्तर्हि। वः युष्माकं व्रतं सर्वप्रकारं कर्म चाददे। वःसमितिम्। सङ्ग्रामनामैतत्। युष्मत्सङ्घामं युद्धश्रद्धामित्यर्थः। आददे सर्वत्रास्वतन्त्रान् मदनुकूलान् युष्मान् करोमीति॥
यो॒ग॒क्षे॒मंव॑आ॒दाया॒ह॑भू॑यासमु॒त्त॒मआवो॑मू॒र्धान॑म॒क्रमीम्।अ॒ध॒स्प॒दान्म॒उद्व॑दतम॒ण्डूका॑इवोद॒कान्मण्डूका॑उद॒कादि॑व॥
(अष्ट० ८. अध्या० ८. व० २४. ॠ० ५)
योगक्षेमम्। अलब्धलाभो योगः लब्धस्य परिपालनं क्षेमः। तदुभयं वः युष्माकं सम्बन्धि आदाय आत्मायत्तं कृत्वेत्यर्थः। अहं भूयासमुत्तमःउत्कृष्टतमः। आकारोऽक्रमीमित्यनेन सम्बध्यते। पादयोश्च पततां वः युष्माकंमूर्धानं शिरः आक्रमीम् आक्रमामि। किञ्च अधस्पदात् मे मम पादयोरधः-प्रदेशो यः तस्मात् प्रसादाकाङ्क्षया मम मुखं निरीक्षमाणा यूयम् उद्वदतऊर्ध्वमुखं वदत। किमिव। मण्डूका इवोदकात्। यथा मण्डूकाः पर्जन्यप्रसादमिच्छन्तस्तन्मुखमीक्षमाणा उदकादुन्मुखं वदन्ति एवम्। मण्डूका उदकादिवयथा मण्डूका उदकादृते न जीवन्ति एवमस्मदृते स्वातन्त्र्मेणान्यतो माजीविष्ट यूयमित्यभिप्रायः॥
‘वयमद्येन्द्रस्य प्रेष्ठाः’ इत्यस्तं यात्यादित्ये। जपतीति शेषः।
व॒यम॒द्येन्द्र॑स्य॒प्रेष्ठा॑व॒यंश्वोवो॑चेमहिसम॒र्ये।
व॒यंपु॒रामहि॑चनो॒अनु॒द्यून्तन्न॑ॠभु॒क्षान॒रामनु॑ष्यात् ॥
(अष्ट० २. अध्या०४. वर्ग०६ ऋ० १०.)
अगस्त्यो मैत्रावरुणिऋषिः। त्रिष्टुप् छन्दः। इन्द्रो देवता। मरुतां गणो वा। वयमद्यास्मिन्नहनि इदानीं वर्तमाने काले इत्यर्थः। इन्द्रस्य प्रेष्ठाः अतिशयेनप्रियाः। काः। सामर्थ्यात् स्तुतीः वोचेमहि उच्चारयेमेत्याशास्महे। क्क। समर्ये। सङ्ग्रामनामैतदन्यत्र। इहतु सामर्थ्याद् यज्ञे वर्तते। शास्त्रार्थविजिगीषया वादिप्रतिवादिरूपेण विप्रतिपद्यमानसदस्यत्वाद् यज्ञोऽपि सङ्ग्रामसदृशः। अथवासमर्थशब्दो योगाद् यज्ञे वर्तते। कथं कृत्वा। मर्या इति मनुष्यनाम। तेच ऋत्विग्यजमानसदस्यलक्षणा इहाभिप्रेयन्ते न योद्धृलक्षणाः। ऋत्विग्यज-मानसदस्यलक्षणैर्मर्यैः सह वर्तते इति समर्थः। तस्मिन् समये यज्ञे। सप्तमीनिर्देशात् वर्तमाना इति वाक्यशेषः। नच केवलमिदानीमेव। किं तर्हि। वयं श्वः। आगामिन्यहनि, आगामिन्यपि काले इत्यर्थः। वोचेमहि स्तुतीरित्यनुषङ्गः।न च श्व एव। किन्तर्हि। वयं पुरा। उत्तरत्र श्रूयमाणश्चशब्दोऽनेन सम्बन्धयितव्यः। पुरा च। अतीतेऽपि काले इत्यर्थः। अवोचाम स्तुतीरिति सम्बन्धः।महिसामर्थ्यात् तत् स्तोत्रमिति शेषः। महि महत्। नः अस्माकं नराम् ऋत्विग्यजमानलक्षणानां मनुष्याणां स्वभूतम्। ऋभुक्षा। महन्नामैतत्। महानिन्द्रः।अनु स्यात्। अस्तिर्भवतिना समानार्थः। ‘अस भुवि ’ इति स्मरणात्। अनुभवेत् अनुभूयादित्यर्थः। किं सकृत्। नेत्युच्यते। अनुद्यून् अन्वहं सततमित्यर्थः। एतदुक्तं भवति—अतीते काले वर्तमाने भविष्यति चेन्द्रमेव स्तुयाम। तच्च स्तोत्रमिन्द्रः सदा शृणुयादिति। केचित्त्वेतामृचं मारुतीं मन्यन्ते।तस्मिन् पक्षे इन्द्रशब्दो यौगिको द्रष्टव्यः। एकवचनं च गणाभिप्रायम्। शिष्टपदयोजना सदृशी॥
‘तद्वोदिवो दुहितरो विभातीरि’ति व्युष्टायाम्। जातीति शेषः।
तद्वो॑दिवोदुहितरोविभा॒तीरु॑पब्रुवउषसोय॒ज्ञकेतुः।
व॒यंस्या॑मय॒शसो॒जने॑षु॒तद्द्यौश्च॒धत्तांपृ॑थिवीच॑दे॒वी।
(अष्ट० ३. अध्या० ८. व० २. ऋ० ११.)
वामदेवार्षात्रिष्टुप्। उषस्या। तदिति तच्छब्दश्रुतेर्यौग्यसम्बन्धो यच्छब्दोऽध्याहार्यः। यत् स्तोत्रमन्येऽपि स्तोतारः कुर्वन्ति तत् स्तोत्रम्। वः तादर्थ्यचतुर्यन्तमेतत्। युष्माकमर्थाय।हे उवसः !।एकस्या एव पूजनार्थे बहुवचनम्।दिवो दुहितरः !। उषसां विशेषणमेतत्। कथं दिवो दुहितृत्वम्। उषसामितिचेद, दिव उत्पन्नत्वात्। तथा चोक्तं प्रस्कण्वेन—‘अवद्वेषो मघोनी दुहिता दिव’इति। सत्यश्रवसाप्युक्तम्— ‘एषा प्रतीची दुहिता दिवो नॄनि’ति। वसिष्ठेनाप्युक्तं ‘विदिवो देवी दुहिते’ति। विभातीः। इदमप्युषसां विशेषणम्। सम्बोधनप्रथमायाः स्थाने द्वितीयैषा। विविधं दीप्यमाना इत्यर्थः। उपब्रुवे युप्मत्समीपमुपेत्य ब्रवीमि। यज्ञकेतुः। स्तोतृविशेषणमेतत्। विशेषणेन चात्मनः स्तुत्यधिकारसम्पत्तिं दर्शयति। ‘कित ज्ञान’ इत्यरय केतुशब्दो ज्ञानवचनः। ‘केतुंकृण्वन्न केतवे’ इति यथा। यज्ञे केतुर्ज्ञानं यस्य स यज्ञकेतुः, यज्ञस्य स्वरूपतो ज्ञातेत्यर्थः। युष्मत्स्तुतियोगेऽहमधिकारीत्यर्थः। वयं स्याम युष्मत्प्रसादादू भवेमेत्याशास्महे। यशसः। मत्वर्थीयप्रत्ययलोपो द्रष्टव्यः। यशस्विनइत्यर्थः। जनेषु। निर्धारणे ह्येषा सप्तमी। जनानां मध्ये। तत् यदेतन्मयाप्रार्थ्यते, तद् युष्मत्प्रसादात् द्यौश्च पृथिवी च। कीदृशी पृथिवी। देवी दानादिगुणयुक्ता। धत्ताम्। दधातिर्दानार्थः। दत्तामनुजानीतामित्यर्थः। युष्मत्प्रसादेनद्यावापृथिव्यौ धत्तामिति द्यावापृथिव्योरप्राधान्यं मन्त्रस्योषस्यत्वाविरोधायद्रष्टव्यम्॥
‘अथातो वास्तुपरीक्षे ‘त्यारभ्य’तच्छमीशाखयौदुम्बरशाखया च शन्तातीयेन त्रिः प्रदक्षिणं परिव्रजन् प्रोक्षति। ‘शं न इन्द्राग्नि’ इत्येतत् सूक्तंशन्तातीयमाचक्षते। ‘शं न इन्द्राग्नि’ इति सूक्तं पञ्चदशर्च त्रैष्टुमं वैश्वदेवं वसिष्ठोमैत्रावरुणिर्ददर्श। प्रथमा महानाम्न्यनुवचनाङ्गभूतभूम्युपस्पर्शने विनियुक्ताव्याख्याता॥
शंनो॒भगः॒शमु॑नःशंसो॑अस्तु॒शंनःपुरं॑धिःशमु॑सन्तु॒रायः॑।
शंनः॑स॒त्यस्य॑सु॒यम॑स्य॒शंसः॒शंनो॑अर्थ॒मापु॑रुजा॒तो अ॑स्तु॥
(अष्ट० ५. अध्या० ३ व० २८. ॠ० २.)
शं नो भगः। शं सुखं नः अस्माकं भगः आदित्यानामन्यतमःदेवतान्तर वा। अस्त्वित्युत्तरत्र श्रूयमाणमाख्यातमपक्रष्टव्यम्। अस्तु भवतु।शम्। उः पादपूरणः। नः अस्माकम्। शंसः स्तुतिः। किंविषया। सामर्थ्याद्देवपितृमनुष्यविषया। अस्तु भवतु। शं सुखं नः अस्माकं पुरान्धिःबहुधीः। धीरिति कर्मनाम प्रज्ञानाम वा। बहुप्रज्ञो बहुकर्मा वा। कोऽसौ। भगः।कुतः। तस्य प्रकृतत्वात्। तस्मिन् पक्षे शंशब्दस्याभ्यासनुपपत्तिःशंसव्यवायश्च। तस्माद् देवतान्तरेण भवितव्यम्। एवं तर्हिन्द्रो वरुणो वाकासौ। सामर्थ्यात् पृथिवी। चराचराधारभूता हि सा। भवतु। स्वधाभिः। अन्ननामैतत्। व्रीह्याद्यन्नैः। शं सुखे रोदसी द्यावापृथिव्यौ। किंविशिष्टे। बृहतीमहत्यौ विस्तीर्णे।स्तामिति शेषः। शं सुखम्। नः अस्माकम्। अद्रिः। मेघनामैतत्। पर्वतनाम वा। मेघो हिमवदादिपर्वतो वा। शं सुखानि नः देवानामिन्द्रादीनाम्।सुहवानि शोभनानि हवनानि कल्याणानि देवाह्वानानीत्यर्थः।सन्तु भवन्तु॥
शंनो॑अ॒ग्निज्योति॑रनीकोअस्तु॒शंनो॑मि॒त्रावरु॑णावा॒श्विना॒शम्।
शंनः॑सु॒कृतां॑सुकृ॒तानि॑सन्तु॒शंन॑इषि॒रोअ॒भिवा॑तुवा॒त॑॥
(अष्ट० ५. अध्या० ३. व० २८. ऋ० ४.)
शं नो अग्निः। शं सुखं नः अस्माकम् अग्निः। किंविशिष्टः।ज्योतिरनीकः। अनीकशब्दः समूहवचनः। ज्योतिस्समूहो ज्योतिर्मुखोवा। प्रदीप्तबहुरश्मिः प्रदीप्तज्वालामुखो वा। अस्तु भवतु। शं सुखौ नः अस्माकं मित्रावरुणौ। स्तामिति शेषः। अश्विना अश्विनौ। शं सुखौ। स्तामिति शेषः। शं सुखानि नः सुकृतां शोभनं श्रौतस्मार्तकर्म कृतवतांसुकृतानि शोभनानि कृतानि श्रौतस्मार्तलक्षणानि कर्माणि सन्तु भवन्तु। शंसुखं नः। अभिः “अभिरभागे” इत्येवं कर्मप्रवचनीयः प्रतिशब्देन समानार्थः। अस्मान् प्रति। वातः वायुः इषिरः। वातविशेषणमेतत्। अनवगतसंस्कारं च। इषतेर्गतिकर्मण इषेर्वा इच्छार्थस्य ॠषेवी दर्शनार्थस्य कर्तर्यौणादिकसूत्रेण किरचप्रत्ययान्तस्यैतद्रूपम्। सर्वत्र गन्ता, सर्वर्त्विग्यजमानजनस्यैषितावा, लोकपालत्वाच्छुभाशुभस्य द्रष्टा वा। वातु गच्छतु अस्मान् सुखयत्वित्यर्थ॥
शंनो॒द्यावा॑पृथि॒वीपू॒र्वहू॑तौशम॒न्तरिक्षंदृ॒शये॑नोअस्तु।
शंन॒ओष॑धीर्व॒निनो॑भवन्तु॒शंनो॒र॑जस॒स्पति॑रस्तुजि॒ष्णुः॥
(अष्ट० ५ अध्या० ३ व० २८. ॠ० ५.)
शं नो द्यावापृथिवी। शं सुखे नः अस्माकं। द्यावापृथिवी द्यावापृथिव्यौ। किंविशिष्टे। पूर्वहूतौ। छान्दसोऽयं पुल्ँलिङ्गनिर्देशः। पूर्वहूते प्रथमहुते।स्तामिति शेषः। शम् अन्तरिक्षन्। दृशये दर्शनाय। दर्शनं चात्र सर्वकरणव्यापारोपलक्षणार्थम्। चक्षुरादिकरणानामनुपरमायेत्यर्थः। नः अस्माकम्।अस्तु भवतु। शं सुखाः। नः। ओषधीः। प्रथमार्थे द्वितीयैषा। ओषधयःफलपाकान्ता व्रीह्याद्याः। वनिनः अन्ये च वृक्षा वनसम्बन्धिनः भवन्तु। शंसुखं नः रजसस्पतिः। रजःशब्दोऽयं पञ्चसु पदार्थेषु रूढः। पांस्नू रज उच्यते। लोका रजांस्युच्यन्ते। असृगहनी रजसी उच्येते। ज्योतीषिरजांस्युच्यन्ते। ज्योतिरादीनां पतिः स्वामी पाता वा। कोऽसौ। सामर्थ्यादादित्यः। जिष्णुर्जयशीलः। असुरराक्षसादीनां जेतेत्यर्थः। अस्तु भवतु॥
श॑न॒इन्द्रो॒वसु॑भि॒दे॑वोअ॑स्तु॒शमा॑दि॒त्येभि॒र्वरु॑णःसु॒शंसः॑।
शंनो॑रु॒द्रोरु॒द्रेभि॒र्जला॑पः॒शंन॒स्त्वष्टा॒ग्नाभि॑रि॒हशृ॑णोतु॥
(अष्ट० ५. अध्या० ३. व०२९. ऋ० ६.)
शं न इन्द्रः। शं सुखं नः अस्माकम्। इन्द्रः देवः दानादिगुणयुक्तः। वसुभिः। सहयोगलक्षणैषा तृतीया। वसुभिः सह पृथिवीस्थानैर्देवैः सह। अस्तुभवतु। शं सुखं वरुणः द्युस्थानः आवित्यः सुशंसः शोभनस्तुतिः। आदित्येभिः इतरैरादित्यैः सह। अस्थित्वत्यनुषङ्गः। शं सुखं नः रुद्रः। किंविशिष्टः।जलाषः। सुखनामैतत्। अत्र सामर्थ्यादन्तर्णीतमत्वर्थं द्रष्टव्यम्। सुखवानित्यर्थः। अथवा जलाषभेषज इत्यस्य समासस्योत्तरपदलोपो द्रष्टव्यः। तथाचोक्तं मन्त्रान्तरे—‘रुद्रं जलाषभेषजम्’ इति। सुखकरौषध इत्यर्थः।रुद्रेभिः मध्यमस्थानैरन्यै रुद्रैः सह। अस्त्वित्यनुषङ्गः। शं सुखं नः त्वष्टाअस्तु। किश्च। ग्नाभिः। स्त्रीनामैतत्। कुतः। ‘मेना ग्ना’ इति ‘स्त्रीणामि’ति भगवतायास्केनोक्तत्वात्। देवपल्यश्चात्र स्त्रियोऽभिप्रेयन्ते। कुत एतत्। त्वष्टुर्देवपत्नीसाहचर्यदर्शनात् ‘अग्नेपत्नीरिहावह देवानामुशतीरूपत्वष्टारं सोमपीतय’इति। इन्द्राण्याद्याभिर्देवपत्नीभिः सहेत्यर्थः। इहास्मिन् कर्मणि शृणोतु। किम्।सामर्थ्यात् स्तुतीरिति शेषः॥
शं॒नःसोमो॑भवतु॒ब्रह्म॒श॑नः॒शंनो॒ग्रावा॑णः॒शमु॑सन्तुय॒ज्ञाः।
शं॒नःस्वरु॑णंमि॒तयो॑भवन्तु॒शंन॑प्र॒स्व॑१ः॒शम्व॑स्तु॒वे॑दिः॥
(अष्ट० ५. अध्या० ३. व० २९. ऋ० ७.)
शं नः सोमः। शं सुखं नः अस्माकं सोमः ओषधिभूतो यज्ञसाधनकर्मात्मा देवतात्मा वा। उभयात्मत्व देवतायाः प्रतिपादितं भगवतायास्केनपि ‘या उभयविधाः स्युरि’त्यादिना भाष्येण। भवतु। ब्रह्म वेदो जगत्कारणं वा सत्यज्ञानादिलक्षणम्। शं सुखं नः भवतु। शं सुखांनः ग्रावाणः अभिषवपाषाणाः। सन्त्वित्यपक्रष्टव्यम्। शमु सन्तु यज्ञाः। उकारःपादपूरणः। सुखाः सन्तु यज्ञाः ऐष्टिकाः पाशुकाः सौमिकाश्च। शं सुखाः।नः स्वरूणाम्। स्वरुर्नाम यूपच्छेदनवेलायां प्रथमनिष्पन्नं शकलम्। बहुयूपे कर्मणि तानि च बहूनि। तदभिप्रायं स्वरूणामिति बहुवचनम्। मितयः।अत्र निसो लोपो द्रष्टव्यः। निर्मितय उत्पत्तयः। भवन्तु। शं सुखाः नः प्रखः। प्रकृष्टान् पुत्रान् सूयते इति प्रसूशब्देन सूत्योऽभिप्रेयन्ते। कल्याणप्रसवाःसर्वाः सूत्य इत्यर्थः। भवन्त्वित्यनुषङ्गः। शं सुखाः। उः पादपूरणः। अस्तुवेदिः। ऐष्टिकी पाशुकी सौमिकी च। अस्माकमिति शेषः॥
शंनः॒सूर्य॑उरु॒चक्षा॒उदे॑तु॒शंन॒श्चत॑स्रःप्र॒दिशो॑भवन्तु।
शनः॒पर्व॑ताध्रु॒वयोभ॑वन्तु॒शंनः॒सिन्ध॑वः॒शमु॑स॒न्त्वापः॥
(अष्ट० ५. अध्या० ३. व० २९. ऋ० ८.)
शं नः सूर्यः। शं सुखं नः अस्मभ्यं सूर्यः। किंविशिष्टः। उरुचक्षाः।उर्विति बहुनाम। चक्षतिः पश्यतिकर्मा। बहुभिः प्राणिभिर्दृश्यत इति वाबहून् प्राणिनः पश्यतीति वा उरुचक्षाः। अथवा चक्षुःशब्देन दर्शनहेतुत्वाद् रश्मयोऽभिप्रेयन्ते। सहस्ररश्मिरित्यर्थः। उदेतु उदयं करोतु। शं सुखाःनः चनस्रःचतुस्संख्याकाः प्रदिशः प्राच्याद्या भवन्तु। शं सुखाः नःपर्वताः मेरुप्रभृतयः शिलोच्चयाः। किंविशिष्टाः। ध्रुवयः। ध्रुविशब्दोऽयंध्रुवशब्दपर्यायः। अथवा ध्रुवशब्दस्याकारस्य इकारापत्तिः। शाश्वता अचलाइत्यर्थः। भवन्तु। शं सुखाः नः अस्माकम्। सिन्धवः। नदीनामैतत्। गङ्गाद्यानद्यः। भवन्तु। शं सुखाः। उः पादपूरणः। सन्तु आपः सर्वाः। अस्माकमिति शेषः॥
शंनो॒अदि॑तिर्भवतुव्र॒तोभिः॒शंनो॑भवन्तुम॒रुतः॑स्व॒र्काः।
श॑नो॒विष्णुः॒शमु॑पू॒षानो॑अस्तु॒शंनो॑भ॒वित्रं॒शम्व॑स्तुवयुः॥
(अष्ट० ५. अध्या० ३. व० २९. ॠ० ९.)
शं नो अदितिः। शं सुखा। नः अस्माकम्। अदितिः देवमाताभवतु। व्रतेभिः। कर्मनामैतत्। हेतौ च तृतीया। प्रयोजनस्य हेतुत्वेनविवक्षा। अस्माकं कर्मनिर्वृत्त्यर्थमित्यर्थः। शं सुखाः नः अस्माकं भवन्तुमरुतः। किंविशिष्टाः। स्वर्काः। अर्कशब्दः स्तोतृवचनः। ‘अर्को यद्वोमरुतो हविष्मानि’ति यथा। शोभनस्तोतारः। अथवा अर्कशब्दो मन्त्रवचनः।‘इन्द्रमर्केभिरर्किण’ इति यथा।शोभनमन्त्राः कल्याणस्तुतय इत्यर्थः। अथवाअर्कशब्दोऽन्ननाम। शोभनहविर्लक्षणान्नाः। अथवा अर्कशब्दोऽञ्चतेर्गत्यर्थस्यगतिवचनः। सुगमना इत्यर्थः। अञ्चतेर्वा पूजार्थस्य अर्कशब्दः पूजावचनः।कल्याणपूजना इत्यर्थः। अथवा अर्चिश्शब्दोऽर्कवचनः। स्वर्चिषः शोभनदीप्तयइत्यर्थः। तथा चोक्तं भगवता यास्केन—‘स्वर्काः स्वञ्चनाः स्वर्चनाः स्वर्चिष’इति वेति। शं सुखम्। नः विष्णुः परमात्मा वासुदेवः अस्तु। शं सुखम्।उः पादपूरणः। पूषा आदित्यानामन्यतमो देवतान्तरं वा। नः अस्तु। शंसुखं नः भवित्रम्। भवति उत्पद्यते अनेनेति भवित्रम्। किं तत्। सामर्थ्यात्बृष्टिलक्षणमुदकम्। अथवा पवित्रशब्दस्य उदकनाम्नः पकारस्य भकारापत्तिः।शं सुखम्। उः पादपूरणः। अस्तु वायुः मध्यमस्थानो देवः॥
श॑नो॑दे॒वःस॑वि॒तात्राय॑माणः॒शंनो॑भवन्तू॒षसो॑विभा॒तीः।
शंनः॑प॒र्जन्यो॑भवतुप्र॒जाभ्यः॒शंनः॒क्षेत्र॑स्य॒पति॑रस्तुशं॒भुः॥
(अष्ट० ५. अध्या० ३. व० २९. ॠ० १०.)
शं नो देवः। शं सुखं नः अस्माकं भवतु।देवः दानादिगुणयुक्तः सविता सूर्यः। त्रायमाणः पालयन्। किम्। सामर्थ्याच्चराचरम्। शंसुखं नः भवन्तु उषसः। एकस्या एव पूजनार्थे बहुवचनम्। विभातीः। प्रथमायाः स्थाने द्वितीयैषा। विभात्यः विविधं दीप्यमानाः। शं सुखं नः पर्जन्यःभवतु। प्रजाभ्यः। तादर्थ्येएषा चतुर्थी। अस्माकं प्रजानामथीय। शं सुखंनः क्षेत्रस्यः पतिः मध्यमस्थानो देवः अस्तु। किंविशिष्टः। शम्भुः। शमिति सुखनामः। भवतिरत्रान्तर्णीतण्यर्थः। सुखभूः वृष्टिप्रदानद्वारेण सुखस्यभावयिता। शम्भुः देवतान्तरं वा। स च रुद्रः। तस्मिन् पक्षे शं नो अस्त्वित्यनुषङ्गः॥
शंनो॑दे॒वावि॒श्वदे॑वाभवन्तु॒शंसर॑स्वतीस॒हधी॒भिर॑स्तु।
शम॑भि॒षाचः॒शमु॑राति॒षाचः॒श॑नो॑दि॒व्याःपार्थि॑वाः॒शंनो॒अप्याः॑॥
(अष्ट० ५. अध्या० ३. व० ३०. ॠ० ११.)
शं नो देवाः। शं सुखाः नः अस्माकम्। देवाः अग्न्यादयः। किंविशिष्टाः। विश्वदेवाः। देवशब्दोऽत्र दीव्यतेः स्तुत्यर्थस्य कर्मसाधनः। सर्वस्तुत्याइत्यर्थः। अथवा विश्वेदेवा इत्येतद् देवतान्तरपदम्। देवा इत्येतत्तु तद्विशेषणम्।देवशब्दश्च दातृवचनः दातारो विश्वेदेवा इति। अथवा देवशब्दो दीपयितृवचनः। दृष्ट्याद्यनुप्रदानेन सर्वस्य जगनो दीपयितार इत्यर्थः। भवन्तु।शं सुखा सरस्वती वाग्देवता नदी वा। सह धीभिः। धीरिति कर्मनाम प्रज्ञानाम वा। कर्मभिः प्रज्ञाभिर्वा। युक्तेति वाक्यशेषः। अस्तु। शं सुखाः। अभिषाचः। ‘षच सेवायाम्’। अभिमुख्येन सेवितारः। के। सामर्थ्यात् पुत्रपौत्रादयोदासा वा। भवन्त्विति शेषः। शं सुखाः। उः पादपूरणः। रातिषाचः। रातिर्मित्रं ज्ञातिर्वा। मित्रत्वेन ज्ञातित्वेन सेवितारः, मित्राणि ज्ञातयो वेत्यर्थः।शं सुखाः नः दिव्याः दिवि भवाः। के ते। सामर्थ्याद् द्वादशादित्या. भवन्तु।पार्थिवाः पृथिव्यां भवाः। के ते। सामर्थ्यादष्टौ वसवः। सुखा भवन्तु। शं सुखाः।नः अस्माकम्। अप्याः। आप इत्यन्तरिक्षनाम। तत्र भवा अप्याः। केते समर्थ्याद् एकादश। रुद्राः भवन्तु। अथवा दिव्याः पार्थिवा अप्या इति त्रयस्त्रिंशद् देवाः स्थानत्रयसम्बन्धित्वेन एकादशैकादशाभिप्रेयन्ते। कुत एतत्।मन्त्रान्तरे दर्शनात्। ‘ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थाप्सु’क्षितो महिनैकादश स्थे’ति॥
शंनः॑स॒त्यस्य॒पत॑योभवन्तु॒शंनो॒अर्व॑न्तः॒शमु॑सन्तु॒गावः॑।शंनऋ॒भवः॑सु॒कृतः॑सु॒हस्ताः॒शंनो॑भवन्तुपि॒तरो॒हवे॑षु ॥
(अष्ट० ५. अध्या० ३. व० ३०. ऋ० १२.)
शं नः सत्यस्य। शं सुखाः। नः अस्माकम्। सत्यस्य सत्यवचनस्यपतयः पालयितारः। के ते। सामर्थ्याद्देवाः। कुत एतत्। ‘सत्यसंहिता वैदेवाः’ इति श्रुतेः। अथवा सत्यमित्युदकनाम, तस्य पतयोऽग्निवायुसूर्याः।कथमेषामुदकस्वाम्यमिति चेत्, श्रुतिमन्त्रलिङ्गेभ्यः। अग्नेस्तावत् ‘अग्निर्वाइतो वृष्टिमुदीरयति’ ‘धामच्छदिव खलु वै भूत्वा वर्षती’ति वृष्टिहेतुत्वं श्रूयते।तथा ‘मरुतः सृष्टां वृष्टिं नयन्ती’ति वायोरपि वृष्टिहेतुत्वं श्रूयते। मरुच्छब्दोहि वायुपर्यायः। तथा सूर्यस्यापि ‘यदा खलु वा असावादिस्यो न्यङ् रश्मिभिःपर्यावर्ततेऽथ वर्षती’ति। मन्त्रवर्णाः— अग्नेस्तावत् ‘समानमेतदुदकमि’ति।वायोः पर्जन्यात्मनः ‘धामच्छदिवे’त्यादयो बहवो मन्त्राः। सूर्यस्य ‘कृष्णं नियानंहरयः सुवर्णाः’ इति। भवन्तु। शं सुखाः नः अर्वन्तः अश्वाः। शं सुखाः। उपादपूरणः। सन्तु भवन्तु गावः सान्नाय्यादिहविर्निर्वर्तनेन। शं सुखाः नःऋभवः। ऋभव इति बहुवचनेन ‘ॠभुर्विभ्वा वाजः’ इति सुधन्वन आङ्गिरसस्य त्रयः पुत्राःबभूवुः।तेषां प्रथमोत्तमाभ्यां बहुवन्निगमा भवन्ति न मध्यमेनेति। किंविशिष्टाः।सुकृतः। शोभनस्यैकचमसचतुष्टयकरणादेः कर्मणः कर्तारः। तथेममर्थं वामदेवःप्रदर्शितवान् ‘ज्येष्ठ आह चमसाद्वा करेति कनीयांस्त्रीन् कृणवामेत्याह कनिष्ठआह चतुरस्करेति’। सुहस्ताः क्षिप्रहस्ता इत्यर्थ। ऋभूणामेव विशेषणमेतत्।भवन्तु। शं सुखाः नः भवन्तु पितरः पितृपितामहप्रपितामहाः। अथवाऊमादयः। ते च ‘ऊमा वै पितरः प्रातस्सवन ऊर्वामाध्यन्दिने काव्या तृतीयसवन’ इत्युक्ताः। हवेषु आहानेषु सत्सु, अस्माभिराहूताः सन्त इत्यर्थः॥
श॑नो॑अ॒जएक॑पाद्दे॒वोअ॑स्तु॒शंनोहि॑र्बु॒ध्न्य॑१ः॒शंस॑मु॒द्रः।
शंनो॑अ॒पा॑नपा॑तपे॒रुर॑स्तु॒शंनः॒पृश्नि॑र्भवतुदेव॒गो॑पा॥
( अष्ट० ५ अध्या० ३. व० ३० ऋ० १३.)
शं नो अजः। शं सुखः नः अस्माकम्। अजः एकपाद् देवः इतिपदत्रयेणादित्योऽभिधीयते कथं कृत्वा। योगात्। तत्राजशब्दस्तावद् ‘अजगतिक्षेपणयोः’ इति क्षेपवचनः। स्वरश्मिना अप आकृष्य लोकेष्वजति क्षिपतिप्रेरयतीत्यर्थः। एकपात्। एकश्चासौ पादश्चेत्येकपात्। पादशब्दोऽत्र चतुर्भागवचनः। तस्यैकपादः आदित्यः परमात्मनः। कुत एतत्। विज्ञायते हि’अग्निःपादौ वायुः पाद आदित्यः पादो दिशः पादः’ इति। अथवाएकेन रश्मिना सुषुम्नाख्येन चन्द्रमसमनुप्रविश्य कृत्स्नं जगत् पातीत्येकपात्। तथा चमन्त्रवर्णः—सुषुम्नः सूर्यरश्मिश्चन्द्रमा गन्धर्वः’ इति।देवशब्दोऽत्र दीपयितृवचनः। सर्वस्य जगतो दीपयिता। दातृवचनो वा देवशब्दः। स्तोतॄणां यष्टॄणामैहिकामुप्मिकाभिलषितार्थप्रदाता, मुक्तिपर्यन्तस्यफलस्य तदधीनत्वात्। अस्तु। शं नः अहिः मध्यमस्थानो देवविशेषः।किंविशिष्टः। बुध्न्यः। बुधमन्तरिक्षं तत्र भवः। अस्तु। शं सुखं समुद्रः पार्थिवः।अन्तरिक्षनाम वा समुद्रशब्दः। अस्माकं भवतु। शं सुखं नः अपान्नपात्प्रध्यमस्थानो वैद्युताग्निः। कुत एतत्। नपाच्छब्दः पौत्रवचनः। तथा चभगवता यास्केन दर्शितं—‘नपादित्यनन्तरायाः प्रजाया नामधेयमि’ति।अपां मेघोदरगतानां पौत्र इत्यर्थः। कुत एतत्। अद आदित्यो जायते। तथा चवेदेनोक्तं ‘समुद्रादुर्मिर्मधुमानुदारदि’ति। आदित्याद् वैद्युतोऽग्निः। तथाचश्रूयते ‘यदा वा असावादित्यो न्यङ् रश्मिभिः पर्यावर्ततेऽथ वर्षती’ति। तस्मिन्काले मध्यमोऽग्निर्जायते। अत आदित्याज्जन्म वैद्युतस्य सिद्धम्। अत एवापांपौत्रत्वं वैद्युतस्याग्नेः। पेरुः अपां पाता। अपान्नपाद्विशेषणमेतत्। अस्तु। शंसुखा नः पृश्निः। साधारणनामैतद् दिवश्चादित्यस्य च। इह पुनद्यौरेवाभिधियते। कुतः। देवगोपेति स्त्रीलिङ्गविशेषणत्वात्। द्यौः भवतु। किंविशिष्टा।देवगोपा। देवा गोप्तारो यस्याः सा देवगोपा। अथवा देवानां गोपत्री देवगोपा। अथवा देवी चासौ गोपत्री चेति देवगोपा॥
आ॒दि॒त्यारु॒द्रावस॑वोजुषन्ते॒दंब्रह्म॑क्रि॒यमा॑णं॒नवी॑यः।
शृ॒ण्वन्तु॑नोदि॒व्याः पार्थिवासो॒गोजा॑ताउ॒तयेय॒ज्ञिया॑सः॥
(अष्ट० ५ अध्या० ३. व० ३० ऋ० १४.)
आदित्या रुद्राः। आदित्या द्वादश। रुद्रा एकादश। वसवोऽष्टौ।एते त्रिस्थाना देवगणाः जुषन्त सेवन्तामित्याशास्महे। इदं ब्रह्म स्तुतिलक्षणं वचः। क्रियमाणं मया निर्वर्त्यमानम्। नवीयः नवतरम् अन्यैरकृतपूर्वमित्यर्थः।न च केवलम् आदित्यादयः। किं तर्हि। अन्येऽपि शृण्वन्तु। नः अस्माकंस्वभूतमिदम्। ब्रह्मेत्यनुवर्तते। दिव्याः दिवि भवा अश्विप्रभृतयः। पार्थिवासःपृथिवीशब्दोऽत्रान्तरिक्षनाम। तत्र भवाः पार्थिवाः मध्यमस्थाना वायुप्रभृतयः। गोजाता उत। उतशब्दोऽप्यर्थे। अपिश्च समुच्चये। गोशब्दश्चात्रपृथिवीनाम। तत्र जाता गोजाताः पृथिवीस्थाना अग्निप्रभृतयश्च। तान् विशिनष्टि—येयज्ञियासः यज्ञसम्पादिनः। ते च शृण्वन्त्विति सम्बन्धः॥
येदे॒वानां॑य॒ज्ञिया॑य॒ज्ञिया॑नां॒मनो॒र्यज॑त्राअ॒मृता॑ऋत॒ज्ञाः।
तेनो॑रासन्तामुरुगा॒यम॒द्ययू॒यंपा॑तस्वा॒स्तेभिः॒सदा॑नः॥
(अष्ट० ५. अध्या० ३. वर्ग० ३०. ऋ० १५.)
ये देवानां यज्ञियाः। देवानांयज्ञियानाम्। निर्धारणे एते षष्ठ्यौ।यज्ञसम्पादिनां देवानां मध्ये ये देवाः। मनोः मनुनाम्नो राज्ञो यज्ञियाःयज्ञसम्पादिनः यज्ञेऽङ्गत्वं प्रतिपेदिर इत्यर्थः। किंविशिष्टाः। यजत्राः यष्टव्याः।अमृताः मरणवर्जिताः। ऋतज्ञाः। ऋतशब्दः सत्यनाम यज्ञनाम वा।सत्यज्ञा वा यज्ञज्ञा वेत्यर्थः। तं देवाः नः अस्मभ्यं रासन्तां ददतु। उरुगायम्। उर्विति बहुनाम। गायतिः स्तुतिकर्मा। बहुस्तुति। किं तत्।न इति सम्प्रदानचतुर्थीश्रुतेः रासन्तामिति दानश्रुतेश्च संप्रदेयं धनमिहाभिप्रेयते। बहुभिः स्तुत्यं हिरण्यादि धनमित्यर्थः। अद्य इदानीमेव, न कालान्तरेइत्यर्थः। उत्तरः पादः प्रत्यक्षकृतः। अतो भिन्नं वाक्यम्। सर्वे देवाःप्रार्थ्यन्ते। हे देवाः ! यूयं पात रक्षत स्वस्तिभिः अविनाशैरुपायैः सदा नित्यंनः अस्मान्॥
अविच्छिन्नयाचोदकधारया “आपो हि ष्ठामयोभुवः” इति तृचेन।
आपो॒हिष्ठाम॑यो॒भुव॒स्तान॑ऊर्जेद॑धातन। म॒हेरणा॑य॒चक्ष॑से॥
(अष्ट० ७. अध्या० ६. व० ५ ऋ० १.)
त्रिशिरसस्त्वष्टुः पुत्रस्याम्बरीषपुत्रस्य सिन्धुद्वीपस्य वार्षम्। गायत्रंछन्दः। आपो देवता। आपो हि। प्रत्यक्षकृतोऽयं मन्त्रः, स्थ दधातनेति चमध्यमपुरुषयोगात्। अतः आप इति सम्बोधनप्रथमान्तम्। तच्छब्दश्रुतेर्यच्छब्दोऽध्याहार्यः। हे आपः ! या यूयम्। हिशब्दः पादपूरणः। मयोभुवः। मयइति सुखनाम। भवतिरत्रान्तर्णीतण्यर्थः। स्नानपानसम्यग्जरणादिना प्रकारेणसर्वस्य प्राणिजातस्य मयसः सुखस्य भावयित्र्यःउत्पादयित्र्यः। स्थ145 भवथ। यायूयं चराचरस्य कृत्स्नस्य सुखमुत्पादयथेत्यर्थः। ताः नः अस्मान् ऊर्जे अन्नायदधातन धत्त अन्नप्राप्तियोग्यान् कुरुत। यथाअन्नंप्राप्नुयाम तथा कुरुतेत्यर्थः।महे महते। रणाय। मकारलोपो द्रष्टव्यः। रमणायरमणीयाय। चक्षसे दर्शनाय। दधातनेत्यनुषङ्गः। एतदुक्तं भवति — अन्नप्राप्तियोग्यान् रमणीयपुत्रजन्मादिदर्शनयोग्यांश्चस्मान् कुरुतेति। अथवा ऊर्ज इति द्वितीयार्थे चतुर्थी। अस्मिन्पक्षे न इति सम्प्रदानचतुर्थ्यन्तम्। दधातिरपि दानार्थः। युष्मत्संयोगजनितमन्नमस्मभ्यं दत्तेति। किश्च, महे रणाय चक्षस इति तिस्रोऽपि चतुर्थ्यो द्वितीयार्थे। चक्षःशब्दश्च ज्ञानवचनः। दधातनेत्यनुषङ्गः महद् रमणीयं च ज्ञानंधत्तेति। ज्ञानस्य महत्त्वं रमणीयत्वं च स्वर्गापवर्गहेतुविषयत्वम्॥
योवः॑शि॒वत॑मो॒रस॒स्तस्य॑भाजयते॒हनः॑। उ॒श॒तीरि॑वमा॒तरः॑॥
(अष्ट० ७. अध्या० ६. व० ५. ऋ० २.)
यो वः। हे आपः ! यः रसः वः युष्माकं स्वभूतः शिवतमः अतिशयेन शिवः सुखः मृष्टः स्वादुरूपः आरोग्यकरश्च। तस्य रसस्य। षष्ठीनिर्देशादेकदेशमिति शेषः। द्वितीयार्थे वा षष्ठी। तं रसमित्यर्थः। भाजयतसेवयत नः अस्मान्। तं रसमस्मानुपयोजयतेत्यर्थः। इहास्मिन् लोके।किमिव। उशतीरिव मातरः। यथा उशत्यः कामयमाना मातरः। किम्।सामर्थ्यात् पुत्रसमृद्धिम्। यथा स्तन्यरसं परेण हार्देन युक्ताः पुत्रान् भाजयन्ति अन्यदपि रसवस्तु, एवमस्मान् भाजयतेति॥
तस्मा॒अर॑ङ्गमामवो॒यस्य॒क्षया॑य॒जिन्व॑थ। आपो॑ज॒नय॑थाचनः॥
(अष्ट० ७. अध्या, ६. व० ५. ऋ० ३.)
तस्मा अरम्।हे आपः ! तस्मै। द्वितीयार्थे चतुर्थी। तं रसम्। अरं पर्याप्तंगमाम गच्छेमेत्याशास्महे वः युष्माकं स्वभूतम्। यस्य रसस्य क्षयाय। ‘क्षिनिवासगत्योः’। अत्रापि द्वितीयार्थे चतुर्थी। क्षयं निवासं रससंयोगमित्यर्थः। जिन्वथ। जिन्वतिः प्रीतिकर्मा। प्रीणीथ यूयम्। तं रसं गमामेति। किञ्च। जनयश्चव्यत्ययेनायंलोडथें लट्। जनयत। पुत्रपौत्रादित्रीहिहिरण्यादिसम्पन्नान् उत्पादयत च नः अस्मान्॥
व्रीहियवमतीरेषआसेचयेद् ‘अच्युताय भौमाय स्वाहे’ति। श्रवणा कर्मणिव्याख्यातमेतद् यजुः। अथैनामुच्छीयमाणामनुम्न्त्रयेत ‘इहैव तिष्ठे’ति द्वाभ्याम्।
इहैव तिष्ठ निमिता तिलिवलास्त्वाविरावतीं मध्ये पोषस्व
तिष्ठतींमा त्वा प्रापद्मघायवः।
आ त्वा कुमारस्तरुण आ वत्सो जयतां सह आ त्वा परिस्रुतः
कुम्भ आ दध्नःकलशैरयः॥
वामदेवस्यानुष्टुभौ। स्थूणाभिधेया। हे स्थूणे ! इहैव गर्ते तिष्ठ निमितानिखाता सती। तिल्विला। ‘तिल स्नेहने’। इलेति पृथिवीनाम। तात्स्थ्यादत्रवाच्छव्द्यम्। तेन पृथिवीस्थं प्राणिजातमभिप्रेयते। एतदुक्तं भवति—त्वयिस्निग्धगृहगतप्रा146णिजाता इत्यर्थः। अस्तु। मध्यमस्थाने प्रथमपुरुषः। एषि भव।आविः प्रकाशभूता। गृहमध्यगतत्वात् सर्वप्राणिनामाविर्भूतेत्यर्थः। आ अवतीम्।आकारः पादपूरणः। प्रथमार्थेद्वितीयैषा। अवती रक्षन्ती। किम्। सामर्थ्याद्गृहम्। तिल्विला अस्तु इत्यनेन पददूयेनावतीत्यस्य सम्बन्धः। किञ्च। मध्ये।कस्य। सामर्थ्याद् गृहस्य। सप्तमीनिर्देशात् स्थितेति वाक्यशेषः। पोषस्व। ‘पुषपुष्टौ’ इत्यस्यान्तर्णीतण्यर्थस्यैतद्रूपम्। पोषयस्व सर्वाणि भूतानीत्यर्थः। तिष्ठतीम्। एवंभूतां गृहस्य मध्ये तिष्ठन्तीं त्वा त्वाम्। अषायवः अधं पापं तत्कामाश्चोरादयोदुर्मनु147ष्याः मा प्रापन् न प्राप्नुयुरित्यर्थः। किञ्च, त्वा त्वां कुमारः बालः।आ इत्युपसर्गश्रुतेः योग्यक्रियापदाध्याहारः। उपसर्गाः पुनरेवमात्मकाः— यत्रक्रियापदं श्रूयते तत्र क्रियाविशेषमाहुः। यत्र न श्रूयतेतत्र ससाधनां क्रियामाहुः। अत्र तु क्रियापदं न श्रूयते। अतः सामर्थ्याद् गच्छत्वित्यध्याहारोयुज्यते। आगच्छतु। न केवलं कुमारः। किन्तर्हि। तरुणः युवा। त्वामागच्छतुइत्यनुषङ्गः। बाल्यूनोग्नेहणाद् वृद्धश्चेति शेषः। आगच्छतु। वत्सः। गोरितिवाक्मशेषः। जयताम्। किम्। सामर्थ्यादितरान् पशून्। (सह) बहुक्षीरस्वाहिंस्रुत्वादिगुणोपेतेन मात्रा पशुना सहेत्यर्थः। आगच्छतु च त्वा त्वां परिस्रुतः कुम्भः। परिस्रुच्छब्दः सान्द्रतावचनः। परिस्रुत इति षष्ठीनिर्देशात् पूर्ण इति वाक्यशेषः। परिस्रुतः पूर्णकुम्भः आगच्छतु च। दध्नः। पूर्णैरिति शेषः। कलशैः घटादिभिः। सहयोगलक्षणैषा तृतीया। दध्नः पूर्णैः कलशैः सह। अयः। ‘अयपय गतौ’ इत्यस्यायतेर्धातोरयश्शब्दो गन्तृवचनः। गन्ता। कः।सामर्थ्यात्गोपालः। त्वामित्यनुवर्त्यम्। एतदुक्तं भवति—अस्मद्गवादीनां रक्षणार्थमरण्ये पर्यटनशीलो गोपालश्च दघ्ना पूर्णैर्घटादिभिस्त्वामागच्छत्विति॥
वंशमाधीयमानम् ‘ॠतेन स्थूणामि’त्यादिनानुमन्त्रयेत।
ॠतेन स्थूणामधिरोह वंश द्राघीय आयुः प्रतरं दधानाः॥
वामदेवार्षाद्विपदा। यजुर्वा। वंशोऽभिधेयः। हे वंश ! ऋतेन। सदकनामैतदन्यत्र। द्वह तु सामर्थ्यादुदककार्यमन्नमभिप्रेतम्। हेतौ च तृतीया।प्रयोजनस्य च हेतुत्वेन विवक्षा। अन्नसिद्ध्यर्थमित्यर्थः। अथवा ॠतशब्दःसत्यनाम। सत्यार्थमित्यर्थः। स्थूणामधिरोह। अधीत्येष आ इत्यस्य स्थाने।आरोहेस्यर्थः। अधीत्युपरिभावे वा। अस्मिन् पक्षे स्थूणामिति द्वितीयाघष्ठयर्थे। आकारश्चाध्याहर्तव्यः। स्थूणाया उपर्यारोहेत्यर्थः। किं कुर्वन्।उच्यते। द्वाघीयः अतिशयेन दीर्घं शतसंवत्सरलक्षणमित्यर्थः। आयुः जीवितम्। प्रतरं प्रकृष्टतरं व्याध्यादिदोषरहितं चेत्यर्थः। दधानाः। दधातिर्दानार्थः।बहुवचनंचैकवचनस्थाने। दददित्यर्थः॥
सदूर्वासु चतसृषुशिलासु मणिकं प्रतिष्ठापयेत् ‘पृथिव्या अधि सम्भवे’ति।
पृथिव्या अधि सम्भव॥
वामदेवार्षं यजुः। मणिकोऽभिधेयः। हे मणिक ! पृथिव्याः। विकारेप्रकृतिशब्दोऽयम्। एकवचनं च बहुवचनस्य स्थाने। पृथिवीबिकारभूतानांशिलानामित्यर्थः। अधेि उपरि। सम्भव। सम्पूर्वो भवतिरत्र सामर्थ्यात् प्रतिष्ठायां वर्तते। प्रतितिष्ठ चतसृषु शिलास्वित्यर्थः॥
‘अरङ्गरो वावदीती’ति वा। मणिकं प्रतिष्ठापयेदित्यनुषङ्गः।
अरङ्गरो वावदीति त्रेधा बद्धो वरत्रया।
इरामुह प्रशंसत्यनिरामवसेधत॥
हिरण्यगर्भस्यार्षम्। कुत एतत्। श्रुतेः। ‘एष इमं लोकमभ्यर्चदि’त्युपक्रम्य ‘एकैव व्याहृतिः प्राण एवे’त्यन्तेन प्राणस्य हिरण्यगर्भस्य सकलवेदद्रष्टृत्वमभिहितमिति। अत एव च शौनकेन ऋषेरनुक्तिः। अनुष्टुप् छन्दः।भूतेच्छदा तृतीयैषा। ताश्चैन्द्यः। ‘त्वमिन्द्र शमरिणा’ ‘त्वमिन्द्र कपोताये’ति च द्वयोरन्द्रिश्रवणात्। प्रकरणसामर्थ्यात् तृतीयाप्यन्द्यैव ‘नदन्नभिन्नममुया शयानमि’तिवत्। अत्रैकवाक्यताप्रसिद्ध्यर्थं यत्तच्छब्दावध्याहार्यौ।यः इन्द्रः अरङ्गरः। अरङ्गरशब्दो भ्रमरवचनः। ‘अरङ्गरेव मध्वेरयेथे’तियथा। अरं पर्याप्तमोषधिवनस्पतीनां रसं गिरतीति अरङ्गरः। लुप्तोपमं चात्रेदंद्रष्टव्यम्। अरङ्गर इव वावदीति अत्यर्थं वदति। स्तुतिभिर्हविभिश्च तृप्तःसन्नत्यर्थ गर्जितशब्दं करोतीत्यर्थः। त्रेधा। त्रिशब्दोऽत्रानेकत्ववचनः।‘त्रिर्नो अश्विना यजेते’ति यथा। अनेकप्रकारमित्यर्थः। बद्धः नद्धः। कः।सामर्थ्यादृषभः। वरत्रयाचर्ममय्या रज्ज्वा। इदमपि लुप्तोपमम्। वावदीतीत्यनुषङ्गः। यथानेकप्रकारं वरत्रया बद्धो बलीवर्दौ– त्यर्थं गर्जति तद्वदित्यर्थः।यश्च इराम् ! अन्ननामैतत्। हविर्लक्षणमन्नम्। उ ह इत्येतौ पादपूरणौ। प्रशंसति प्रकर्षेण स्तौति। अनिरामिरारहेतां हविर्लक्षणान्नवर्जितामित्यर्थः। काम्।सामर्थ्यात स्तुतिम्। अवसेधत। अत्र लकारपुरुषवचनव्यत्ययः। अवसेधतिनिवारयति हविः। प्रदानशून्यां शुद्धस्तुतिं न शृणोतीत्यर्थः। तं स्तुमो यजामश्चेति वाक्यशेषः। अथवा वावदीतीति दृष्टान्तभूतभ्रमरवृषभयोः समानाधिकरणं, न तु दार्ष्टान्तिकस्येन्द्रस्य। यथातथाशब्दाध्याहारेण च योजना। यथाभरङ्गरो मधुमत्तो वाधदीति अत्यर्थं गायति, यथा च वरत्रया अनेकप्रकारंबद्धो वृषभो वाशितां दृष्ट्वात्यर्थं गर्जति, तथायम् इन्द्र इरामुह प्रशंसतीत्यादिशिष्टपदयोजना सदृशी। मणिकेऽपि यथासम्भवं योजयितव्यो मन्त्रः। यत्तच्छब्दाध्याहाराद् विशिष्टं तं प्रतिष्ठापयामीति वाक्यशेषः॥
अथास्मिनप आसेचयति ‘ऐतु राजे’ति।
ऐतु राजा वरुणो रेवतीभिरस्मिन् स्थाने तिष्ठतु मोदमानः।
इरां वहन्तो घृतमुक्षमाणा मित्रेण साकं सह संविशन्तु॥
वामदेवार्षा त्रिष्टुप्। वरुणो देवता, आपो वा उभयं वा। ऐतुआगच्छतु। राजा अपां स्वामी वरुणः। न च केवलः। किन्तर्हि। रेवतीभिः।रेवतीशब्देनात्राप उच्यन्ते। ‘एमा अश्मन् रेवतीर्जीवधन्या’ इति यथा।सहयोगलक्षणा चैषा तृतीया। घनवतीभिरद्भिः सह। एत्य च अस्मिन्स्थाने मणिकाव्ये तिष्ठतु मोदमानः हृष्यन्। उत्तरेणार्धर्चेनापः प्रार्थ्यन्ते।इराम्। अन्नानामैतत्। अन्नम्। वहन्तः। वहेर्धातोश्शत्रन्तात् पुंसि द्वितीयाबहुवचनान्तं षष्ठ्येकवचनान्तं वा पञ्चम्येकवचनान्तं वैतत् पदम्। इह तु व्यत्ययेन स्त्रीलिङ्गप्रथमाबहुवचनान्तं द्रष्टव्यम्। वहन्त्यः धारयन्त्य इत्यर्थः। धृतम्। उदकनामैतत्। उदकं स्वावयवभूतं बिन्दुलक्षणम्। उक्षमाणाः सिञ्चन्त्यः। मित्रेण। मित्रशब्देनात्र वरुण उच्यते क्रियायोगात्। कृत्स्नंजगदुदकेन मेदयति स्नेहयतीति। किमर्थमत्रं न रूढ्या व्यवहारः क्रियते। वरुणस्यापामीशितृत्वात्। तथा च मन्त्रवर्णः ‘वरुणोऽपामधिपतिरि’ति। श्रूयते ‘आपो वै वरुणस्य पत्न्य आसन्नि’ति। वरुणेन। साकं सह। उभयमप्येतन्निपातद्वयं साहित्यार्थम्। अत्र पौनरुक्त्यपरिहारार्थमेकस्य पादपूरणार्थत्वंद्रष्टव्यम्। ‘अथवा अभ्यासे भूयांसमर्थ मन्यन्त’ इत्यर्थभूयस्त्वाभिप्रायं वेदितव्यम्। संविशन्तु अस्मिन् मणिके यावदुपयोगं शेरतामित्यर्थः॥
अथैनच्छमयति ब्रीहियवमतीभिरद्भिः। हिरण्यमवधाय शन्तातीयेन त्रिः प्रदक्षिणंपरिव्रजन् प्रोक्षत्यविच्छिन्नया चोदकधारया ‘आपो हि ष्ठा मयोभुव’ इति तृचेन। शन्तातीयापोहिष्ठीयौ व्याख्यातौ। मध्येऽगारस्य स्थालीपकं श्रपयित्वा ‘वास्तोष्पतेप्रतिजानीह्यस्मान्’ इति चनसृभिः प्रत्यृचंहुत्वा॥
वास्तो॑ष्पते॒प्रति॑जानीह्य॒स्मान्स्वा॑वे॒शोअ॑नमी॒वोभ॑वानः।
यत्त्वेम॑हे॒प्रति॒तन्नो॑जुषस्व॒शंनो॑भवद्वि॒पदे॒शंचतु॑ष्पदे॥
(अष्ट० ५ अध्या० ४. व० २१. ॠ० १.)
वसिष्ठो मैत्रावरुणिः ॠषिः। तिस्रस्त्रिष्टुभः। चतुर्थी गायत्री।चतसृणां वास्तोष्पतिर्देवता। हे वास्तोष्पते ! अस्मान् प्रतिवानीहि प्रतिबुध्यस्व। एते मदीयाः स्तोतारो यष्टारश्चेत्येवमस्माननुगृहाणेत्यर्थः। किञ्च।स्वावेशः सु आवेशः सूपसर्पणः। समीप एवस्थित्वा परिचरितुं योग्यइत्यभिप्रायः। अनमीवश्च। अमीवारोगजातिः तद्रहितोऽनमीवः। रोगाणांनाशकरश्चेत्यर्थः। नः अस्माकं भव एधि। किञ्च। यद् वयं त्वा त्वां प्रतिईमहे याचामहे, तत् काम्यमानं वस्तु नः अस्मान् जुषख। जुषिरत्र सामर्थ्यादन्तर्णीतण्यर्थः। जोषय। सेवयेत्यर्थः किञ्च। शं भव। भवतिरत्रान्तर्णीतण्यर्थः।भावय उत्पादयेत्यर्थः। नः अस्माकं स्वभूताय द्विपदे मनुष्यप्राणिने शं भव।चतुष्पदे गवादिप्राणिने च सुखमुत्पादयेत्यर्थः। द्विपदे चतुष्पद इति जात्यभिप्रायमेकवचनम्। द्विपाद्भ्यश्चतुष्पाद्भ्यश्चेत्यर्थः॥
वास्तो॑ष्पतेप्र॒तर॑णोनएधिगय॒स्फानो॒गोभि॒रश्वे॑भिरिन्दो।
अ॒जरा॑सस्तेस॒ख्येस्या॑मपि॒तेव॑पु॒त्रान्प्रति॑नोजुषस्व।
(अष्ट० ५. अध्या० ४. व० २१. ऋ० २.)
वास्तोष्पते प्रतरणः। हे वास्तोष्पते ! प्रतरणः प्रकर्षेण तारयिता। सर्वापद्भ्य इति शेषः। नः अस्माकम्। एधि भव। किञ्च गयस्फानः। गयशब्दोगृहवचनः। ‘स्फायी ओ प्यायी वृद्धौ’। गृहस्य वर्धयिता। तात्स्थ्यादत्र ताच्छब्धंमञ्चक्रोशनवत्। अस्मद्गुहगतानां प्राणिनां वर्धयितेत्यर्थः। एधीत्यनुषङ्गः। गोभिःअश्वेभिः अश्वैश्च। अस्मान् संयोजयेति वाक्यशेषः। अथवा गोभिरश्वेभिरितिकरणे तृतीया। गयस्फान इत्यमेन चानयोः सम्बन्धः। गोभिरश्वेभिर्गयस्फान एधीति। हे इन्दो !। वास्तोष्पतिविशेषणमेतत्। इन्धेर्दीप्त्यर्थस्योन्दतेर्वा क्लेदनार्थस्य सम्बुद्धावेतद्रूपम्। स्वदीप्त्या दीप्त! वृष्टधुदकेन क्लेदयितर्वेत्यर्थः। किञ्चअबरासः जरावर्जिताः। स्याम भवामेत्याशास्महे। ते तव स्वभूते सख्येसखिभावे। सख्यं चात्र स्तुत्यस्तोतृत्वयष्टव्ययष्टृत्वलक्षणः सम्बन्धः। सप्तमीनिर्देशाद् वर्तमानान् इति शेषः। एतज्ज्ञात्वा त्वमपि नः अस्मान् प्रतिजुषस्व।प्रतिरत्र धात्वर्थानुवादी लम्बते प्रलम्बते इति यथा। सेवस्व प्रीणय वा।किमिव। पितेव पुत्रान्। यथा पिता पुत्रानिष्टान् इष्टप्रदानादिना सेवतेप्रीणयति वा तद्वत् अस्माकमिष्टप्रदो भवेत्यभिप्रायः॥
वास्तो॑ष्पतेश॒ग्मया॑सं॒सदा॑तेसक्षी॒महि॑र॒ण्वया॑गातु॒मत्या॑।
पा॒हिक्षेम॑उ॒तयोगे॒व॑रंनोयू॒यंपात॑स्व॒स्तिभिः॒सदा॑नः॥
(अष्ट० ५. अध्या० ४. व० २१. ॠ० ३.)
वास्तोष्पते शग्मया। हे वास्तोष्पते ! शग्मया। सुखनामैतत्। सुखयासुखकार्ययेत्यर्थः। संसदा। सदिर्गत्यर्थः। सङ्गत्या सङ्गमनेन। ते तव स्वभूतयारण्वया रमयित्र्या रमणीयया। गातुमत्या। गम्यतेऽनेनेति गातुः मार्गः तद्वत्यायज्ञागमनमार्गयुक्तयेत्यर्थः। अथवा गत्यर्थत्वाद् गातुशब्देन ज्ञानमिहाभिप्रेतम्।ज्ञानयुक्तया बुद्धिपूर्वयेत्यर्थः। बुद्धिपूर्वमागतेन त्वया सङ्गत्येत्यर्थः। सक्षीमहि।‘षच सेवायाम्’। सेवेमहि। स्तुतिभिर्हविर्भिस्त्वां स्तुमो यजामश्चेत्यर्थः। एतद्ज्ञात्वा नः अस्मान् पाहि रक्ष। क्षेमे। लब्धस्य परिपालनं क्षेमः। तृतीयार्थेसप्तमी। क्षेमेण लब्धपरिपालनेन। उत अपि। योगे। अलब्धस्य लाभो योगः।अत्रापि तृतीयार्थे सप्तमी। योगेनालब्धलाभेनेत्यर्थः। एतदुक्तं भवति—यदस्माभिः प्राप्तं धनादि तत् परिपालय। अन्यद् यच्च प्राप्तव्यं तच्च प्रापय।नः अस्मान् पाहीति। वरं श्रेष्ठमुत्कृष्टमसम्बाधमित्यर्थः। किं तत्। सामर्थ्याद्गृहम्। तच्च पाहीत्यनुषङ्गः। अथवा न इति षष्ठ्यन्तं, न द्वितीयान्तम्।अस्माकं वरं गृहं योगक्षेमाभ्यां पाहीति। उत्तरः पादो वैश्वदेवः। अतोभिन्नम्। हे देवाः ! यूयं सर्वे नः अस्मान् पास रक्षत स्वस्तिभिः अविनाशिभिरुपायैः सदा। अथवा सूक्तस्य वास्तोष्पतित्वाविशेषाद् देवानामप्राधान्यम्। तस्मिन् पक्षे वास्तोष्पतेः प्रसादाद्यूयमस्मान् पातेति योज्यम्।अथवा चतुर्थोऽपि पादो वास्तोष्पत्य एव। तस्मिन् पक्षे वचनव्यत्ययः कार्यः।त्वं पाहि स्वस्तिभिःसदेति। अस्मिन् पक्षे पाहीति पुनर्वचनं स्वस्तिभिः सदेतिगुणविधानार्थत्वाददोषः॥
अ॒मी॒व॒हावा॑स्तोष्पते॒विश्वा॑रू॒पाण्या॑वि॒शन्। सखा॑मुशेव॑एधिनः॥
(अष्ट० ५. अध्या० ४ व० २२. ऋ० १.)
अमीवहा वास्तोष्पते। अमीवा हिंसिता सर्पादिः रोगो वा। तस्यहन्ता अमीवहा। ‘बहुलं छन्दसि’ इति क्विप्। नाशयिता। एधीत्युत्तरस्मिन्नर्धर्चे श्रूयमाणमिहापत्रष्टव्यम् अमीवहा भवेति। विश्वा विश्वानि सर्वाणिरूपाणि यैरसौ हन्यते नकुलबिडालादिरूपैरोषधिरूपैर्वा तानि। आविशन्प्रतिपद्यमानः तत्तद्रूपी भवन्नित्यर्थः। सखा सुशेवः सुसुखः कल्याणसुखकरश्चेत्यर्थः। एघि भव नः अस्माकम्॥
ब्राह्मणान् भोजयित्वा ‘शिवं वास्तु शिवं वास्त्वि’ति वाचयीत।
शिवं वास्तु शिवं वास्तु॥
वामदेवार्षं यजुः। गृहमभिधेयम्। शिवम्। सुखनामैतत्। सुखकरमित्यर्थः। वास्तु। वसन्त्यस्मिन् प्राणिन इति वास्तुशब्देन गृहमभिप्रेतम्।अस्त्विति शेषः। अभ्यास आदरार्थः। तथाच भगवता यास्केनोक्तम्—‘अभ्यासे भूयांसमर्थं मन्यन्ते यथा अहो दर्शनीया अहो दर्शनीये’ति॥
उक्तं गृहप्रपदनम्। बीजवतोगृहान् प्रपद्येत।
येन मन्त्रेण प्रपद्यते गृहान् तत् प्रपदनमिति करणव्युत्पत्त्या प्रपदनशब्देन मन्त्रोऽभिधीयते। तदुक्तमिति। प्रवासोपस्थानान्ते प्रपद्येत ‘गृहानहंसुमनसः प्रपद्ये’ इति, तदिहापि कर्तव्यमित्यर्थः। ‘गृहानहं सुमनसः प्रपद्ये’इत्यनयर्चा गृहान् प्रपद्येत। एषा ॠक् ‘प्रवासादेत्य पुत्रस्य शिरः परिगृह्यजपती’त्यत्रैव व्याख्याता॥
क्षेत्रस्यानुवातं ‘क्षेत्रस्य पतिना वयमि’ति प्रत्यृचं जुहुयात् जपेद्वा।
क्षेत्र॑स्य॒पति॑नाव॒यंहि॒तेने॒वजयामसि।
गाम॑श्वंपोषयि॒त्न्वासनो॑मृलाती॒दृशे॑॥
(अष्ट० ३. अध्या० ८. व० ९. ऋ० १.)
इदं सूक्तमष्टर्चंवामदेवार्षम्। प्रथमानुष्टुप्। द्वितीयातृतीये त्रिष्टुभौ।चतुर्थ्यनुष्टुप्। पञ्चमी उष्णिक्। षष्ठीसप्तम्यौ अनुष्टुभौ। अष्टमी त्रिष्टुप्। आद्यास्तिस्रः क्षैत्रपत्यः। चतुर्थी शुनदेवत्या। पञ्चम्याःशुनासीरौदेवता। षष्ठीसप्तम्यौ सीतादेवत्ये। अष्टम्याः शुनासीरौ देवता। क्षेत्रस्यपतिना। क्षियतेर्निवासार्थस्य हेतौ त्रप्रत्यये क्षेत्रं भवति। तस्य पातापाकयिता क्षेत्रस्य पतिः। तेनात्र चतुर्थे पादे आ इत्युपसर्गश्रुतेभरेति मध्यमपुरुषैकवचनान्तं क्रियापदमध्याहर्त्राभाष्यकारेण भगवता यास्केन ‘प्रत्यक्षकृतोऽयं मन्त्र’ इति प्रदर्शितम्। अत्र एकवाक्यतायै त्वया क्षेत्रस्य पतिनासहानुगृह्यमाणा इति वाक्यशेषाध्याहारः कर्तव्यः। वयं द्वितेनेव। यथा हितेनकेनचिन्मित्रेण कश्चित् शत्रून् जयेत् एवं जयामसि जयेम शत्रूनित्याशास्महे।किञ्च गामश्वम्। जातावेकवचनम्। गाश्चाश्वांश्चेत्यर्थः। पोषयित्नु। पोषयतेःकर्म तद्धेतुत्वे इत्नुच्। पोषकर्मसामर्थ्यात् स्वयं च पुष्टमस्माकं च पोषयितृ इत्यर्थः। आभरेति शेषः। सः स च भवान् नः अस्मान् मृलाति मृलतिरुपदार्थः।उपदा च रक्षा पूजार्थो वा मृलतिः। आशिषि लोडर्थे पञ्चमो लकारः।रक्षतु। केन। सामर्थ्यात् स्वेन बलेन। पूजयतु वा धनप्रदानेन। ईदृशे।तादर्थ्यचतुर्थ्यन्तमेतत्। ईदृशाय। ईदृशं कामं प्रापयितुमित्यर्थः। अथवापरोक्षकृतोऽयं मन्त्रः, मृलातीति प्रथमपुरुषयोगात्। एवं च योजना कार्याचतुर्थे पादे स न इति तच्छन्दश्रुतेः प्रथमे पादे क्षेत्रस्य पतिना समानाधिकरणः तृतीयान्तो यच्छब्दोऽध्याहार्यः। येन क्षेत्रस्य पतिना ! तृतीयानिर्देशादनुगृह्यमाणा –इति शेषः। वयम्। किंविशिष्टेन। हितेन हितकरेण बन्धुभूतेनेव। इवशब्दस्योपमार्थीयत्वात् अस्त्युपमार्थस्य सम्प्रत्यर्थे प्रयोग इतिपादपूरणः। जयामसि जयामः। किम्। गामश्वं गाश्चाश्वांश्च। अन्यदपि पोषयित्नु स्वयं पुष्टं पोषयितृ च। किं तत्। सामर्थ्याद् गजमहिषादि। आकारः पादपूरणार्थः। सः क्षेत्रस्य पतिः नः अस्मान् मृलाति। ‘मृल सुखने’। लोडर्थेपञ्चमो लकारः। सुखयत्वित्यर्थः। ईदृशे एतादृशे। कस्मिन्। सामर्थ्यात्कर्मणि। सप्तमीनिर्देशाद् वर्तमानानिति वाक्यशेषः। एतदुक्तं भवति- येन क्षेत्रस्य पतिनानुगृह्यमाणाः सन्तो वयं गवादि प्राप्नुमः स इदानींस्वदेवत्ये कर्मणि वर्तमानानभिलषितार्थ-प्रदानेनास्मान् सुखयत्विति॥
क्षेत्र॑स्यपते॒मधु॑मन्तमू॒र्मिंधे॒नुरि॑व॒पयो॑अ॒स्मासु॑धुक्ष्व।म॒धु॒श्चुतं॑घृ॒तमि॑व॒सुपू॑तमृ॒तस्य॑नः॒पत॑योमृलयन्तु॥
(अष्ट० ३. अध्या० ८. व० ९. ऋ० २.)
क्षेत्रस्य पते। हे क्षेत्रस्य पते !। मधुमन्तम्। मध्वित्युदकनाम। भूम्निचायं मतुप्। बहुनोदकेन युक्तम्। रसवचनो वा मधुशब्दः। मधुस्वादुयुक्तम्। ऊर्मिंम् उदकसङ्घातम्। धेनुरिव पयः। यथा धेनुः क्षीरं क्षारयते तद्वत्।अस्मासु। निमित्ते एषा सप्तमी। ‘चर्मणि द्वीपिनम्’ इतिवत्। अस्मदर्थमित्यर्थः।धुक्ष्व। कम्। सामर्थ्यान्मेघम्। द्विकर्मको हि दुहिः। कीदृशं मेघम्। मधुश्चुतम्। श्चुतिः क्षरणे। मधुस्वादस्योदकस्य क्षरितारम् ऊर्मिम्। कीदृशम्। घृतमिव। याज्ञे कर्मणि सुपूतं पवित्रं निर्मलं चेत्यभिप्रायः। किञ्च य एते त्वदनुचरा माध्यमिका देवगणा मरुदादयः ते च त्वदनुग्रहात् ॠतस्योदकस्यअपां पतयः पालयितारः नः अस्मान् मृलयन्तु। अस्मभ्यं सुखं ददत्वित्यर्थः॥
मधु॑मती॒रोष॑धी॒र्घाव॒आपो॒मधु॑मन्नोभवत्व॒न्तरि॑क्षम्।
क्षेत्र॑स्य॒पति॒र्मधु॑मान्नोअ॒स्त्वरि॑ष्यन्तो॒अन्वे॑नंचरेम॥
(अष्ट० ३. अध्या० ८. व० ९. ऋ० ३.)
मधुमतीः। प्रथमार्थे द्वितीयैषा। मधुमत्यः मधुरसाः मधुस्वादूपेताइत्यर्थः। ओषधीः। इयमपि द्वितीया प्रथमार्थे। ओषधयो व्रीह्याद्याः। उत्तरत्र श्रूयमाणो भवतिरिहापक्रष्टव्यः न इति च। भवन्तु अस्माकम्। किञ्च द्यावःएकस्या एव पूजनार्थं बहुवचनम्। द्यौः। बहुवचनसामर्थ्याद्वा द्युव्यक्तिबहुत्वंप्रतीमः। यथा वसिष्ठेनोक्तं — ‘तिस्रो द्यावो निहिता अन्तरस्मिन्नि’ति।मधुमत्यो भवन्त्वस्माकमित्यनुषङ्गः। आपः वृष्टिलक्षणाश्चापोऽस्माकं मधुमत्योभवन्तु। मधुमत् नः अस्माकं भवतु अन्तरिक्षम्। किञ्च क्षेत्रस्य पतिर्मधुमान् नः अस्माकम् अस्तु भवतु। वयं च क्षेत्रस्य पतेः प्रसादात् अरिष्यन्तः। ‘रुष रिष हिंसायाम्’। कर्मणि चायं व्यत्ययेन कर्तृप्रत्ययः। अहिंस्यमानाःकेनापीत्यर्थः। एनं क्षेत्रस्य पतिमनुचरेम। व्यत्ययेनायमनुः परेरर्थे। स्तुतिः भिर्हविर्भिश्चैनं परिचरेमेत्याशास्मह इत्यर्थः। अस्यैव प्राधान्यं वेदितव्यम्। ओषध्यादयस्तु निपातभाजः। तथा च भगवता यास्केनोक्तं — ‘तिस्रःक्षेत्रपत्याः’ इति। अतः क्षेत्रस्थ पतेः प्रसादादिति वाक्यशेषेण भवितव्यम्॥
शु॒नंवा॒हाःशुनंनरःशुनंकृषतु॒लाङ्गलम्।
शु॒नंव॑रत्राब॑ध्यन्ता॑शु॒नमष्ट्रामुदिङ्गय॥
(अष्ट० ३. अध्या० ८. व० ९. ॠ० ४.)
शुनं वाहाः। अनिरुक्तेयं प्रत्यक्षकृता च। उदिङ्गयेति मध्यमपुरुषयोगात्। शुनमिति सुखनाम। क्रियाविशेषणं चैतत्। वाहाः बलीवर्दाः। अत्र यथासामर्थ्य क्रियापदमध्याहार्यम्। सामर्थ्थादेव युगशब्दश्च द्वितीयान्तोऽध्याहार्यः।सुखं युगं वहन्तु वाहाः। शुनं सुखं नरः मनुष्याः कर्षकाः। कर्षन्त्विति शेषः।शुनं कृषतु विलिखतु। भूमिमिति शेषः। लाङ्गलं हलम्। शुनं सुखं वरत्राःचर्ममय्यो रज्जवः बध्यन्तां युगादिभिः सह नद्धा भवन्त्वित्यर्थः। शुनं सुखम्अष्ट्राम्। अष्ट्राशब्देनारावचनेनात्र तीक्ष्णलाङ्गलाग्रमुच्यते। हे शुन। उदिङ्गय। इङ्गिर्गत्यर्थः। उदित्येषोऽवेत्येतस्य स्थाने। अवेङ्गय भूमेरधः प्रवेशयेत्यर्थः। अपरेऽत्र श्रूयमाणं शुनपदं देवतापदं मन्यन्ते। तस्मिन् पक्षे विभक्तिव्यत्ययेन भाव्यम्। एवं च योजना — शुनो वाहान् वाहयतु। शुनो नॄन् कर्षयतु।शुनो लाङ्गलं विलेखयतु। शुनो वरत्राःबध्नातु बन्धयतु वा। अथवा शुनेनवरत्रा बध्यन्तामिति। शुनोऽष्ट्रामुदिङ्गयतु॥
शु॒ना॑सरिवि॒मांवाचं॑जुषेथांहि॒यद्दिविच॒क्रथुः॒पयः॑।
तेने॒मामुप॑सिञ्चतम्॥
(अष्ट० ३. अध्या० ८. व० ९. ॠ० ५.)
शुनासीरौ। हे शुनासीरौ ! वाय्वादित्यौ !। इमां मयोच्चार्यमाणां स्तुतिलक्षणां वाचं जुषेथां सेवेथां शृणुतमित्यर्थः। जुषित्वा च यत् एयः। उदकनामैतत्। वृष्टिलक्षणमुदकम्। दिवि। द्युग्रहणमन्तरिक्षस्योपलक्षणार्थम्। दिव्यन्तरिक्षे च। चक्रथुः कृतवन्तौ स्थः। स्वमण्डले मेघोदरेषु विस्तारितवन्तावित्यर्थः। तेन पयसा इमां पृथिवीमुपसिञ्चतम् उपगम्य सिञ्चतम्। महत्यावृष्ट्या पृथिवीं क्लेदयतमित्यर्थः॥
अ॒र्वाची॑सुभगेभव॒सीते॒वन्दा॑महेत्वा।
यथा॑नःसुभगास॑सि॒यथा॑नःसु॒फलास॑सि॥
(अष्ट० ३. अध्या० ८. व० ९. ॠ० ६.)
अर्वाचीसुभगे। हे सीते !। सीताशब्दो लाङ्गलपर्यायः। तस्याः सम्बोधनम्। अर्वाची अस्मदभिमुखी भव। सुभगे। सुघने ! शोभनस्य धनस्यहेतुभूते इत्यर्थः। वयं च वन्दामहे। वदिरत्र स्तुत्यर्थः। त्वा त्वाम्। कथंस्तूयत इति। उच्यते। यथा येन प्रकारेण स्तुता सती नः अस्माकं सुभगाशोभनस्य भगस्य प्रीह्यादेर्धनस्य प्रापिका। अससि भवसि। यथा नः अस्माकंसुफला। फलशब्देनात्र धनजन्यं सुखमभिप्रेयते। धनप्राप्तिद्वारेण कल्याणसुखजननीत्यर्थः। अससि भवसितथा बन्दामहे इति सम्बन्धः॥
इन्द्रः॒सीतां॒निगृ॑ह्णातु॒तांपू॒षानु॑यच्छतु।
सानः॒पय॑स्वतीदुहा॒मुत्त॑रां॒समा॑म्॥
(अष्ट० ३. अध्या० ८. व० ९. ॠ ५.)
इन्द्रः सीताम्। इन्द्रः सीतांलाङ्गलं निगृह्णातु न्यग् गृह्णातु भूमेरघःप्रवेशयत्वित्यर्थः। तां सीतां पूषा आदित्यः देवतान्तरं वा अनुयच्छतु।अन्वित्येष उदित्येतस्य स्थाने। कृषिव्यापारे उद्यच्छतु व्यापारयत्वित्यर्थः॥सा च सीता नः अस्माकम्। पयस्वती। पयःशब्देन अत्र कृषिजन्यं व्रीहियवाद्यन्नमभिप्रेतम्। तद्वती। व्रीहियवाद्यन्नस्योत्पादिकेत्यर्थः। दुहां दुग्धां पूरयतु। केन। सामर्थ्याद् व्रीहियवाद्यन्नाद्येन। किं सकृदेव। न। किं तर्हि। उत्तरामुत्तरांसमाम्। समाशब्दः संवत्सरपर्यायः। ‘कालाध्वनोरत्यन्तसंयोगे —’(२-३.५)इति द्वितीया। उत्तरस्मिन्न्तुत्तरस्मिन् संवत्सरे। यावज्जीवंसातत्येनेश्यर्थः। अथवा पयस्वतीशब्दो धेनुवचनो लुप्तोपमश्च। यथा पयस्वती दध्याज्यादिभिः गोमिनः पूरयति तद्वत्। अस्यामृचिपूर्वस्मिन्नर्धर्चेइन्द्रापूषणौ नैपातिकौ, सीतादेवतात्वस्य शौनकादिभिरुक्तत्वात्॥
शु॒न॑नः॒फालाविकृ॑षन्तु॒भूमि॑शु॒नंकी॒नाशा॑अ॒भिय॑न्तु॒वा॒हैः।
शु॒नंप॒र्जन्यो॒॑मधु॑ना॒पयो॑भिः॒शुना॑सीरा शु॒नाम॒स्मासु॑धत्तम्॥
(अष्ट० ३. अध्या० ८. व० ९. ॠ० ८.)
शुनं नः। शुनं सुखम्। नः। तदर्थ्यचतुर्थ्यन्तमेतद्। अस्मदर्थम्।फालाः। फालाशब्दो लाङ्गलाग्रवचनः। लाङ्गलाग्राणि। विकृषन्तु। विशब्दोवैविध्ये। कृषिर्विलेखार्थः। विविधं नानाप्रकारं लिखन्तु। भूमिम् अस्मत्क्षेत्रलक्षणाम्। शुनं सुखं कीनाशाः कर्षकाः अभियन्तु आभिमुख्येन गच्छन्तु। इतस्ततः परिभ्रमन्त्वित्यर्थः। वाहैःसहयोगलक्षणैषातृतीया। बलीवर्दैः सह।बलीवदीन् युगधूर्षु नियुज्येत्यर्थः। शुनं सुखं पर्जन्यो देवः। मधुना पयोभिः।उभे अप्येते उदकनामनी। पौनरुक्त्यपरिहारार्थ विशेषणविशेष्यत्वम्।पयोभिरिति बहुवचन्मेकवचनस्य स्थाने द्रष्टव्यम्। मधुनेत्यनेन सामानाधिकरण्यात्। मधुना पयसा मध्वास्वादेनोदकेन वृष्टिलक्षणेन। साकाङ्क्षत्वादस्मान्तर्पयत्विति शेषः। उत्तरः पादः प्रत्यक्षकृतः, धत्तमिति मध्यमपुरुषयोगात्।शुनासीरा शुनासीरौ। ‘सुपां सुलुक् —’ (७-१-३९) इत्यादिनामन्त्रितप्रथमाद्विवचनस्यायमाकरः। हे शुनासीरौ !। वाय्वादित्यौ। कुत एतत्। यास्कवचनात्। ‘शुनासीरौ शुनो वायुः सीर आदित्योऽन्तरिक्षे सरणादि’ति।शुनं सुखं अस्मासु धत्तम्। दवातिर्धारणार्थः। धारयतमस्मासु। अस्यामृचिशुनासीरावेव प्रधानाविति केचित्। तस्मिन् पक्षे फालादयो निपातभाजः।अपरे फालादीनां सर्वेषां देवतात्वं वदन्ति॥
गाः प्रतिष्ठमाना अनुमन्त्रयेत ‘मयोभूर्वातो अभिवातूस्रा’ इति द्वाभ्याम्।
म॒यो॒भूर्वातो॑भ॒भिवा॑तू॒स्राऊर्ज॑स्वती॒रोष॑धी॒रारिश॑न्ताम्।पीब॑स्वतीर्जी॒वध॑न्याःपिबन्त्वव॒साय॑प॒दू॑तेरुद्रमूल।
(अष्ट० ८. अध्या० ८. व० २७. ऋ० १.)
श्वभरः काक्षीवतः ॠषिः। त्रिष्टुभौ। गावो देवता। मयोभूः। सुखस्य भावयिता। वातः वायुः उस्रा अभिवातु। उस्रेति गोनाम। अभिः प्रतिना समानार्थः। अस्मदीया गाः प्रतिगच्छतु सुखयत्वित्यर्थः। ता अपि वातेन सुख्यमानाः ऊर्जस्वतीः रसवतीः ओषधीः व्रीह्याद्याः आरिशन्ताम्। रिशतिर्हिसार्थः। आङर्वागर्थे अर्वागाकृष्य दन्तैर्हिसन्तु। भक्षयन्त्वित्यर्थः। किञ्च पीवस्वतीः। पीवा बलं तद्वतीः बलसम्पादिकाः। जीवधन्याः।धिनोतिः प्रीणनार्थः। जीवानां प्रीणयित्रीः। कास्ताः। सामर्थ्याद् अपः। पिबन्तु।हे रुद्र ! अवसाय पद्वते। अवसमिति पथ्यादनमुच्यते। गावश्च पथ्यादनमुच्यन्ते तत्प्रभवस्य पयसोऽद्यमानत्वात्। पथ्यादनाय पद्वते पादवते गोलक्षणाय मूल मृडय सुखय सुखो भव। अवसाय पदूत इति द्वितीयार्थे वा चतुर्थी। अवसं पद्वत् सुखयेति। अस्यामृचि पद्वत्या देवतात्वं वेदितव्यं, न रुद्रस्य। कुत एतत्। यास्कवचनात् — ‘अथात्र प्रत्यक्षकृता हि स्तोतारो भवन्ति परोक्षकृतानि स्तोतव्यानि’ इति। ‘माचिदन्यद् विशंसत’, ‘कण्वम् अभिप्रगायते’ति। यथा अनयोर्मन्त्रयोः प्रत्यक्षभूतानामपि सखीनां कण्वानां चादेवतात्वम्, इन्द्रस्य मरुतां परोक्षभूतानामेव देवतात्वम्, एवमत्रापि प्रत्यक्षकृतस्य रुद्रस्यादेवतात्वं परोक्षभूतानां गवमेव देवतात्वमवगन्तव्यम्। अयं न्यायः सर्वत्रैवम्प्रकारेषु मन्त्रेषु द्रष्टव्यः॥
याःसरू॑पा॒विरू॑पा॒एक॑रूपा॒यासा॑म॒ग्निरिष्ट्या॒नामा॑नि॒वेद॑।
याअङ्गि॑रस॒स्तप॑से॒हच॒क्रुस्ताभ्यः॑ पर्जन्य॒म हि॒शर्मयच्छ॥
(अष्ट० ८. अध्या० ८. व० २७. ऋ० २.)
याः सरूपाः। या गावःसरूपाः समानरूपाः।जातेरैक्यात् संमानरूपत्वम्। विरूपाः विविधरूपाः। शौक्ल्यादिवर्णनानात्वाद् विविधरूपत्वम्। एकरूपाः। वाहनदोहनादिफलस्यैकरूपत्वादैकरूप्यम्। यासां च गवां नामानि भव्ये इके काम्ये चन्द्रे इत्येवमादीनि इष्ट्या इष्ट्यानि इष्टौ भवानि यज्ञसम्बन्धीनि कर्माङ्गभूतानीत्यर्थः। अग्निर्वेद।या गाः अङ्गिरसो ऋषयः तपसा महता चक्रुः सृष्टवन्तः। (इह) यज्ञे वा कमीङ्गभावाय चक्रुः कृतवन्तः। ताभ्यो गोभ्यः हे पर्जन्य।महि महत् शर्म सुखं यच्छ देहि। वृष्ट्यायवसोदकं कुर्वन्॥
गव्यूतेरायतीर्गाअनुमन्त्रयेत— ‘यासामूधश्चतुर्विलमि’त्यनया।
यासामृधश्चतुर्बिलं मधोः पूर्ण घृतस्य च।
ता नः सन्तु पयस्वतीर्बह्वीर्गोष्ठे घृताच्यः॥
वामदेवार्षानुष्टुप् गोदेवत्या। यासांगवामूधःपयःस्थानं चतुर्बिलं चतुस्तनम्। मधोः मधुरसस्य क्षीरस्य पूर्णं घृतस्य च पूर्णं ता गावः पयस्वतीः। भूम्निचायं मतुप्। पयस्वत्यः बहुक्षीरा इत्यर्थः। बहीर्वह्यश्च घृताच्यः। घृतमाज्यम्। ‘अन्चु गतिपूजनयोः’। घृतेन स्वकीयेन पूज्याः बहुघृताश्चेत्यर्थः। नः गोष्ठे गोशालायां सन्तु भवन्तु। अस्माकं गोष्ठमित्थंभूतानां गवां परिपूर्णं सदाभवेदित्यर्थः॥
‘या देवेषु तन्वमैरयन्ते’ति च सूक्तशेषम्। आयतीनामनुमन्त्रणे प्रयुञ्जीतेति वाक्यशेषः।
यादे॒वेषु॑त॒न्व॑ १ मैर॑यन्त॒यासां॒सोमो॒विश्वा॑रू॒पाणि॒वेद॑।
ताअ॒स्मभ्यं॒पय॑सा॒पिन्व॑मानाःप्र॒जाव॑तीरिन्द्रोगोष्ठेरिरीहि।
(अष्ट० ८. अध्या० ८. व० १७. ॠ० ३.)
श्वभरः काक्षीवतः ऋषिः। त्रिष्टुभौ।गावो देवता।या गावः देवेषु अग्न्यादिषु तन्वं शरीरमात्मीयम् ऐरयन्त।ईरयतिर्गतिकर्मा। ईरयन्ति गमयन्ति। किमुक्तं भवति। या गाव आत्मीयां तनुं हृदयाद्यवदानरूपेण हविष्ट्वमापादयन्ति। अग्न्यादिदेवानां सवनीयादिषु पशुष्वङ्गभावं प्रतिपद्यन्ते इत्यर्थः। अथवा पयोदधिघृतादिरूपेण देवानां प्रीतिं कुर्वन्तीत्यर्थः। यासां गवां सोमः विश्वा विश्वानि सर्वाणि रूपाणि आकारान् वेद जानाति।कुत एतत्। ‘सोम ओषधीनामधिपतिरि’ति मन्त्रवर्णात् ‘ओषध्यात्मा पशुरि’ति श्रुतिलिङ्गाच्च। ता गावः पयसा क्षीरेण (पिन्वमानाः) बहुक्षीर त्वात् भूमिंसिञ्चतीः प्रजावतीःजीवदपत्याः हे इन्द्र ! गोष्ठे। स्थिता इति शेषः। अस्मभ्यं रिरीहि। (री) याञ्चाकर्मा।याच्ज्ञयाचात्र तत्पूर्वकं दानं लक्ष्यते अस्मभ्यमिति सम्प्रदानचतुर्थीश्रुतेः। देहीत्यर्थः॥
प्र॒जाप॑तिर्मह्य॑मे॒ताररा॑णो॒विश्वै॑र्दे॒वैःपि॒तृभिः॑संविदा॒नः।
शि॒वाःस॒तीरुप॑नोगो॒ष्ठमा क॒स्तासीव॒यंप्र॒जया॒संस॑देम॥
(अष्ट० ८. अध्या० ८. व० २७. ऋ०४.)
प्रजापतिः प्रजानां पाता हिरण्यगर्भः मह्यमेता गा रराणः ददत्। विश्वैर्देवैःपितृभिश्च सह संविदानः।सम्प्रतिपद्यमान इत्यर्थः। प्रजापतेर्गवां दानं सर्वे देवाः पितरश्चानुमन्यन्तामित्यभिप्रायः। किंविशिष्टाः। शिवाः सतीः प्रभूतक्षीरादिदानेन सुखा भवन्तीः नः गोष्ठं गोशालाम्। उप आ अकः। उपशब्दः समीपवचनः। गोष्ठसमीपे गोष्ठ इत्यर्थः। आ अकः आकृष्य करोतु। प्रतिष्ठापयत्विस्पर्थः। तासां तासां च प्रजापतिदत्तानां गोष्ठे प्रतिष्ठापितानां गवां प्रजया पुत्रपौत्रादिलक्षणया वयं संसदेम सङ्गच्छेम संयुज्येमहीत्यर्थः॥
‘आगावीयमे’के। एके आचार्या गव्यूतेरायतीनां गवामनुमन्त्रणे साधनं मन्यन्ते।
आगावोअग्मन्नु॒तभद्रम॑क्रन्त्सीद॑न्तु॒गोष्ठेर॒णय॑न्त्व॒स्मे।
प्र॒जाव॑तीः पुरु॒रूपाइ॒हस्यु॒रिन्द्रा॑यपूर्वीरु॒षसो॒दुहा॑नाः॥
(अष्ट० ४. अध्या० ६. व० १५. ऋ० १.)
आगावइत्येतत् सूक्तमष्टर्चं गोदेवत्यं भरद्वाजो बार्हस्पत्यो ददर्श। प्रथमा त्रिष्टुप्। द्वितीयाद्यास्तिस्रो जगत्यः। पञ्चम्याद्यास्तिस्रस्त्रिष्टुभः। अष्टम्यनुष्टुप्। आ गावः। आ इत्यस्य अग्मन्नित्याख्यातेन सम्बन्धः। गावः आग्मन्। लकारव्यत्ययः। आगच्छन्तु। गोष्ठं प्रतीति वाक्यशेषः। उत अपि भद्रं कल्याणं शोभनं गोष्ठमक्रन् कुर्वन्तु।सीदन्तु उपविशन्तु। गोष्ठे उपविश्य च रणयन्तु शब्दयन्तु रमयन्तु वा गोष्ठे अस्मे अस्माकम्। किञ्चप्रजावतीः प्रजावत्यः बहुपत्या इत्यर्थः। पुरुरूपाः बहुरूपाश्च इहास्मद् गृहे स्युर्भवेयुः। इन्द्राय इन्द्रार्थं पूर्व– रुषसः। सप्तम्यर्थे द्वितीया। पूर्वासूषस्सु। एकस्यामेव पूजार्थे बहुवचनम्। प्रथमायामुषसि उदयवेलायामित्यर्थः। दुहानाः। व्यत्ययेनायं कर्मणि कर्तृप्रत्ययः। दुह्यमानाः। इन्द्र शब्दश्चात्र परमैश्वर्ययोगात् प्रातरग्निहोत्रदेवतां सूर्यमाह, नेन्द्रं, तदर्थस्य दोहनस्योषा उदयवेलायामसम्भवात्। इन्द्रार्थो हि सान्नाय्यदोहः। स चान्यस्मिन् काले, नोषा उदयवेलायाम्॥
इन्द्रो॒यज्व॑नेपृण॒तेच॑शिक्ष॒त्यु॒पेद्द॑दाति॒नस्वंमु॑षायति।
भूयोभू॑योर॒यिमिद॑स्यव॒र्धय॒न्नभि॑न्नेखि॒ल्येनद॑धातिदेव॒युम्॥
(अष्ट० ४. अध्या० ६. व० २५. ॠ० २.)
इन्द्रोयज्वने। इन्द्रः यज्वने यष्ट्रे पृणते ददते च। शिक्षतिर्दानकर्मा। लोडर्थे लट्। शिक्षतु ददात्वित्यर्थः। किम्।सामर्थ्याद् गाः। न च क्लेशयन्। किं तर्हि। उपेद् ददाति ! इत् पादपूरणः। उपेत्युपसर्गश्रुतर्योग्यक्रियापदाध्याहारः। लट् च लोडर्थे। उपगम्य ददात्वित्यर्थः। न च स्वमात्मानं मुषायति मोषयति मोषयतु। यष्टुर्दातुश्च यावदभिलषितं ददात्वित्यर्थः। अथवा स्वं धनं न मुषायति यष्टुर्दातुश्च धनं नापहरतीत्यर्थः। किं कुर्वन्। भूयो भूयः पुनः पुनश्च रयिं गोलक्षणं धनम्। इदिति पादपूरणः। अस्य यष्टुर्दातुश्च वर्धयन् शिक्षतीति सम्बन्धः। किञ्च शरीरपातोत्तरकालं देवयुं देवकामं यष्टारं दातारं च अभिन्नेअविदारिते अनिभृते अन्येनाभुक्तपूर्व इत्यर्थः। खिल्ये। खिल एव खिल्यः स्वार्थिकस्तद्धितः। खिले। खिलशब्दः स्वर्गवचनः। कथं कृत्वा। कमिति सुखनाम।तद्वन्तः किनः सुखिनः लीयन्तेऽस्मिन्निति किलः सन् ककारस्य खकारापत्त्या खिलो भवति। तस्मिन् खिले। सुखिभिः स्वर्गिभिः लीने स्वर्गप्रदेश इत्यर्थः। निदधाति निदधातु स्थापयतु। अस्यामृचि यद्यपि गोशब्दो न पठितः, तथापि यज्वने पृणते च शिक्षतीत्यत्र देयविशेषस्याश्रणात् प्रकरणसामर्थ्याद् गा एव देयाः स्युः। एवं चेत् तासामेव प्राधान्यमवगन्तव्यं, नेन्द्रस्य।कुत एतत्। कृत्स्नस्य सूक्तस्य गवामनुमन्त्रणे विनियोगात्॥
नतान॑शन्ति॒नद॑भाति॒तस्क॑रो॒नासा॑मामि॒त्रोव्यश्रि॒राद॑धर्षति।दे॒वाँश्च॒याभि॒र्यज॑ते॒ददा॑तिच॒ज्योगित्ताभिःसचते॒गोप॑तिःसह॒॥
(अष्ट० ४. अध्या० ६. व० २५, ॠ० ३.)
न ता नशन्ति। ता गावः न नशन्ति। छान्दसो विकरणाभावः। न नश्यन्तीत्यर्थः। न दभाति हिनस्ति हरतीत्यर्थः। तस्करः। नापि आसांगवामामित्रः। अमित्राः शत्रवः। तत्सम्बन्धी आमित्रः। अमित्रप्रभव इत्यर्थः।व्यथिः। क्रोधनामैतत्। क्रोधः। आदधर्षति धर्षणं करोति। शत्रवोऽप्याभ्योन क्रुध्यन्तीत्यर्थः। किञ्च देवांश्च याभिर्गोभिर्यजते, ददाति च या ब्राह्मणेभ्यः, ताभिर्गोभिः ज्योक् चिरात् सम्वते। व्यत्ययेनायं कर्मणि शप्। सच्यतेसेव्यते गोपतिः गोस्वामी सन् सह सहभूत एव अपृथक्कृत एवेत्यर्थः।अथवा सचत इति कर्तर्येव शप्। ताभिः सह चिरं कालं सेवते। किम्।सामर्थ्याद् देवान्। चिरं कालं देवान् यजत इत्यर्थः॥
नताअर्वारे॒णुक॑काटोअश्नुते॒नसं॑स्कृत॒त्रमुप॑यन्ति॒ताअ॒भि।
उ॒रु॒गा॒यमभ॑यंतस्य॒ताअनु॒गावो॒मर्त॑स्य॒विच॑रन्ति॒यज्व॑नः॥
(अष्ट० ४.अध्या० ६. व० २५. ॠ० ४.)
न ता अर्वा। ता गावः। अर्वा। अर्तेर्गत्यर्थस्येदंरूपम्। नाश्वः। गन्ता शीघ्रगतिरित्यर्थः। रेणुककाटः। कोऽयं रेणुककाटः। मरुभूमिप्रदेशेगोखादः सर्पजातिविशेषः कोऽपि। स नाश्नुते न व्याप्नोति न खादतीत्यर्थः।अथवा अर्वाञ्चो रेणवः पांसव एव ककाटः : ‘कटे आवरणे’ इत्यस्य यँङ्लुगन्तस्य रूपम्। शत्रूणां योऽश्वःदूरागतत्वात् पांसुभिरपावृतः आच्छादितःस रेणुककाटः। स नाप्नोति। शत्रवोऽपि दूरादश्वैरागत्य नापघ्नन्तीत्यर्थः।नापि संस्कृतत्रम्। संस्कृत्य गोमांसं भक्षयन् तेनात्मानं त्रायते संस्कृतत्रः तम्।उपयन्ति उपगच्छन्ति ता गावः अभि आभिमुख्येन। गोमांसखादिनापि नखाद्यन्ते इत्यर्थः। किञ्च उरुगायं बहुगतिं नानाप्रकारमित्यर्थः। अभयं तस्यमर्तस्य मनुष्यस्य यज्वनः यष्टुः स्वभूताः ता गावः अनुविचरन्ति आनुपूर्व्येणविविधं गच्छन्ति प्राप्नुवन्तीत्यर्थः॥
गावो॒भगो॒गाव॒इन्द्रो॑मेअच्छा॒न्गावः॒सोम॑स्य॒प्रथ॒मस्य॑भ॒क्षः।इ॒मायागावः॒सज॑नास॒इन्द्र॑इ॒च्छामीद्धृ॒दामन॑साचि॒दिन्द्र॑म्॥
(अष्ट० ४, अध्या० ६. व० २५. ॠ० ५.)
गावो भगः। गावः भगः। कः। धनम्। किमन्यैर्धनैरित्यभिप्रायः।गावः। द्वितीयार्थे प्रथमैषा। गाः। इन्द्रः मे मम स्वभूताः। अच्छान्।अच्छ इत्यस्य कान्तिकर्मण एतद् रूपम्। कामयतां सान्नाय्यार्थमित्यर्थः।गावः सोमस्य प्रथमस्य सर्वत उत्कृष्टस्य भक्षः। भक्ष्यतेऽनेनेति भक्षः भक्षसाधनमन्नम्। पयआदि (क्लिष्टा? निष्पा) दनद्वारेण भक्षसाधनभूता इत्यर्थः। इमा या गावः सः इन्द्रः इमा या गावः ता एवेन्द्र इत्यर्थः। हे जनासः ! मनुष्याः !। गवां प्रत्यासत्तिरिन्द्रं प्रत्येतेन आख्यायते। यथा लोके यो देवदत्तःस एव राजेति। एवं चेद् योऽहं गा इच्छामि सः। इदिति पादपूरणः। हृदामनसा। चित्। चिच्छब्दोऽत्र चार्थे। हृदयेन मनसा च इन्द्रं प्रार्थये इति।चिरन्तनों मनोरथो हृदयमुच्यते। इदानीन्तनो मनः। तेनानयोर्न पौनरुक्त्यम्। हृदा मनसा इति हेतौ तृतीया। प्रयोजनस्य च हेतुत्वेन विवक्षा।चिरन्तनस्य मनोरथस्याधुनतनस्य च प्राप्त्यर्थमिन्द्रमिच्छामि प्रार्थय इति।अथवा मनःशब्दो मन इत्यस्य क्रियाशब्दो हृदयस्यैव विशेषणम्। मन्त्रज्ञात्रा हृदयेनेति। अस्मिन् पक्षे करण एवं तृतीया। चिच्छब्दस्तु पादपूरणः॥
यू॒यंगा॑वोमेदयथाकृ॒शंचि॑दश्र॒रिञ्चि॑त्कृणुथासु॒प्रतकि॑म्।
भ॒द्रंगृ॒हंकृ॑णुथभद्रवाचोबृ॒हद्वो॒वय॑उच्यतेस॒भासु॑॥
(अष्ट० ४. अध्या० ६. व० २५. ऋ० ६.)
यूयं गावः। हे गावः ! यूयं मेदयथ मेदस्विनं बलवन्तं कुरुत। कृशंचित् कृशमपि दुर्बलमपीत्यर्थः। अश्रीरं चित्। रो मत्वर्थे। अश्रीमन्तमपिविरूपमपीत्यर्थः। कृणुथ कुरुथ सुप्रतीकं सुदर्शनं सुरूपमित्यर्थः। किञ्चभद्रं कल्याणं गृहं वेश्म कृणुथ। हे भद्रवाचः ! कल्याणशब्दाः ! गावः ! बृहत् महच्च सारतः, वः युष्माकं स्वभूतं वयः अन्नं क्षरिदध्यादिलक्षणम्उच्यते कीर्त्यते सभासु जनसंसत्सु॥
प्र॒जाव॑तीःसू॒यव॑संरि॒शन्तीः॑शु॒द्धाअ॒पःसु॑प्रपा॒णेपिब॑न्तीः।मावः॑स्ते॒न॑ईशत॒माघ॑शंसः॒प॑रिवोहे॒तीरु॒द्रस्य॑वृज्याः॥
(अष्ट० ४. अध्या० ६. व० २५. ॠ० ७.)
प्रजावतीः। प्रजावतीरित्याद्याद्वितीयाः षष्ठ्यर्थे वेदितव्याः। प्रजातीनामविच्छिन्नप्रजासन्तानानां सुयवसं शोभनं यवसं तृणादिभक्षम्। रिशन्तीःरिशन्तीनां हिंसन्तीनामास्वादयन्तीनामिस्यर्थः। शुद्धाः अकल्मषाः अपःउदकानि। सुप्रपाणे। सुखं प्रीयते यत्र तत् सुप्रपाणं, तत्र तीर्थे। पिबन्तीःपिबन्तीनाम्। वः युष्माकं स्तेनः चोरो मा ईशत मा ईशिष्ट मा स्वामितांगच्छन्तु। मा च अघशंसः अभं पापं मरणादि तस्य शंसिता प्रार्थयिता।ईशतेत्यनुवर्तितव्यम्। किम्च वः युष्माकं हेतिरायुधं हिंसा वा तत्कार्यारुद्रस्य स्वभूता परिवृज्याः। व्यत्यमेन मध्यमः प्रथमस्य स्थाने। परिव्रज्यात् परिवर्जयेत्। रुद्रोऽपि युष्मान् मा हिंसीदित्यर्थः॥
उपे॒दमु॑प॒पर्च॑नमा॒सुगोषूप॑पृच्यताम्।
उप॑ॠष॒भस्प॒रेत॒स्यु॒पे॑न्द्र॒तव॑वी॒र्ये॑॥
(अष्ट० ४. अध्या० ६. व० २५. ॠ०८.)
उपेदम्। उपशब्दोऽत्र समित्यस्य स्थाने। इदमुपपर्चनम्। खलतुषककंटकादीनि सम्पृच्यन्ते अस्मिन् तदुपपर्चनं गोभक्तम्। आसु गोषु। तृतीयार्थेसप्तमीयम्। आभिर्गोभिः। उपपृच्यताम्। उपेत्येतत् समित्यस्य स्थाने। उपसर्गाभ्यासादाख्यातस्याभ्यासः। अभ्यासाच्चार्थभूयस्त्वम्। सम्पृच्यतां भक्षितंसद् रसादिभावेन सम्यक् परिणम्य शरीरेष्वासां व्यवतिष्ठतामित्यर्थः। न चकेवलाभिर्गोभिः। किं तर्हि। उप ॠषभस्य। तृतीयार्थेऽत्र षष्ठी। ॠषभेणापि सम्पृच्यताम्। किमर्थमुच्यते। रेतसि। निमित्त एषा सप्तमी। फलभूतस्य रेतसो निमित्तत्वम्। रेतसि निमित्ते, रेतोनिर्वृत्त्यर्थमित्यर्थः। अथवाउपपर्चनं क्षीरादिरुच्यते। आसु गोषु यत् क्षीरादि तत् सम्पृच्यताम्। केनसह। सामर्थ्यादस्माभिः। क्षीरं प्रभूतं गोपा अस्मदर्थं क्षरन्त्विस्यर्थः। उप ऋषभस्य्रेतसि। प्रथमार्थे सप्तमीयम्। ॠषभस्य यद्रेतः तच्चसम्पृच्यताम्।केनसह। सामर्थ्याद् गोभिः। गर्भिण्यो भवन्तु च गाव इत्यर्थः। हे इन्हें तवतृतीयार्थ एषा षष्ठी। त्वया सम्पृच्यताम्। किं तत्। सामर्थ्याद् आसां गवांपयः। श्रपणादिसाधनभावापत्त्या आसां पयः सोमेन सह त्वदुदरं प्रविशेदित्यर्थः। किमर्थम्। वीर्ये। वीर्यार्थमित्यर्थः॥
गणानासामुपतिष्ठेत ‘भूताः स्थे’ति।
भूताः स्थ प्रशस्ताः स्थ शोभनाः प्रियाः प्रियो भूयासं शंमयिजानीध्वं शं मयि जानीध्वम्॥
वामदेवार्षा उष्णिग्वा यजुर्वा। गावोऽभिधेयाः। हे गावः ! भूताः। प्रशब्दलोपो द्रष्टव्यः। प्रभूता बह्वचःइत्यर्थः। स्थ लोडर्थे लट्। स्थ भवतेत्यर्थः।प्रशस्ताः प्रशंसनीयाश्च बहुक्षीरत्यादिगुणेन। स्थ भवत। शोभनाः कल्याण्यः प्रिया इष्टाः सर्वस्यगृहजनस्य। भ148वतेत्यनुषङ्गः। अहमपि वो युष्माकंप्रिय इष्टः। घासपानीयप्रदानादिना तर्पयन्नित्यर्थः। भूयासं भवेयमित्याशासे। यत एवम्, अतो यूयमपि मयि शं सुखं जानीध्वम्। जानातिरत्रशुद्धोऽपि अनुपूर्वो द्रष्टव्यः। अनुजानीत। पयोदधिघृतादिप्रदानद्वारेण मह्यंसुखं प्रयच्छतेत्यर्थः॥
इति गृह्यमन्त्रव्याख्यायां द्वितीयोऽध्यायः ॥
__________________
अथ तृतीयोऽध्यायः।
ब्रह्मयज्ञे प्रणवव्याहृतिसावित्र्यो गताः।परिधानीया—
नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यो नमो वाचे नमो वाचस्पतये नमो विष्णवे महते करोमि।
इति। नमो ब्रह्मणे। ब्रह्मा चतुर्मुखो ब्रह्म वा परमात्मा। अग्न्यादयःप्रसिद्धाः। ओषधीष्वधिष्ठात्र्योदेवताः। विष्णवे महते। बृहते आकारप्रभावाभ्याम्॥
तर्पणमन्त्रा निगदसिद्धाः। ‘भूतान्येवमन्तानी ‘त्ययं मन्त्रो न भवतीतिगृह्यव्याख्याने वयमवोचाम। ‘गार्गी वाचक्रवी’त्येको मन्त्रः॥
अथ प्राचीनावीती पितृतीर्थेन सुमन्तुजैमिनिवैशम्पायनपैलसूत्रभाष्यभारतमहाभारतधर्माचार्यास्तृप्यन्तु। जानन्तिबाहविर्गार्ग्यगौतमशाकल्यबाभ्रव्यमाण्डूकेयास्तृप्यन्तु। गर्गी वाचक्नवी तृप्यतु।वडवा प्रातिथेयी तृप्यतु। सुलभा मैत्रेयी तृप्यतु॥
गर्गिति गोत्रव्यपदेशः। वाचक्नवीत्यपत्यान्तो व्यपदेशः। बचक्रोरपत्यम्। एवं तावद् वाजसनेयिना-मुपनिषदि पाठः। इह त्वन्यथा पठन्तिगर्गिवाचक्नवीति। वडवाप्रातिथेयीति। प्रतिथिशब्दःशुभ्रादिषु द्रष्टव्यः।सुलभा मैत्रेयीति। मित्रयुशब्दः शुभ्रादिः। गार्ग्यादयो ब्रह्मवादिन्य उपनिषत्सु प्रसिद्धाः॥
उपाकरणे आज्याहुतिषु सावित्र्यादयो नव निगतसिद्धाः। दधिसक्तून् जुहोति ‘अग्निमीले’त्यादिभि-र्मण्डलाद्यन्तर्भूतैर्विशद्भिर्मन्त्रै।
अ॒ग्निमी॑लेपु॒रोहि॑तंय॒ज्ञस्य॑दे॒वमृ॒त्विज॑म्।
होता॑रं॒ रत्न॒धात॑मम्|:
(अष्ट० १. अध्या० १.व० १. ऋ०१.)
अग्निमहमीले। ‘ईड स्तुतौ’। प्रातिशाख्यवशेन लकारः। स्तुवे। पुरोहितंपूर्वस्यां दिश्याहवनीयात्मना निहितम् ! यज्ञस्य देवम्। दिविरैश्वर्यकर्मा। ईश्वरम्।न केवलं देवमेव यज्ञस्म। किन्तर्हि। ऋत्विजम्। कतमम्। होतारम्।‘भग्निर्वै देवानां होता’। तदधिष्ठितो मानुषो होता प्रवर्तते। रस्नधातमम्अविशमेन रत्नादीनां दातारम्॥
कु॒षु॒म्भ॒कस्तद॑ब्रवीद्गि॒रेःप्र॑वर्तमान॒कः।
वृश्चि॑कस्यार॒संवि॒षम॑र॒संवृ॑श्चिकतेवि॒षम्॥
(अष्ट० १. अध्या० ५. व० १६. ॠ १६.)
कुषुम्भकः। अगस्त्यस्य विषदष्टस्यार्षम्। कुषुम्भक इत्यादित्याभिधानंमन्यते। व्युत्पत्तिस्तु ‘कुषुभ क्षेपे’ इति कण्ड्वादिषु पठ्यते। तमांसि कुषुभ्यति क्षिपतीति कुषुम्भकः। यगन्ताद् ण्वुलू। मकारइछान्दसः उपजनः।गिरेरुदमगिरेः प्रवर्तमानकः। स्वार्थे कः। प्रवर्तमानः उद्यन्। एवम्भूतः कुषुम्भकः तदब्रवीत्। किं तत्। वृश्चिकस्य विषकीटस्य विषम् अरसं निर्वीर्यमिति। अतश्च हे वृश्चिक ! ते विषम् अरसं निर्वीर्यमकिञ्चित्करं भवत्विति॥
त्वम॑ग्ने॒द्यु॒भि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑।
त्वंवने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्व॑नृ॒णांनृ॑पतेजायसे॒शुचिः॑॥
(अष्ट० २ अध्या० ५. व० १७. ऋ० १.)
त्वमग्ने ! द्युभिः। गृत्समदस्यार्षम्। हे अन्ने ! त्वं द्युभिरित्थंभूतः।त्वमेवाशुशुक्षणिः आशुशुचा दीप्त्या क्षणिता हिंसिता तमसाम्। त्वमेव चाद्भ्योजायसे वैद्युतात्मना। त्वमेवाश्मनस्परि। परिः पञ्चम्यर्थानुवादी। अश्मान्तरेणघृष्यमाणादश्मनोऽपि त्वं जायते। सजातीयोऽपदिश्यते। योऽश्मनोरन्तरग्निःजायमानः स त्वमेव वनेभ्योऽपि जायसे दावरूपेण। त्वमेव चौषधीभ्यः शर वंशादिभ्यो जायसे। एवं त्वं ततस्ततो जायसे। नृणां नृपते !। नृणां पतइत्येतावानेवार्थः। शुचिर्दीप्तः॥
आ॒वदं॒स्त्वंश॑कुनेभ॒द्रमाव॑दतू॒ष्णीमासी॑नःसुम॒तिंचि॑किद्धिनः।
यदु॒त्पत॒न्वद॑सिकर्करिर्यथावृ॒हद्व॑देमवि॒दथे॑सु॒वीराः॑॥
(अष्ट० २. अध्या० ८. व० १२. ॠ० ३.)
आवदंस्त्वम्। गृत्समदेन स्तुत इन्द्रस्तस्मै कामान् दत्त्वा तं पथिगच्छन्तं शकुनिर्भूत्वा न्यषेधत्। पुनरपि तत्स्तुतीःशुश्रूषमाणं तमिन्द्रं गृत्समदो वदति—हे शकुने ! आवदन् आभिमुख्येन वदन् त्वं भद्रं कल्याणमावद। तूष्णीं निश्शब्द आसीनो नोऽस्माकमुपरि सुमतिं शोभनां मतिम्अनुग्रहात्मिकां बुद्धिं चिकिद्धि। ‘कित ज्ञाने’। इह तु ज्ञानपूर्वके करोत्यर्थेद्रष्टव्यः। ज्ञात्वा कुरु। अथवा नः अस्माकं सुमतिं शोभनां स्तुतिं तूष्णीमासीनः चिकिद्धि जानीहि। यद् यस्त्वं वदसिकर्करिर्यथा। कर्करितिशब्दस्य कर्ता कर्कराख्यः पक्षी। स यथा वदति तथा यस्त्वमुत्पतन् वदसि सआवदन् भद्रमावदेति सम्बन्धः। वयं च ते प्रसादाद् विदथे यज्ञे बृहत् महार्थंस्तोत्रं शस्त्रं च सुवीराः सुपुत्रा भूत्वा वदेम वदितुं लभेमहि॥
सोम॑स्यमात॒वसं॒वक्ष्य॑ग्ने॒वह्निं॑चकर्थवि॒दथे॒यज॑ध्यै।दे॒वाँअच्छा॒दीद्य॑यु॒ञ्जेअद्रि॑शमा॒येअ॑ग्नेत॒न्वं॑जुषस्व॥
(अष्ट० २. अध्या० ८. व० १३. ॠ० १.)
सोमस्य मा। वैश्वामित्री। हे अग्ने ! त्वं मा मां सोमस्य सोमयागस्यतवसं वृद्धिं वक्षि वह प्रापय। यथा मे सोमयागवृद्धिर्भवति तथा कुरु।वह्निं हविषां वोढारम् आहवनीयादिकमग्निं चकर्थ। लोडर्थे लिट्। कुरु।देवतारूपोऽग्निः प्रार्थ्यते यस्य व्यष्टयोऽन्येऽमयः। यस्यैवं भवति। ‘वयाइदग्नेऽग्नयस्ते अन्ये’ इति। वयाः शाखाः। विदथे यज्ञे यजध्यै यष्टुं यागनिर्वृत्तये।विदथे वह्निं कुरु। अहं च दीद्यद दीप्यमानो भूत्वा देवान् अच्छ।अच्छेत्यभेरर्थे। देवानभि उद्दिश्य। अद्रिम् अभिषवग्नावाणं युञ्जे। लोडर्थेलट्। युनजै अभिषवे व्यापारयाणि। हे अग्ने! त्वं च शमाये शं सुखम्ईयते प्राप्यते येन तत्र यज्ञे तन्वं त्वदीयां तनुं जुषस्व। अन्तर्भावितण्यर्थः।जोषय अस्माभिर्दत्तैर्हविर्भिः प्रीणय॥
गृ॒णा॒नाज॒मद॑ग्निना॒योना॑वृ॒तस्य॑ सीदतम्।
पा॒तंसोम॑मृतावृधा॥
(अष्ट० ३. अध्या० ४. व० ११. ऋ० १८.)
गृणाना। जमदग्नेरार्षम्। जमदग्निना मया गृणाना।व्यत्ययेनायं कर्मणिकर्तृप्रत्ययः। गीर्यमाणौ स्तूयमानौ युवां हे मित्रावरुणौ !। ॠतस्य योनौ यज्ञस्यस्थाने वेद्याख्ये सीदतमुपविशतम्। उपविश्य च सोमं पातं पिबतं हेॠतावृधा ! ॠतस्य सत्यस्य वृष्ट्युदकस्य यज्ञस्य वा वर्धयितारौ !॥
त्वांह्य॑ग्ने॒सद॒मित्स॑म॒न्यवो॑दे॒वासा॑दे॒वम॑र॒तिंन्ये॑रि॒रइति॒क्रत्वा॑न्येरि॒रे।
अम॑र्त्यंयजत॒मर्त्ये॒ष्वादे॒वमादे॑वंजनत॒प्रचे॑तसं॒विश्व॒मादे॑वंजनत॒प्रचे॑तसम्॥
(अष्ट० ३ अध्या० ४. व० १२. ऋ० १.)
त्वां ह्यग्ने !। वामदेवार्षम्। हे अग्ने ! सदमित् सदैव देवासः देवाः।समन्यवः। मन्युरिति क्रोधनाम। इह तु चित्तविकारत्वसौम्यादभिनिवेशेद्रष्टव्यः।साभिनिवेशाः तात्पर्यवन्तो भूत्वा। देवमरतिम्। ‘ऋ गतौ’। हविगृहीत्वां देवान् प्रति गन्तारं त्वां न्येरिरे निश्चयेनेरितवन्तः प्रवर्तितवन्तः। हिःप्रसिद्धौ। एवमेतत् प्रसिद्धं—‘विश्वेदेवाः शास्तनमायथेहे’त्यादौ। इतिः प्रकारे।उक्तप्रकारेण। ऋत्वा ऋतुना कर्मणा हविर्वहनलक्षणेन न्येरिरे। के। देवाः।एवं क्रत्वेति विशेषणविवक्षायां पुनर्वचनम्। सर्वत्रैवमेव दृश्यते पारुच्छेपे (?)। मनुष्याश्चेति शेषः। देवाश्च मनुष्याश्च त्वापेव हव्यवाहं चक्रिर इति। वीतहव्योऽप्याह—‘त्वां दूतमग्ने! अमृतं युगे युगे हव्यवाहं दधिरे वायुमीड्यंदेवासश्च मर्तासश्चजागृविमि’ति। त्वं च हे यजत ! यष्टव्य ! मर्त्येषु मध्ये देवम्। दीव्यतिरत्र दानकर्मा। हविषां दातारं यजमानम्। अमर्त्यममरणघर्माणम् आदेवं आगतदेवत्वं देवत्वं प्राप्तं च आजनत। ‘जन जनने’।अन्तर्भावितण्यर्थः। लोट्। मध्यमपुरुषैकवचनव्यत्ययः। आजनय अमर्त्यमादेवंचाभिमुख्येन कुरु। प्रचेतसं प्रकृष्टज्ञानं चाजनत। न चैकमेव केवलम्।किन्तर्हि। विश्वमादेवं जनत प्रचेतसम्। विश्वमिति विशेषणविवक्षायां पुनर्वचनम्॥
धाम॑न्ते॒विश्वं॒भुव॑न॒मधि॑श्रि॒तम॒न्तःस॑मु॒द्रेहृ॒द्य १॑न्तरायु॑षि।
अ॒पामनी॑केसमि॒थेयआभृ॑त॒स्तम॑श्याम॒मधु॑मन्त॑तऊर्मिम्॥
(अष्ट० ३. अध्या० ८. व० ११. ॠ० ११.)
धामन्ते। वामदेवार्षम्। अनिरुक्ता सौरी। हे सूर्य ! ते तव धामन्धामनि स्थाने मण्डलाख्ये। विश्वं भुवनम् उदकनामैतत्। उदकम्। अघिःसप्तम्यर्थानुवादी। रश्मिभिराहृत्य स्थापितं श्रितं भवति। तथान्तः समुद्रे।समुद्रमित्यन्तरिक्षनाम। अन्तरिक्षस्य मध्ये रश्मिभिर्मेधेषु विसृष्टं श्रितं भवति।आयुषि। आयवो मनुष्याः। तस्यैव सकार उपजनः। षष्ठ्यर्थे सप्तमी। जातावेकवचनम्। आयूनां मनुष्याणाम्। हृदि हृदयसमीपवर्तिनि उदरेऽन्तः श्रितम्।मेघैर्विसृष्टं मनुष्यैः पानीयादिरूपेणोपयुक्तं तत्र श्रितं भवति। एवमेषोदकस्यगतिस्त्वदायत्ता। वयं च त्वत्प्रसादात् तासामपामनीके समूहे। समिथे। सङ्ग्रामनामैतत्। तत्सदृशे सङ्कुले। य ऊर्मिस्तरङ्ग आभृतः तं मधुमन्तं मधुस्वादुयुक्तं ते उक्तेन प्रकारेण तव स्वभूतम् अश्याम अश्नवामहै प्राप्नुयाम॥
अयो॑ध्य॒ग्निःस॒मिधा॒जना॑नां॒प्रति॑धे॒नृमि॑वाय॒तीमु॒षास॑म्।य॒ह्वाइ॑व॒प्रव॒यामु॒ज्जिहा॑नाः॒ग्नभा॒नवः॑ सिस्नते॒नाक॒मच्छ॑॥
(अष्ट० ३. अध्या० ८. व० १२. ऋ० १.)
अबोध्यग्निः। बुधगविष्ठिरावृषी।अत्रैकवाक्यताप्रसिद्ध्यर्थं यत्तच्छब्दावध्याहार्यौ। योऽग्निरबोधि बोध्यते उद्दीप्यते समिधा पालाश्या आहुतिधारणार्थया। जनानाम्। विभक्तिव्यत्ययः। जनैरग्निहोत्रिभिः। कदा।भायतीमुषासं प्रति उषस्युदितायाम्। धेनुमिव यथा धेनुमायतीं प्रति वत्सोबोध्यते तद्वत्। तस्याग्नेर्भानवो रश्मयः नाकमच्छ स्वर्गं प्रति सिस्रतेप्रसरन्ति। प्रशब्दस्य पादपूरणे द्विर्वचनम्। अत्र दृष्टान्तः — यहा उज्जिहानावयामिव। यह्वा इति महन्नाम। उज्जिहाना इति पक्षिनाम। ‘ओहाङ् गतौ’।उज्जिहते उत्पतन्तीति। वयेति शाखाभिधानम्। यथा वृक्षस्योच्चां शाखांमहान्तः पक्षिणः प्रसरन्ति प्रसर्पन्ति तद्वत्॥
गन्ता॑नोय॒ज्ञंय॑ज्ञियाःसु॒शमि॒श्रोता॒हव॑मर॒क्षए॑व॒याम॑रुत्।
ज्येष्ठो॑सो॒नप॑र्वतासो॒व्यो॑मनियू॒यं॑तस्य॑प्रचेतसः॒स्यात॑दु॒र्धर्त॑वोनि॒दः॥
(अष्ट० ४. अध्या० ४. व० ३४. ऋ० ९.)
गन्ता नः। एवयामरुदृषिः। मारुती। हे यज्ञियाः ! यागार्हा मरुतः।नोऽस्माकं यज्ञं गन्त। केवलोऽपि गमिराङ्पूर्वस्यार्थे द्रष्टव्यः। आगन्त आगच्छत। सुशमि। शमीति कर्मनाम। क्रियाविशेषणमिदम्। शोभनं गतिकर्मयथा भवति तथा आगन्त। आगत्य च श्रोत शृणुत हवं स्तुतिम् अरक्षःएवयामरुत्। उभयत्रापि षष्ठया लुक्। युष्माभिरेव यज्ञादपनीतरक्षस एवयामरुतो मम यज्ञमागन्तेति। एवयामरुदहमरक्षो रक्षारहितः। अतश्चागन्तेतिवा। किञ्च ज्येष्ठासो न पर्वतासः यथातिशयेन वृद्धा हिमवदादयः पर्वतादुर्धराः व्योमनि व्योम्नि एवं यूयं तस्य। हृदये वर्तमानस्य शत्रोरयं निर्देशः।तस्य मम शत्रोः। प्रचेतसः प्रकृष्टज्ञानस्य मद्बाघोपायज्ञस्य। दुर्धर्तवो दुर्धराःस्यात भवत निदः निन्दितुः। मम शत्रुमाक्रम्य तस्य पर्वतवद् दुर्धरा भूत्वातं मारयतेति॥
त्वंह्य॑ग्नेप्रथ॒मोम॒नोता॒स्याधि॒योअभ॑वोदस्म॒होता॑।
त्वंसी॑वृषन्नकृणोर्दु॒ष्टरी॑तु॒सहो॒विश्व॑स्मै॒सह॑से॒सह॑ध्यै॥
(अष्ट० ४. अध्या० ४. व० ३५. ॠ० १.)
त्वं ह्यग्ने। भरद्वाजस्यार्षम्। अग्निर्वै देवानां मनोता तस्मिन् हि तेषांमनांस्योतानि’ इति ब्राह्मणम्। ओतानीति ‘वेञ् तन्तुसन्तान’ इत्यस्याङ्पूर्वस्य रूपम्। देवानां मनांसि यस्मिन्नाभिमुख्येन सन्ततानि, यः सन्ततंमनसा देवैर्हविरानयनार्थिभिर्ध्यातः स मनोता। मनश्शब्दस्य टिलोपश्छान्दसः स्त्रीत्वं च। हे अग्ने ! मनोतारूपस्त्वम् अस्या घियोऽस्य कमर्णःश्रौतस्मार्तलक्षणस्य प्रथमो होता अभवः त्वयाधिष्ठितस्तु मानुषो होता प्रवर्तते। हे दम्म ! दर्शनीय ! ननसां वोपक्षपयितः !। त्वं सीम्। सींशब्दएवार्थे।त्वमेव च। हे वृषन् ! वर्षितः ! ‘अग्नौप्रास्ताहुतिरि’ति न्यावेन। अकृणोःकरोषि। दुष्टरीतु दुष्टरं दुरभिभवं सहः बलं विश्वस्मैसहसे। षष्ठ्यर्थे चतुर्थी।सहश्शब्दे च मतुपो लुग् द्रष्टव्यः। सर्वस्यसहस्वतोबलवतो रक्षःप्रभृतेःसहध्यै अभिभवाय॥
योनः॒स्वोअर॑णो॒यश्च॒निष्टयो॒जिघां॑सति।
दे॒वास्तंसर्वे॑धूर्वन्तु॒ब्रह्म॒वर्म॒ममान्त॑रम्॥
(अष्ट० ५. अध्या० १. व० २२. ॠ० १९.)
यो नः स्वः। भरद्वाजस्यैव। यः पुरुषो नोऽस्मान् स्वः स्वभूतोज्ञात्यादिः अरणः अस्मास्वरममाणोऽप्रीयमाणः, यश्च निष्ठयः स्वेभ्यो निर्गतःपरं जिघांसति, तं स्वं च परं च तं सर्वे देवाः धूर्वन्तु हिंसन्तु। मम तु ब्रह्ममन्त्रः वर्म तनुत्राणम् अन्तरं व्यवधायकं भवतु। ब्रह्मरूपेण वर्मणा वेष्टितं मां शत्रवो मा हिंसिषुः॥
अ॒ग्निंनरो॒दीधि॑तिभिर॒रणयो॒र्हस्त॑च्युतीजनयन्तप्रश॒स्तम्।
दू॒रेदृ॒शं॑गृ॒हप॑तिमथ॒र्युम्॥
(अष्ट० ५. अध्य० १. व० २३. ॠ० १.)
अग्निं नरः। वासिष्ठी।नरो मनुष्या ॠत्विजः। दीधितिरित्यङ्गुलिनाम। ताभिर्दीधितिभिः। अरण्योः। विभक्तिव्यत्ययः। अरणिभ्याम्। हस्तच्युती। तृतीयैकवचनस्य पूर्वसवर्णः। हस्तच्चुत्या हस्तयोर्गत्या गतागतरूपेण व्यापारेणअरणिभ्यामृत्विजः प्रशस्तमाग्निंजनयन्ति। किञ्च दूरेदृशमाहवनीयम्। स हिगार्हपत्याद् दूरे दृश्यते। गृहपतिं गार्हपत्यम्। अथर्युं दक्षिणाग्निम्। दृश्यतेच — ‘अथर्यति दक्षिणाग्नौप्रवत्स्यदुपस्थाने दक्षिणमथर्य पितुं मे पाही’ति। अथर्यतिः कण्ड्वादियगन्तः॥
प्रति॑चक्ष्व॒विच॒क्ष्वेन्द्र॑श्चसोमजागृतम्।रक्षो॑भ्योव॒धम॑स्यतम॒शनिं॑यातु॒मद्भ्यः॑॥
(अष्ट० ५ अध्या० ७. व० ९. ऋ० २५.)
प्रतिचक्ष्व। वसिष्ठो रक्षोभिरभिभूयमान इन्द्रासोमौ प्रार्थयते। हेसोम ! प्रतिचक्ष्व प्रतिब्रूहि रक्षांसि भर्त्सय। विचक्ष्व विरूपं च ब्रूहि कटुकानि वचनानि। इन्द्रश्च त्वं जागृतम् अवधत्तम्। रक्षोभ्यो वधं वधसाधनंवज्रम् अस्यतं क्षिपतम्, अशनिंच यातुमद्भ्यः। यातयतेर्वधकर्मणो यातवोरक्षःस्वेवावान्तरजातयः। तद्वद्भ्यस्तैर्युक्तेभ्यो रक्षोभ्यः। तानुद्दिश्य वधमशनिं चास्यतमिति॥
माचि॑द॒न्यद्विशं॑सत॒सखा॑यो॒मारि॑षण्यत।इन्द्र॒मित्स्तो॑ता॒वृष॑णं॒सचा॑सु॒तेमुहु॑रु॒क्थाच॑शंसत॥
(अष्ट० ५. अध्या० ७. व० १०. ऋ० १.)
मा चिद्। घौरः प्रगाथ ॠत्विजो ब्रूते। चिच्छब्द एवार्थे। मैवान्यत् किञ्चिदपि विशंसत। विर्धात्वर्थानुवादी। शंसनं वचनमात्रं न स्तुतिः।मैवान्यत् किञ्चिदपि वोचत। हे सखायः ! ॠत्विजो मा च रिषण्यत। रिषण्यतिर्हिंसाकर्म। वागिन्द्रियस्यान्यत्र व्यापारेणात्मोनं मा हिंसिष्ट। हिंसैवतत्र शिष्यते। किन्तर्हि कुर्मः। इन्द्रमित् स्तोता इन्द्रमेव स्तुत। वृषणंवर्षितारं सचा सह सर्वे सम्भूय सुते सोमे। उद्गातॄन् प्रत्येतदुक्तम्।स्तुतिर्हि तेषां कर्म। अथ होतॄन् प्रति—मुहुः, वीप्सालोपो द्रष्टव्यः।मुहुर्मुहुः। उक्था उक्थानि शस्त्राणि च शंसत॥
आग्ने॑याहिम॒रुत्स॑खारु॒द्रेभिः॒सोम॑पीतये।सोम॑र्या॒उप॑सुष्टु॒ति॑मा॒दय॑स्व॒स्व॑र्णरे॥
(अष्ट० ६. अध्या० ७. व० १५.ॠ० १४.)
आग्ने याहि। सोभरेरार्षम्। हे अग्ने ! आयाहि। मरुत्सखामरुतः सखायो यस्य स त्वमायाहि रुद्रेभिः रुद्रपुत्रैः मरुद्भिः सहसोमपीतये सोमपानाय। कदायाहि। सोभर्याः सोभरेर्मम सुष्टुतिमुप शोभनायाः स्तुतेरनन्तरम्। पीत्वा च मादयस्वात्मानम्। स्वर्णरे। स्वःशब्दःसर्वपर्यायः। सर्वे नरा ॠत्विगयजमानाः अस्मिन्निति स्वर्णरो यज्ञः॥
स्वादि॑ष्टया॒मदि॑ष्ठया॒पव॑स्वसोम॒धार॑या।
इन्द्रा॑य॒पात॑वेसु॒तः॥
(अष्ट० ६. अध्या० ७. व० १६. ॠ० १.)
स्वादिष्ठया। माधुच्छन्दसी। स्वादिष्ठयातिशयेन स्वाध्या। मदिष्ठयाअतिशयेन मदकर्या धारया पवस्व क्षर हे सोम ! लतात्मक ! इन्द्रायपातवे इन्द्रस्य पानार्थं सुतः अस्माभिरभिषुतः सन्॥
यत्तेराजञ्छृतंह॒विस्तेन॑सोमा॒भिर॑क्षनः।
अ॒रा॒ती॒वामान॑स्तारी॒न्मोच॑नः॒किञ्च॒नाम॑म॒दिन्द्रा॑येन्दो॒परि॑स्रव॥
(अष्ट० ७. अध्या० ५. व० २८. ॠ० ४.)
यत्ते राजन् !। कश्यपो दुर्भिक्षे वृत्तिकर्शितो यया कया च विधयावर्तित्वा सुभिक्षे प्राप्ते सोमेनायष्ट। तस्य सोमो नाक्षरत् पापवृत्त्यायमजीवदिति।तं कश्यपः प्रार्थयते—हे सोम ! राजन् ! यत् ते अस्माभिः शृतं हविः पयसाओदनेन (परिवेषन्त्या?) क्रयादित्येनदभिप्रायमेतत्। तेन हविषा नोऽस्मानमिरक्ष। त्वत्प्रसादाच्चारातीवा। अरातिः शत्रुरिह भावपरः। वनिर्मत्वर्थीयः। अरातित्ववान्। अरातिरिति यावत्। नोऽस्मान् मा तारीत् मातिक्रमीत्। मो च।मा उ मो। उः पादपूरणः। मा च नोऽस्माकम्। ‘रुजार्थानां भाववचनानाम्—’ (२-३-५४) इति कर्मणि षष्ठी। किञ्चन किमपि रोगजातम्आममत्। ‘अम रोगे’। रुग्णान् मा कार्षीत्। हे इन्दो !। ‘इदि क्लेदने’।क्लेदयितः !। सोमो हि क्षरन् क्लेदयति। इन्द्राय इन्द्रादीनां देवानामर्थाय।परिस्रव परितः क्षर। मास्माकं पापवृत्तिंजीगणः॥
अग्रे॑बृ॒हन्नु॒षसा॑मूर्ध्वोअ॑स्थान्निर्जग॒न्वान्तम॑सो॒ज्योति॒षांगा॑त्।अ॒ग्निर्भा॒नुना॒रुश॑ता॒स्वङ्ग॒आजा॒तो विश्वा॒सद्य्ना॑न्यप्राः॥
(अष्ट० ७. अध्या० ५. व० २९. ऋ० १.)
अग्रे बृहन्। त्रितस्यार्षम्। अर्थानुगुण्याद् द्वितीये पादे व्याख्या आरभ्यते। तमसो रात्रेंर्निर्जगन्वान् निष्क्रान्तो रात्रावनुपशान्तस्ततो निर्गतोऽग्निज्योतिषा स्वेन तेजसा युक्तः उषसामग्रे उदये बृहन् भूत्वा आ अगात्गार्हपत्यात् प्रणीत आहवनीयदेशमागात् आगमत्। आगत्य च बृहन्नूर्ध्वःअस्थात् प्रज्वलितः सन् ज्वालारूपेणोर्ध्वं तिष्ठति। स्थित्वा च कर्मार्थजातः समिद्धः सन् स्वङ्गः शोभनाङ्गः भानुना स्वेन तेजसा रुशता अत्यन्तदीप्तेन विश्वानि सद्मानि यज्ञगृहाणि आ अप्राः। पुरुषव्यत्ययः। आ अप्रात् आपूरयति। य एवं करोति तस्मै स्वाहा॥
स॒मा॒नीव॒आकू॑तिःसमा॒नाहृद॑यानिवः।
स॒मा॒नम॑स्तु॒वो॒मनो॒यथा॑वः॒सुस॒हास॑ति॥
(अष्ट० ८. अध्या० ८. व० ४९. ॠ० ४.)
समानी वः। संवनन ऋषिः। आकूतिरभिप्रायः। वो युष्माकमाकूतिः समानी अस्तु परस्परतो मया वा भिन्नाभिप्रायो मा भूत्। हृदयान्यन्तःकरणानि, तानि च (समाना) समानानि सन्तु। यदेवैकस्य हृदयंसङ्कल्पयति तदेवान्यस्यापि सङ्कल्पयतु। मनुत इति मनः आत्मा। तदपिवः समानमस्तु। यादृश एकस्यात्मा तादृश एवान्यस्याप्यस्तु। यथासति वोयुष्माकं सर्वमेव सुसह सुष्ठु सह इवासति स्यात् न किञ्चित् पृथक्, तथाव आकूत्यादयः समानाः सन्तु। इयं शाकल्यानामन्त्या॥
अथ बाष्कलानाम्—
तच्छंयोरावृणीमहे गातुं यज्ञाय। गातुं यज्ञपतये। दैवी स्वस्तिरस्तु नः। स्वस्तिर्मानुषेभ्यः। ऊर्ध्वं जिगातु भेषजम्। शं नो अस्तु द्विपदे। शं चतुष्पदे॥
शंयोरार्षम्। शंयोर्ममार्थाय तद्वयमावृणीमहे। किं तत्। गातुं यज्ञाय। षष्ठ्यर्थ एषा चतुर्थी। यज्ञस्य। गातुं गमनं प्राप्तिम्। गातुं यज्ञपतये। एषा च षष्ठ्यर्थे चतुर्थी। यज्ञपतेः मम स्वर्गे गमनम्। किञ्चदैवी
स॒ह॒स्रा॒क्षेण॑श॒तशा॑रदेनश॒तायु॑पाह॒विषाहा॑र्वमेनम्।श॒तंयथे॒मंश॒रदो॒नया॒तीन्द्रॊ॒विश्व॑स्यदुरि॒तस्य॑पा॒रम्॥
(अष्ट० ८. अध्या० ८. व० १९. ॠ० ३.)
सहस्राक्षेण। सहस्रमिति बहुनाम। अक्षाणीन्द्रियाणि। बह्विन्द्रियेण। ‘शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रिय’ इति ब्राह्मणम्। इह तु तद्धेतौतच्छब्दः। बहूनामिन्द्रियाणां निमित्तभूतेन। शतशारदेन। शतं शरदो भावि वीर्यशतशारदम्। तद्धेतुत्वाद्धविरपि शतशारदम्। शतायुषा वर्षशतं जीवनहेतुना। अनेन हविषा एतद्धविर्हुत्वा। एनं यक्ष्मगृहीतं पुरुषम् आहरामि। यथा आहरणेसति इन्द्रो हविषा तर्पितः इमं शतं शरदो नयाति नयेत् प्रापयेत्, विश्वस्यच दुरितस्य यक्ष्मनिमित्तस्य पारं नयाति, तथा आहरामीति॥
श॒तंजी॑वश॒रदो॒वर्ध॑मानःश॒तंहे॑म॒न्ताञ्छ॒तमु॑वस॒न्तान्।
श॒तमि॑न्द्रा॒ग्नीस॑वि॒ताबृह॒स्पतिः॑श॒तायु॑षाह॒विषे॒म॑पुन॑र्दुः॥
(अष्ट० ८. अध्या० ८.व० १९. ॠ० ४.)
शतं जीव। यक्ष्मगृहीतं प्रत्युच्यते। हे यक्ष्मिन्। त्वं यक्ष्मणो मुक्तःउपर्युपरि वर्धमान एव शतं शरदः ॠतून्जीव। तथा हेमन्तानप्यृतून शतजीव। शतमु। उः पादपूरणः अप्यर्थे वा। वसन्तानपि शतं जीव। शतम्। अत्र संख्यया सापेक्षयानुक्ता ॠतवो गम्यन्ते शतं वर्षाः शतं शिशिरानिति। किञ्च इन्द्राग्न्यादयः शतायुषा शतायुर्निमित्तेनानेन हविषा तर्पिताःसन्तः इमं मृतकल्पं पुनर्ददतु॥
आहा॑र्षं॒त्वावि॑दंत्वा॒पुन॒रागाः॑पुनर्नव।
सर्वा॑ङ्ग॒सर्व॑ते॒चक्षुः॒सर्व॒मायु॑श्चतेविदम्॥
(अष्ट० ८. अध्या०८. व० १९. ॠ० ५.)
आहार्षम्। त्वामहमाहृतवानस्मि मृत्योः सकाशात्। अविदं त्वालब्धवांश्चास्मि त्वा। त्वं च पुनरागाः यक्ष्मणो विमुक्तः पुनरागतोऽसिं। हेपुनर्नव ! व्याधिनाशेन पुनर्नवीभूत ! सर्वाङ्ग ! सम्पूर्णसर्वावयव ! सर्वं च तेचक्षुः चक्षुरादीन्द्रियं सर्वं पूर्णं चायुः ते तव अविदं लब्धवानस्मि॥
स्वप्नममनोज्ञं दृष्ट्वा ‘अद्यानो देव सवितः’ ‘यच्चगोषु दुःष्वप्न्यम्’ इतिं पश्चभिरादित्यमुपतिष्ठेत।
अ॒द्यानो॑देवसवितःप्र॒जाव॑त्सावीः॒सौभ॑गम्।
परा॑दुः॒ष्वप्न्यं॑सुव॥
(अष्ट० ४, अध्या० ४. व० २५. ॠ० ४.)
अद्यानः। श्यावाश्व ॠषिः। देव। हे सवितः। नः अस्मभ्यंप्रजावत् पुत्रादिभिः प्रजाभिस्तद्वत् सौभगं सौभाग्यम् अद्य सावीःअनुजानीहि देहि। दुःस्वप्ने भवं दुःष्वप्न्यं दुःस्वप्नसूचितमर्थजातं तत्परासुव परागमय अपनय॥
यच्चगोषु॑दुःष्वप्न्यंयच्चा॒स्मेदु॑हितार्दिवः।
त्रिः॒ताय॒तद्वि॑भावर्या॒प्त्याय॒परा॑वहाने॒हसो॑वऊ॒तयः॑सुऊ॒तयो॑वऊ॒तयः॑॥
(अष्ट० ६. अध्या० ४. व० ९. ॠ० १४.)
यच्चगोषु। त्रितस्यार्षम्। दुःस्वप्नसूचितं गोविषयमर्थजातं यच्च, यश्चास्मे अस्मासु तद् हे विभावरि !। उषोनामैतत्। हे उषः!।तस्या विशेषणं— हे दिवो दुहितः !। दिव आविर्भवन्ती तस्या दुहिनेत्युपवर्यते। विताय। विभक्तिव्यत्ययः। त्रितात्। तस्य विशेषणम् — आप्त्याय। आप्त्याद् अद्भ्यउत्पन्नात्। श्रूयते च ‘यददूभ्योऽजायन्त उदाप्त्यानामाप्यत्वमि’ति। तकारउपजनः। आप्त्यात् त्रितनान्नो मत्तः तद् दुःष्वप्न्यं परावह परागमय। अपर आह्—प्रतिमन्वन्तरमृषयो भिद्यन्ते। सनामानस्तु भवन्ति। तत्र मन्त्रदर्शी त्रितः पूर्वातीते त्रिते दुःष्वप्न्यं परावहेति प्रार्थयते। दृश्यते चान्यत्राप्येवंविधो वादः। ‘त्रिते देवा अमृजतैतदेन’ इति, ‘ते देवा आप्त्येष्वमृतमेज149न्ते’ति च। परयोः पादयोरादित्याः प्रार्थ्यन्ते। प्रत्यहमुद्यन्नसावादित्यस्तेष्वेवान्यतम इ ते तदुपस्थानस्याविरोधः। उषसस्तु सहचारित्वेनाभिधानम्।हे आदित्याः॥ वः ऊतयः युष्मत्कर्तृकाणि पालनानि। अनेहसः। एह्इति पापनाम। अपापाः। न केवलमनेहसः। सु ऊतयश्च व ऊतयः।अन्येषां देवानां न तादृश्य ऊतयः यथा युष्माकम्। अतश्च ताभिरस्मानप्यवतेत्यभिप्रायः॥
नि॒ष्कंवा॑वाकृ॒णव॑ते॒स्रजं॑वादुहितर्दिवः।त्रि॒तेदुः॒ष्वप्न्य॒॑सर्वमा॒प्त्येपरि॑दद्मस्यने॒हसो॑वऊ॒तयः॑सुऊ॒तयो॑वऊ॒तयः॑॥
(अष्ट० ६. अध्या० ४. व० ९. ॠ० १५. )
निष्कं वा। निष्कमिति सुवर्णनाम। ‘तस्मान्निष्कतमाः स्त्रियः’ इतिमानवदर्शनात्। वाशब्दो विकल्पे समुच्चये वा। घः पादपूरणः। कृणवते।षष्ठ्यर्थे चतुर्थी। क्रियासामान्यवचनः करोतिरिह खादित्वावगिरणे वर्तते।तद्धि स्वप्ने प्रतिकूलं सुवर्णं खादित्वावगिरतीति। स्वप्ने सुवर्ण खादित्वावगिरतो मम यद् दुःष्वप्न्यं तत्सूचितं भयम्। स्रजं वा कृणवतः। अत्र करोतिर्धारणे।‘नलदमाली दक्षिणामुखः प्राजयती’त्यादिप्रतिषिद्धस्रग्धारणसूचितं वा यद्दुःष्वप्न्यं तदुभयमपि। अन्यच्चैवंविधं सर्वंदुःष्वप्न्यम्। हे दिवो दुहितः।त्वत्प्रसादादाप्त्ये त्रिते परिदद्मसि। परिः परापदार्थे परादद्मः। यथा पुनर्नोपसर्पति तथा त्रिते निर्मृज। अनेहस इत्यादि गतम्॥
तद॑न्नाय॒तद॑पसे॒तंभा॒गमु॑पसे॒दुषे॑।
त्रि॒ताय॑चद्वि॒ताय॒चोषो॑दुः॒ष्वप्न्यं॑वहाने॒हसो॑वऊ॒तयः॑सुऊ॒तयो॑वऊ॒तयः॑॥
(अष्ट ६ अध्या० ४. व० १० ॠ० १६.)
तदन्नाय। हे उषः ! मदीयं दुःष्वप्न्यं दुःस्वप्त्त्सूचितं दुरितं त्रितायतज्ज्येष्ठाय द्विताय च वह। त्रितं तज्ज्येष्ठं द्वितं च प्रापय। तयोर्विशेषणं—तदन्नायेत्यादि। तदेव देवादिभिर्निमृष्टं दुरितमन्नं यस्य तस्मै। तदेव निम्ष्टस्य दुरितस्य धारणमपः कर्म यस्य तदपाः। तस्मै। तदेव च भागत्वेनो–पसेदुषे प्राप्ताय। स एव हि देवैस्तस्मै भागो दत्तः। अनेह्सः॥
यथा॑क॒लांयथा॑श॒फंयथ॑ऋ॒णंसं॒नया॑मसि।
ए॒वादुःष्वप्न्य॒॑स॑र्वमा॒प्त्येसंन॑यामस्यने॒हसो॑वऊ॒तयः॑सुऊ॒तयो॑वऊ॒तयः॑॥
(अष्ट० ६. अध्या० ४. व० १०, ऋ० १७.)
यथा कलाम्। ॠणस्य वृद्धिः कला। यथा तां वयं सन्नयामसिसन्नयामः। यथा शफ़ंगवादेः खुरमतिप्रमाणं जित्वा सन्नयामसि। यथा वा ॠणमेवं दुःष्वप्न्यं सर्वमाप्त्ये त्रिते सन्नयामसि।अनेहसः॥
अजै॑ष्मा॒द्यास॑नाम॒चाभू॒माना॑गसोव॒यम्।
उषो॒यस्मा॑दूदुः॒ष्वप्न्या॒दभै॒ष्माप॒तदु॑च्छत्वने॒हसो॑वऊ॒तयः॑सुऊ॒तयो॑वऊ॒त य॑ः॥
(अष्ट० ६. अध्या० ४. व० १०. ॠ० १८.)
अजैष्म। लिङर्थे लुङ्। अद्य वयं जयेम यज्जेतव्यम्। असनाम च।‘वन षण सम्भक्तौ’। सनेम सम्भजेम च यत् सम्भक्तव्यम्। अनागसः अपापाश्चवयमभूम भवेम। हे उषः। त्वं यस्माद् दुःष्वप्न्याद् वयमभैष्म विभिमः,तद् अपोच्छतु। पुरुषव्यत्ययः। अपोच्छ। यथा तदपगतं भवति तथोच्छव्युष्टा भव। अनेहसः॥
यो मे राजन् ! युज्यो वा सखा वेति वा—
योमे॑राज॒नयुज्यो॑वा॒सस्वा॑वा॒स्वप्ने॑भ॒यंभी॒रवे॒मह्य॒माह॑।स्ते॒नोवा॒योदिप्स॑तिनो॒वृको॑वा॒त्वंतस्मा॑द्वरुणपाह्म॒स्मान्॥
(अष्ट० २. अध्या० ७. व० १०. ऋ० १०.)
यो मे राजन्। गार्त्समदीवरुणदेवत्या। वरुणश्चादित्यानामन्यतमइत्यादित्योपस्थानस्याविरोधः। हे राजन् ! वरुण ! यो यन्मे मम स्वभूतोयुज्योऽन्तरङ्गः सम्बन्धी पुत्रो भ्राता जामातेति वा सखा वा। भीरवेभयशीकायमह्यम्। स्वप्ने भयमाह इदं ते दुरितमागामीति। यद्वा नः स्तेनःस्वप्ने दिप्सति। दभ्नोतेर्हिसार्थस्य सनि रूपम्। दिप्सतीति भूते लेट्।भन्निघंसीत्। बृको वा यत् स्वप्ने दिप्सति। अरण्यश्वा बृकः। त्वं तस्मात्सर्वस्मादस्मान् पाहि॥
क्षुत्वाजृम्भिस्वामनोज्ञं दृष्ट्वा पापकं गन्धमाघ्रायाक्षिस्पन्दने कर्णध्वनने च ‘सुचक्षा’इत्यादि जपेद्।
सुचक्षा अहमक्षीभ्यां भूयासं सुवर्चा मुखेन सुश्रुत् कर्णाभ्यांमयि दक्षक्रतू॥
ई च द्विवचने। अक्षिभ्यांसुचक्षाः। चक्षिः पश्यतिकर्मा। तस्मादहंसुष्ठु चक्षो दर्शनं सुदर्शनो भूयासम्।अक्षिभ्यांसुष्टु पश्येयम्। मुस्वेन चसुवर्चाः सुदीप्तिर्भूयासम्। जृम्भणजनितं मुखे वैरूप्यं मा भूत्। कर्छाभ्यां चसुश्रुत् सुश्रोता भूयासम्। मा तु ध्वननसूचितं बाधिर्यं भूत्। दक्षः उत्साहः।ऋतुः कर्म प्रजा वा। तौ च मयि स्ताम्॥
अगमनीयां गत्वायाज्यं याजयित्वाप्रतिमाह्यं प्रतिगृह्य चैत्यं यूपं वोपहत्य ‘पुनर्मामैत्वि’ति।
पुनर्मामैत्विन्द्रियं पुनरायुःपुनर्भगः पुनर्द्रविणमैतु मा पुनर्ब्राह्मणमैतु मा स्वाहा॥
इमे ये धिष्ण्यासो अग्नयो यथास्थानमिह कल्पन्तांवैश्वानरोवावृधानोऽन्तर्यच्छतु मे मनो हृद्यन्तरमृतस्य केतुः स्वाहा॥
अगमनीयागमनेन यन्मया परासिक्तमिन्द्रियं तद् मां पुनरैतु आ एतुआगच्छतु। तदपायनिमित्तो दोषो मे मा भूत्। आयुश्च पुनरैतु। भगोभाग्यं, स च पुनरैतु। द्रविणं धनं बलं वा। तच्च मां पुनरैतु। अकृत्यानुष्ठाननिमित्ता आयुरादीनां हानिर्मा मे भूत्। ब्रह्मणो ग्भवो ब्राह्मणं तच्च मांपुनरैतु मा अपगमत्॥
“जैहम्यं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतम्।“इति स्मृतिः।
इमे ये। य इमे देवाः इन्द्रियाणामधिष्ठातारः। इह शरीरे धिष्ण्यासः। स्वं स्वं स्थानं धिष्ण्यम्। तत्र भवाः स्थिताः अग्नयः अग्न्यादयः’वाच्यग्निमित्र उत्सर्गे’ इत्यादि मानवे निर्दिष्टाः। ‘सूर्य चक्षुर्गमयतादि’त्यादिकेच मन्त्रे। ये इति वचनात् ते इतिगम्यते। ते यथास्थानं यथाविषयं योयस्य विषयः शास्त्रेष्वप्रतिषिद्धस्तत्र कल्पन्ताम्। अग्न्यादिभिरधिष्ठितानीन्द्रियाणि अप्रतिषिद्धेष्वेव विषयेषु प्रवर्तन्तां प्रतिषिद्वेषु मा प्रवृतन्। वैश्वानरोजठराग्निः,
“अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्॥”
इति भगवद्गीतायां निर्दिष्टः। स च वावृधानः वर्धमानः मे मनः अन्तर्यच्छतु यथा अकृत्येषु विक्षिप्तं न भवति तथा करोतु। अन्तरित्युक्तं, कुत्रान्तरित्याहहृद्यन्तःहृदयस्य मध्ये। अमृतस्य केतुः अमरणस्य केतयिता प्रज्ञापयितावैश्वानर एवं करोतु। तस्मै स्वाहा॥
अव्याधितं चेत् स्वपन्तं ‘येन सूर्ये’ति पञ्चभिः। प्रत्यवरोहणे गताः।अभ्युदियाच्चेदुत्तराभिश्चतसृभिरुपस्थानम्। एता अपि तत्रैव गताः॥
‘कपोतश्चेदगारमुपहन्यादनुपतेद् वा ‘देवाः कपोत’ इति प्रत्यृचं जुहुद् जपेद्वा।
देवाः॑क॒पोत॑इषि॒तोयदि॒च्छन्दू॒तोनिर्ॠ॑त्याइ॒दमा॑ज॒गाम॑।
तस्मा॑अर्चामकृ॒णवा॑म॒निष्कृ॑ति॒॑शंनो॑अस्तुद्वि॒पदे॒शंचतु॑ष्पदे॥
(अष्ट० 4. अध्या० ८. व० २३. ॠ० १.)
कपोतस्यार्षम्। हे देवाः !।यत्। लिङ्गव्यत्ययः। यः कपोतः निॠत्या दूतः इषितस्तयैव प्रेषितः। इदमस्मदगारम् आजगाम इच्छन्नस्माकमनर्थमिच्छन्। तस्मै। विभक्तिव्यत्ययः। तं कपोतम्। अर्चाम। लडर्थेलोट्। अर्चामः पूजयामः। निप्कृतिं प्रायश्चित्तं च तस्य दुर्निमित्तस्य कृणवामकुर्मः। अतब्ध नोऽस्माकं संबन्धिने द्विपदे पुत्रादिकाय शमस्तु। चतुष्पदे गयादिकाय शमस्तु॥
शि॒वःक॒पोत॑इषि॒तोनो॑अस्त्वना॒गादे॑वाःशकु॒नोयृ॒हेषु॑।
अ॒ग्निर्हेिविप्रो॑जु॒षतां॑ह॒विर्नः॒परि॑हे॒तिःप॒क्षिणी॑नोवृणक्तु॥
(अष्ट०८. अध्या० ८. व० १३. ॠ० २.)
शिवः। हे देवाः। निर्ऋत्या इषितः प्रेषितोऽयं कपोताख्यः शकुनःपक्षी नोऽस्माकं गृहेषु शिवोऽस्तु। अनागाः अनपराधश्चास्तु। अग्निर्हि।हिश्चार्थे। अग्निश्चायं नोहविः अस्माभिर्हुतमिदमाज्यलक्षणं हविः जुषतं विप्रःमेघावीचायम्। पक्षिणी कपोतस्य स्त्री कपोतिका। कीदृशी। हेतिः हन्त्री हननं सूचयन्ती। सा च नः परिवृणक्तु सर्वतो वर्जयतु॥
हे॒तिःप॒क्षिणी॒नद॑भात्य॒स्माना॒ष्ट्रयांप॒दंकृ॑णुने अग्नि॒धाने।
शंनो॒गोभ्य॑श्च॒पुरु॑षेभ्यश्चास्तु॒मानो॑हि॑सीदि॒हदे॑वाःक॒पोतः॑॥
(अष्ट० ८. अध्या० ८. व० १३. ॠ० ३.)
हेतिः पक्षिणी। व्याख्यातं पदद्वयम्। सा अस्मान् न दभाति न दभ्नोतुन हिनस्तु। आष्ट्र्याम्। अत्रैकवाक्यताप्रसिद्ध्यर्थं यच्छब्दोऽध्याहार्यः। या पक्षिणी आष्ट्रयां दधिपिडकायां पदं कृणुते। अग्निर्यत्र निधीयतेतदग्निधानं भ्राष्ट्र्म्। तत्र च या पदं कृणुते, सा न दभात्यस्मानित्यन्वयः।अगारस्योपरि कपोते आसीने तस्य प्रदेशस्यार्जवेनाधःप्रदेशे यदि दधिधानीभ्राष्ट्र् वा भवति तदा तयोः कपोतस्य पदमुद्रा दृश्यते। तच्च दुर्निमित्तमितिप्रसिद्धिः। अयं च कपोत इह गृहे आसीनः मा नो हिंसीत्। किन्तु गोभ्यः पुरुषेभ्यश्च शमस्तु हे देवा !॥
यदुलू॑को॒वद॑तिमो॒घमे॒तद्यत्यत्क॒पोतः॑प॒दम॒ग्नौकृ॒णोति॑।
यस्य॑दू॒तःप्रहि॑तए॒षए॒तत्तस्मै॑य॒माय॒नमो॑अस्तुमृ॒त्यये॑॥
(अष्ट० ८. अध्या० ८. व० १३. ॠ०४.)
यदुलूकः। उलुको दिवामीतः। स गृहस्योपरि शब्दायमानो यद्वदति, एतद् मोघं निष्फलं भवतु। यच्च कपोतोऽग्नै भ्राष्ट्रस्थेभस्ममिश्रेपदंकृणोति पदमुद्रां दर्शयति, तच्चमोघमस्तु। यस्य चैषःकपोतो दूतः प्रहितस्तस्मै यमाय मृत्यवे मारयित्रे पतन्नमोऽस्तु॥
ॠ॒चाक॒पोनं॑नुदतप्र॒णोद॒मिषं॒मद॑न्तः॒परि॒गांन॑यध्वस्।
सं॒यो॒पय॑न्तोदुरि॒तानि॒विश्वा॑हि॒त्वान॒ऊर्जं॒प्रप॑ता॒त्पति॑ष्ठः॥
(अष्ट० ८. अध्या० ८. व० २३.ऋ० ५.)
ॠचा कपोतम्। इमं कपोतमृचा ॠग्लक्षणेन मन्त्रेण नुदत इतःक्षिपत हे मदीयाः। पुत्रपौत्रादयः।प्रणोदम्। आभीक्ष्ण्ये णमुल्। छान्दसोद्विर्वचनाभावः। प्रणुद्यपूर्वं दण्डादिना पश्चादृचानुदत यथा न पुनःप्रविशेत्। प्रणुद्यचइषम्। विभक्तिव्यत्ययः। इषा अन्नेन। मदन्तो माद्यन्तः।गाम्। जातावेकवचनम्। गाः। परिनयध्वं गृहं परितः स्थापयत किंकुर्वन्तः। विश्वा विश्वानि दुरितानि संयोपयन्तः। संयोपनं प्रमार्जनम्।हस्ताभ्यांसम्यक् प्रमृमन्तो यूयं गाः परिणयध्वम्। दुर्निमित्ते सूचिते दुरिते शान्तेमन्नं गावश्चअस्माकं भूयासुरित्यर्थः। अयं चपतिष्ठः अतिशयेन पतितःकपोतः नः ऊर्जम् अन्नंबलं हित्वा तद्विषये कञिचदप्यनर्थमकृत्वा अन्यत्रप्रपतात् पततु॥
‘वयमु त्वा पथस्पते’ इत्यर्थचर्यांचरिष्यन्।
व॒यमु॑त्वापथस्पते॒रथं॒नवाज॑सातये।
धि॒येपू॑षन्नयुज्महि॥
(अष्ट० ४. अध्या० ८. व० १७. ॠ० १.)
वयमु त्वा। भरद्वाजस्यार्षम्। पथि गच्छतां पालयिता पथस्पतिः। हेपथस्पते ! पूषन् ! वयम्। उः पादपूरणः। वयं त्वा धिये पथि ज्ञानायपथिगमनलक्षणाय वा कर्मणे अयुज्महि अस्मद्रक्षणे उद्युक्तं कुर्मः। रथं नवाजसातये। वाजसातिरिति सङ्ग्रामानाम यथा सङ्ग्रामार्थं रथं युञ्जतेतद्वत्॥
अ॒भिनो॒नंर्ये॒वसु॑षी॒रंप्रय॑तदक्षिणम्।
वा॒मंगृ॒हप॑ति॑नय॥
(अष्ट० ४. अध्या०८. व० १५. ॠ० २.)
अभि नः। नोऽस्मान् नयै नरेभ्यो हितं वसु धनम् अभि प्रति तदुद्देशेन गृहपर्दिगृहस्वामिनं गृहस्थं नय प्रापय। कीदृशम्। वीरं दाने शूरं सन्ततदानेऽप्यकातरम्। प्रयतदक्षिणं प्रत्तदक्षिणं दातृस्वभावम्। वार्म वननीयम्। वसुनः एतद्विशेषणम् एवम्भूतस्य वसुनः प्रापणार्थम् एवम्भूतं गृहपतिमस्मान् प्रापय॥
आदि॒॑त्सन्तंचिदाघृणे॒पूष॒न्दाना॑यचोदय।
प॒णेश्चि॒द्वविम्र॑दा॒मनः॑॥
(अष्ट०४. अध्या० ८. व० १७ ऋ० ३.)
अदित्सन्तम्। हे जाधृणे ! आगतदीप्ते ! पूषन् ! अदित्सन्तं चित्। चिच्छब्दोऽप्यर्थे। दातुमनिच्छन्तमपि पुरुषं दानाय चोदय प्रेरय। पाणिर्वार्धुषिकः। तस्यापि मनः विम्रद विशेषेण म्रदय मृदूकुरु यथा दानोत्सुकं भवति॥
विप॒थोवाज॑सातयेचिनु॒हिविमृधो॑जहि।
साध॑न्तामुग्रनो॒धियः॑॥
(अष्ट० ४. अध्या० ८ व० १७. ऋ० ४.)
विपथः। हे उग्र ! अनभिभवनीय ! नोऽस्मदर्थं वाजसातये धनलाभाय पथो विचिनुहि मार्गान् मार्गस्व। यैर्मार्गैर्गताः वयं धनं लभेमहि, तान्प्रदर्शय। तेषु च ये मृधः सङ्ग्रामकारिणस्तान् विजहि विनाशय। याःअस्माकं धियो धनं लभेमहीति मनोरथरूपास्ताः साधन्तां सिध्यन्तु॥
परि॑तृन्धिपणी॒नामार॑या॒हृद॑याकवे।
अर्थमस्मभ्यं॑रन्धय॥
(अष्ट ० ४. अध्या० ८. व० १७. ऋ० ५.)
परितृन्धि। हे कवे ! पूषन् ! पणीनां हृदयानि। आरा प्रतोदः, तांपूषा हस्ते दिभर्ति आयुषकृत्यार्थम्। तया परितृन्धि तृदिहिंसाकर्मा। परितः पीडय यथा मृदूभवन्ति। परितृद्य च अथानन्तरम् ईम् एतानस्मभ्यं रन्धयवशीकुरु॥
विपु॑ष॒न्नार॑यातुदप॒णेरिच्छ॑हृ॒दिप्रि॒यम्।
अथे॑म॒स्मभ्यं॑रन्धय॥
(अष्ट० ४. अध्या० ८. व०१८. ॠ० ६.)
विपूषन्। हे पूषन् ! अस्माकं प्रियमिच्छ। किं तत्। पणेर्हृदि धारया वितुद। अर्थेगतम्॥
आरि॑खकिकि॒राकृ॑ण्मुपणी॒नांहृद॑याकवे।
अर्थम॒स्मभ्यं॑रन्धय॥
(अष्ट० ४. अध्या० ८. व० १८. ॠ० ७.)
आरिख। हे कवे ! पूषन् ! पणीनां हृदयानि आरिख भारया समन्ताल्लिख। आलिख्य च किकिरा किकिराणि। किरतेः ‘इगुपधज्ञाप्रीकिरः कः’(३-१-१३५) इति के ‘कृञादीनां के द्वे भवतः’ इति द्विवंचने कृते छान्दसोऽभ्यासे चुत्वाभावः। यथात्यर्थं धनानि विकिरन्ति तथा कुरु। अथेत्॥
यांपू॑षन्ब्रह्म॒चोद॑नी॒मारां॒बिभ॑र्ष्याघृणे।
तया॑समस्य॒हृद॑य॒मारिखकिकि॒राकृ॑णु।
(अष्ट० ४. अध्या० ८. व० १८. ॠ० ८.)
यां पूषन् !। हे पूषन् ! आधृणे ! यामारां ब्रह्मचोदनी ब्रह्मणोऽन्नस्य चोदयित्रीं दात्रीं, स्तोतॄणां वाभिलषितसम्पादनेन स्तुतिलक्षणस्य मन्त्रात्मकस्यब्रह्मणः कारयित्रीम्। एवंभूतां याम् आरां त्वं बिभर्षि, तथा समस्य सर्वस्यपणेरपि हृदयमारिख किकिरा कृणु॥
याते॒अष्ट्रा॒गोओ॑प॒शाघृ॑णेपशु॒साध॑नी।
तस्या॑स्तेसु॒म्नमी॑महे॥
(अष्ट० ४.अध्या० ८. व० १८. ॠ० ९.)
या ते। हे पूषन् ! आघृणे ! या ते स्वभूता भष्ट्रा। ‘अशू व्याप्तौ’।व्यापिनी। कासौ। प्रकरणादारा। कीदृशी। गोओपशा। गावो गमनयोगादश्वाःरथे युक्ताः। तानेत्य योपशेते प्रतोदनकाले। पशुसाधनी स्तोतॄणामभिमतस्यपश्चादेः साधयित्री। तस्याः सकाशात् ते सुम्नं त्वत्कर्तृकं सुखमीमहे याचामहे॥
उ॒तनो॑गो॒षणिं॒धिय॑मश्व॒सांवा॑ज॒सामु॒त।
नृ॒वत्कृ॑णुहिवी॒तये॥
(अष्ट० ४.अध्या० ८. व० १८. ॠ० १०.)
उत नः। उत अपि च। नः अस्माकं धियं धनप्राप्तिमनोरथरूपां बुद्धिम्। गोषणिं गवां सम्भक्रीं कृणुहि कुरु। तथाश्वसाम्। ‘जनसनखनक्रमगमो विट्’ (३-२-६७)। ‘विड्वनोरनुनासिकस्याऽऽत्’ (६-४-४१)। अश्वानांसम्भक्त्रीम्। (वाजसामन्नानां सम्भक्त्रीम्।) वाजो धनं वा। उत अपिकृणुहि। वीतये। वीतिरशनकर्मा। अस्माकमुपभोगाय। नृवत्। यथा राजातादृशो वा अन्यः स्वभक्तानां धियमुक्तलक्षणां करोति तद्वत्॥
नष्टमधिजिगमिषन् मूढो वा ‘सम्पूषन्’।
संपू॑षन्वि॒दुषा॑नय॒योअञ्ज॑सानु॒शास॑ति।
यए॒वेदमिति॒ब्रव॑त्॥
(अष्ट० ४. अध्या० ८, व० १९. ॠ० १.)
सम्पूषन्। तस्यैवार्षम्। हे पूषन् ! विदुषा पुरुषेण सह मां संनयसङ्गमय। कीदृशा। यः अञ्जसार्जवेन अनुशासति अनुशास्ति सम्यगुपदिशति।यश्च य एवेदमिति ब्रवत् ब्रूयात् सन्देहस्थानेषु निश्चिनुयात्। अनुशासनप्रकारस्यैवायं प्रपञ्चः॥
समु॑पू॒ष्णाग॑मेमहि॒योगृ॒हाँअ॑भि॒शास॑ति।
इ॒मए॒वेति॑च॒ब्रव॑त्॥
(अष्ट० ४. अध्या० ८. व० १९. ॠ० २.)
समु। उः पादपूरणः। पूष्णा सह वयं सङ्गमेमहि सङ्गच्छेमहि।कीदृशेन। यो गृहान् गृहाश्रमिणः अभिशासति अभिमुख्येन शास्ति इत्थमिदंकर्तव्यमिति।यश्चेमे अर्था एवमेवमिति च ब्रवत् ब्रूयात्। अर्थानां तत्त्वावधारणे क्षम इति यावत्॥
पूष्णश्च॒क्रंनरि॑ष्यति॒नकोशोव॑पद्यते।
नोअ॑स्यव्यथतेप॒विः॥
(अष्ट० ४. अध्या० ८. व० १९. ॠ० ३.)
पूष्णः। अस्य भगवतः पूष्णश्चक्रं रथचक्रं न रिष्यति न विनश्यति।कोशेदधिदृतिः। सोऽपि नावपद्यते नाधः पतति। उक्तं हि—‘द्वतेरिव तेवृकमस्तु सख्यम् अच्छिद्रस्य दधन्वतः’ इति। न उ नो। उश्चार्थे। नच। अस्य पविः चक्रधारा व्यथते। एवंभूतोऽयं पूषेति स्तुतिः॥
योअ॑स्मैह॒विषावि॑ध॒म्नतंपू॒षापि॑मृष्यते।
प्र॒थ॒मोवि॑न्दते॒वसु॑॥
(अष्ट० ४. अध्या० ८. व० १९ ॠ० ४.)
यो अस्मै। यः पुरुषोऽस्मै। विभक्तिव्यत्ययः। एनं पूषणम्। हविषाचरुपुरोडाशादिना। अविधत्। विधतिः परिचरणकर्मा। लडर्थे लङ्। वि(द?) धति परिचरति। तं पूषा नापि मृष्यते। ‘मृप तितिक्षायाम’न्यत्र। इह त्वीक्षतेरर्थे। अपिरुपार्थे। नोपेक्षते। न केवलमेतावत्। बहुषु धनं लभमानेषु सःप्रथमो वसु विन्दते तस्मै पूर्वं ददाति यः पूषणं परिचरति॥
पू॒षागाअन्वे॑तुनःपू॒षार॑क्ष॒त्वर्व॑तः।
पू॒षावाजंसनोतुनः॥
(अष्ट० ४. अध्या० ८. व ० १९.ऋ० ५.)
पूषा गाः। नोऽस्माकं गाः पूषा अन्वेतु रक्षन्ननुगच्छतु। पूषैवअर्वतोऽश्वान् रक्षतु। वाजमन्नंहविर्लक्षणं नोऽस्माकं स्वभूतं पूषा सनोतु संभजतु। अस्मभ्यमन्नं ददात्वित्यन्ये॥
पू॒षन्ननु॒प्रगाइ॑हि॒यज॑मानस्यसुन्व॒तः।
अ॒स्माकं॑स्तुव॒ता॒मुत॥
(अष्ट० ४ अध्या० ८. व०२० ॠ० ६.)
पूषन्ननु। हे पूषन्। गाः प्रतिष्ठमानाः प्रान्विहि प्रकर्षेणानुगच्छरक्षार्थम्। कस्य गाः। यजमानस्य सुन्वतः। नच केवलं तस्यैव। किन्तर्हि।त्वां स्तुवतामस्माकमपि॥
माकि॑र्नेश॒न्माकीं॑रिष॒न्माकीं॒संशा॑रि॒केव॑टे।
अथारि॑ष्टाभि॒राग॑हि॥
(अष्टः ४. अध्या० ८. व० २०. ऋ० ७.)
माकिः। माकिरति निषेधार्थीयः। तथा माकीमिति। हे पूषन् ! त्वयारक्ष्यमाणानां गवां मध्ये काचिदपि माकिर्नेशत्। नशेर्लुङि पुषादित्वादङ्। ‘नशिमन्योरलिट्येत्वम्’ इत्येकारः। मा नशत् नष्टा मा भूत्। मार्की रिषत् मा चरिष्टा हिंसिता भूत्। मा च केवटे कूपे काचिदपि संशारि शीर्णा भूत् मापप्तत्। अथ। एवमित्यस्यार्थेऽयमथशब्दः। एवमरिष्टाभिर्गोभिरागहि आगच्छ॥
शृ॒ण्वन्तंपू॒षणं॑व॒यमि॒र्य॑मन॑ष्टवेदसम्।
ईशा॑नंरा॒यईमहे॥
(अष्ट० ४. अध्या० ८. व० २०.ऋ०८.)
शृण्वन्तम्। अस्मद्याच्ञां शृण्वन्तं पूषणम्। इर्यम्। इरा अन्नं, तत्र साधुम्।अन्नवन्तम्। अनष्टवेदसमनष्टधनमनष्टप्रशं वा। ईशानं सर्वस्य। शत्रन्तमेतत्। रायः धनानि ईमहे याचामहे। ‘दुहियाचिरुधी’ति द्विकर्मकत्वम्॥
पू॒षन्तव॑व्र॒तेव॒यंनरि॑ष्येम॒कदा॑च॒न।
स्तो॒तार॑स्तइ॒हस्म॑सि॥
(अष्ट० ४. अध्या० ८. व० २०. ऋ० ९.)
पूषन् तव। हे पूषन् ! तव व्रते सङ्कल्पे वर्तमानाः यथा त्वया सङ्कल्पितं तथा वर्तमानाः वयं कदाचन कदाचिदपि न रिष्येम रिष्टा नभवेम। किञ्च इह जीविते तव स्तोतारो वयं स्मसि यावज्जीवं त्वा150मेव स्तुमः॥
परि॑पू॒षाप॒रस्ता॒द्धस्तं॑दधातु॒दक्षि॑णम्।
पुन॑र्नोन॒ष्टमाज॑तु॥
(अष्ट० ४ अध्या० ८. व० २०. ऋ०१०.)
परिपूषा। नष्टस्य गवादेर्गच्छतः परस्तादग्रतः पूषा स्वं दक्षिणं हस्तंपरिदधातु निरोधाय परितः स्थापयतु। ततश्च नष्टं गवादि नोऽस्मान् पुनराजतु। ‘अज गतिक्षेपणयोः’। आगच्छतु॥
महान्तमध्वानमेष्यन् प्रतिभयं वा ‘सम्पूषन्नध्वनः’ इति।
संपू॒॑ष॒न्नध्व॑नस्तिर॒व्यंहो॑विमुचोनपात्।
संक्ष्वा॑देव॒प्रण॑स्पु॒रः॥
(अष्ट० १. अध्या० ३. व० २४. ऋ० १.)
संपूषन्। कण्वस्यार्षम्। हे पूषन् ! अध्वनो मार्गात् सन्तिर सम्यक्तारय। वि। उपसर्गश्रुतेर्योग्यक्रियापदाध्याहारः। अंहश्च विगमय। हेविमुचोनपात्॥ कारणावस्थापन्नंजगत् सर्गकाले विमुञ्चतीति विमुक्ईश्वरः। तस्य पुत्रः प्रजापतिः। तस्य पुत्रः पूषा। अत इदमुच्यते हेविमुचोनपात् !। नपादिति पौत्राभिधानम्। अथवा चतुर्थस्याभिधानम्।तदा प्रजापतेः पुत्रः कश्यपः। तत्पुत्रः पूषा। किश्च हे देव ! नोऽस्माकं पुरःअग्रतः प्रसंक्ष्व प्रकर्षेण संचस्व सेवस्व। अस्माकमग्रतो रक्षार्थ गच्छ॥
योनः॑पूषन्न॒घोवृको॑दुः॒शेव॑आ॒दिदे॑शति।
अप॑स्म॒तंप॒थोज॑हि॥
(अष्ट० १ अध्या० ३. व० २४. ॠ० २.)
योःनः। हे पूषन् ! यः अघः पापो वृकः श्वापदो दुःशेवः। शेवमितिसुखनाम। दुःशब्दः प्रतिषेधार्थीयः। दुश्शेवमसुखं दुःखम्। तस्य कर्तादुश्शेवः। नोऽस्मान् आदिदेशति अस्मान् प्रति शब्दं करोति। तं वृकंपथोऽपजहि अपहत्य गमय। स्मेति पादपूरणः॥
अप॒त्यंप॑रिप॒न्थिनं॑मुषी॒वाणंहुर॒श्चित॑म्।
दू॒रमधि॑स्रु॒तेर॑ज॥
(अष्ट० १. अध्या० ३. व० २४. ऋ० ३.)
अपत्यम्। त्यं तं हुरश्चितम्। हुरश्चिदिति चोरनाम। चित्तं चित्। ‘ह्वृ151कौटिल्ये’। कुटिकचित्तम्। मुषीवाणं मोषणपरम्। परिपन्थिनं मार्गं परितस्तिष्ठन्तम्।
एवंभूतं हुरश्चितं स्रुतेर्मार्गाद् दूरम् अधि अप अज आक्षिप। अधिर्धात्वर्थीनुवादी ‘अधिपरी अनर्थकौ’ (१-४-९३) इति॥
त्वंत॒स्य॑द्वया॒विनो॒घशं॑सस्य॒कस्य॑चित्।
प॒दाभिति॑ष्ठ॒तपृ॑षिम्॥
(अष्ट० १. अध्या० ३. व० १४. ऋ० ४.)
त्वं तस्य। तस्येत्येकान्तरायामृचिप्रकृतस्य वृकस्य परामर्शः। हेपूषन् !। तस्य वृकस्य। द्वयाविनः। दंष्ट्रयोर्द्वयं विद्यते यस्य स द्वयावी। ‘द्वयोभयानां दीर्घश्चे`ति विनि दीर्घश्च, यथा ‘उभयाविन्नुपधेहि दंष्ट्रे’ति। अतिभीषणाभ्यां दंष्ट्राभ्यां युक्तस्य। अघशंसस्यानर्थमिच्छतः। कस्यचिद् यःकश्चिद् दृश्यते तस्य सर्वस्य वृकस्य। तपुषिं तापयित्रीं दंष्ट्रां पदा आत्मीयेन पादेनाभितिष्ठ त्वम्। अभिरधेरर्थे। अधितिष्ठ आक्राम। अन्ये तु तपुषिरितिशिरसोऽभिधानं मन्यन्ते॥
आतत्ते॑दस्रमन्तुमः॒पूष॒न्नवो॑वृणीमहे।
येन॑पि॒तॄनचो॑दयः॥
(अष्ट० १. अध्या० ३. व० २४. ॠ० ५.)
आ तत्। पूषन् ! दस्र ! दर्शनीय ! शत्रूणां वोपक्षपयितः !। मन्तुमः।मन्तुर्ज्ञानम्। हे तद्वन् !। ‘मतुवसो रु सम्बुद्धौ छन्दसि’ (८-३-१)। ते तवस्वभूतं तदव पालनम्। वयमावृणीमहे। किन्तत्। येनावसा पितॄत् अस्माकम् अचोदयः प्रेरितवान् महत्सु प्रतिभयेषु अध्वसु गमितवानसि तदेव प्रार्थयामहे॥
अघा॑नोविश्वसौभग॒हिर॑ण्यवाशीमत्तम।
धना॑निसु॒षर्णाकृधि॥
(अष्ट० १. अध्या० ३. व० २५. ऋ० ६.)
अघानः। हे पूषन् ! अघ अपिच। नोऽस्मान्। विश्वसौभग !। सौभगं सौभाग्यम्। तद्विश्वं यस्य। हे तादृश !।हिरण्यवाशीमत्तम !। वाशीतिवाङ्नाम। हिरण्यशब्दो यौगिकः। भक्तान् प्रति हिता रमणीया च वाणीहिरण्यवाप्ती। हे अतिशयेन तद्वन् !। धनानि, यानि लिप्सवो वयं प्रस्थिताःतानि। सुषणा। ‘वन षण सम्भक्तौ। सुसम्भजानि सुलभानि। कृधिकुरु॥
अति॑नःस॒श्चतो॑नयसु॒गानः॑सु॒पथा॑कृणु।
पूष॑न्निइक्रतु॑विद॥
(अष्ट० १. अध्या० ३. व० २५. ॠ० ७.)
अति नः। हे पूषन् ! नः अस्मान्। सश्वतः। गतिकर्मायम्। पथिगच्छतः। अतिनय यदतिनेतव्यं वृकादि तदतिक्रामय। अतिनयंश्च न येनकेनचित् पथा। किन्तर्हि। सुपचा शोभनेन पथा। कोऽर्थः। सुगा। तृतीयैकवचनस्याकारः। सुखेन गम्यते यत्र तादृशेन सुपथा नोऽस्मान् कृणु। क्रियासामान्यवचनः करोतिरतिनये द्रष्टव्यः। अतिनय। किञ्चेह पथि ऋतुमात्मीयं कर्म रक्षारूपं विद जानीहि। त्वदीयं ह्येतत् कर्म परिरक्षणं नाम॥
अ॒भिसू॒यव॑संनय॒नन॑वज्वा॒रोअध्व॑ने।
पूष॑न्नि॒हक्रतुं॑विद॥
(अष्ट० १. अध्या० २. व० २५. ॠ० ८.)
अभि। यवसमित्यन्ननाम। तत् सुष्ठु लभ्यते यत्र तत् सूयवसम्अध्वानम् अस्मानभिनय अभिगमय। किमर्थमध्वनः सूयवसत्वं प्रार्थ्यते।यस्मान्नवज्वारः पुरुषोऽध्वने न प्रभवति पथि गन्तुं न शक्नोति। ज्वारोबुभुक्षा सन्तापहेतुत्वात्। नवोऽभिनवो ज्वारो यस्य स नवज्वारः अत्यन्तबुभुक्षितः। पूषन्निहगतम्॥
श॒ग्धिपू॒र्धिप्रयं॑सिचशिशी॒हिप्रास्यु॒दर॑म्।
पूष॑न्नि॒हक्रतुं॑विद॥
(अष्ट० १ अध्या० ३. व० २५. ल्० ९)
शग्धि। शग्धीति याच्ञाकर्मान्यत्र। इह तु तत्पूर्वके दाने वर्ततइति द्रष्टव्यम्। शग्धि देहि। मा चाल्पम्। किन्तर्हि। पूर्धिपूरय पूर्णं देहि। प्रयंसि च प्रकर्षेण च यच्छ। पौनःपुन्यं प्रकर्षः। मा सकृद् दत्त्वाविरंसीः, शिशीहि। श्यतिः संस्कारकर्मा। देयं च संस्कुरु। हेयपरित्यागेनोपादेयं देहि। उदरं च त्वदीयं प्रासि अस्माभिर्दत्तैर्हविर्भिः पूरय। अस्माकंचोदरं पूरय यथा पथि न क्षुध्येम। पूषन्निहगतम्॥
नपू॒षणं॑मेथामसिसू॒क्तैर॒भिगृ॑णीमसि।
वसू॑निद॒स्ममीमहे॥
(अष्ट० ९. अध्या० ३. व० २५. ऋ० १०.)
न पूषणम्। मेथिराक्रोशकर्मा। पूषणं वयं न मेथामसिनाक्रोशामःनायोग्यं स्तुमः। किन्तर्हि। सूक्तैः शोभनैर्वचनैरभिगृणीमसि अभिष्टुमः।अभिगीर्य च दस्मं दर्शनीयं पूषणं वसूनि वयमीमहे याचामहे॥
अथ समावर्तनमन्त्रा.। अहते वाससी आच्छादयति ‘युवं वस्त्राणी ‘ति—
यु॒व॑स्त्रा॑णिपीव॒साव॑साथेयु॒वोरच्छि॑द्रामन्त॑वोह॒सर्गाः॑।
अवा॑तिरत॒मनृ॒॑तानि॒विश्व॑ऋ॒तेन॑मित्रावरुणासचेथे॥
(अष्ट० २. अध्या० २ व० २२ ऋ० १.)
युवं वस्त्राणि। दैर्घतमसी। हे मित्रावरुणा ! मित्रावरुणौ ! युवं युवाम्।(पीवसा I) पीवःशब्दः पीवरवचनः। द्विवचनस्याकारः। पीवानौ सन्तौ।वस्त्राणि वसाथे आच्छादयथः। ययोर्युवोर्युवयोर्मन्तवो मननानि ज्ञानानि।हशब्दश्चार्थे भिन्नक्रमः। सर्गाश्च। सर्गा उत्साहाः ते च। अच्छिद्राः अव्यवच्छिन्नाः। यौ च युवां विश्वान्यनृतानि अवातिरतम्। वधकर्मायम्। लडर्थेलङ्। अवतिरथः हथः। इदमेव चानृतानां हननं यत् तद्वादिनां हननम्।यौ च ऋतेनोदकेन वृष्टिलक्षणेन सचेथे संबध्येथे। तौ युवां वस्त्राणि वसाथे।युवामिवाहमपि वस्त्राणि वसै इत्युपस्कारेण योज्यम्॥
अञ्जनेनाङ्क्ते‘अश्मन’।
** अश्मनस्तेजोऽसि चक्षुर्मे पाहि॥**
हे अञ्जन ! त्वम्। अश्मनः। तद्वत्ययमुपचारः।अश्मवतः पर्वतस्यहिमवतः। हिमवांश्चात्र पर्वतः। ‘यदाञ्जनं त्रैककुदं जातं हिमवतस्परि’इत्यापस्तम्बीयानां मन्त्रदर्शनात्। अश्मनः त्वं तेजोऽसि सारांशोऽसि। स त्वंचक्षुर्मे पाहि। इन्द्रियाभिप्रायमेकवचनम्। चक्षुषी रक्ष॥
मणिकुण्डले आबध्नित ‘अश्मनः’।
** अश्मनस्तेजोऽसि श्रोत्रं मे पाहि॥**
हे मणिकुण्डल ! अश्मनः अश्मवतो मेर्वादेस्त्वं तेजोऽसि। तत् त्वंश्रोत्रं मे पाहि॥स्रजमपि नह्यति’अनार्ता’।
अनार्तास्यनार्तोऽहं भूयासम्।
हे स्रक् ! त्वम् अनार्तासि। अहमपि त्वद्धारणादनार्तोभूयासम्॥
उपानहावातिष्ठति ‘देवानाम्’।
देवानां प्रतिष्ठे स्थः सर्वतो मा पातम्॥
हे उपानहौ ! युवां देवानामपि प्रतिष्ठे स्थः। प्रतिः प्रशब्दस्यार्थे। प्रस्थानसाधने भवथः। ते युवां सर्वतो मां पातं रक्षतम्॥
‘छत्रमादत्ते दिवः’।
दिवश्छद्मासि॥
हे छत्र ! त्वं दिवः द्युस्थस्यातपवर्षादेः छद्म छादयितृ असि ॥
वैणवं दण्डमादत्ते ‘वेणुः’।
वेणुरसि वानस्पत्योऽसि सर्वतो मा पाहि।
हे दण्ड ! त्वं वेणुरसि। विकारे अयं प्रकृतिशब्दः। वैणवोऽसि। वानस्पत्यः। वनस्य पाता वानस्पत्यः। यद्वा महान्। स त्वं सर्वतश्च सर्पादेर्मा पाहि ॥
‘आयुष्यमि’ति सूक्तेन दशर्चेन मार्णे कण्ठे प्रमुञ्चति। तत्र प्रत्यृचमृषयः
“सनाकः सनकश्चैव सनातनसनन्दनौ।
सुसःसोन्यः ससुः सुश्रीः सुवाक् सर्वश्च ते दश ॥ “इति। सर्वेऽमी दाक्षायणगोत्राः।
आयुष्यं वर्चस्यं रायस्पोषमौद्भिदम्।
इदं हिरण्यं वर्चस्यं जैत्रायाविशतादु माम्॥
आयुष्यम् आयुषो निमित्तम्। तथा वर्चस्यं रायस्पोषं धनस्य पोषयितृ। औद्भिदम्। उद्भित्प्रकाशकरं तदेवौद्भिदं यशस्करम्। एवम्भूतमिदं हिरण्यं वर्चस्यं दीप्तिमत् जैत्राय जयाय मामाविशतात्। उःपादपूरणः॥
उच्चर्वाजि पृतनापाट् सभासाहं धनञ्जयम्।
सर्वाःसमग्रा ऋद्धयो हिरण्येऽस्मिन् समाहिताः॥
उच्चैर्भूता वाजिनो यत्र तदुच्चैर्वाजि, उत्कृष्टानामश्वानां प्रापयितृ। पृतनाषाट्। ‘षह मर्षणे’। अभिभवे छन्दसि। पृतनानां शत्रुसेनानामभिभवितृ। सभासाहम्। सभायाश्चाभिभवितृ। धनञ्जयं शत्रुधनानां जेतृ। एवम्भूतं तावदिदं हिरण्यम्। न चैतावदेव।सर्वाः समग्रा ऋद्धवो हिरण्येऽस्मिन् समाहिताः प्रतिष्ठिताः॥
शुनमहं हिरण्यस्य पितुर्नामेव जग्रभ।
तेन मां सूर्यत्वचमकरं पूरुषु प्रियम् ॥
शुनमिति सुखनाम।शुनं सुखकरम्। हिरण्यस्य नाम सुवर्णंकाञ्चनामत्यादि। अहं जग्रभ। लडर्थेलिट्। ‘हृग्रहोर्भश्छन्दसि।गृह्णामि उच्चारयामि। पितुरिव।यथा पितुर्नाम पुत्राः स्नेहात् पुनः पुनः कीर्तयन्ति तद्वद्।यस्य नाम गृह्णामि तेन हिरण्येन मणिरूपेण मां सूर्यत्वचं सूर्यवदुज्ज्वलरूपम्। पूरुषु। षष्ठ्यर्थे सप्तमी। पूरुशब्दो मनुष्यनाम।बहुशब्दपर्यायस्य वा पुरुशब्दस्य दीर्घश्छान्दसः। मनुष्याणां बहूनां वा। प्रियमकरं करोमि ॥
सम्राजं च विराजं चाभिष्टिर्या च मे ध्रुवा।
लक्ष्मी राष्ट्रस्य या मुखे तया मामिन्द्र ! संसृज॥
आद्यस्य पादस्य चतुर्थेन सम्बन्धः।या।चशब्दो वक्ष्यमाणापेक्षया। या च। मे ध्रुवा नित्यानपायिनी पुत्रपश्वादिविषया। अभिष्टिः। पररूपं कतन्तवत्। अभ्येषणा प्रार्थना। या च राष्ट्रस्य मुखे लक्ष्मीः राष्ट्रेलक्ष्मीरिति यावत्। तयाभिष्ट्यालक्ष्म्या च हे इन्द्र ! मां सम्राजं च विराजं च कृत्वा संसृज।सम्यग्दीप्तः सम्राट्। विविधं दीप्तो विराट्। आधिपत्यस्यावान्तरविशेषो वा। ‘साम्राज्यं भौज्यं स्वाराज्यं वैराज्यमि’ ति दर्शनात् ॥
अग्ने प्रयातं परि यद्धिरण्यममृतं जज्ञे अघि मर्त्येषु।
य एनद्वेद स इदेनदर्हति जरा मृत्युर्भवति यो विभर्ति ॥
यद्धिरण्यमग्नेःपरिजज्ञे उदपद्यत। अग्निं हि हिरण्यरेतसमुपचरन्ति। वसिष्ठोऽप्याह —‘अग्नेरपत्यं प्रथमं हिरण्यमि’ति। जनित्वा च मर्त्येषु प्रयातं भोग्यतया।अधिः पादपूरणः।अमृतममृतत्वस्य हेतुम्। ‘हिरण्यदा अमृतत्वंभजन्ते’ इति दर्शनात्। अपरे आहुः—अग्ने परिप्रयातं सर्वतो निर्गतं यद्धिरण्यममृतं मर्त्येष्वधिजज्ञे। अधिः सप्तम्यर्थानुवादीति। एनदुक्तलक्षणं हिरण्यं यो वेद तत्त्वत्तो जानाति स इत् स एव एनदर्हति स एवास्य योग्यः। यस्तु बिभर्ति तस्य। जरा। तृतीयैकवचनस्याकारः। जरयैव। मृत्युर्भवति नाकाले। अपरः पाठः ‘जरामृत्यू हरती’ति। यो बिभर्ति स जरां मृत्युं च हरति॥
यद्वेद राजा वरुणो यदु देवी सरस्वती।
इन्द्रो यद्वृत्रहा वेद तन्मे वर्चस आयुषे॥
यद्धिरण्यं वरुणादयो विदन्ति, तन्मे वर्चसे आयुषे च152भवतु॥
न तद्रक्षांसि न पिशाचास्तरन्ति देवानामोजः प्रथमजं ह्येतत्। तद् यो बिभर्ति दाक्षायणं हिरण्यं स देवेषु कृणुते दीर्घमायुः। स मनुष्येषु कृणुते दीर्घमायुः॥
तदुक्तगुणं हिरण्यं रक्षांसि न तरन्ति नाक्रामन्ति। नापि पिशाचाः। किम्। हि। यस्मादेतद् देवानाम्। एकस्मिन्नेव बहुवचनम्।देवस्याग्नेः। प्रथमजमोजो वीर्यम्। हिरण्यरेता ह्यग्निः। ‘अग्नेरपत्यं प्रथमं हिरण्यमिति वसिष्ठः। एवम्भूतं हिरण्यं यो बिभर्ति।दाक्षायणम्।द्रष्टा दाक्षायणः। तत्सम्बन्धाद् दाक्षायणम्। दाक्षायणेन सूनुना मया स्तुतं धृतं वा। यो बिभर्ति स देवेषु प्रविष्टो देवभूयं गतः दीर्घमायुः कृणुते प्राप्नोति। स एव च मनुष्येष्वपि दीर्घमायुः कृणुते। अस्मिश्चामुष्मिंश्च चिरं तिष्ठति ॥
यदाबध्नन्दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः।
तन्म आबध्नामि शतशारदायायुष्मान् जरदष्टिर्यथासम्॥
यद्धिरण्यमाबध्नन् आबद्धवन्तो दाक्षायणाः मद्गोत्रजाः पित्रादयः। कस्यार्थाय। शतानीकाय। शतानीको नाम राजा सत्राजितः पुत्रः। ‘शतानीकं सत्राजितमभिषिषे’चे ति दर्शनात्। तस्यार्थाय तस्य रक्षणार्थं तदङ्गेष्विति। सुमनस्यमानाः। भृशादिरयम्। सुमनायमानाः।तन्मे मह्यमाबध्नामि। (शतशारदाय) शतं शरदो भाविने मह्यम्। शतं शरदो जीव्यासमिति मदङ्गेष्वाब्ध्नामि। यथा आबन्धने आयुष्मान् जरदष्टिश्चासं स्याम्। जरदबस्थायाः प्राप्तिः, तस्यां प्रकाशमानाशनं वा यस्य स जरदष्टिः। शतशारदायेत्यनेनैव सिद्धे पुनर्वचनमादरार्थम्॥
घृतादुल्लुप्तंमधुमत् सुवर्णंवनञ्जयं धरुणं धारयिष्णु।
^(१)पृणक् सपत्नानधरांश्च कृण्वदारोह मां महते सौभगाय॥
घृतात्। ‘घृ क्षरणदीप्त्योः’। दीप्तादग्नेरुल्लुप्तम्। ‘लुप्लृछेदने’। उच्छिन्नमुद्गतम् अग्नेः प्रयातमित्युक्तम्। केचिदुकारात् परं रेफमधीयते। तत्र वर्णव्यत्ययः। मधुमत् मधुस्वादैर्भक्ष्यभोज्यपेयैस्तद्वत्। हिरण्यवतो हि सर्वं सुलभम्। सुवर्णं हिरण्यम्।धनञ्जयं शत्रुधनानां जेतृ।धरुणं धार्यम्। धारयिष्णु सर्वस्य प्राणिजातस्य धारणशीलम्। एवम्भूतमिदं सुवर्णमित्येकः। परोऽर्धर्चः प्रत्यक्षकृतत्वाद् भिन्नं वाक्यम्।हे सुवर्ण ! सपत्नान् मम शत्रूनधरान् मत्तो निकृष्टान् कृण्वत् कुर्वत्। पृणक्। ^(२)पृणक्तिर्वधकर्मा। ‘पृणक्। पिप्रूंशम्वरम्’ इत्यादिषु दर्शनात्। ततः ‘छन्दसि लुङ्ल ङ्लिटः’ (३ ४-६) इति लोडर्थे लङ्। सिपो हल्ङ्यादिलोपः। ‘बहुलं छन्दस्यमाङ्योगेऽपि ’ ( ६ ४-७५) इत्यडभावः। ^(३)पृङ्ग्धिजहि। चशब्दःआरोह इत्यनेन सम्बन्धनीयः। मामारोह च कण्ठे। किमर्थम्। महते सौभगाय। महत् सौभाग्यं मम यथा स्यादिति॥
प्रियं मा कुरु देवेषु प्रियं राजसुमा कुरु।
प्रियं विश्वेषु भूतेषु मयि धेहि रुचा रुच153म् ॥
देवेष्वित्यादिषु षष्ठ्यर्थे सप्तमी। हे सौवर्णमणे।देवादीनां प्रियं मां कुरु^(५)। त्वदीयया च रुचा मयिरुचं धेहि स्थापय॥
तिष्ठन् समिधमादध्यात् ‘स्मृतं निन्दा च विद्या चे’त्यादि—
स्मृतं निन्दा च विद्या च श्रद्धा प्रज्ञा च पञ्चमी।
इष्टं दत्तमधीतं च कृतं सत्यं श्रुतं व्रतम् ॥
स्मृतं कर्तव्यविषयं स्मरणम्।निन्दा निन्द्यविषया। विद्या वेदितव्यस्य ज्ञानम्। श्रद्धा कर्तव्यविषया। प्रज्ञा प्रकृष्टज्ञानमात्मविषयम्। पञ्चमीत्यनुवादः। इष्टं यागो देवपूजा।दत्तं दानं भिक्षालब्धानामाचार्यायाम्। अधीतं वेदतदङ्गानामध्ययनम्। कृतमाचार्यवचनस्यानुष्ठानं समिदाधानादि च। सत्यं यथादृष्टार्थवादित्वम्। श्रुतं श्रवणं वेदादीनामर्थज्ञानम्। व्रतं वर्ज्यानां वर्जनम्। यान्येतानि स्मृतादीनि व्रतान्तानिद्वादशानुक्रान्तानि। यञ्चतन्मे सर्वं व्रतमिति वक्ष्यमाण154मपेक्षते॥
________________________________________________________
१, २, ३. ‘वृ’ घ. ङ. पाठः. ५. ‘रु ब्रह्मगे। ब्राह्मणशब्दस्य आदेर्ह्रस्वश्छान्दसः।जातावेकवचनम्।त्वदी’ ख. ङ. पाठः
यदग्ने सेन्द्रस्य सऋषिकस्य सऋषिराजस्य सपितृकस्य सपितृराजस्य साकाशस्य सातीकाशस्य सानूकाशस्य सप्रतीकाशस्य सदेवमनुष्यस्य सगन्धर्वाप्सरस्कस्य सहारण्यैश्च पशुभिर्ग्राम्यैश्च यन्म आत्मन आत्मनि व्रतं तन्मे सर्वं व्रतम् इदमहमग्ने सर्वव्रतो भवामि स्वाहा॥
यदग्नेइति। अत्र अग्नेश्छान्दसो विसर्जनीयस्य लोपः। यच्चाग्नेर्व्रतं कर्म। ‘त्वमग्ने! व्रतपा असी’त्यादिषु दृष्टम्। सेन्द्रस्येत्यादि अग्नेर्विशेषणम्। इन्द्रादिभिः सहितस्याग्नेर्यद् व्रतमिति। तत्रेन्द्रस्य व्रतं देवानां प्रीणनम्। ऋषीणां तपस्सहत्वम्। ऋषिराजाः वसिष्ठादयः। तेषामपि तत्रैव प्रकर्षः। पितॄणां नियतभोजित्वं ब्रह्मचर्यं च। श्राद्धादिषुदत्तमेव हि ते भुञ्जते। स्त्रीपरिहारश्च तेषामस्ति। पितृराजो यमः।तस्य व्रतं समत्वम्। आकाशस्यावकाशदानम्। अतीकाशादय आकाशस्यैव प्रभेदाः। अतीकाशो जालकादिच्छिद्रगतः। ‘दिक्ष्वतीकाशान् करोती’ ति यजुष्यतीकाशा इति दर्शनात्। अनूकाशो महाच्छिद्रगतः। प्रतीकाशस्ततोऽपि महा155च्छिद्रगतो महाकाशप्रतिमः। एषामप्यवकासदानमेव व्रतम्।देवानां दातृत्वादि। मनुष्याणां प्रियवचनादि। गन्धर्वाणां स्तुतिः। अप्सरसां परिचरणे चातुर्यम्।आरण्याः पशवो मृगाः। तेषां व्रतं हिंस्रत्वम्। ग्राम्याः गावः। तेषां व्रतम् अहिंस्रत्वम्। सिंहादीनामग्रहणं प्रकरणानुगुण्याभावात्। एवमिन्द्रादिभिः सहितस्याग्नेर्यद् व्रतं, यच्च मे आत्मन आत्मनि व्रतं मयैवोत्प्रेक्षितम् आचार्येणान्यार्थं प्रेषितस्य तदुपयोगिनोऽर्थस्याप्याहरणादि, तत् सर्वं मे व्रतम्। एवमहं सर्वव्रतः उक्तैः सर्वैर्व्रतैस्तद्वान् भवामि। हे अग्ने! तुभ्यं स्वाहा।यत् त्वयिसमिदाधानादि तदेवंभूतस्य मे भवनमितीदंशब्दस्यार्थः। यथेदं गम्यते, इदं सङ्गमनं क्रियते इति॥
‘ममाग्नेवर्च’ इति156 प्रत्यृचं समिधोऽभ्यादध्यात्
ममा॑ग्ने॒वर्चो॑ वि॒हवेष्व॑स्तुव॒र्यत्वेन्धा॑नास्त॒न्वं॑पुषेम।
मह्यं॑नमन्तां॒प्रदिशश्च॒त॑स्र॒स्त्वयाध्य॑क्षेण॒वृत॑नाजयेम।
( अष्ट० ८. अध्या० ७. व० १५. ऋ० १.
विहव्यस्यार्षम्। हे अग्ने! त्वत्प्रसादाद् विहवेषु मम वर्चोऽस्तु।विहवाःसङ्घामाः। यज्ञा वा, विविधं ह्वयन्ति तत्रेति। वर्चो दीप्तिः। विहवेषु दीप्त उज्ज्वलो भूयासम्। तथा त्वा त्वामिन्धाना वयम्। ‘अस्मदो द्वयोश्च’ (१-२-५९) इति एकस्मिन् बहुवचनम्। तथाच ममेति पूर्वत्रैकवचनम्। तन्वं तनूं पुषेम पुष्येम। पुष्टाङ्गाभवेम क्षीराद्युपयोगेन। ‘श्रियमिच्छेदूधुताशनात्’ इति। तथा त्वत्प्रसादान्मह्यं चतस्रोऽपि प्रदिशः प्रधानदिशो नमन्तां वश्याः भवन्तु।तत्रस्थेषु वश्येषु ता वश्या इत्युपचारः। तथा त्वयाध्यक्षेण स्वामिना पृतनाः शत्रुसेनाः वयं जयेम॥
मम॑दे॒वावि॑ह॒वेस॑न्तु॒सर्व॒इन्द्र॑वन्तोम॒रुतो॒विष्णु॑र॒ग्निः।
ममा॒न्तरि॑क्षमु॒रुलो॑कमस्तु॒मह्यंवातः॑पवतां॒कामे॑अ॒स्मिन्।
(अष्ट० ८. अध्या० ७. ६० १५ ऋ० २.)
मम देवाः। विहवे सङ्ग्रामे यज्ञे वा सर्वे देवाः मम सन्तु मत्पक्षे भवन्तु। के ते। इन्द्रवन्त इन्द्रेण सहिताः।मरुतो विष्णुरग्निश्च। तथा अन्तरिक्षं ममास्तु। कीदृशम्।उरुलोकम्।लोक्यन्त इति लोका नक्षत्राणि देवगृ157हाः। ‘देवगृहावै नक्षत्राणि सुकृतां वा एतानि ज्योतींषि यन्नक्षत्राणी’त्येवं स्तुतानि। बहुभिः सुकृतां विमानैर्युक्तमन्तरिक्षमपि प्राणादूर्ध्वं मम भोग्यमस्तु। मह्यं मामुद्दिश्य वातः पवतामावातु। कदा।कामेऽस्मिन्। यदा मे कामः पवतां वा त इति तदा॥
मयि॑दे॒वाद्रवि॑ण॒माय॑जन्तां॒मय्या॒शीर॑स्तु॒मयि॑दे॒वहू॑तिः।
दैव्या॒होता॑रोवनुषन्त॒पूर्वेरि॑ष्टाःस्यामत॒न्वा॑सु॒वीराः॑।
(अष्ट० ८. अध्या० ७. व० १५, ऋ० ३.)
मयि देवाः। सर्वे देवाः द्रविणं धनं बलं वा। मयि। विभक्तिव्यत्ययः। मह्यम्। आयजन्तामाभिमुख्येन ददतु। आशीःप्रार्थना।सा च मय्यस्तु। सत्येति गृह्यते। देवहूतिर्देवानामाह्वानम्। सा च मयि सत्यास्तु। किञ्च मयि दैव्याःदेवेषु भवा होतारः। अग्निर्वै देवानां होता तदाधिष्ठितो मानुषो होता प्रवर्तते। इह तु बहुवचननिर्देशादग्निमुखानां सर्वेषामेव देवानां ग्रहणम्। अग्न्यादयो देवाः पूर्वे वनुषन्त।‘वन षण सम्भक्तौ’। सम्भजन्ताम्। किम्।मदीयं यज्ञम्। यज्ञान्तरगमनात् पूर्वं मदीयं यज्ञमागच्छन्तु।वयं च सुवीराः सुपुत्राः सन्तस्तन्वा, जातावेकवचनं, तनूभिर्मम पुत्रादीनां च शरीरैः अरिष्टाः अहिंसिताः स्याम॥
मह्यं॑यजन्तु॒मम॒यनि॑ह॒व्याकू॑तिःस॒त्यामन॑सोमेअस्तु।
एनो॒मानिगां॑कत॒मच्च॒नाहंवि॑श्वेदेवासो॒अधि॑वोचतानः॥
(अष्ट० ८ अध्या० ७. व० १५.ॠ० ४)
मह्यं यजन्तु।मदर्थं यजन्तु ऋत्विजः मम स्वभूतानि यानि हव्यानि तैः। मे मम मनसो या आकूतिरभिप्रायोऽभ्युदियामिति सा सत्यास्तु।देवानां प्रसादेनाहं कतमच्चन किञ्चिदप्येनो मा निगां नियमेन मा प्रापस्। हे विश्वेदेवाः ! यूयं च नो मह्यम् अधिवोचत। पक्षपातेन वचनमधिवचनम्। दृश्यते हि ‘यद् ब्राह्मणश्चाब्राह्मणश्च प्रश्नमेयातां ब्राह्मणायाधिब्रूयादि’ ति॥
देवीः॑षलुर्वीरु॒रुनः॑कुणोत॒वि॑श्वेदेवासइ॒हवी॑रयध्वम्।
माहा॑स्महिप्र॒जया॒मात॒नूभि॒र्मार॑धामद्विष॒तेसो॑मराजन्॥
(अष्ट० ८ अध्या० ७. व० १५ ॠ० ५.)
देवीः षट्।आद्येपादे दिशः प्रार्थ्यन्ते। हे देवीः।देव्यः !।षट्, प्राच्याद्याश्चतस्रः ऊर्ध्वा अधरा चेति। उर्वीः।उर्व्यः !। त्रीण्यप्यामन्त्रितानि। नोऽस्मभ्यम् उरु प्रभूतं धनं कृणोत कुरुत दत्त। अपर आहुः— ‘षण्मोर्वीरंहसस्पान्तु द्यौरि’ति निर्दिष्टा द्यौरादयः षड् देव्यः इति। हे विश्वे देवाः ! यूयं चेह कर्मणि वीरयध्वं वीरान् नः कुरुत। युष्मत्प्रसादाच्च वयं प्रजया पुत्रपौत्रादिकया मा हास्महि। ‘ओहाक् त्यागे’। कर्मणि लुङ्। त्यक्ता मा भूम। मा चात्र तनूभिः। पुत्राद्यपेक्षं बहुवचनम्। शरीरैरपि मा हास्महि। हे सोमराजन् ! त्वत्प्रसादाद्वयं द्विषते मा रधाम। रघिर्वशीकरणकर्मा। शत्रोर्वश्याः मा भूम॥
अग्ने॑म॒न्युंप्र॑तिनु॒दन्परे॑षा॒मद॑ब्धोगो॒पाःपरि॑पाहिन॒स्त्वम्।
प्र॒त्यञ्चो॑यन्तुनि॒गुतः॒पुन॒स्ते॒ ३॑मैषां॑चि॒त्तंप्रबु॒धां॒विनेश॑त्॥
(अष्ट० ८. अध्य० ७.व० १६. ऋ० ६.)
अग्ने मन्युम्। हे अग्ने ! त्वं परेषां मन्युं मद्विषयं क्रोधं प्रतिनुदन् तामेव प्रतिप्रेरयन् अदब्धोऽहिंसितः केनापि गोपाः गोपायिता च स्वभावतो नः परिपाहि सर्वतो रक्ष। ते च परे त्वया प्रतिनुत्तमन्यवः सन्तः पुनः प्रत्यक्षोयन्तु यान्तु यथेतः प्रतिगच्छन्तु। किं कुर्वन्तः। निगुतः।‘गु पुरीषोत्सर्गे’। क्विप्। भीत्या पुरीषमुत्सृजन्तः, अत्यन्तभीताः। एषां च शत्रूणां चित्तं प्रबुधाम्। किबन्तात् षष्ठी। प्रवुद्धानां जाग्रतामेव सताम्।अमा सहैव विनेशद् विनश्यतु। अन्येषां चित्तं स्वपतां नश्यति, एषां तु प्रबोधदशायामेव चित्तं नश्यत्विति॥
धा॒ताधा॒॑तॄणा॑भुव॑नस्य॒यस्प॑तिर्दे॒वंत्रा॒तार॑मभिमातिषा॒हम्।
इ॒मंय॒ज्ञम॒श्विनो॒भाबृह॒स्प॑तिर्दे॒वाः पा॑न्तु॒यज॑मानंन्य॒र्थात्।
(अष्ट०` ८. अध्या०७. व० १६. ऋ०७ )
धाता। जगतो ये धातारो मरीच्यादयः प्रजापतयः, तेषामपि धाता ब्रह्मा भुवनस्य भूतजातस्य यः पतिः।देवम्। प्रथमार्थे द्वितीया। स इति चाध्याहार्यम्। स देवः। त्रातारं त्राता।अभिमातिषाहम् अभिमातिषाट्। अभिमातयः शत्रवस्तेषां सोढा अभिभविता। स तावदेकः।अश्विनोभा अश्विनावुभौ। बृहस्पतिर्देवाश्चान्ये। इमं यज्ञं क्रियमाणमिदं कर्म, यजमानं च मां न्यर्थात्। अर्तेर्भावे थल्प्रत्ययः। निशब्दो नीचैर्भावे। नीचैर्गमनात् पान्तु।वैगुण्यनिमित्तं कर्मणो नीचैर्गमनम्।यजमानस्य तन्निमित्तो नरकपातः। यथा तदुभयमपि न भवति, तथा ब्रह्मादयः पान्तु॥
उ॒रु॒व्यच॑नोमहि॒षःशर्म॑यंसद॒स्मिन्हवे॑पुरुहू॒तःपु॑रु॒क्षुः।
सनः॑प्र॒जायै॑हर्यश्वमृल॒येन्द्र॒मानो॑रीरिषो॒मापरा॑दाः।
( अष्ट० ८ अध्या० ७. व० १६. ऋ० ८.)
उरुव्यचाः। विचतिव्याप्तिकर्मा। उरुशब्दो बहुपर्यायः। बहूनां देशानांव्यापको वर्षणेन उरुव्यचाः। इन्द्रो नोऽस्मभ्यं महिषः। महन्नामैतत्। महानाकारप्रभावाभ्याम्। शर्म सुखम्।यंसद्।यमेर्दानकर्मणः पञ्चमे लकारे रूपम्। यच्छतु ददातु अस्मिन् मदीये हवे आह्वाने सति मया आहूतः सन्। पुरुहूतः। पुरुशब्दो बहुपर्यायः। बहुभिर्यजमानैस्तत्र तत्र यज्ञे हूतः। पुरुक्षुः। ‘क्षु शब्दे’। बहुशब्दः। लोकेऽत्यन्तं शब्दितः कीर्तिमान्। परोऽर्धर्चः प्रत्यक्षकृ158तत्वाद् भिन्नं वाक्यम्। य एवमुक्तगुणः स त्वं नोऽस्माकं प्रजायै। विभक्तिव्यत्ययः। प्रजाम्।हे हर्यश्व ! मृलय सुखय।मा च नः अस्मान् रीरिषः हिंसीः।हे इन्द्र ! मा च परादाः। अरक्षारूपं दानं परादानम्। हिंसितृभ्यो मा दाः ॥
येनः॑स॒पत्ना॒अप॒तेभ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑बाधामहे॒तान्।
वस॑वोरु॒द्राआ॑दि॒त्याउ॑परि॒स्पृशंमो॒ग्रंचेत्ता॑रमधिरा॒जम॑क्रन्॥
(अष्ट०८. अध्या० ७. व० १६. ऋ० ९ )
ये नः। अस्माकं ये सपत्नाः शत्रवस्तेऽपभवन्तु अपगता भवन्तु। तत्र हेतुः— तान् वयमिन्द्राग्निभ्यामवबाधामहे तेषामवबाधने इन्द्राग्नीप्रयुञ्ज्महे।वस्वादयश्च मामुपरिस्पृशादिगुणविशिष्टम् अक्रन् कुर्वन्तु। वसवोऽष्टौ। रुद्रा एकादश।आदित्या द्वादश। उपरिलोकं स्वर्गं स्पृशति प्राप्नोति इत्युपरिस्पृक्। उग्रोऽनभिभवनीयः। चेता चेतिता ज्ञाता। अधराजोऽधिपतिः, अधिकं वा दीप्तः॥
उत्तरा यजुर्वेदे पठ्यते। अस्माकं खैलिकी॥
अर्वाञ्चमिन्द्रममुतोहवामहेयोगोजिद्धनजिदश्वजिद्यः।
इमंनोयज्ञंविहवेजुषस्वास्यकुर्मोहरिवोमेदिनंत्वा॥
इन्द्रं वयममुतो द्युलोकादर्वाञ्चमस्मदभिमुखं हवामहे आह्वयामः। य इन्द्रो गोजित पणिभिरपहृतानां देवगवीनां जयेन प्रत्याहर्ता। अत्रेतिहासः ‘किमिच्छन्ती सरमे ‘त्यत्र159 द्रष्टव्यः। धनजित् हिरण्यादेः शत्रुधनस्य जेता। अश्वजित् अश्वानां च यो जेता।परोऽर्धर्चःप्रत्यक्षकृतत्वाद् भिन्नं वाक्यम्। हे हरिवः ! हरिभिर्हरितवर्णैरश्वैस्तद्वन् !। इमं नः अस्माकं यज्ञं विहवे विविधाह्वाने सति जुषस्व। अस्य। विभक्तिव्यत्ययः। अस्मिन् यज्ञे। त्वा मेदिनं कुर्मः।हूयमानानां समिधादीनां रसांशो मेदः। ‘ञिमिदा स्नेहने’। घञन्तः। तेन तद्वन्तं कुर्मः॥
समावर्तनानन्तरं गुरुगृहाद् गन्तुं गुरोरनुमननमाददानस्य शिष्यस्य वचनमाचार्येनाम्नोपांशु संबोध्य ‘इदं वत्स्यावो भोः’ इति।
इदं वत्स्यावो भोः।
हे देवदत्त ! भोः ! इदं वत्स्यावः।केवलोऽपि वसिर्विपूर्वस्यार्थेद्रष्टव्यः। पृथग्भावेन वासो विवासः। एतावन्तं कालं सहोषितौ स्वः। अत ऊर्ध्वं विवत्स्यावः। इदंशब्देन आख्यातगता विवासक्रिया निर्देिश्यते। इदं विवसनं करिष्याव इति, यथेदं गम्यत इति॥
‘प्राणापानयोरि ‘त्यादिकं मन्त्रमाचार्यं आह—
प्राणापानयोरुरुव्यचास्त्वया प्रपद्ये देवाय सवित्रे परिददामि।
प्राणापानयेरिति सप्तमी। हे शिष्य ! त्वया। विभक्तिव्यत्ययः। त्वम्। उरुव्यचाः बहुनो जीवितस्य व्याप्ता सन्। प्रपद्ये। पुरुषव्यत्ययः। प्रपद्यस्व। प्रपद्यतिरयं प्रतितिष्ठतेरर्थे। अनेकार्था हि धातवः। प्राणापानयोः प्रतितिष्ठ। देवाय सवित्रे त्वामहं परिददामि रक्षार्थं ददामि। अतः परं स एक एव ते रक्षकः॥
‘आ मन्द्रैरिन्द्र।हरिभिरि’ति च।
आम॒न्द्रैरि॑न्द्र॒हरि॑भिर्या॒हिम॒यूर॑रोमभिः।मात्वा॒केचि॒न्निय॑म॒न्विंनपा॒शिनोति॒धन्वे॒॑वताँइ॑हि॥
(अष्ट०१. अध्या० ३. व० ९. ऋ० ९ )
वैश्वामित्री। हे इन्द्र ! मन्द्रैः स्तुत्यैर्मोदमानैर्वा।मयूररोमभिर्मयूरस्येवरोमाणि येषां तादृशैः। हरिभिर्हरितवर्णैस्त्वदीयैरथैः आयाहि शिष्यमिमं रक्षितुम्। आयान्तं च त्वां केचिदपि मा नियमन् मा नियंसिषुः मा प्रतिभान्सुः। विं न पक्षिणमिव पाशिनः। यथा पाशहस्ताः पुरुषाः पक्षिणं बध्नन्ति तद्वत्। येऽपि केचित् प्रतिबन्धारस्तानप्यतीहि अतिक्राम। धन्वेव। यथा पथि गच्छन्तो धन्व मरुभूमिं शीघ्रमतिक्रामन्ति तद्वत्॥
‘ओं प्राक् स्वस्ती’ति जपत्याचार्यः।
औं प्राक् स्वस्ति।
ओमित्यनुज्ञानं गमनस्य। प्रागिति दिशामुपलक्षणम्। प्रागादिषु दिक्षु स्वस्ति ते भूयात्॥
गच्छन्तं माहित्रेणानुमन्त्रयेत—
महि॑त्री॒णामवो॑स्तुद्यु॒क्षंमि॒त्रस्या॑र्यम्णः।
दु॒रा॒धर्षं॒वरु॑णस्य॥
( अष्ट० ८. अध्या० ८. व० ४३. ॠ० १.)
महि त्रीणाम्।सत्यधृतरार्षम्।त्रीणां त्रयाणां सम्बन्धि।महि महत्। अवः पालनमस्तु गच्छतामस्माकमुपरि भवतु। द्युक्षं दीप्तेर्निवासभूतमतिदीप्तम्। केषां त्रयाणाम्। मित्रस्यार्यम्णो वरुणस्य च। एते आदित्यानामन्यतमे (!)। दुराधर्षं दुरभिभवमन्यैः पालनम्॥
किं पुनरेषामवः प्रार्थ्यते—
न॒हितेषा॑म॒माच॒ननाध्व॑सुवार॒णेषु॑
ईशेरि॒पुर॒घशंसः॥
(अष्ट० ८. अध्या० ८. व० ४३. ऋ० २.)
नहि तेषाम्। तेषां मित्रादीनाम् अमा चन। अमेति गृहनाम अव्ययम्। चनशब्दोऽप्यर्थे। नशब्दाच्च परो द्रष्टव्यः, नाप्यध्वस्विति। नहि तेषां कश्चिद् रिपुः अघशंसः परेषामनर्थाशंसी गृहे नहि ईशे। ‘लोपस्त आत्मने पदेषु’ (७.१-४१)। ईष्टे, यस्तैः पाल्यमानानस्मान् बाधेत। नाप्यध्वसु कश्चिदीष्टे। कीदृशेषु। वारणेषु।दस्युप्रभृतयो वारणीया येषु तथाविधेषु॥
किञ्च—
यस्मै॑पु॒त्रासो॒अदि॑तेः॒प्रजी॒वसे॒म॑र्त्याय।
ज्योति॒र्यच्छ॒न्त्यज॑स्रम्॥
अष्ट० ८. अध्या० ८. व० ४३. ऋ० ३.)
यस्मै।अदितेः पुत्राः पूर्वोक्ता मिश्रादयो यस्मै मर्त्याय जीवसे जीवितुम् अजस्रमविच्छिन्नं ज्योतिः प्रकाशस्वभावं ज्ञानमैहलौकिकं पारलौकिकं च प्रयच्छन्ति ददति।साकाङ्क्षत्वात् स एवेह चामुत्र च सुखी भवतीति योज्यम्। यत एवंभूता मित्रादयस्तस्मात् तेषामवः प्रार्थ्यत इति॥
वयसाममनोज्ञा वाचः श्रुत्वा जपेत् ‘कनिक्रदत्—
कनि॑क्रदज्ज॒नु॒ष॑प्रब्रुवा॒णइय॑र्ति॒वाच॑मरि॒तेव॒नाव॑म्।
सु॒म॒ङ्गल॑श्चशकुने॒भवा॑सि॒मात्वा॒का॑चिदभि॒भाविश्व्या॑विदत्॥
(अष्ट० २. अध्या० ८. व० ११. ऋ० १.)
गृत्समदेन स्तुत इन्द्रस्तस्मै धनं दत्त्वा तं पथि गच्छन्तं शकुनिर्भूत्वा प्रतिकूलं वाश्यमानो न्यषेधत् पुनरपि तत्स्तुतीः शुश्रूषमाणः। स एताभ्यां सूक्ताभ्यां शकुनिरूपमिन्द्रं तुष्टावःकनिक्रदत्। क्रन्दतिः शब्दकर्मा।तस्य यङ् लुगन्तस्य शतरि रूपम्। अत्यर्थं शब्दं कुर्वन्।जनुषम्।जनिरुत्पत्तिर्जा।तिर्वा। तां प्रब्रुवाणः। स्वरविशेषेण विज्ञायते एवञ्जातीयः शकुनिर्वाश्यत इति। तदभिप्रायमेतत्। इयर्त्तेप्रेरयति वाचम्।दृष्टान्तार्थं पुनर्वचनम्।तमाह —अरितेव।अरिता नावं प्रेरयिता नाविकः। स यथा नावं प्रयत्नेन प्रेरयति तद्वत्। एवमात्मनि परोक्षमुक्त्वा शकुनिं प्रत्याह —हे शकुने ! सुमङ्गलश्च। चश्चेदर्थे। तथाच भवासीति न निहन्यते। ‘निपातैर्यद्यदि—’ (८-१-३०) इति निषेधात्। त्वं चेत् सुमङ्गलः शोभनस्य मङ्गलस्य सूचयिता भवासि भवेः। ततस्त्वा काचिदप्यभिभा अभिभूः।सोर्डादेशः। मा विदत्। विदिर्लाभे। मा लब्ध।विश्व्या विश्वत्र भवा। मनुष्येषु पक्षिष्वन्यत्र वा मा त्वा काचिदप्यमिभूः॥
मात्वा॑श्ये॒नउद्व॑धी॒न्मासु॑प॒र्णोमात्वा॑विद॒दिषु॑मान्वी॒रोअस्ता॑।
पित्र्या॒मनु॑प्र॒दिशं॒कनिक्रदत्सुम॒ङ्गलोभद्रवा॒दीव॑दे॒ह॥
(अष्ट ० २. अध्या० ८. व० ११. ॠ० २.)
मा त्वा श्येनः। इतरेषां पक्षिणामभिभविता सुपर्णेऽपि तत्रैवावान्तरजातिभेदः। हे शकुने ! त्वा श्येनो मोद्वधीत्। उत् धात्वर्थानुवादी। मा वधीत्। मा च सुपर्ण उद्वधीत्। इषुमानिषुहस्तः। अस्ता शराणां क्षेप्ता (वीरः) धानुष्कः। स च मा त्वा विदत् मा लब्ध।तस्य वशं मा गमः।अस्मद्गृहस्य या पित्र्या प्रदिक् प्रधानदिक् तामनुप्राप्य कनिक्रदत् शब्दं कुर्वन् त्वं सुमङ्गलः शोभनस्य मङ्गलस्य सूचयिता।भद्रवादी भद्रं कल्याणं तद्वचनशीलः। एवंभूतो भूत्वा वद इह पथि गृहे वा॥
अव॑क्रन्ददक्षिण॒तोगृ॒हाणां॑सुम॒ङ्गलो॑भद्रवा॒दीश॑कुन्ते।
मानः॑स्ते॒नई॑शत॒माघशं॑सोबृ॒हद्व॑देमवि॒दथे॑सु॒वीराः॑॥
(अष्ट० २. अध्या ८ व० ११. ऋ० ३.)
अवक्रन्द। हे शकुन्ते।भद्रवादी सुमङ्गलश्च त्वं गृहाणामस्मदीयानां दक्षिणतोऽवक्रन्द।त्वया चैवं क्रियमाणे नोऽस्माकं स्तेनः मा ईशत मा ईशिष्ट स्तेनस्य बशगा मा भूम। यश्वाघशंसः परेषामनर्थाशंसी स च मा न ईशिष्ट।वयंच विदथे यज्ञे बृहद् वदेम बहु वदेमहि ऋत्विजः प्रति स्तूयतां शस्यतां हूयतामिज्यतामित्यादि। सुवीराः॥
प्र॒द॒क्षि॒णिद॒भिगृ॑णन्तिका॒रवो॒वयो॒वद॑न्तऋतु॒थाश॒कुन्त॑यः।
उ॒भेवाचौ॑वदतिसाम॒गाइ॑वगाय॒त्रंच॒त्रैष्टु॑भं॒चानु॑राजति॥
(अष्ट० १ अध्या० ८. व० १२. ॠ .०१)
प्रदक्षिणित्। गृहस्य दक्षिणतोऽभिगृणन्ति। ‘गॄशब्दे’। लोडर्थे लट्। अभिगृणन्त्वभितः शब्दायन्ताम्। कारवः शुभाशुभयोः कर्तारः सूचकाः। वयः। विरिति पक्षिनामान्यत्र, इह तु क्रियाशब्दः। शकुन्तय इति वक्ष्यमाणत्वात्। ‘वि गत्यादिषु’। गन्तारः अशितारो खादितारो वा। वदन्तः उच्चारयन्तः। ऋतुथा ऋतावृतौ काले काले।शकुन्तयः पक्षिणो भारद्वाजादयः।
“भारद्वाजमयूराणां चाषस्य नकुलस्य च।
एतेषां दर्शनं पुण्यं दुर्लभं तु प्रदक्षिणम्॥”
इति पठन्ति। अयं चेदानीं वाश्यमानः पक्षी उभे वाचौ स्रोतोगीतिरूपे वदति। सामगा इव। विजन्तादेकवचनम्। स यथा गायत्रं च त्रैष्टुभं चोभे सामनी गायति, तद्वत्। सोऽयं पक्ष्यनुराजति अनुराजतु अस्माभिः स्तूयमानो दीप्यताम्॥
उ॒द्गा॒तेवंशकुने॒साम॑गायसिब्रह्मपु॒त्रइ॑व॒सव॑नेषुशंससि।
वृषे॑ववा॒जीशिशु॑मतीर॒पीत्या॑स॒र्वतोनःशकुनेभ॒द्रमाव॑द
वि॒श्वतो॑नःशकुने॒पुण्य॒माव॑द॥
(अष्ट० २. अया० ८. व० १२. ऋ० २.)
उद्गातेव। हे शकुने ! त्वं गायसि। लोडर्थे लट्।दक्षिणतो गाय। उद्गातेव साम। यथोद्गाता साम गायति तद्वत्।ब्रह्मपुत्रः ब्रह्मवर्गे भवो ब्राह्मणाच्छंसी। स यथा सवनेषु प्रातस्सवनादिषु त्रिष्वपि शंसति उक्थ्यादि संस्थासु, त्वं तद्वच्छंससि शंस।तथा वृषेव। सेचनसमर्थो वृषा। वाजी अश्वः। स यथा शिशुमतीर्भविष्यद्भिर्गर्भैस्तद्वतीःबडवा अपीत्य सर्वतो वदति तद्वत्। हे शकुने ! नोऽस्माकं सर्वतो भद्रमावद आदाभिमुख्येन वद। एष एवार्थःशब्दान्तरेण पुनरुच्यते तात्पर्यार्थं —विश्वतोनः॥
‘आवदं ‘स्तूपाकरणे गता॥
‘देवीं वाचमजनयन्त देवाः’ इति च।
दे॒वींवाच॑मजनयन्तदे॒वास्तांवि॒श्वरू॑पाःप॒शवो॑वदन्ति।सानो॑म॒न्द्रेष॒मूर्जं॒दुहा॑नाधे॒नुर्वाग॒स्मानुप॒सुष्टुतैतु॑॥
(अष्ट० ६.अध्या०.७व० ५. ऋ १० )
नेम ऋषिः। देवा इन्द्रादयः देवीं वाचं संस्कृतात्मिकाम् अजनयन्त। तामेव विश्वरूपाः पशवो द्विपादश्चतुपादश्च पक्ष्यादयश्च वदन्ति। अपभ्रंशानामपि संस्कृतयोनित्वात्। सैवंभूता वाक्मन्द्रा स्तुत्या नोऽस्मभ्यमिषमन्नमूर्जं बलं च दुहाना।धेनुः।लुप्तोपममेतत्।धेनुरिव।सुष्टुता सम्यगस्माभिः स्तुता अस्मानुपैतु पक्ष्यादीनां वागस्माकमनुकूला भवतु॥
‘स्तुहि श्रुतमि’ति मृगत्य।
स्तु॒हिश्रु॒तंग॑र्त॒सदं॒युवा॑नंमृ॒गंनभी॒मप्रु॑पह॒त्नुमु॒ग्रम्।
मृ॒लाज॑रि॒त्रेरु॑द्र॒स्तवा॑नो॒न्यन्तेअ॒स्मन्निव॑पन्तु॒सेना॑॥
(अष्ट० २. अध्या० ७ व० १८. ऋ० ११ )
गृत्समदत्यार्षम्। द्वे मदीयान्तरात्मन् ! स्तुहि श्रुतमाबालगोपालं प्रसिद्धम्। गर्वसदम्। गर्त इति रथनान।दृश्यते हि ‘आरोहयो वरुण मित्र गतीमे ‘ति। तत्र सदिन्तमासनिम्।युवानं नित्यतरुणम्। ‘युवास्व160पा रुद्र एषामि’ति च मन्त्रान्तरम्। मृगं न मृगमिव भीमम्।यथायं मृगो भीमः तद्वद् इति प्रकरणे सङ्गतिः। उपहन्तुंब्रह्मद्विषामुपहन्तारम्।उग्रम्।देवस्यैतन्नामानभिभवनीयतानिमित्तम्। परोऽर्धर्चः प्रत्यक्षकृतो भिन्नं वाक्यम्।हे रुद्र’ स्तवानः अस्माभिः स्तूयमानस्त्वं जरित्रे। विभक्तिव्यत्ययः। जरितारं स्तोतारं मां मूल मूलय सुखय।अस्मद् अस्म तोऽन्यं ते सेना निवपन्तु बाधन्तां, नास्मान्॥
यस्या दिश161इत्यादि।
** अभयं मित्रावरुणा मह्यमस्त्वर्चिषा शत्रून् दहतं प्रतीत्य मा ज्ञातारं मा प्रतिष्ठां विदन्तु मिथो भिन्दाना उपयन्तु मृत्युम्॥**
अभयम्। मित्रावरुणा हे मित्रावरुणौ ! मह्यं ममाभयमस्तु भयं मा भूत्। युवां चोभयतो दीप्तस्योल्मुकस्याग्नेरर्चिषा शत्रूनस्मदीयान् दहतं प्रतीत्य प्रतिगत्य तेषामभिमुखं गत्वा। ते च युवाभ्यां दह्यमानाः ज्ञातारम्।जानातिरिह ज्ञानपूर्वके प्रतीकारे वर्तते। ज्ञात्वा प्रतिकर्तारम्। मां मा विदन्तु मा विदन् मा लप्सत। प्रतिष्ठां च मा विदन्तु। किन्तु मिथःपरस्परं भिन्दाना वध्यघातकभावमाचरन्तो भिन्नमतयो वा मृत्युमुपयन्तु॥
संसृ॑ष्टं॒धन॑मु॒भ॑यंस॒माकृ॑तम॒स्मभ्यं॑दत्तां॒वरु॑णश्चमन्युः॒।
भियं॒दधा॑ना॒हृद॑येषु॒शत्र॑वः॒परा॑जितासो॒अप॒निरल॑यन्ताम्॥
(अष्ट० ८. अध्या० ३. व० १९, ऋ० ७ )
संसृष्टं धनम्।मन्योरार्षम्। संसृष्टं मिश्रं धनम्। उभयं च जीवाजीवरूपम्। समाकृतमेकत्र राशीकृतम्।एवंभूतं स्वीयं धनं वरुणो मन्युश्च। मन्युरिन्द्रः।तावस्मभ्यं दत्ताम्। मन्युरेव देवता। वरुणस्य प्रासङ्गिकीस्तुतिरित्याहुः। एवं मन्युवरुणाभ्यां मयि रक्ष्यमाणे मम शत्रवः मया पराजिताःहृदयेषु भियं दधानां भूत्वा अपनिलयन्ताम् अपगम्य क्वापिपर्वतगुहादौ निली162यन्ताम्॥
सर्वतो भयात्—
पृथिवी वृता साग्निना वृता तथा वृतया वर्त्र्यायस्माद् भयाद् बिभेमि तद्वारये स्वाहा।
अन्तरिक्षं वृतं तद् वायुना वृतं तेन वृतेन वर्त्रेण यस्माद् भयाद् बिभेमि तद्वारये स्वाहा।
द्यौर्वृता सादित्येन वृता तया वृतयावर्त्र्यायस्माद् भयाद् बिभेमि तद् वारये स्वाहा।
दिशो वृतास्ताश्चन्द्रमसा वृतास्ताभिर्वृताभिर्वर्त्रीभिर्यस्माद् भयाद् बिभेमितद्वारये स्वाहा।
आपो वृतास्ता वरुणेनवृतास्ताभिर्वृताभिर्वर्त्रीभिर्यस्माद् भयाद् बिभेमि तद् वारये स्वाहा।
प्रजा वृतास्ताः प्राणेन वृतास्ताभिर्वृताभिर्वर्त्रीभिर्यस्मात् भयाद्बिभेमि तद् वारये स्वाहा।
वेदा वृतास्ते छन्दोभिर्वृतास्तोभिर्वृतेभिर्वर्त्रेभिर्यस्माद् भयाद्बिभेमि तद् वारये स्वाहा।
सर्वंवृतं तद् ब्रह्मणा वृतं तेन वृतेन वर्त्रेण यस्माद् भयाद् बिभेमि तद् वारये स्वाहा॥
पृथिवी वृता व्याप्ता। केन सा वृता। साग्निनावृता। अग्निरधिष्ठाता पृथिव्याः। ततस्तेन सा वृता भवति। तया पृथिव्या वृतयाग्निनाधिष्ठितया वर्त्र्यावारयित्र्या भयानाम्। यस्माद् भयात् भयहेतोरहं बिभेमि तत् तन्निमित्तं भयं वारये निवारयामि। एतेनोत्तरे व्याख्याताः। विशेषान् वक्ष्यामः —अन्तरिक्षम्। मध्यमस्थानो वायुरन्तरिक्षस्याधिष्ठाता। वर्त्रेण वारयित्रा। द्यौः। आदित्यो दिवोऽधिष्ठाता।दिशः।चन्द्रमा दिशामधिष्ठाता। वर्त्रीभिः वारयित्रीभि। आपः। अपां वरुणोऽधिष्ठाता। प्रजाः प्राणिनः सर्वे पञ्चवृत्तिना प्राणेनाधिष्ठिताः। वेदा गा163यत्र्यादीनि छन्दांसि। तेभिः तैः। वर्त्रेभिः वारयितृभिः।सर्वं चराचरात्मकं जगत्। ब्रह्मणा जगत्कारणेन॥
अथापराजितायां दिशि ‘यत इन्द्र भयामहे’ इति च सूक्तशेषम्। स्वस्त्यात्रेयं ‘स्वस्ति नो मिमीतामि’ति।‘स्वस्त्ययनानि च जपित्वे ‘त्यत्र व्याख्यातम्॥
यत॑इन्द्र॒भया॑महे॒ततो॑नो॒अभ॑यंकृधि।
मघ॑वञ्छ॒ग्धितव॒तन्न॑ऊ॒तिभि॒र्विद्विषो॒विमृधो॑जहि॥
(अष्ट० ६. अध्या० ४. व० २० ॠ० १३.)
यत इन्द्र !। भर्गस्यार्षम्।हे इन्द्र ! यतो दिशः पुरुषाद् वा भयामहे बिभीमः ततः नोऽस्माकमभयं कृधियथा भयं न भवति तथा कुरु। हे मघवन् !। मघमिति मंहतेर्दानकर्मणो धननाम।धनवन् !।तत् तव मघंनोऽस्मभ्यं शग्धि देहि। ऊतिभिः पालनैः द्विषस्त्वमस्माकं विजहि। मृधः सङ्ग्रामकारिणस्तांश्च विजहि॥
त्वंहिरा॑धस्पते॒राध॑सोम॒हःक्षय॒स्यासिविध॒तः।
तंत्वा॑व॒यंम॑घवन्निन्द्रगिर्वणःसुताव॑न्तोहवामहे॥
( अष्ट० ६. अध्या० ४. व० २० ॠ० १४.)
त्वं हि। हि यस्मात् त्वं हे राधस्पते !।राधः धनम्।धनपते !।राधसो धनस्य महः महतः क्षयस्य निवासस्य164चासि निमित्तभूतोऽसि। कस्य। विधतः।विधतिः परिचरणकर्मा। त्वां यः परिचरति तस्य पुरुषस्य धनादेर्निमित्तभूतोऽसि। तमेवंभूतं त्वां वयं मघवन् ! इन्द्र ! गिर्वणः !।गिरः स्तुतिरूपाः। ‘वन षण संभक्तौ’। हे गिरां सम्भक्तः !। गीर्भिर्वा सम्भजनीय !।सुतावन्तोऽभिष्टुतसोमाः सन्तो हवामहे आह्वयामः॥
इन्द्रः॒स्पलु॒तवृ॑त्र॒हाप॑र॒स्पानो॒वरे॑ण्यः।
सनोरक्षिषच्चर॒मंसम॑ध्य॒मंसप॒श्चात्पा॑तुनःपुरः॥
( अष्ट० ६. अध्या० ४, व० २० ॠ० १५)
इन्द्रः स्पट्। उत्तरत्र तच्छब्दश्रवणाद् य इत्यध्याहार्यम्। यः इन्द्रः स्पट्।‘स्पश बाधनस्पर्शनयोः’। क्विप्।बाधिता शत्रूणाम्।उत अपि। वृत्रहा वृत्रस्यासुरस्य मेघस्य वा पापस्य वा हन्ता।परस्पाः। परेभ्यः शत्रुभ्यः पाता रक्षिता। नोऽस्माकं वरेण्योवरणीयः। स नोऽस्मान्। रक्षिषत्। पञ्चमो लकारः। रक्षेत्। चरमं चरमे वयसि स एव मध्यमं मध्यमेऽपिवयसि रक्षिषत्, अर्थात् प्रथमेऽपि वयसि स एव। सः पश्चात् पृष्ठतः पातु नः। पुरोऽग्रतश्च स पातु॥
त्वंनः॑प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒रइन्द्र॒निपा॑हिवि॒श्वतः॑।
आ॒रेअ॒स्मत्कृ॑णुहि॒दैव्यं॑भ॒यमा॒रेहे॒तीरदे॑वीः॥
(अष्ट० ६. अध्या० ४. व० २१, ऋ० १६. )
त्वं नः। हे इन्द्र ! त्वं नो विश्वतो निपाहि नियमेन रक्ष। विश्वत इत्यस्य प्रपञ्चः—पश्चात् प्रतीच्यां दिशि। अघराद् दक्षिणस्याम् उत्तरात् उत्तरस्याम्। (पुरः प्राच्याम्।) यथा तत्र भयं न भवति तथा रक्ष। किञ्च दैव्यं देवनिमित्तं भयम् अस्मत् अस्मत्तः आरे दूरे कृणुहि कुरु। अदेवीर्मनुष्यादिनिमित्ताश्च हेतीःहिंसाःआयुधजातीर्वा आरे दूर एव कृणुहि ॥
अ॒द्याद्या॒श्वश्व॒इन्द्र॒त्रास्व॑प॒रेच॑नः।
विश्वा॑चनोजरि॒तॄन्स॑त्पते॒ अहा॒दिवान॑क्तंचरक्षिषः॥
(अष्ट० ६. अध्या० ४. व० २१. ऋ० १७.)
अद्याद्य। अद्यशब्दस्यैकव्यक्तिनिष्ठत्वाद् वीप्सानुपपत्तेर्नेदं वीप्सायां द्विर्वचनम्। किन्तर्हि। आदरार्थं पुनर्वचनम्। तेन च सातत्यं द्योत्यते। अद्याद्य अस्मिन्नहनि सातत्येन। एवं श्वः श्वः परस्मिन्नहनि च सातत्येन।हे इन्द्र ! नस्त्रायस्व। परे चाहनिपरश्वोऽपि नस्त्रायस्व। किमेतेषु त्रिष्वेव दिनेषु त्रायै। न। विश्वा च अहा। विश्वेष्वप्यहस्सु। (हे सत्पते ! सतां पालक !) जरितॄन् तव स्तोतॄन् नः रक्षिषः। तत्रापि दिवा नक्तं च। न केवलं दिवा नापि केवलं नक्तम्॥
प्र॒भ॒ङ्गीशूरो॑म॒घवा॑तुवीम॑घः॒संमिश्लोवी॒र्या॑य॒कम्।
उ॒भाते॑बा॒हूवृष॑णाशतक्रतो॒नियावज्रं॑मिमि॒क्षतुः॑॥
(अष्ट० ६ अध्या० ४ व० २१. ऋ० १८.)
प्रभङ्गी। पूर्वार्धर्च एकं वाक्यम्।त्वमित्यध्याहारेण —हे इन्द्र ! त्वमेवंविध इति। प्रभङ्गी प्रकर्षेण भङ्क्ता शत्रूणाम्। शूरो मघवा मघं धनमस्यास्ति। ‘छन्दसीवनिपौ च वक्तव्यावि’ ति वनिबन्तः। धनवान्।नचाल्पेन धनेन तद्वान्। किन्तर्हि। तुवीमघः। तुवीति बहुनाम।बहुधनः। सम्मिश्लः सम्यङ् मिश्रयिता वृत्रादिभिरसुरैरात्मनः। किमर्थम्।वीर्याय वीर्यं प्रथितं यथा स्यादिति स्वयमेवासुरैर्योद्धा। कमित्यनर्थको निपातः पादपूरणः।हे शतक्रतो ! ते तव उभा बाहू वृषणा वर्षितारौ कामप्रदावित्यपरं वाक्यं तस्य शेषः। यौ बाहू वज्रमायुधविशेषं निमिमिक्षतुः। म्यक्षतिर्गतिकर्मान्यत्र। इह तु धारणे द्रष्टव्यः लडर्थे लिट्। धारयतः॥
सङ्ग्रामे समुपोह्वरथस्य पश्चादवस्थाय ‘आ त्वाहार्षमि’ति राजानं सन्नाहयेत्।
आत्वा॑हार्षम॒न्तरे॑धिध्रु॒वस्ति॒ष्ठावि॑चाचलिः।
विश॑स्त्वा॒सर्वा॑वाञ्छन्तु॒मत्वद्रा॒ष्ट्रमधि॑भ्रशत्॥
( अष्ट० ८. अध्या० . व० ३१, ॠ०१. )
ध्रुवस्यार्षम्। राजानं प्रति पुरोहित आह। हे राजन् ! त्वामाहार्षम् आहरामि सङ्ग्रामे पराजितस्त्वमन्यत्र गतोऽपि यथा स्वमेवेदं राष्ट्रं प्रत्याहृतो भवसि तथा करोमि। आहूतश्च त्वमन्तरेधि अस्यैव राष्ट्रस्य मध्ये भव। भवंश्च अविचाचलिः चालयितुमशक्यो ध्रुवः तिष्ठ।विशः राष्ट्रवर्त्तिन्यश्च सर्वाः प्रजाः त्वामेव राजानं वाञ्छन्तु।राष्ट्रं च त्वत् त्वत्तो माधिभ्रशत्। अधिर्धात्वर्थानुवादी। भ्रष्टं मा भूत् त्वय्येव तिष्ठतु॥
इ॒हैवैधि॒माप॑च्याष्ठोःपर्व॑तइ॒वाविचाचलिः।
इन्द्र॑इवे॒हध्रु॒वस्ति॑ष्ठे॒हरा॒ष्ट्रमु॑धारय॥
(अष्ट० ८, अध्या० ८. व० ३१, ॠ० २. )
इहैव। इहैव राष्ट्रे एधि भव।मापच्योष्ठाः अस्माद् राष्ट्रादपच्युतो मा भूः। पर्वत इव च अविचाचलिःचालयितुमशक्यो भव। इह ध्रुवो भवंश्च इन्द्रइव तिष्ठ सुसमृद्धो भव। इह। द्वितीयार्थे सप्तमी।उश्चार्थे। इदं च। राष्ट्रं धारय ॥
इ॒ममिन्द्रो॑अदीधरद्ध्रु॒वध्रु॒वेण॑ह॒विषा॑।
तस्मै॒सोमो॒अधि॑ब्रव॒त्तस्मा॑ उ॒ब्रह्म॑ण॒स्पतिः॥
(अष्ट० ८. अध्या०८. व० ३१. ॠ०३.)
इमम्। इमं राजानमिन्द्रोदीधरद् धारयतु ध्रुवं निश्चलं ध्रुवेण ध्रुवभाविना हविषा व्रीह्यादिलक्षणेन भोज्येन सह। तस्मै इन्द्राय राज्ञे वा सामोऽधिब्रवत् अधिब्रवीतु तत्पक्षे पततु।तस्मा उ तस्मा एव ब्रह्मणस्पतिरप्यधिब्रवत्। ब्रह्मणस्पतिर्बृहस्पतिः॥
ध्रु॒वाद्यैर्ध्रु॒वापृ॑थि॒वीध्रु॒वासः॒पर्व॑ताइ॒मे।
ध्रु॒वंविश्व॑मि॒दं जग॑द्ध्रु॒वोराजा॑वि॒शाम॒यम्॥
(अष्ट० ८. अध्या० ८. व० ३१. ऋ० ४.)
ध्रुवा द्यौः। द्यौरादयो दृष्टान्ताः। यथा द्यौरादयो ध्रुवाः एवमयमपि विशां राजा ध्रुवोऽस्तु॥
ध्रु॒वंते॒राजा॒वरु॑णोध्रु॒वंदे॒वोबृह॒स्पतिः॑।
ध्रु॒वंत॒॑इन्द्र॑श्चा॒ग्निश्च॑रा॒ष्ट्रंधा॑रयतांध्रु॒वम्॥
(अष्ट० ८. अध्या० .८व० ३१. ऋ० ५.)
ध्रुवं ते। हे राजन् ! ते राष्ट्रं वरुणो राजा ध्रुवं निश्चलं यथा तथा धारयताम्। एवमुत्तरत्रापि। अग्निश्चेत्यस्य परेण ध्रुवशब्देन सम्बन्धः॥
ध्रु॒वंध्रु॒वेण॑ह॒विषा॒भिसोमं॑मृशामसि।
अथो॑त॒इन्द्रःकेव॑ली॒र्विशोबलि॒हृत॑स्करत्॥
(अष्ट० ८. अध्या० ८. व० ३१, ऋ० ६.)
ध्रुवम्।ध्रुवेण हविषा व्रीह्यादिना भोज्येन सह। सोमं सोमवत् प्रियदर्शनं त्वामभिमृशामसि अभिमुखो भूत्वा मृशामः शिवेन मनसानु,ध्यायामः। अथो अभिमर्शनानन्तरमिन्द्रो विशः राष्ट्रवर्त्तिनीः प्रजाः ते केवलीः तवैवासाधारणीर्बलिहृतः करस्य दात्रीः करत् करोतु॥
‘जीमूतस्येवे’ति कवचं प्रयच्छति।
जी॒मूत॑स्येवभवति॒प्रती॑कं॒यद्व॒र्मीयाति॑स॒मदा॑मु॒पस्थे॑।
अना॑विद्धयात॒न्वा॑जय॒त्वंसत्वा॒वर्मणोमहि॒मापि॑पर्तु॥
(अष्ट० ५. अध्या०१.व० १९ ऋ० १.)
पायोरार्षं सूक्तम्। समदाम्। समदिति स्त्रीलिङ्गं सङ्ग्रामनाम, समं सह माद्यन्ति योद्धारो यास्विति। समदामुपस्थ मध्ये।वर्मी वर्मवान् भूत्वा। यद् यदा पुरुषो याति। यदेति वचनात् तदेति गम्यते। तदा तस्य प्रतीकं शरीरं जीमूतस्येव भवति। यथा जीमूतस्य वर्षोन्मुखस्य प्रतीकम् उज्ज्वलं भीषणं च तद्वद् भवति। त्वं चानेन वर्मणा वर्मितः सन् अनाविद्धया अव्रणितया तन्वोपलक्षितः शत्रून् जय।सः। विभक्तिव्यत्ययः। तम्। त्वा वर्मणोऽस्य महिमा पिपर्तु पालयतु॥
उत्तरया धनुः।
धन्व॑ना॒गाधन्व॑ना॒जिंज॑येम॒धन्व॑नाती॒व्राःस॒मदो॑जयेम।
धनुः॒शत्रो॑रपका॒मंकृ॑णोति॒धन्व॑ना॒सर्वाः॑ प्र॒दिशो॑जयेम॥
(अष्ट० ५. अध्या० १. व० १९. ऋ० २ )
धन्वना गाः। बहुव्रीहौ धनुश्शब्दस्य समासान्ते अनङादेशे धन्वशब्दः वेदे165केवलोऽपि प्रयुज्यते। धन्वना धनुषा शत्रूणां गाः जयेम i तेनैवाजिमपि जयेम। आजयः क्षुद्राः सङ्ग्रामाः, उत्तरत्र तीव्रा इति विशेषणात्। द्वितीयः पादः स्पष्टार्थः। धनुरेव च शत्रोः। द्वितीयार्थे षष्ठी।शत्रुम्।अपकामम् अपगतकामं कृणोति करोतु। चतुर्थे पादे प्रदिशः प्रधाना दिशः॥
उत्तरां वाचयति।
व॒क्ष्यन्ती॒वेदाग॑नीगन्ति॒कर्णं॑प्रि॒यंसखा॑यंपरिषस्वजा॒ना।
योषे॑वशिङ्क्ते्॒वित॒ताधि॒धन्व॒ञ्ज्याइ॒यंसम॑नेपा॒रय॑न्ती॥
(अष्ट० ५. अध्या० १. व० १९. ॠ० ३.)
वक्ष्यंन्तीव। आकृष्यमाणा ज्या कर्णमूलमागच्छन्ती धानुष्कं च तत इतः स्पृशति। तत्रोत्प्रेक्षा—इ166यं ज्या वक्ष्यन्तीव कर्णे किञ्चित् कथयितुकामेव कर्णमागनीगन्ति पुनः पुनरागच्छति प्रियं सखायं धानुष्कं परिषस्वजाना तस्य परिष्वङ्गंकुर्वतीव। आगत्य च शिङ्क्ते। ‘शिजि अव्यक्ते शब्दे’। अव्यक्तशब्दं करोति। योषेव।यथा योषा कर्णे मञ्जु वदति तद्वत्। अधिः सप्तम्यर्थानुवादी। धन्वन्।सप्तम्या लुक्।धन्वनि।वितता विस्तारिता आरोपिता। समने। सङ्ग्रामनामैतत्। सङ्ग्रामे पारयन्ती। पारयतिः कर्मसमाप्तौ। पर्याप्तं कार्यं कुर्वती॥
स्वयं चतुर्थी जपेत्।
तेआ॒चर॑न्ती॒सम॑नेव॒योपा॑मा॒तेव॑पु॒त्रंबिभृतामु॒पस्थे॑।
अप॒शत्रू॑नविध्यतांसंविदा॒ने आर्त्नीइ॒मेविष्फु॒रन्त्नी॑अ॒मित्रा॑न्॥
(अष्ट० ५. अध्या० ५. व० १९ ऋ० ४.)
ते आचरन्ती। ते इमे प्रसिद्धे। आर्त्नीधनुषःकोट्यौ। आचरन्ती ज्याकर्षणे सति धानुष्कं प्रत्यागच्छन्त्यौ। समनेव। छान्दसो गुणः।समना इव। यथा योषा समनाः सहृदया भर्त्तारमाचरति तद्वत्। इमं धानुष्कं बिभृतां धारयतां मातेव पुत्रमुपस्थे। यथा माता स्वाङ्के पुत्रं बिभर्ति तद्वत्। (संविदाने संजानाने विसंवादरहिते) शत्रूंश्चापविध्यतां सङ्ग्रामादपनयताम्।अमित्रान् विष्फुरन्ती विष्फुरन्त्यौ। स्फुरतिर्वधकर्मा।विविधं घ्नन्त्यौ ॥
पञ्चम्येषुधिं प्रयच्छेत्।
ब॒ह्वी॒नांपि॒ताब॒हुर॑स्यपु॒त्रश्चि॒श्चाकृ॑णोति॒सम॑नाव॒गत्य॑।
इ॒षु॒धिःसङ्काः॒पृत॑नाश्च॒सर्वाः॑पृ॒ष्ठेनिन॑द्धोजयति॒प्रसू॑तः॥
(अष्ट० ५. अध्या० १. व० १९. ऋ० ५ )
बह्वीनाम्। बहूनामिषूणां पिता पाता पितृस्थानीयो वायमिषुधिः। पृष्ठे निनद्धः नियमेन बद्धः।बहुरस्य पुत्रः।बहुष्वेकवचनम्।बहवश्चास्य पुत्राः शराः। इष्वपेक्षया पूर्वत्र स्त्रीलिङ्गम्। इह तु शरापे167क्षया पुत्रशब्दः। वस्तुतस्तु येषां पिता त एव पुत्राः।समना। द्वितीयैकवचनस्याकारः। समनं
अष्टमीमिषूनवेक्षमाणं वाचयति168।
र॒थ॒वाह॑नंह॒विर॑स्य॒नाम॒यत्रायु॑धां॒निहि॑तमस्य॒वर्म॑।तत्रा॒स्थ॒मुप॑श॒ग्मंस॑देमवि॒श्वाहा॑व॒यंसु॑मन॒स्यमा॑नाः॥
(अष्ट० ५ अध्या०. १. व० २० ऋ० ८.)
रथवाहनम्। शत्रून् जित्वा प्रत्यागत्य वयमेवं कुर्म इति पुरोहितोराजानमाह। कृतकार्यो रथो यत्र वाह्यते स्थाप्यते तद्रथवाहनमायुधागारम्। हविरिति चास्य नाम। कथम्। जुहोतिः प्रक्षेपे। ततोऽधिकरणे इप्रत्ययः। युद्धोपकरणानि हि आयुधागारे प्रक्षिप्यन्ते। यत्र स्थाने आयुधं (निहितम् )। जातावेकवचनम्। आयुधानि निहितानि। अस्य योद्धुर्वर्म च यत्र निहितम्। योद्धुः पूर्वमनादिष्टत्वादस्येति नायमन्वादेशः। तेन ‘इदमोऽन्वादेशे —’ (१ - ४ ३२) इत्यस्यायमविषयः। तेन छान्दसमनुदात्तत्वम्। अपर आह —सप्तम्यर्थे षष्ठी ! अस्मिन्नायुधागार इति। ततश्चान्यादेश इति। तत्र स्थाने वयं रथमुपसदेम उपसादयेम शत्रून् जित्वा प्रत्यागत्य स्थापयेम। शग्ममिति सुखनाम क्रियाविशेषणम्। सुखसाधनं वा रथम्। न केवलमस्मिन्नेवोद्योगे। किं तर्हि। विश्वाहा सर्वदा। वयं सुमनस्यमानाः शत्रुजयेन प्रीयमाणाः॥
‘अहिरिवे’ ति तलं नह्यमानम्।
अहिरिवभो॒गैःपर्ये॑तिबा॒हुंज्याया॑हे॒तिंप॑रि॒बाध॑मानः।
ह॒स्त॒घ्नोविश्वा॑व॒युना॑निवि॒द्वान्पुमा॒॑न्पुमांसं॒परिपातुवि॒श्वरतः॑॥
(अष्ट० ५. अध्या० १. व० २१. ऋ० १४.)
हस्ते प्रकोष्ठप्रदेशे हन्यते बध्यत इति हस्तघ्नःगोधातलत्रादिपर्यायश्चर्मादिनिर्मितः संस्तूयते। एष हस्तघ्नः धानुष्कस्य बाहुं पर्येति परिवेष्टयति। अहिरिव भोगैः। एकस्मिन् बहुवचनम्।भागापेक्षं वा। यथा ग्रीवाप्रदेशे गृहीतोऽहिर्भोगेन भोगभागैर्वा गृहीतभागं वेष्टयति तद्वत्। किं कुर्वन् पर्येति। ज्याया हेतिं, हेतिर्हिंसा, ज्याकृतां हिंसाम्। परिबाधमानः। परिः सर्वतोभावे। स च पुमांसं योद्धारमेनं विश्वतः परिपातु। विश्वा विश्वानि। वयुनानि ज्ञानानि ज्ञातव्यानि।विद्वान् पुमान्।लुप्तोपममेतत्। एवंभूतः पुमानिव॥
अथैनं वाचयति ‘अभीवर्तेन’।
अ॒भी॒व॒र्तेन॑ह॒विषा॒येनेन्द्रो॑अभिवावृ॒ते।
तेना॒स्मान् ब्र॑ह्मणस्पते॒भिरा॒ष्ट्राय॑वर्तय॥
(अष्ट० ८. अध्या० ८. व० ३२. ऋ० १.)
अभीवर्तस्यार्षम्। राजा पुरोहितं प्रत्याह —हे ब्रह्मणस्पते ! बृहस्पते !।‘बृहस्पतिर्ह वै देवानां पुरोहितस्तमन्वन्येमनुष्या राज्ञां पुरोबृ169हस्पतिर्यः सुभृतं बिभर्ती’ति यदाह। ‘पुरोहितं यत् सुभृतं बिभर्तीत्येव तदाहे’ ति ब्राह्मणम्। हे पुरोहित ! अभीवर्तेन। अभिवर्ततेऽभिगच्छति परराष्ट्रं येन सोऽभिवर्तः। करणे घञ्। उपसर्गस्य दीर्घः। तादृशेन येन हविषा बृहस्पतिना हुतेन चरुणा पुरोडाशेन वा इन्द्रः अभिवावृते अभिगतवान् परराष्ट्रमभिगतवान् अभिभूय प्राप्तवान्। तेन हविषास्मानपि। राष्ट्राय। विभकिव्यत्ययः। राष्ट्रं परकीयम्। अभिवर्तय अभिगमय। हविषेति मन्त्रलिङ्गाद्धोमोऽपिकर्तव्य इत्याहुः। वाचनमेव हविरित्यन्ये॥
अ॒भि॒वृत्य॑स॒पत्ना॑न॒भियानो॒अरा॑तयः।
अ॒भिपृ॑त॒न्यन्त॑तिष्ठा॒भियोन॑इर॒स्यति॥
(अष्ट० ८. अध्या० ८. व० ३२. ऋ० २.)
अभिवृत्य। पुरोहितो राजानमाह —हे राजन् !।सपत्नानभिवृत्याभिगम्य वशीकृत्य या नः अरातयः शत्रुजातयः ताश्चाभिवृत्य।शत्रवस्त्रिविधाः कृत्रिमाः सहजाः प्राकृता इति। तदभिप्रायो भेदनिर्देशः सपत्ना अरातय इति। पृतन्यन्तम् अन्यमपि योद्धुकाममभितिष्ठ अभिभव। यश्च नोऽस्मभ्यम् इरस्यति। कण्ड्वादियगन्तोऽयमीर्ष्यार्थः। ‘इरम् इरज् इरञ् ईर्ष्यायाम्’ इति हि तत्र पठ्यते। इरस्यतिईर्ष्यति। तं चाभितिष्ठ॥
अ॒भित्वा॑दे॒वः स॑वि॒ताभिसोमो॑अवीवृतत्।
अ॒भित्वा॒विश्वा॑भू॒तान्य॑भीव॒र्तोयथास॑सि॥
(अष्ट० ८. अध्या० ८. व० ३२, ऋ० ३.)
अभित्वा। पुरोहितस्यैव वाक्यं —हे राजन् ! यथा त्वमभीवर्तः परराष्ट्रस्याभिगन्ता अससि भवसि, तथा त्वां देवः सविता अभ्यवीवृतत्। लोडर्थे लुङ्।अभिवर्तयतु परराष्ट्रमभिगमयतु। तथासौ सोमश्चाभ्यवीवृतत्। विश्वानि च भूतान्यभ्यवीवृतन्॥
येनेन्द्रो॑ह॒विषा॑कृ॒त्व्यभ॑वद्यु॒म्न्यु॑त्त॒मः।
इ॒दंतद॑क्रिदेवाअसप॒त्नःकिला॑भुवम्॥
(अष्ट० ८. अध्या० ८. व० ३२. ॠ० ४.)
अ॒स॒प॒त्नःस॑पत्न॒हाभिरा॑ष्ट्रोविषास॒हिः।
यथा॒हमे॒षांभू॒तानां॑वि॒राजा॑नि॒जन॑स्यच॥
(अष्ट० ८. अध्या० ८. व० ३२. ऋ० ५.)
येन। इन्द्रः येन हविषा। विभक्तिव्यत्ययः। यद्धविः। कृत्वी। ‘स्नात्व्यादयश्च’ (७-१-४९ )।कृत्वा170। उत्तमो द्युम्नी। घुम्नं द्रविणं, तद्वान्। अभवत्। इदं तद्धविरहमक्रि। ‘मन्त्रे घसा’ दिसूत्रेण लेर्लुक्। अकृषि कृतवानस्मि। हे देवाः ! अतश्च असपत्नः। किल प्रसिद्धौ। अभुवं भवामि भवेयं वा। कथं कृतवानसि। यथामेषां भूतानां परराष्ट्रवर्तिनाम्। जनस्य च स्वराष्ट्रवर्तिनः। विराजानि। विराजतिरैश्वर्यकर्मा।विविधमीश्वरो भवानि। किंभूतः। असपत्नः उत्पन्नानां शत्रूणां वधेन। सपत्नहा उत्पत्स्यमानानां च सपत्नानां हन्ता। अभिराष्ट्रोऽभिगतपरराष्ट्रः।विषासहिःविशेषेण सर्वेषामभिभविता। एवंभूतो भूत्वा यथाहमेषां विराजानि तथेदं हविरहमक्रि हे देवा इति राज्ञो वचनमृग्द्वयम्॥
‘प्रयो वां मित्रावरुणे’ ति च। द्वे जमदग्नेरेते।
प्रयोवां॑मित्रावरुणजि॒रोदूतोअद्र॑वत्।
अयः॑शीर्षा॒म॑देर॒घुः॥
(अष्ट० ६. अध्या० ७. व० ६. ॠ० ३.)
यो दूतः। को वासौ। अग्निः। ‘त्वां दूतमग्न’ इत्यादौ दर्शनात्। कीदृशः।अजिरः। ‘अज गतिक्षेपणयोः’। शीघ्रगामी। अयश्शीर्षा। अयइति हिरण्यनाम। शीर्षशब्देन शीर्षण्याः केशा उच्यन्ते। हिरण्यकेशः हिरण्यसदृशज्वालासमूहः। मदेरघुः।मदशब्देन देवानां मदकरं हविरुच्यते। तत्र रघुः लघुः, अनायासेन हविषां वोढा। य एवम्भूतो दूतोऽस्माभिर्युवां प्रति जयार्थं प्रहितः। हे मित्रावरुणौ !। य इति वचनात् स इत्यध्याहारः। स वां युवां प्राद्रवत् प्रद्रवतु युवयोराह्वानाय शीघ्रं वां प्राप्रोतु॥
नयःसं॒पृच्छे॒नपुन॒र्हवी॑तबे॒नसं॑वा॒दाय॒रम॑ते।
तस्मा॑न्नोअ॒द्यसमृ॑तेरुरुष्यतंबा॒हुभ्यां॑नउरुष्यतम्॥
( अट० ६. अध्या० ७. व० ६. ॠ० ४.)
न यः। सम्पृच्छे इति कृत्यार्थे केन्प्रत्ययः। कृत्यार्थश्चात्र भावः। एवं हवीतवे इति ह्वयतेस्तवेन्प्रत्ययः। उभयत्राव्ययत्वात् सप्तम्या लुक्।सम्प्रश्नः सम्प्रधारणं परस्परमर्थनिरूपणम्।यः सम्पृच्छे सम्प्रश्ने न रमते प्रीतो नास्माभिः सह किञ्चित् सम्प्रधारयति। पुनश्शब्दोऽप्यर्थे। नापि हवीतवे आह्वाने रमते प्रीयमाणो नास्मानाह्वयति नास्माभिराहूतः प्रीयते। संवादाय।सप्तम्यर्थे चतुर्थी। नापि संवादे रमते, नास्माभिरभ्यर्थितः किञ्चिदपि संवदति, अस्माभिः संवादे कृतेऽपि न रमते। तस्मात् पुरुषात् समृतेः। ‘ऋ गतौ’। कर्तरि क्तिन्। सङ्गतात्। स यदास्माभिः सङ्गच्छते युद्धादौ तदा तस्मात् नः अद्यैवोरुष्यतं रक्षतम्। हे मित्रावरुणौ !।नच मानसी रक्षा। किं तर्हि। बाहुभ्यां नः उरुष्यतम्॥
अथैन171मन्वीक्षेताप्रतिरथ172शाससौपर्णैः—
आ॒शुःशिशा॑नोवृष॒भोनभी॒मोघ॑नाघ॒नःक्षोभ॑णश्चर्षणी॒नाम्।
सं॒क्रन्द॑नोनिमि॒षए॑कवी॒रःश॒तंसेना॑अजयत्स॒कमिन्द्रः॑॥
(अष्ट० ८. अध्या० ५ च० २२. ऋ० १.)
आशुः शिशानः। अप्रतिरथ ऋषिः। आशुः शीघ्रकारी। शिशानस्तीक्ष्णीकुर्वन्। किम्। वज्राद्यायुधम्। वृषभो न भीमः वृषभ इव भयानकः। घनाघनः हन्ता वृत्रादीनाम्। ‘चरिचलिपतिवदीनां वा द्वित्वमच्याक् चाभ्यासस्य’, ‘हन्तेर्घत्वं च’ (वा० ६-१-१२) इति रूपसिद्धिः। क्षोभणः क्षोभयिता। चर्षणीनाम्। चर्षणयोमनुष्याः शत्रुसेनाः।मनुष्याणाम्। सङ्क्रन्दनः क्रन्दयिता। क्रन्दतिराह्वानकर्मा।सम्यगाह्वाता युद्धे शत्रूणाम्। अपर आह—सङ्क्रन्दयतीति सङ्क्रन्दनः। नन्द्यादिभ्यो ल्युः। सङ्क्रन्दनमार्तप्रलापः।तस्य कारयिता शत्रुष्विति। अनिमिषोनिमेषरहितः। वीरः कर्मस्वत्यन्ततत्परः। एकवीरः अप्रतिद्वन्द्वो वीरः। एवंभूत इन्द्रः शतं बह्वीः सेनाः साकं युगपदजयत्। तद्वत् त्वमपि जयेत्यध्याहारेण योज्यम्।राजैव वा स्तूयते इन्द्रत्वाध्यारोपेण, एवमयमिन्द्रः पूर्वयुद्धेष्वजयदिति। लोडर्थे वा लङ्। अयमिन्द्रः शतं सेनाः साकं जयत्विति। एवमुत्तरेष्वपि द्रष्टव्यम्॥
सं॒क्रन्द॑नेनानिमि॒षेण॑जि॒ष्णुना॑युत्का॒रेण॑दुश्च्यवनेन॑धृ॒ष्णुना॑।
तदिन्द्रे॑णजयत॒तत्स॑हध्वं॒युधो॑नर॒इषु॑हस्तेन॒ वृष्णा॑ ॥
(अष्ट० ८. अध्या० ५. व० २२. ऋ० २.)
सङ्क्रन्दनेनानिमिषेण। द्वे अपि पदे व्याख्याते।जिष्णुना जयशी। लेन। युत्कारेण। युत् युद्धम्। तत् करोतीति युत्कारः। तेन।कर्मण्यण्। दुश्च्यवनेन च्यावयितुमशक्येन।घृष्णुना घर्षणशीलेन। एवंभूतेनानेन्द्रेण तत् परबलं जयत। तत् सहध्वम् अभिभवत च। हे युधो नरः ! योद्धारो मनुष्याः !। इषुइस्तेन इषून् हस्ते बिभ्रता। वृष्णा वर्षित्रा शराणाम्॥
सहषु॑हस्तैः॒सनि॒॑षङ्गिभिर्व॒शीसंस्र॑ष्टा॒सयु॒ध॒इ॑न्द्रोग॒णेन॑।
सं॒सृ॒ष्ट॒जित्सो॑म॒पाबा॑हुश॒र्ध्यु॑१॒ग्रध॑न्वा॒प्रति॑हिताभि॒रस्ता॑॥
(अष्ट० ८. अध्या० ५. व० २२. ऋ० ३)
स इषुहस्तैः। स इन्द्रः कदाचिदिकुहस्तैः शत्रुभिरात्मानं संस्रष्टा तैरात्मानं संसृजति। तैः सह युध्यते स्वयमपीषुहस्तः। स एव कदाचित् निषङ्गिभिः खड्गिभिः संस्रष्टा स्वयमपि खड्गहस्तः।वशी स्वतन्त्रः। स एव कदाचित् युधः। षष्ठ्यर्थे प्रथमा। युधां योद्धॄणां गणेन संस्रष्टा। बहुभिःसह युध्यत इत्यर्थः। संसृष्टजित् यो यदा संसृष्ट इषुहस्तो निषङ्गीगणो वा तदा तस्य जेता।सोमपाः सोमपानशीलः।बाहुशर्धी। शर्धंबलम्173। बाहुबलेन तद्वान्।उग्रधन्वा अनभिभवनीयधन्वा। ऊर्ध्वधन्वेति तैत्तिरीयकेपाठः। ऊर्ध्वमेव सर्वदा धनुरस्य, न कदाचिन्निर्व्यापारः। प्रतिहिताभिः क्षिप्ताभिरिषुभिरस्ता क्षेपणशीलःशत्रूणाम्॥
उत्तरा बार्हस्पत्या।
बृह॑स्पते॒परि॑दीया॒रथे॑नरक्षो॒हामित्रोँ॑अप॒बाध॑मानः।
प्र॒भ॒ञ्जन्सेनाः॑प्रमृ॒णोयु॒धाजय॑न्न॒स्माक॑मे॒ध्यवि॒ता रथा॑नाम्॥
(अष्ट० ८. अध्या० ५. व २२. ऋ० ४.)
बृहस्पते। हे बृहस्पते ! परिदीय।दीदिहि, दीदासि, दीदायेति दीप्त्यर्थस्य प्रयोगो दृश्यते। तस्यायं प्रयोगः।परितो दीप्यस्व।रथेन अस्माकं रक्षार्थं रथमारुह्य युद्धे सर्वतो दीप्यस्व।डीङोवा गत्यर्थस्य डकारस्य दकारः। रथेन परितो गच्छ। रक्षोहा रक्षसां हन्ता। अमित्रान् अस्मच्छत्रून् अपबाधमानः। तेषां च सेनाः प्रभञ्जन् आमृद्नन्। प्रमृणः। मृणिर्हिंसार्थः। इगुपधलक्षणः कः। प्रकर्षेण हिंसिता शत्रूणाम्। तांश्च युधा जयन्। एवं भूत्वा रथेन परिदीय। अस्माकं च ये रथास्तेषामविता एधि भव रक्षिता ॥
ब॒ल॒वि॒ज्ञा॒यःस्थवि॑रः॒प्रवीरः॒॑ सह॑स्वान्वा॒जीसह॑मानउ॒ग्रः।
अ॒भिवी॑रोअ॒भिस॑त्वासहो॒ जाजैत्र॑मिन्द्र॒रथ॒माति॑ष्ठगो॒वत्॥
( अष्ट० ८. अध्या० ५. व. २२. ऋ० ५.)
बलविज्ञायः। बलं विजानाति परेषामिति बलविज्ञायः। आकारान्तादपि सोपसर्गादण्। बलेन वा विज्ञायते बलविज्ञायः। कर्मणि घञ्। ‘या च का च बलकृतिरिन्द्रकर्मैव तदि’ति नैरुक्ताः। स्थविरो ज्ञानेन वृद्धः। प्रकृष्टो वीरः प्रकृष्टा वा वीरा अस्येति प्रवीरः। सहस्वान्, सहो बलं, तद्वान्। वाजी, वाजमन्नं वेगो वा,तद्वान्।सहमानः अभिभवन्। उग्रः अप्रसह्यः। अभिगतो वीरान् अभिगता वा वीराः एनम् अभिवीरः। सत्वानो भृत्यम……. ‘अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नमः’ इति। तानभिगतःतैर्वाभिगतः अभिसत्वा। सहोजाः। सहो बलं, ततो जातः। बलातिशय प्रतिपादनपरमेतत्। बलवतोऽपिकिल जातो बलवान् भवति। किं पुनर्बलादेव जात इति। दृश्यते चान्यत्रापि— ‘ओजसो जातमुत मन्य एनम्’ इति, ‘त्वमिन्द्र! बलादधि सहसो जात ओजस’ इति च। एवंभूतस्त्वं हे इन्द्र ! जैत्रं जयहेतुभूतं रथमातिष्ठ आरोह।गोवित् पणिभिरपहृतानां गवां लब्धा॥
गो॒त्र॒भिदं॑गो॒विदं॒वज्र॑बाहुं॒जय॑न्त॒मज्म॑प्रमृ॒णन्त॒मोज॑सा।
इ॒मंस॑जाता॒अनु॑वीरयध्व॒मि॑न्द्रंसखायो॒अनु॒संर॑भध्वम्॥
( अष्ट० ८, अध्या० ५. व० २२. ऋ० ६.)
गोत्रभिदम्। गोत्राणां मेघानां पर्वतानां वा भेत्तारम्। गोविदं व्याख्यातम्। वज्रबाहुं, स्पष्टोऽर्थः। अज्मेति गृहनाम।जयन्तं शत्रूणां पुराणि दाश्यन्तम्। पुरन्दरो हि स भवति। ओजसा प्रमृणन्तं प्रकरर्षेण हिंसन्तम्। कान्। ये हिंस्याः। एवंभूतमिममिन्द्रं राजानं हे सजाताः! सहजाताः ! समानजन्मानः ! भ्रातरः ! अनुवीरयध्वम्। अयं तावद् वीरकर्म कुरुते। यूयमिममनुवीरयध्वम्। हे सखायः ! अमात्यादयः ! यूयमिममनुसंरभध्वम्। अयं तावत् संरभते जेतुम्।यूयं चानुसंरभध्वमिति॥
अ॒भिगो॒त्राणि॒सह॑सा॒गाह॑मानोद॒योवी॒रःश॒तम॑न्यु॒रिन्द्रः॑।
दु॒श्च्य॒व॒नःपृ॑तना॒षाल॑यु॒ध्यो॒३॒॑स्माकं॒सेना॑अवतु॒प्रयु॒त्सु॥
(अष्ट० ८. अध्य० ५, व० २३. ऋ०७)
अभि गोत्राणि।गोत्राणि मेघान् पर्वतान् वा। सहसा बलेन। अभिगाहमानो विदार्यान्तः प्रविशन्। अदयो निर्दयः। वीरः शतमन्युर्बहुक्रोधः। दुश्च्यवनः च्यावयितुमशक्यः।पृतनाः शत्रुसेनाः अभिभवतीति पृतनाषाट्। अयुध्यः योधितुमशक्यः। एवंभूत इन्द्रः अस्माकं सेनाः युत्सु सङ्ग्रामेषु प्रावतु प्रकर्षेण रक्षतु॥
इन्द्र॑आसांने॒ताबृह॒स्पति॒र्दक्षि॑णाय॒ज्ञःपु॒रए॑तु॒सोमः॑।
दे॒व॒से॒नाना॑मभिभञ्जती॒नांजय॑न्तीना॑म॒रुतो॑य॒न्त्वग्र॑म्॥
( अष्ट० ८. अध्या० ५ ० २३. ऋ० ८.)
इन्द्र आसाम्। आसाम् अस्मदीयानां सेनानाम्।राज्ञा सहाभेदमापतन्नस्य पुरोहितस्य वचनम्। आसामिन्द्र एव नेता भूत्वा बृहस्पतिश्च पुर एतु अग्रे गच्छतु। एवं दक्षिणा ‘द्वादशं शतमि’ त्यादिका पुर एतु174। तथा यज्ञः। तस्य विशेषणं सोमः। सोमगुणकः सोमयागः। यज्ञदक्षिणयोरधिष्ठातृद्वारं पुरोगमनम्। अत्र दृष्टान्तंः175 —देवसेनानाम्।यथेत्यध्याहार्यम्।यथा देवसेनानामभिभञ्जतीनाम्। ‘भञ्जो आमर्दने’। असुरसेना आमृद्गतीनाम्। अत एव जयन्तीनां मरुतो देवा यन्तु। लडर्थेलोट्। यन्ति। अग्रम्।सप्तम्यर्थे द्वितीया। अग्रे। तथैव तैत्तिरीयाः पठन्ति —“यथा देवसेनानामग्रे मरुतो यन्ति176 एवमस्मत्सेनानां पुर इन्द्रादयो यन्त्वि177” ति
इन्द्र॑स्य॒वृष्णो॒वरु॑णस्य॒राज्ञ॑आदि॒त्यानां॑म॒रुताँ॒शर्ध॑उ॒ग्रम्।
म॒हाम॑नसांभुवनच्य॒वानां॒घोषोदे॒वानां॒जय॑ता॒मुद॑स्थात्॥
(अष्ट० ८. अध्या० ५. व० २३ ॠ० ९.)
इन्द्रस्य। शर्धो बलम्। इन्द्रादीनामुग्रमप्रसह्यंमहामनसामुद्धतमनसां भुवनच्यवानां कृत्स्नस्य भुवनस्य च्यावयितॄणाम्। एवं नाम बलवतां देवानां जयतां घोष उदस्थात् उत्थितः। एवं तावत् पूर्वं देवासुरयुद्धे वृत्तम्। अद्यापि तव च त्वदमात्यानां च शर्ध उग्रमनु।त्वत्सेनापतीनां च जयतां घोष उत्तिष्ठत्विति॥
उद्ध॑र्षयमघव॒न्नायु॑धा॒न्युत्सत्व॑नांमाम॒कानां॒मनां॑सि।
उद्वृत्रहन्वा॒जिनां॒वाजि॑ना॒न्युद्रथा॑नां॒जय॑तांयन्तु॒घोषाः॑॥
(अष्ट० ८. अध्या० ५. व० २३.ॠ०१०.)
उद्धर्षय।हे मघवन् ! धनवन् ! इन्द्र178।आयुधान्यस्मदीयान्युद्धर्षय उत्कृष्टहर्षयुक्तानि कुरु यथा हृष्टा उज्ज्वला भवन्ति तथोज्ज्वलानि कुरु। तथा मामकानां सत्त्वानां परिचारकपुरुषाणां सैनिकानां मनांस्यप्युद्धर्षय उद्धतानि कुरु। हे वृत्रहन् ! वाजिनां मदीयानामश्वानां वाजिनानि बलानि वेगान् वोद्धर्षयोत्कृष्टानि कुरु। तथास्मदीयानां रथानां जयतां घोषा उद्यन्तु॥
अ॒स्माक॒मिन्द्रः॒समृ॑तेषुध्व॒जेष्व॒स्माकं॒याइष॑व॒स्ताज॑यन्तु।
अ॒स्मा॑कंवी॒राउत्त॑रेभवन्त्व॒स्माँउ॑देवाअवता॒हवे॑षु॥
(अष्ट० ८. अध्या० ५. व० २३. ऋ० ११.)
अस्माकम्।स्वेषु च परेषु ध्वजेषु समृतेषु सङ्गतेषु श्लिष्टेष्बिन्द्रः अस्माकं भवतु अस्मत्पक्षे भवतु।‘तमिद्धनेषु हितेष्वधिवाकाय हवन्ते। येषामिन्द्रस्ते जयन्ती’ति च मन्त्रान्तरम्। इन्द्रे चास्मदीये सति अस्माकं या इषवस्ता जयन्तु। अस्माकं वीरा उत्तरे उत्कृष्टा भवन्तु। अथेतरान् देवान् प्रति —हे देवाः ! यूयमस्मान् उ अस्मानेवावत रक्षत हवेषु।परस्परं ह्वयन्ति येषु ते हवाः सङ्ग्रामाः॥
अ॒मीषां॑चि॒त्तंप्र॑तिलो॒भय॑न्तीगृहा॒णाङ्गा॑न्यप्वे॒परे॑हि
अ॒भिप्रेहि॒निर्द॑हहृ॒त्सुशोकै॑र॒न्धेनामित्रा॒स्तम॑सासचन्ताम्॥
(अष्ट०८. अध्या० ५. व० २३. ऋ० १२.)
अमीषाम्। परेण प्रेरिता परानाप्नीतत्यप्वाकृत्या।व्याघीनामधिदेवतेत्यन्ये। अलक्ष्मीरित्यपरे। हे अप्वे ! अमीषां मद्रिपूणां चित्तं प्रतिलोभयन्ती मोहयन्ती तेषामङ्गानि गृहाण।परेहि मत्समीपात् परागच्छ। परेत्य चाभिप्रेहि शत्रूनभिमुखीप्राप्नुहि। प्राप्य च हृत्सु शोकैः शत्रून्निर्दह। निर्दग्धाश्वामित्राः अन्धेन तमसा सचन्तां सम्बध्यन्ताम्॥
प्रेता॒जय॑तानर॒इन्द्रो॑वः॒शर्म॑यच्छतु।
उ॒ग्रावः॑सन्तुबा॒हवो॑नाधृ॒ष्यायथास॑थ॥
(अष्ट० ८. अध्या० ५. व० २३. ऋ० १३.)
प्रेत।हे मदीयाः।नरः ! योद्धृपुरुषाः।प्रेत शत्रून् प्रति प्रकर्षेण गच्छत। प्रेत्य च जयत।इन्द्रश्च वः शर्म यच्छतु। बाहवश्च वः उग्राअप्रसह्याः सन्तु।यथा सति यूयमनाधृष्याः असथ शत्रूणाम् अप्रधृष्याः भवथ, तथा वाहवः उग्राः सन्त्विति॥
शा॒सइ॒त्थाम॒हाँअ॑स्यमित्रखा॒दोअद्भु॑तः।नयस्य॑ह॒न्यते॒सखा॒नजीय॑ते॒कदा॑च॒न॥
(अष्ट० ८. अध्या० ८. व० १० ऋ० १.)
शास इत्था। शास ऋषिः, हे इन्द्र ! यस्य ते सखा स्तोता यष्टा च न केनापि हन्यते न कदाचन जीयते स त्वं शासः सर्वस्य शासिता। इत्था सत्यनामैतत्। सत्यमेव महानसि। अमित्रखादः अमित्राणां भक्षयिता च भद्भुतः आश्चर्यभूतश्च। स त्वमस्यापि राज्ञोऽमित्रान् शाधि खाद च॥
स्व॒स्ति॒दावि॒शस्पति॑वृत्र॒हावि॑मृ॒धोव॒शी।
वृषेन्द्रः॑पु॒रए॑तुनःसोम॒पाअ॑भयङ्क॒रः॥
(अष्ट० ८. अध्या० ८. व० १०. ऋ० २.)
स्वस्तिदाः। अविनाशस्य दाता विशः देवविशो मनुष्यविशश्च। पतिः स्वामी पालयिता वा। वृत्रहा विमृधः मृधिः सङ्ग्रामकर्मा। तथा विपूर्वादिगुपधात् कः। विशेषेण योद्धा।वशी स्वतन्त्रः वृषा वर्षणकर्मा। सोमपाः एवंभूत इन्द्रो युद्धेऽभयङ्करो भवन् नः पुर एतु ॥
विरक्षो॒विमृधो॑जहि॒विवृ॒त्रस्य॒हनू॑रुज।
विम॒न्युमि॑न्द्रवृत्रहन्न॒मित्र॑स्याभि॒दास॑तः॥
(अष्ट० ८. अध्या० ८. व० १०. ऋ०३)
विरक्षः। हे इन्द्र ! वृत्रहन् ! रक्ष अस्मान् बाधितुमागतं विजहि। मृधः सङ्ग्रामकारिणश्चविजहि। वृत्रस्य शत्रुनामैतत्। अस्मच्छत्रोः हनूआस्यपर्यन्तप्रदेशौ। विरुज भङ्ग्धि।अभिदासतः अस्मानुपक्षपयतः अमित्रस्य मन्युं अस्मद्विषयकोपं च विरुज ॥
विन॑इन्द्र॒मृधोजहिनी॒चाय॑च्छपृतन्य॒तः।
योअ॒स्माँअ॑भि॒दास॒त्यध॑रंगमया॒तमः॑॥
(अष्ट० ८. अध्या० ८. व०१० ऋ० ४.)
वि नः। हे इन्द्र ! नः अस्माकं मृधः सङ्ग्रामकारिणः शत्रून् विजहि। पृतन्यतः योद्धुकामांश्च। नीचा नीचे स्थाने कारागृहादौ यच्छदाणू दाने। यच्छादेशः। देहि क्षिप।यश्चास्मानभिदासति उपक्षपयति। तमधरम् अत्यन्तनिकृष्टं तमःनरकम् अन्धतामिस्राख्यं गमय प्रापय॥
अपे॑न्द्रद्विप॒तोमनोप॒जिज्या॑सतोव॒धम्।
विम॒न्योः॑श॑र्मयच्छ॒वरी॑योयवयाव॒धम्॥
(अष्ट० ८. अध्या० ८. व० १० ऋ० ५.)
अपेन्द्र।हे इन्द्र ! योऽस्मान् द्वेष्टि।तस्य मन इन्द्रियम् अप। उपसर्ग श्रुतेर्योग्यक्रियाध्याहारः। अ179पगमय शून्यं निःसंज्ञं कुरु। यश्चास्मान् जिज्यासति। ज्या वयोहानौ वयोहीनान् कर्त्तुमिच्छति तस्य वधं, वज्रनामैतत्। इह त्वायुधमात्रम्। वज्राद्यायुधमपगमय। मन्योः मतुब्लोपोऽत्र द्रष्टव्यः। अस्माकमुपरि मन्युमतोऽपि शत्रोः सकाशात् वरीयः उरुतरं शर्म यच्छ। सोऽपि यथास्माकं सुखं करोति तथा कुरु। वधं तु तेन चिकीर्षितं यवय अस्मत्तो वृथा कुरु॥
प्रधारायन्तुमधुनोघृतस्ययदविन्दथुःसुरी।
उस्त्रियायामित्रावरुणौभुवनस्यकारूतामअश्विनाजुषातांसमीके॥
प्रधारायन्तु। सप्तर्चम्। सौपर्णम्। षढाखिन्यः अन्त्या ऐन्द्रावरुणी। निविञ्चेपनिषच्चब्रह्मवादिन्यौ ऋषी ॥
हे अश्विना ! अश्विनौ !। सुरी स्तोतृनामैतत्। इह तु स्तुतिसम्बन्धात्स्तुत्यवाचि।स्तुत्यौ मित्रावरुणौ। तत्सदृशे अयं तच्छब्दः। यथा मित्रः सर्वस्य मित्रम् ‘सर्वस्य वाहं मित्रमस्मी’ ति दर्शनात्। वरुणश्च वरण्यः। तादृशौ भुवनस्योदकस्य। कारू कर्तारौ वर्षितारौ। यद् युवामविन्दथुःअविन्देथांलब्धवन्तौ स्थः। उस्रियायां षष्ठ्यर्थे सप्तमी। उस्रया गौः तस्याः सम्बन्धि। किं पुनस्तत् पयः ‘आघर्मेसिञ्च पय उस्रियायाः’ इति दर्शनात्। आश्विनं हि तत् पयः। ‘आनूनमश्विनोरृषिरि’ ति होमे दर्शनात्। ‘यद्वा अश्विनाम् धुनः सारधस्ये’ ति यदिति वचनात् तस्येति गम्यते। तस्य मधुना मधुस्वादस्य घृतस्य दीप्तस्यतप्तम180हावीरनिषेकात्। एवंभूतस्य पयसो धाराः। प्रयन्तु युवां प्रत्यूर्ध्वं प्रकर्षेण यन्तु।ऌडर्थे लोट्, प्रेष्यन्ति। यजमानान्तरेषु यत् पयः प्रवर्ग्येयुवामविन्देथाम्। तस्य सारा अस्मद्यज्ञेऽपि युवां प्रैष्यन्ति। वयमपि युवां यक्ष्यामहे। एतज्ज्ञात्वा। तातौ। युवामिमं समीके सङ्ग्रामे अस्मिन् उपस्थतेजुषतां जुषेथां रक्षकत्वेन सेवेथाम्। अन्ये तु मैत्रावरुणीमेतां मन्यन्ते। तयोरा मिक्षालक्षणं पयः स्वभूतम्।अश्विनाविति अश्ववन्तावित्यर्थः॥
आवां रथं शतयावानमाशुं प्रातर्यावाणं सुषदं हिरण्ययम्।
अतिष्ठद् यत्र दुहिता विवस्वतस्तन्मे अर्वञ्चमवसे करामहे॥
वां युवयोः स्वभूतं रथम्। आशुं शीघ्रगामिनम्। तत्र प्रकारःशतयावानं निमेषमात्रेण योजनानां शतस्य यातारम्। ‘निमिषश्चिज्जवीयसे’ति च मन्त्रान्तरम्। प्रातर्यावाणमश्विनाप्रातरनुवाकादौ। सुषदं सुखेन यत्राश्विनौ निषीदतः तम्। हिरण्ययं यं हिरण्मयं यत्र रथे विवस्वतो दुहिता सूर्या अतिष्ठत् मन्त्रान्तराणि च भवन्ति। ‘अनो मनस्वयं सूर्यारोहत् प्रयातीपतिं सोमो वधूयुरभवदश्विनास्तामुभावरे’त्यादीनि। तं रथमर्वाञ्चंमां प्रत्यभिमुखमागन्तारम्। करामहे कुर्महे। किमर्थम्। अवसेसङ्ग्रामे अस्मभ्यं रक्षणाय ॥
आवामश्वासो रथिरा विपश्चितो वाग्धृषजः सुयुजो घृतश्च्युतः।
येभिर्याथोपसूर्यांवरेयां तेभिर्नो दस्राववतं समत्सु॥
आङोऽवतमित्याख्यानेन सम्बन्धः। हे दस्रौ! वां युवयोः स्वभूता अश्वाः। रथिराः रथवन्तो रथे युक्ता विपश्चितः सारथेरभिप्रायज्ञाः वाग्धृषजः वाङ्मात्रेण धर्षितारः परेषां हेषितशब्देनैव शत्रूणामभिभवितारः। सुयुजः यदा रथे युज्यन्ते तदा स्वयमेव सुष्ठु युज्यमानाः।घृतश्च्युतः अतिस्निग्धशरीराः। ते हि शरीराद् घृतं श्च्योतन्तः क्षरन्त इव भवन्ति। एवंभूता युवयोरश्वाः येभिर्यैः सूर्यां सवितुर्दुहितरं वरेयां वरेण्याम्। वरेयमिति पाठे लिङ्गव्यत्ययः। तामुपयाथः भूते लट् उपयातौ स्थः। तेभिस्तैरश्वैर्नोऽस्मान् समत्सु सङ्ग्रामेषु आअवतम् आभिमुख्येन रक्षतम् ॥
यद्वा रेतो अश्विना पोषयित्नुयद्रासभोवर्ध्रीमत्यै सुदान्।
यस्माज्जज्ञे देवकामः सुदक्षस्तदस्यै दत्तं भिषजावभिद्॥
रेत इत्युदकनाम। मध्यमस्थानावश्विनौ वर्षितारौ।हे अश्विनौ ! वांयुवयोः सम्बन्धि। यद् रेतो वृष्टयुदकम्।पोषयित्नु जगतः पोषयितु।यच्चरासभः युवयो रथे युक्तो गर्दभः।जातावेकवचनम्। रथाश्वप्रकरणे‘रासभावश्विनोरि’ति हि निघण्डुः ! ‘गर्दभरथेनाश्विनावुदजयतामि’ति ब्राह्मणम्। सः वर्ध्रीमत्यै, वर्ध्रीमती नाम योद्ध्री।सा युध्यमाना शत्रुभिश्छिन्नहन्ता तृषा चार्तावश्विनौ तुष्टाव। तावागत्य तस्यै हिरण्मयं हस्तं पुत्रं च ददतुः। वृष्ट्युदकेन च पिपासां शमयाञ्चक्रतुरितीतिहासः स्मर्यते। तदेतत् कक्षीवतोक्तम् —‘हिरण्यहस्तमश्विना रराणा पुत्रं नरा वर्ध्रीमत्या दत्तमि’ति। इह तूदकदानमुच्यते। अश्विभ्यां च दत्तं तद्रथे नियुक्तो रासभ एव ददावित्युपचारः तत्समर्थाचरणात्। यदिति कर्मश्रुतेः सम्प्रदानश्रुतेश्च ददाविति योग्यक्रियाध्याहारः। हे सुदान् शोभनदानौ सुष्ठु दातारौ वा। युवयो रथेऽभियुक्तो रासभो यद् रेतो बर्ध्रीमत्यै ददौ। यस्माद् रेतसो देवकामो देवपूजापरः पुरुषः सुदक्षो जज्ञे सुष्ठु वृद्धो जायते, तद् वृष्ट्युदकम् अस्य राज्ञः सेनायै युध्यमानायै दत्तं यथेयं सन्तापदूना न भवति। हे भिषजौ ! देवानामभिद्यु अभिद्योतमानं निर्मलं रेतः॥
यन्नासत्या भेषजं चित्रभानू येनावावथुस्तोककामां च घोषाम्।
तदस्यै दत्तं त्रिषु पुंसुवध्यै येनाविन्दत्तनयं सुहस्त्यम्॥
अश्विनोरन्यतरो नासत्यः। अपरो दस्रः। द्वयोरपि द्वाभ्यामभिधानं सर्वत्र साहचर्यात्। हे नासत्या ! नासत्यौ यद् भेषजं युवयोः स्वभूतं तद्विशल्यकरणादिकमस्यै सेनायै दत्तम्। हे चित्रभानू ! नानाविधदीप्ती येन भेषजेन तोककामा च। द्वितीयार्थे प्रथमा। तोककामाम् अपत्यकामाम्। घोषां घोषा नाम ब्रह्मवादिनी कक्षीवतो दुहिता।सा दुर्भगा। न तां कश्चिदुपयेमे। सा अश्विनौ तुष्टाव। तावश्विनौ भेषजेन सुभगां कृत्वा पतिवत्नीं चक्रतुः। सा पुनरपुत्रा सत्यश्विनावयजत।तावस्यै भेषजेन पुत्रं ददतुः सुहस्त्यं नाम इतीतिहासः स्मर्यते। तदिदमत्रोच्यते। येन भेषजेन घोषां युवामवावथुः। अवशब्दो धात्वर्थानुवादी।रक्षितवन्तौ स्थः। क्व। त्रिषु प्रातस्सवनादिषु सवनेषु।यज्ञमध्य इत्यर्थः। किमर्थम्, पुंसुवध्यै पुमांसं सोतुं येन भेषजेन सा घोषा सुहस्त्यं नाम तनयमविन्दत् लब्धवती॥
वषड्वां दस्रावस्मिन् सुतो नासत्या होता कृणोतु वेधाः।
द्विपदैषा। पूर्वपादो नवाक्षरः। उत्तरो दशाक्षरः।हे दस्रौ ! दस्रनामानौ। नासत्या नासत्यनामानौ। अस्मिन् सोमे। सुतः सप्तम्यर्थे प्रथमा। सुते अभिषुते सोमे सति। होता वां युवाभ्यां वषट्कृणोतु181। वषट्कारं करोतु। वेधाः सर्वस्य कर्मणो विधाता। एतज्ज्ञात्वा युवामस्मज्जयाय व्याप्रियेथाम्॥
इन्द्रावरुणा सौमनसमहप्तिंरायस्पोषं यजमानेषु धत्तम्।
प्रजां पुष्टिंभूतिमस्मासु धत्तं दीर्घायुत्वाय प्रतिरतं न आयुः॥
हे इन्द्रावरुणौ ! यजमानेषु ये युवां यजन्ते तेषु सौमनसं सौमनस्यम्। अदृप्तिंदर्पाभावं ‘दृप्तो धर्ममतिक्रामती’ ति तदभावः पुरुषार्थः। गयो धनस्य पोषं च धत्तम्। लडर्थे लोट्। धत्थः। एष युवयोः स्वभावः वयं च युवां यजामहे। अतोऽस्मास्वपि प्रजां पुष्टिं च तद्गता भूतिं चैश्वर्यलक्षणां धत्तम्। आयुश्च नः प्रतिरतं प्रवर्धयतम्। दीर्घायुत्वाय।यथा तदायुर्दीर्घं भवति तथा प्रतिरतम्। युद्धे प्रविष्टस्यायुषो हानिशङ्कयेदं प्रार्थ्यते॥
उपश्वासयेति तृचेन दुन्दुभिमभिमृशेत्।
उप॑श्वासयपृथि॒वीमु॒तद्यांपु॑रु॒त्राते॑मनुतां॒विष्ठि॑तं॒जग॑त्।
सदु॑न्दुभेस॒जूरिन्द्रे॑णदे॒वैर्दू॒राद्दवी॑यो॒अप॑सेध॒शत्रून्॥
(अष्ट० ४ अध्या० ७. व० १५. ऋ० २९.)
गर्गस्यार्षम्। उपशब्द आङर्थे। आश्वासय। पृथिवीमुत द्यां द्यामपि। पुरुत्राबहुधा। ते तव स्वभूतम्। घोषमित्यर्थाद् गम्यते। तव घोषं बहुधा मनुतां बुध्यतां शृणोतु। विष्ठितं स्थावरम्। जगत् जङ्गमं च। स्थावरजङ्गमात्मकं सर्वमेव ते शब्दं शृणोतु। एवं नाम ते घोषः उच्चैर्भवतु। य एवं स्तुतोऽस्माभिः स त्वं हे दुन्दुभे ! इन्द्रेण देवैश्च सजूः सम्प्रीयमाणः सन् दूराद्दवीयो दूराद् दूरतरं शत्रूनस्माकमपसेध अपगमय॥
आक्र॑न्दय॒बल॒मोजो॑न॒आधा॒निःष्ट॑निहिदुरि॒तावाध॑मानः।
अप॑प्रोथदुन्दुभेदु॒च्छ॒ना॑इ॒तइन्द्र॑स्यमु॒ष्टिर॑सिवी॒लय॑स्व॥
(अष्ट० ४. अध्या० ७. व० ३५ ऋ० ३०.)
आक्रन्दय। आक्रन्दनमाह्वानमस्मदीयं सेनालक्षणं बलम् आक्रन्दय। यथा त्वद्घोषश्रवणेन हृष्टं परबलमाह्वयते तथा कुरु।ओजश्च नः विभक्तिव्यत्ययः। अस्मासु। आधाःआधेहि। निःष्टनिहि निष्टनं शब्दनं शब्दाः यस्व।दुरितानि शत्रुभिश्चिकीर्षितानि बाधमानोऽपप्रोथ अपगमय। हे दुन्दुभे ! दुच्छुनाः दुर्भिक्षनामैतत्। दुर्भिक्षेण चानर्थो लक्ष्यते। तेन तत्कारिण्यः परसेनाः। ता इतोऽस्मत्समीपादपप्रोथ।इन्द्रस्य त्वं मुष्टिरसि तद्वत् परेषां भयं करोषि।वीलयस्व।वीलुरिति दृढनाम। ‘स्थिरौ गावौ भवतां वीलु रक्षः’ ‘वीलुञ्चिदद्रिमि’ त्यादौ दर्शनात्। तत् करोतीति णिचि टिलोपे रूपम्।वलियस्व दृढमात्मानं कुरु। धातुरेव वा वीलयस्वेति। दृढो भव॥
आमूर॑जप्र॒त्याव॑र्तये॒माःके॑तु॒मद्दु॑न्दु॒भिर्वा॑वदीति।
समश्व॑पर्णा॒श्चर॑न्तिनो॒नरो॒स्माक॑मिन्द्ररा॒थिनो॑जयन्तु॥
(अष्ट० ४. अध्या० ७. व० ३५ ऋ० ३१.)
आमूः। ऐन्द्रयेषा।दुन्दुभिलिङ्गात् तदभिमर्शने विनियुक्ता।हे इन्द्र ! अमूः परसेनाः आ अज समन्तात् क्षिप। इमास्तु मदीयाः सेनाः। प्रत्यावर्तय पलायमानाः प्रतिनिवर्तय। अयं मदीयो दुन्दुभिः। केतुमत् केतुज्ञानं तद्युक्तं यथा तथा वावदीति। यथा सर्वैः प्रज्ञायते तथा घोषं करोति। करोत्विति वा। नः अस्माकमश्वपर्णाः अश्वपृतनाः अश्वारोहा नरः मनुष्याः सञ्चरन्ति सञ्चरन्तु। रथिनश्चास्माकं जयन्तु॥
अवसृष्टा परापतेतीषून्विसर्जयेत्।
अव॑सृष्टा॒परा॑पत॒शुर॑व्ये॒ब्रह्म॑संशिते।
गच्छा॒मित्रा॒न्प्रप॑द्यस्व॒मामीषां॒कञ्च॒नोच्छि॑षः।
(अष्ट० ५. अध्या० १ व २१. ऋ० १६.)
वायोर्भारद्वाजस्यार्षम्। शरपर्यायः शरुशब्दः। दृश्यते हि ‘धुनिः शिमीवाँञ्छरुमाँ जीषि’ इति। ततः समूहे स्वार्थे वा यत्त्प्रत्ययः। तच्चस्वभावतः स्त्रीलिङ्गम्। शरव्यं। ब्रह्मसंशिते। ब्रह्मणा मन्त्रलक्षणेन वेदेन संशिते तीक्ष्णीकृते। मयाव-
_________________________________________________
सृष्टा क्षिप्ता त्वं परापत शत्रून् प्रति गच्छ। परापत्य गच्छ। गत्वा च अमित्रान् प्रपद्यस्व तच्छरीरेषु प्रविश। प्रविष्टा चामीषां शत्रूणां मध्ये कञ्चन कञ्चिदपि मोच्छिषः यथा न कश्चिच्छिष्यते तथा कुरु॥
यत्र बाणाःसम्पतन्तीति युध्यमानेषु जपेत्।
यत्र॑बा॒णाःस॒म्पत॑न्तिकुमा॒रावि॑शि॒खाइ॑व।
तत्रा॑नो॒ब्रह्म॑ण॒स्पति॒रदि॑तिः॒शर्म॑यच्छतुवि॒श्वाहा॒श॑र्मयच्छतु॥
(अष्ट० ५. अध्या० १. व० २२. ऋ० १७.)
यत्र सङ्ग्रामे। बाणाः स्वेच परे च। सम्पतन्ति युगपत् पतन्ति। कुमारा विशिखा इव। चौलकर्मणः प्राग् विशिखाः कुमाराः क्रीडन्तो यथा। इतस्ततः सम्पतन्ति तद्वत्। तत्र युद्धे नः अस्मभ्यं ब्रह्मणस्पतिर्बृहस्पतिः एवन्नामकं देवतान्तरं वा। अदितिः देवमाता च शर्म यच्छतु सुखं ददातु। न च केवलं सकृत्।किन्तर्हि।विश्वाहा सर्वदा शर्म यच्छतु॥
इति हरदत्तमिश्रविरचितायामाश्वलायन-
गृह्यमन्त्रव्यख्यायां तृतीयोऽध्यायः।
-
*
अथ चतुर्थोऽध्यायः
अथ प्रितृमेधमन्त्राः व्याख्यायन्ते —प्राप्यैतं भूमिभागं प्राक्षति अपतवीत।
अपे॑त॒वी॑त॒विच॑सर्प॒तातो॒स्माएतंपि॒तरो॑लो॒कम॑क्रन्।
अहो॑भि॒रद्भिर॒क्तुभि॒॑र्व्यक्तंय॒मोद॑दात्यव॒सान॑मस्मै॥
(अष्ट० ७. अध्या० ६. व० १५. ऋ० ९)
यमस्यार्षम्। ये अत्र पूर्वं निवसथ…. …. प्रेतादयस्ते यूयमतः स्थानादपेत अपगच्छत। अपगच्छन्तश्च वीत वियुत्यगच्छत। न सङ्घीभूय। विसर्पत च विशेषेण दूरतरं गच्छत। कस्मात्। एतं लोकमिदं स्थानमस्मै प्रेताय पितरोऽक्रन् कृतवन्तो दत्तवन्तः। किञ्चाहोभिर्दिवसैः। अद्भिश्च प्रोक्षणोदकैरक्तुभिः। रात्रिभिश्चैतैः शुद्धिहेतुभिर्व्यक्तं सङ्गतं शोधितमिदम् अवसानं स्थानमस्मै प्रेतायास्य दहनार्थं यमो ददाति। अतो यूयमपेतेति॥
पत्नीमुपशयानामुत्थापयेद् देवरः।
उदी॑र्ष्वनार्य॒भिजी॑वलो॒कंग॒तासु॑मे॒तमुप॑शेष॒एहि।ह॒स्त॒ग्रा॒भस्य॑दिधि॒षोस्तवे॒दंपत्यु॑र्जनि॒त्वम॒भिसम्ब॑भूथ।
(अष्ट० ७. अध्या० ३. व० २७.ऋ० ८.)
उदीर्ष्वनारि। सङ्कुलुकस्यैषा।हेनारि। या त्वं गतासुं गतप्राणमेतं पतिमुपशेते उपसृत्य शेषे सोदीर्ष्वोत्तिष्ठ उत्थाय च जीवलोकमभ्येहि। नचैवं ते पतिलोकहानिः। यतस्त्वमभिसन्धिमात्रेणैव हस्तग्राभस्य विवाहसमये मन्त्रवत्पाणिं गृहतिवतः दिधिषोर्गर्भस्याधातुस्तव पत्युरिदं जनित्वं जन्म लोकान्तरप्राप्तिलक्षणमभिसम्बभूथ अभिसम्बभूविथ तस्मादुच्यत उदीर्ष्वेति॥
धनुर्हस्तादिति मृतस्यक्षत्रियस्य हस्ताद् धनुरादत्ते।
धनु॒र्हस्ता॑दा॒ददा॑नोमृ॒तस्या॒स्मेक्ष॒त्राय॒वर्च॑से॒बला॑य।
अत्रै॒वत्वमि॒हवयं॒सु॒वीरा॒विश्वा॒स्पृधो॑अ॒भिमा॑तीर्जयेम॥
(अष्ट० ७. अध्या० ६. व० २७. ऋ० ९)
सङ्कुसुकस्यैव तव हस्ताद् धनुराददानोऽहम्। किमर्थम्। अस्मेक्षत्राय त्वत्पुत्रादेरर्थाय। वर्चसे बलाय। एतद्धनुर्गृहीत्वा वर्चस्वी बलवान् यथा भवेदिति। त्वं पुनरत्रैव दहनदेशे भव। वयं त्विहलोके सुवीराः शोभनैर्वीरस्तैद्वन्तो भूत्वा विश्वा स्पृधः स्पर्धमाना अभिमातीः। शत्रुपर्यायोऽयं स्त्रीलिङ्गश्छन्दसि प्रयुज्यते। तान् जयेम शत्रून् जयेम ॥
अनुस्तरण्या वपामुत्स्विद्यशिरोसुखं प्रच्छादयेत् —अग्नेर्वर्म परिगोभिर्व्ययस्वेति।
अ॒ग्नेर्वर्म॒परि॒गोभि॑र्व्ययस्व॒सम्प्रोर्णु॑ष्व॒पीव॑सा॒मेद॑साच।
नेत्त्वा॑धृ॒ष्णुर्हर॑सा॒जर्हृ॑षाणोद॒धृग्वि॑ध॒क्ष्यन्प॑र्य॒ङ्खया॑ते॥
( अष्ट० ७. अध्या० ६. व० २१. ऋ० ७.)
दमनस्यार्षम्। प्रेतं प्रत्युच्यते। हे प्रेत ! अग्नेर्वर्मवर्मस्थानीयज्वालासमूहः। गोभिः विकारेऽयं प्रकृतिशब्दः। ‘गोभिः प्रीणीत मत्सरमि’ ति यथा लोमाद्यपेक्षं बहुवचनम्। आजगव्यादिभिर्विकारैश्चर्मादिभिः परिव्ययस्व परितःछादय। सम्प्रोर्णुष्व सम्यक् छादय। मेदसा। वपाभिधानमेतत्। वपया। कीदृशेन। पीवसा। यदुपयुञ्जानाःपीवानो भवन्ति, तादृशेन।पीवरत्वस्य निमित्तभूतया वपया चात्मानं छादय। एवंकृते किं भवति। न इत् नेत्। नैव। त्वा धृप्णुर्धर्षणशीलः अग्निः हरसा स्वेन तेजसा जहृषाणःदाह्यलाभेनात्यन्तं हृष्यन्। दधृक् पाकादिभिर्जगतो धारयिता।विधक्ष्यन् विविधं धक्ष्यन् भूत्वा नैव त्वा पर्यङ्ख्याते व्याप्नुयात्॥
वृक्कावुद्धृत्य पाण्योरादध्यात् ‘अतिद्रवे’ति।
अति॑द्रवसारमे॒यौश्वानौ॑चतुर॒क्षौश॒वलौ॑सा॒धुना॑प॒था।
अथा॑पि॒तॄन्त्सु॑वि॒द॒त्राँ॒उपे॑हिय॒मेन॒येस॑ध॒मादंमद॑न्ति॥
(अष्ट० ७. अध्या० ६. व० १५. ऋ० १०.)
यमस्यैषा। पाण्योराहितवृक्कस्त्वं सारमेयौ सरमा देवशुनी तस्याः पुत्रौ श्वानौ अतिद्रव। चत्वार्यक्षीणि ययोस्तौ चतुरक्षौ। अक्ष्णोरधस्तदाकारौ बिन्दू बलवतां शुनां भवेताम्। तदभिप्रायमेतत्। सख्यमेव वा। शबलौ नानावर्णौ। साधुना कण्टकादिरहितेन पथा गच्छन्नतिद्रव। अतिद्रुत्य च अथ अनन्तरं पितॄन् सुविदत्रान् शोभनज्ञानान् उपेह्युपगच्छ। ये पितरो यमेन सधमादं मदन्ति सह माद्यन्ति। ओदनपाकं पचन्तीतिवत् कर्मता। ‘मदोऽनुपसर्गे’ (३-३-६७) इत्यपि प्राप्ते छान्दसो घञ्। ‘सधमादस्थयोश्छन्दसि’ (६-३-९६) ( इति सहस्य सधादेशः।)॥
प्रणीताप्रणयनमनुमन्त्रयते ‘इममग्नेचमसम्’।
इ॒मम॑ग्नेचम॒संमाविजि॑ह्वरःप्रि॒योदे॒वाना॑मु॒तसोम्याना॑म्।
ए॒षयश्च॑म॒सोदे॑व॒पान॒स्तस्मि॑न्दे॒वाअ॒मृता॑मादयन्ते॥
(अष्ट० ७. अध्या० ६.व० २१. ऋ० ८.)
दमन ऋषिः। प्रक्षेप्स्यमानोऽग्निर्हृदिस्थःसम्बोध्यते। हे अग्ने! इमं चमसं मा विजिह्वरः। ‘ह्वृकौटिल्ये’। कुटिलं मा धाक्षीः। आर्जवेन दह। यतोऽयं प्रियो देवानाम्।उत सोम्यानां सोमार्हाणामृत्विजामपि प्रियः। यएष चमसो देवपानः। देवा ऋत्विजः दानादिगुणयोगात्। प्रसिद्धा एव वा। ते यत्र पिबन्ति तस्मिन् देवा अमृता अमरणधर्माणो मादयन्ते तर्पयन्त्यात्मानम्। प्रणीताभिरद्भिर्देवास्तृप्यन्ति। अतो मा विजिहर इति ॥
सव्यं जान्वाच्य दक्षिणाग्नौआज्याहुतीर्जुहुयात्—
अग्नये स्वाहा कामाय स्वाहा लोकाय स्वाहा अनुमतये स्वाहा।
इति। स्पष्टार्थाः सर्वे॥
पञ्चमीमुरसि प्रेतस्य—
अस्माद् वै त्वमजायथा अयं त्वदधिजायतामसौ स्वाहा।
इति। हे अग्ने ! अस्माद् यजमानाद् वै त्वमजायथाः आधानकाले जातोऽसि। ‘ते मत् प्रातः प्रजनिष्येथे’ इति तैत्तिरीयाणामाधाने मन्त्रा भवन्ति। अद्य त्वयं यजमानः त्वत् त्वत्तः अधिजायताम्।अधिः पञ्चम्यर्थानुवादी। स्वर्गाद्यनुभवयोग्यो जायताम्। असौ। प्रेतस्य नामनिर्देशः प्रथमया यज्ञदत्तशर्मन् !॥
अथ परिचारकान् प्रेष्यति—
युगपदग्रीन् प्रज्वलयत।
सर्वानेवाग्नीन् सहैवप्रज्वलयत यथा प्रेतं युगपत् प्राप्नुयुः॥
तं दह्यमानमनुमन्त्रयते ‘प्रेहि प्रेही ‘ति।
प्रेहि॒प्रेहि॑प॒थिभिः॑पू॒र्व्येभि॒र्यत्रा॑नः॒पूर्वे॑पि॒तरः॑परे॒युः।
उ॒भाराजा॑नास्व॒धया॒मद॑न्ताय॒मंप॑श्यासि॒वरु॑णंचदे॒वम्॥
(अष्ट० ७ अध्या० ६. व० १५, ऋ० ७.)
यमस्यार्षम्। दह्यमानं प्रति दाहकस्य वचनम्।हे प्रेत ! प्रेहि प्रेहि। द्विरुक्तिरादरार्था। स्वर्गं प्रति शीघ्रं गच्छ। पथिभिः पूर्व्येभिः। पूर्वैः पितृभिर्देवैर्वा कृताः पूर्व्याः। ‘पूर्वैः कृतमिनयौ च’ (४-४-१३३) इति यत्प्रत्ययः। तैःपथिभिः प्रेहि। क्व। यत्र स्वर्गादौ नोऽस्माकं पूर्वे पितरः परेयुः पराजग्मुः गतवन्तः। गत्वा च तत्र उभा राजाना उभौ राजानौ स्वामिनौ दीप्यमानौ वा। स्वधया। पितृभ्यो यद् दीयते सा स्वधा, तया। मदन्ता माद्यन्तौ तृप्यन्तौ। एवम्भूतौ देवं यमं वरुणं च पश्यासि पश्यसि द्रक्ष्यसि वा। यमःपितृलोकपतिः। वरुणोऽपि प्रेतानां दण्डधरः। स्मर्यते मानवे —‘राजा दण्डधरो हि सः’ इति॥
सङ्ग॑च्छस्वपि॒तृभिः॒संय॒मेन॑ष्टापू॒र्तेन॑पर॒मेव्यो॑मन्।हि॒त्वाया॑व॒द्यंपुन॒रस्त॒मेहि॒सङ्गेच्छस्वत॒न्वा॑सु॒वर्चाः॑॥
(अष्ट० ७. अध्या० ६. व० १५. ऋ० ८ )
सङ्गच्छस्व। इतो गतस्त्वं पितृभिः सङ्गच्छस्व। संयमेन यमेन च सङ्गच्छस्व। समिष्टापूर्तेन च। इष्टं श्रौतं यागादि। पूर्तं स्मार्तं तटाकनिर्माणादि। इह तु तत्फलं विवक्षितम्। इष्टापूर्तफलेन च सङ्गच्छस्व। स त्वं परमे व्योमन् व्योम्न्युत्कृष्टे स्वर्गे। किञ्चावद्यं हित्वाय हित्वा। पुनः पश्चादस्तं गृहं विमानाख्यम् एहि। आङनर्थकः। इहि प्राप्नुहि। सङ्गच्छस्व तन्वा शरीरेण सुवर्चाः। तृतीयार्थे प्रथमा। सुवर्चसा तन्वा ॥
** ** ‘अतिद्रव’। गता।
यौते॒श्वानौ॑यमरक्षि॒तारौ॑चतुर॒क्षौप॑थि॒रक्षी॑नृ॒चक्ष॑सौ।
ताभ्या॑मेनं॒परि॑देहिराजन्त्स्व॒स्तिचा॑स्माअनमी॒वंच॑धेहि॥
(अष्ट० ७, अध्या० ६. व० १६. ऋ० ११. )
यौ ते। हे यम ! यौ ते तव स्वभूतौ रक्षितारौ श्वानौ चतुरक्षौ। गतम्। पथिरक्षी पथो रक्षितारौ। ‘छन्दसि वनसनरक्षिमथाम्’ (३. २. २७) इति इन्प्रत्ययः। नृचक्षप्तौनृणां सुकृतां दुष्कृतां च द्रष्टारौ। हे राजन् ! यम ! ताभ्यां श्वभ्यामेनंप्रेतं परिदेहि रक्षार्थं देहि। अस्मै प्रेताय स्वस्ति चदेहि। अमीवा रोगः तदभावोऽनमीवम्। तच्च धेहि॥
मैन॑मग्ने॒विद॑हो॒माभिशो॑चो॒मास्य॒त्वचं॑चिक्षिपो॒माशरी॑रम्।
य॒दाशृ॒तं॒कृ॒णवो॑जातवे॒दोथे॑मेनं॒प्रहि॑णुतात्त्पि॒तृभ्यः॑॥
(अष्ट० ७. अध्या० ६. व० २०. ऋ० ९.)
मैनमग्ने। षड् दमनस्यार्षम्।हे अग्ने ! एनं प्रेतं मा विदहः विदग्धं मा कार्षीः। यथास्थ्यादिकमपि न दृश्यते तथा मा धाक्षीः। माभि शोचः। अभिरल्पार्थे। मा चाल्पमेव दीपिष्ठाः। अस्य प्रपञ्चः —मास्य त्वचमदग्धमेवचिक्षिपः। मा च शरीरम्।कथन्तर्हि करवाणि। यदा शृतं सुदग्धं कृणवः करिष्यसि, अथानन्तरं तदानीमेव।ईम् इति पादपूरणः। (हे जातवेदः !) एनं प्रेतं पितृभ्यः प्रहिणुतात् प्रहिणु प्रगमय॥
शृ॒त॑य॒दाकर॑सिजातवे॒दोथे॑मेनं॒परि॑दत्तात्पि॒तृभ्यः॑।
य॒दागच्छा॒त्यसु॑नीतिमे॒तामथा॑दे॒वानां॑वश॒नीर्भ॑वाति॥
(अष्ट० ७. अध्या० ६. व० २०. ऋ०२.)
शृतं यदा।हे जातवेदः ! यदा त्वमेनं शृतं करसि करिष्यसि, अथ ईम् अनन्तरमेवैनं पितृभ्यः परिदत्तात् रक्षार्थं देहि। किं कारणमेवं प्रार्थ्यते। उच्यते। यदैतामेवंविधामसुनीतिं प्राणगतिं गच्छाति गच्छेद, अथ तदा देवानां वशनीः वशंगतः भवाति भवेत्, देवपक्षे भ182वेदिति॥
सूर्यं॒चक्षु॑र्गच्छतु॒वात॑मा॒त्माद्यांच॑गच्छपृथि॒वींच॒धर्म॑णा।
अ॒पोवा॑गच्छ॒यदि॒तत्र॑तेहि॒तमोष॑धीषु॒प्रतितिष्ठा॒शरीरैः॑॥
(अष्ट० ७ अध्या० ६. व० २० ऋ० ३.)
सूर्यं चक्षुः। प्रेतं प्रत्युच्यते। चक्षुस्ते सूर्यं गच्छतु तैजसं तेजोरूपं सूर्यं गच्छतु। वातं बाह्यं वायुम्। तवात्मा प्राणवायुर्गच्छतु। उपलक्षणमेतत्। अन्यान्यपि ( प्रा ? घ्रा)णादीनि स्वकारणानि पृथिव्यादीनि गच्छन्तु।त्वं तु धर्मणा स्वकर्मवशेन। द्यां च। चशब्दो वार्थे। द्यां वा गच्छ दिव्यरूपः सन्। पृथिवीं वा गच्छ मनुष्यादिरूपेण। अपो वा गच्छ मत्स्यादिरूपेण। यदि तत्र ते हितं विहितं जन्म कर्मणा। अपर आह —अपो वा गच्छ। अन्तरिक्षं वा गच्छ यक्षादिरूपेणेति। ओषधीषु वा प्रतितिष्ठ स्थावरतां वा गच्छ। शरीरैः शरीरेण तदवयवैश्च। स्थावरता हि प्राणिनां कर्मगतिः। तथाच मनुः—
“शरीरजैः कर्मदोषैर्याति स्थावरतां नरः।”
इति॥
अ॒जोभा॒गस्तप॑सा॒तंतप॑स्व॒तंते॑शो॒चिस्त॑पतु॒तंते॑अ॒र्चिः।यास्ते॑शि॒वास्त॒न्वो॑जातवे॒दस्ता॑भिर्वहैनंसु॒कृता॑मु॒लो॒कम्॥
(अष्ट० ७. अध्या० ६. व० २०. ऋ० ४.)
अजो भागः। अज इति षष्ठ्यर्थे प्रथमा। न जायत इत्यजः आत्मा। तस्यायं भागः। सर्वपुरुषार्थसाधनतया भज्यते सेव्यत इति भागः शरीरम्।हे जातवेदः !। यस्त्वया दह्यते सोऽजस्य भागः।तं तपसा तप्त्रा रश्मिजालेन तपस्व। तमेव ते शोचिरपि तपतु।अर्चिरपि ते तमेव तपतु। त्रयाणां तपआदीनां महत्त्वाल्पत्वादिभेदाद् न रश्मिविषयतया पुनरुक्तिः। याश्च ते तन्वः शिवास्ताभिरेनं प्रेतं सुकृतां लोकं वह। उःपदपूरणः॥
अव॑सृज॒पुन॑रग्नेपि॒तृभ्यो॒यस्त॒आहु॑तश्चर॑तिस्वा॒भिः॑।
आयु॒र्वसा॑न॒उप॑वेतु॒शेषः॒संग॑च्छतांत॒न्वा॑जातवेदः॥
(अष्ट० ७. अध्या० ६. व० २०. ऋ० ५.)
अवसृज। हे अग्ने ! त्वमिमं प्रेतं पितृभ्यः पुनरवसृज।वीप्सालोपोऽत्र द्रष्टव्यः। युष्माभिरयं समानो जात इति पुनः पुनरुक्त्वा समर्पय।यः प्रेतस्ते तुभ्यम् आहुतः संस्कारार्थं त्वयि प्रक्षिप्तः सन् चरति। अन्तर्णीतसनर्थमेतत्। पितॄन् व्रतं चिचरिपषति। केन हेतुना।स्वधाभिरन्नैः पितृभ्यः पुत्रादिभिर्दातव्यैर्हेतुभूतैः। ताः उपभोक्तुमायुर्जीवितं वसानः आच्छादयन् जीवेनाधिष्ठितः सन्। शेषः। द्वितीयार्थे प्रथमा। शेषम्। तथैव तैत्तिरीयाः पठन्ति। भुक्तावशिष्टं कर्मफलम् उपवेतु ‘वीगत्यादिषु’। उपगच्छतु उपभुङ्क्ताम्। तदर्थं च तन्वा सूक्ष्मशरीरेण सङ्गच्छतां हे जातवेदः!॥
यत्ते॑कृ॒ष्णःश॑कु॒नआ॑तु॒तोद॑पिपी॒लःस॒र्पउ॒तवा॒श्वाप॑दः।
अ॒ग्निष्टद्वि॒श्वाद॑ग॒दंकृ॑णोतु॒सोम॑श्च॒योब्रा॑ह्म॒णाँआ॑वि॒वेश॑॥
(अष्ट० ७ अध्या० ६. व०. २१. ऋ० ६.)
यत् ते। कृष्णः शकुनः काकः। सः यत् ते तवाङ्गम् आतुतोद पीडयति स्म। तथा पिपीलः पिपीलिका सर्पः उत वा अपि वा श्वापदः सृगालादिः तत्सर्वमयमग्निः विश्वाद् विश्वमत्ता भक्षयिता अगदं कृणोतु अरोमंकरोतु। यः सोमो ब्राह्मणानाविवेश आविशत्याविश्य तिष्ठति। अग्नीषोमीयो हि ब्राह्मणः॥
पू॒षात्वे॒तश्च्या॑वयतु॒प्रवि॒द्वानन॑ष्ट॒पशु॒र्भुव॑नस्यगो॒पाः।
सत्वै॒तेभ्यः॒परि॑ददत्पि॒तृभ्यो॒ऽग्निर्देवेभ्यः॑सुविद॒त्रिये॑भ्यः॥
( अष्ट० ७. अध्या० ६. व० २३.ऋ० ३.)
पूषा त्वेतः। चतस्रः देवश्रवस आर्षम्। पूषा आदित्यानामन्यतमः। स त्वा इतो लोकात् प्रच्यावयतु विद्वान् पथां ज्ञाता। अनष्टपशुः।दर्शनसाधनत्वात् पशवो रश्मयः। अनष्टपशुरनष्टरश्मिः अनष्टगुर्वा। ‘पूषा गा अन्वेतु नः पूषा त्वर्वतः’ इति दर्शनात्। भुवनस्य गोपाः गोपायिता। क्विप्यल्लोपयलोपयोः रूपमेतत्। स एव पूषा एतेभ्यः प्रसिद्धेभ्यः पितृभ्योऽग्निष्वात्तादिभ्यः परिददत्। पञ्चमो लकारः। परिदद्यात्। अग्निस्तु देवेभ्यः परिदद्यात् सुविदत्रियेभ्यः। शोभनज्ञानं सुविदत्रम्। ततो मत्वर्थीयः। शोभनेन ज्ञानेन तद्वद्भ्यः॥
आयु॑र्वि॒श्वायुः॒ परि॑पासतित्वापू॒षत्वा॑पातु॒प्रप॑थेपु॒रस्ता॑त्।
यत्रास॑तेसु॒कृतो॒यत्र॒तेय॒यु॒स्तत्र॑त्वादे॒वःस॑वि॒ताद॑धातु॥
(अष्ट० ७. अध्या० ६. व०. २३. ॠ०४.)
आयुः गमनशीलः। विश्वायुः सर्वतोगामी सर्वत्राप्रतिहतगतिः। कः पुनरसौ। वायुः। स त्वा परिपासति। लेटि ‘लिपिसिची’ति(?) तिपः सडागमः। परिपायात्। पूषा च त्वा पातु प्रपथे प्रकृष्टे पथि पुरस्ताद् गच्छन्। देवश्च सविता आदित्यानामन्यतमः यत्र स्थाने सुकृतः आसते, यत्र वा ते ययुः गच्छन्ति तत्र त्वा दधातु स्थापयतु॥
पू॒षेमाआशा॒अनु॑वेद॒सर्वाः॒सोअ॒स्माँअभ॑यतमेननेषत्।
स्व॒स्ति॒दाआघृ॑णिः॒ सर्व॑वी॒रोप्र॑युच्छन्पु॒रए॑तुप्रजा॒नन्॥
( अष्ट० ७. अध्या० ६. व० १३. ऋ० ५.)
पूषेमाः। इमाः प्राच्याद्या आशाः सर्वाः पूषा अनुवेद आनुपूर्व्येण जानाति। सोऽस्मान्। ‘अस्मदो द्वयोश्च’ (१.२.५९) इत्येकस्मिन् बहुवचनम्। माम्। तेन सहैक्यमापन्नस्य पुत्रादेर्वचनम्। यत्र भयगन्धोऽपि नास्ति तेनाभयतमेन पथा नेषद् गमतु। स्वस्तिदाः अविनाशस्य दाता। आघृणिरागतदीप्तिः। सर्ववीरः सर्वैः परिचारकपुरुषैस्तद्वान्। अप्रयुच्छन् अप्रमाद्यन् पुर एतु। प्रजानन् प्रकर्षेण जानन्। किम्।गन्तव्यं देशं पन्थानं वा॥
प्रप॑थेप॒थाम॑जनिष्टपू॒षाप्रप॑थेदि॒वःप्रप॑थेपृथि॒व्याः।
उ॒भेअ॒भिप्रि॒यत॑मेस॒धस्थे॒आच॒परा॑चचरतिप्रजा॒नन्॥
(अष्ट० ७. अध्या० ६. व० २४. ऋ० ६)
प्रपथे। पथां मध्ये प्रकृष्टः पन्थाः प्रपथः। तत्र पथि पूषाजनिष्ट जातः सुकृतामभिमतप्रापणाय स्थितः। सामान्योक्तस्य विशेषवचनं —प्रपथे दिवः पथां मध्ये प्रपथे स्थितः। पृथिव्याश्च पथां मध्ये प्रपथे स्थितः। उभे द्यावापृथिव्यौ प्रियतमे सर्वेषां भोगाधिकरणत्वात्। सधस्थे सह तिष्ठन्त्यौ। अभि प्रति आचरति च पराचरति च पृथिवीं प्रत्यागच्छति दिवं च प्रति परागच्छति प्रजानन् एवंभूतस्य सुकृत इदं स्थानमुपभोगयोग्यमिति॥
‘उपसर्पे’ति चतस्रः—
उप॑सर्पमा॒तरं॒भूमि॑मे॒तामु॑रु॒व्यच॑संपृथि॒वींसु॒शेवा॑म्।
ऊ॑र्णम्रदायुव॒तिर्दक्षि॑णावतए॒षात्वा॑पातु॒नि॑र्ऋतेरु॒पस्था॑त्॥
(अष्ट० ७. अध्या० ३. व० २७ऋ० १०.)
सर्वस्य मातृस्थानीयामेतां भूमिमुपसर्प उपगच्छ हे प्रेत ! उरुव्यचसं बहुव्यापिनीं पृथिवीम्। क्रियाशब्दोऽयम्। ‘प्रथ प्रख्याने’। प्रथितां विस्तीर्णाम्। सुशेवां सुसुखाम्। एषा च त्वा भूमिरूर्णम्रदाः ऊर्णावन्म्रन्दीयसी मृदुतरा। युवतिः स्त्रीवत् सुखकारिणी, मिश्रयित्री वा धान्यादीनाम्। दक्षिणावते। विभक्तिव्यत्ययः। दक्षिणावतः दत्तदक्षिणत्वात्। निर्ऋतेर्मृत्युदेवताया उपस्थात् समीपस्थानात् पातु॥
उच्छ्॑वंचस्वपृथवि॒मानिरबा॑धथाःसूपाय॒ना॑स्मैभवसूपवञ्च॒ना।
मा॒तापु॒त्रंयथा॑सि॒चाभ्येनंभूमऊर्णुहि॥
(अष्ट० ७. अध्या० ६. व० २८. ऋ० ११.)
उच्छ्वञ्चस्व। श्वसेरन्तर्भावितण्यर्थस्येदं रूपम्। प्रकृत्यन्तरं वा तेन समानार्थम्। हे पृथिवि ! इमं प्रेतमुच्छासय। मा निबाधथाः नितरां मा बाधिष्ठाः। अस्मै अस्य प्रेतस्य सूपायना सुगमना भव। सूपवञ्चना।वञ्चिः प्रलम्भनार्थोऽन्यत्र। इह तु प्रतिष्ठाने द्रष्टव्यः। सुप्रतिष्ठाना च भव। यथायं त्वयि जन्मान्तरेऽपि सुप्रतिष्ठितो भवति तादृशी भव। यथा च माता पुत्रं बालं सिचा वस्त्रान्तेनाभ्यूर्णोति अभिच्छादयति, एवमेतं प्रेतं हे भूमे ! अभ्यूर्णहि अभिच्छादय यथास्योपरि नानर्था उपनिपतन्ति॥
उ॒च्छ्वञ्च॑मानापृथि॒वीसुति॑ष्ठतुस॒हस्रं॒मित॒उप॒हिश्रय॑न्ताम्।
तेगृ॒हासो॑घृत॒श्चुतो॑भवन्तुवि॒श्वाहा॑स्मैशर॒णाःस॒न्त्वत्र॥
(अष्ट० ७. अध्या० ६. व० २८. ऋ० १२.)
उच्छ्वञ्चमाना एवमुच्छ्वासयन्ती पृथिवी सुतिष्ठतु।सहस्रं मितः। ‘मीञ् हिंसाम्’ इत्यस्य क्विपि छान्दसे ह्रस्वे तुकि रूपं जसन्तम्। हिंसितारः। सहस्रसंख्या अपि हिंसितारः। उपश्रयन्ताम्। उपशब्दोऽपशब्दस्यार्थे।अपश्रयन्तां विहायैनमन्यत्रापगच्छन्तु।मिनोतेर्वा क्विपि मितः। मिनोतिश्च निर्माणे द्रष्टव्यः। ‘प्राचीनवंशं विमितं मिन्वन्ति’ ‘हविर्धानं मिन्वन्ती’ त्यादौ स्थूणादीनामवटेस्थापनेऽपि दृष्टः ‘यत्र यूपमुन्मिन्वन्ती’ त्यादौ। सर्वथा गृहादीनां कर्तारस्तक्षादयोऽत्र मितः। ते सहस्रमेनमुपश्रयन्ताम्। हिः पादपूरणः। ते च तक्षादिनिर्मिता गृहासः घृतश्चुतः घृतं क्षीरादि क्षरन्तो गोभिर्युक्ताः अस्मै प्रेताय भवन्तु। अत्र लोके विश्वाहा सर्वदा च शरणाः सन्तु निवासयोग्यास्ते गृहा
भवन्तु। जन्मान्तरेऽप्ययमत्र लोके श्री183मान् जायतामिति पिण्डितार्थः॥
उत्ते॑स्तभ्नामिपृथि॒वींत्वत्परी॒मंलो॒गंनि॒दध॒न्मोअ॒हंरि॑षम्।
ए॒तांस्थूणां॑पि॒तरो॑धारयन्तु॒तेत्रा॑य॒मःसाद॑नातेमिनोतु॥
(अष्ट०७ अध्या० ६. व० २८. ऋ० १३.)
उत्ते। (अहं) ते त्वदर्थं पृथिवीमुत्तभ्नामि दृढीकरोमि। त्वत्। षष्ठ्यर्थेपञ्चमी। परि।उपरिशब्दस्योकारलोपः। तवोपरि। इमं लोगम्।छान्दसो गकारः। लोकम्। तथैव तैत्तिरीयकम्।निदधत् स्थापयन् तव वश्यं कुर्वन्। मा उ मो।मैव। रिषं रिष्टो मा भूवं मा केनचिद्विंसिषि। एतां स्थूणां चितिलक्षणां पितरो धारयन्तु ते त्वदर्थम्। अत्र च चितौ यमस्ते सदना। द्वितीयैकवचनस्याकारः। सदनं गृहम्।मिनोतु करोतु॥
प्र॒ती॒चीने॒मामह॒नीष्वाः॑प॒र्णमि॒वाद॑धुः।
प्र॒तीचीं॑जग्रभा॒वाच॒मश्वं॑र॒शनया॑यथा॥
( अष्ट० ७. अध्या० ६. व० २८. ऋ० १४. )
प्रतीचीने।प्रतीचीनं प्रतिगतम्।तस्मिन् प्रतीचीने उपस्थितेऽस्मिन्नहनि मां प्रेतस्य पुत्रमादधुराहितवन्तः कर्तृत्वेन स्थापितवन्तः। के। सदस्याः स्मृतिकारा वा। इष्वाः पर्णमिव यथा इषुकाराः पर्णं वाजाख्यमादधुरुपश्लेषयन्ति, तद्वत्। अहं च प्रतीचीं मां प्रत्युपस्थितां वाचं प्रार्थनारूपाम् ‘उच्छ्वञ्चस्व पृथिवि मा निबाधथाः’ इत्याकारां वाचं जग्रभ गृहीतवानस्मि अश्वं रशनया यथा।रशना बन्धनरज्जुः। तथा यथा अश्ववाहा अश्वं गृह्णन्ति तद्वत्॥
सोम॒एके॑भ्यःपवतेघृ॒तमेक॒उपा॑सते।
येभ्यो॒मधु॑प्र॒धाव॑ति॒तांश्चि॑दे॒वापि॑गच्छतात्॥
(अष्ट० ८. अध्या ० ८. व० १२. ऋ० १.)
सोम एकेभ्यः। यमी ऋषिः। एकेभ्यो देवेभ्यः सोमः पवते क्षरति। एके च दे184वाः घृतमुपासते भागत्वेन।येभ्यश्च देवेभ्यो मधु प्रधावति। ‘मधुना जुहोति। महत्यै वा एतद्देवतायै रूपम्। यन्मधु’ इत्यश्वमेधे दर्शनात्। तान् सोमपान् आज्यपान्मधुपांश्च। चित् पादपूरणः। एवावधारणे। तानेव त्वमपिगच्छतात् अपिगच्छ तैः सस्थानो भव॥
तप॑सा॒ये॑अनाधृ॒ष्यास्तप॑सा॒येस्व॑र्य॒युः।
तपो॒येच॑क्रि॒रेमह॒स्तांश्चि॑दे॒वापि॑गच्छतात्॥
(अष्ट० ८ अध्या०८ . व० १२. ऋ० २.)
तपसा। ये तपसा अनाधृष्याः अनभिभवनीयाः ब्रह्मचारिणः। ये च तपसा अतिथिपूजनादिना स्वः स्वर्गं ययुः गृहस्थाः। ये च महः महत् महितं वा तपश्चक्रिरे वानप्रस्थाः संन्यासिनश्च। तानेव त्वमपि गच्छ। तैः सस्थानो भव॥
येयुध्य॑न्तेप्रधने॑षु॒शूरा॑सो॒येत॑नू॒त्यजः॑।
येवा॑स॒हस्र॑दक्षिणा॒स्तांश्चि॑दे॒वापि॑गच्छतात्॥
(अष्ट ० ८. अध्या० ८. व० १२. ऋ० ३.)
ये युध्यन्ते। ये क्षत्रियाः प्रधनेषु प्रकृष्टधनेषु सङ्ग्रामेषु युध्यन्ते युद्ध्वा च जयन्ति। ये वा शूरासः शूराः तनूत्यजः अभिमुखागतास्तनूस्त्यजन्ति, न पुनः पृष्ठतः कृत्य पलायन्ते। ये वा सहस्रदक्षिणाः यज्वानः। तांश्चित् ॥
येचि॒त्पूर्व॑ऋत॒साप॑ॠतावा॑नऋता॑ता॒वृ॒धः।
पि॒तॄन्तप॑स्वतोयम॒तांश्च॑दे॒वापि॑गच्छतात्॥
(अष्ट०८. अध्या० ८. व० १२. ॠ० ४.)
ये चित्। चित् चार्थे। ये च पूर्वे पितृपितामहादयः ऋतसापः।ऋतमिति यज्ञनाम।सपतिस्तुतिकर्मा। ‘इन्द्रं वो नरः संख्याय सेपुरि’त्यादौ दर्शनात्। तस्य ण्यन्तस्य क्विपि रूपं जसन्तम्। ऋते ये सापयन्ति छन्दोगैः स्तुतीःकारयन्ति ते ऋतसापः यज्वानः।ऋतवानः सत्यवन्तः। ऋतावृधः। ऋतमुदकं वृष्टिलक्षणम्। तस्य वर्धयितारः ‘अग्नौ प्रास्ताहुतिरि’ति न्यायेन। तान् पितॄनस्मत्पूर्वपुरुषान् गणरूपान् वा पितॄन्।तपस्वतस्तपस्विनः हे यम !। यमप्राप्त्यभिमुखः प्रेत एव यमेत्यामन्यते। तांश्चित्॥
स॒हस्र॑णीथाःक॒वयो॒येगो॑पा॒यन्ति॒सूर्य॑म्।
ऋषी॒न्तप॑स्वतोयमतपो॒जाँअपि॑गच्छतात्॥
(अष्ट० ८. अध्या० ८. व० १२. ऋ० ५.)
सहस्रणीथाः। सहस्रेण बहुभिरग्निहोत्रादिभिः कर्मभिर्नीथाःनीताः प्रापिताः ये (कवयः) सूर्यं गोपायन्ति तत्सालोक्यं गताः। य इति वचनात् तानिति गम्यते। तानूषीन् तपस्वतस्तपोजान् तपसो जातान् त्वमपि गच्छ हे यम ! प्रेत !॥
उ॒रू॒ण॒साव॑सु॒तृपा॑उदुम्ब॒लौय॒मस्यदूतौच॑रतो॒जनाँ॒अनु॑।
ताव॒स्मभ्यं॑दृ॒शये॒सूर्या॑य॒पुन॑र्दाता॒मसु॑म॒द्येहभ॒द्रम्॥
(अष्ट० ७. अध्या० ६. व० १६. ऋ० १२.)
उरूणसौ पृथुनासिकौ। असुतृपौ भक्ष्यमाणानां दुष्कृतामसुभिस्तृप्तौ उदुम्बलौ।उरुशब्दस्य उदुम्भावः। ‘दुदु उपतापे’ इत्यस्य वा उकार उपजनः। मकारः प्रत्ययः अन्तर्भावितण्यर्थश्च। परेषां तापयितृबलौ। यमस्य दूतौ प्रेषकरौ जनान् सुकृतो दुष्कृतश्च अनु प्रति चरतः। यावेवंभूतौ तौ अस्मभ्यं मृतस्य पुत्रादिभ्यो दृशये दर्शनाय सूर्याय। षष्ठ्यर्थे चतुर्थी। सूर्यस्य दर्शनार्थम्। असुं प्राणमस्य मरणेन गतप्रायम् अद्य पुनर्दाताम्। द्विर्वचनप्रकरणे ‘छन्दसि वेति वक्तव्यमि’ति वचनाद द्विवचनाभावः।दत्ताम्। इह शरीरे भद्रं सर्वोपद्रवरहितमसुं दत्तामिति॥
सव्यावृतो व्रजन्ति ‘इमे जीवाः’।
इ॒मेजी॒वाविमृ॒तैराव॑वृत्र॒न्नभू॑द्भद्रादे॒वहू॑तिर्नोअ॒द्य।
प्राञ्चो॑अगामनृ॒तये॒हसा॒॑यद्राधी॑य॒आयुः॑प्रत॒र॑दधा॑नाः॥
(अष्ट०७. अध्या ६. व० २६. ऋ० ३.)
जीवन्तः इमे मृतस्य सम्बन्धिनः ज्ञातयो वयं मृतैः। पञ्चम्यर्थे तृतीया। भृतेभ्यः पितृभ्यो व्याववृत्रन्। व्याङ्पूर्वस्य वृतेर्लडर्थे लुङि उत्तमपुरुषबहुवचने छान्दसं रूपम्। व्यावर्तामहे। अतः परं च नः अस्माकं भद्रा देवहूतिः देवयज्या अभूत् भवतु। अद्य अतः प्रभृति प्राञ्चः प्राङ्मुखा वयमगाम। वर्तमाने लुङ्। ‘इणो गा लुङि’ (२-४-४५)। गच्छामः। किमर्थम्। नृतये।नृतिः नर्तनम्।हसो हासः।आभ्यां च स्वैरचेष्टा लक्ष्यते। नृतये हसाय च स्वैरचेष्टायै गच्छामः।द्राघीयो दीर्घतरम् आयुः प्रतरं प्रतरम् अतिशयेन दधानाः अस्मासु स्थापयन्तः॥सञ्चयने त्रिः प्रसव्यमायतनं परिव्रजन् प्रोक्षति ‘शीतिके शीतिकावती’ ति।
शीति॑के॒शीति॑कावति॒ह्लादि॑के॒ह्लादि॑कावति।
म॒ण्डू॒क्या॑३॒सुसङ्ग॑मइ॒म॑स्व १॒॑ ग्निंह॑र्षयं॥
(अष्ट० ७. अध्या० ६. व० २२. ऋ० १४.)
दमन ऋषिः। प्रोक्षणोदकं वृष्टित्वेन रूप्यते। सन्ततवृष्टिः शीतिका। हे शीतिके ! शीतिकावति !। शीतिका कम्पव्याधिः अतिशैत्ये सत्युत्पद्यते। तद्वति! अत्यन्तशैत्यवति!। ह्लादीके ! सर्वस्य ह्लादयित्रि ! ह्लादिकावति ! अत्यन्तं ह्लादनवति !। त्वमिमं प्रदेशं मण्डूक्या मण्डूकस्त्रिया सुसङ्गमः सुष्टु सङ्गमय। इमं चाग्निंसुष्ठु हर्षय।अनेकार्थत्वाद् धातूनां हृष्यतिः शमनार्थः। सुष्ठु शमय। तथैव तैत्तिरीयकम् —“इमं स्वग्निं शमयेति”। इममग्निंम्। शमयित्वा प्रदेशमिमं तथा कुरु, यथा जलेशया मण्डूक्यप्यागम्य शेते इति॥
अस्थिकुम्भं भूमौ निदधाति ‘उपसर्पेति’।पांसुभिः कुम्भं प्रच्छादयति ‘उच्छ्वंचस्बे’ति। प्रच्छाद्य पठन्ति ‘उच्छ्वंचमाने’ति। कपालेन कुम्भं पिदधाति ‘उत्ते स्तभ्नामी’ति। चतस्रोऽपि दह्यमानानुमन्त्रणे गताः। कुम्भगतेऽस्थिरूपे यजमाने योज्याः॥
शान्तिकर्मणि अग्निंदक्षिणा हरेयुः’ऋव्यादमग्निमि’त्यर्धर्चेन।
क्र॒व्याद॑म॒ग्निंप्रहि॑णोमिदू॒रंय॒मरा॑ज्ञोगच्छतुरिप्रवा॒हः।
(अष्ट० ७. अभ्या० ६. व० २२. ऋ० ९.)
क्रव्यं मांसं तस्य अत्तारमग्निम् औपासनवचनं प्रहिणोमि प्रगमयामि दूरं विप्रकृष्टदेशे च185तुष्पथादौ निरस्यामि।निरस्तश्चसः यमराज्ञः यमराजस्यसकाशं गच्छतु। रिप्रवाहः रिप्रं पापं तस्य वोढा रिप्रवाहः कूरकर्मण्यस्माभिरुपयुक्तः॥
अथाग्निंजनयेत् ‘इहैवे’ति।
इ॒हैवायमित॑रोजा॒तवे॑दादे॒वेभ्यो॑ह॒व्यंव॑हतुप्रजा॒नन्।
(अष्ट० ७. अध्या० ६. व० २२. ऋ० ९.)
इहैव अस्मद्गृह एव अयं क्रव्यादोऽग्नेरितरः शान्तिकर्मार्थमुपात्तः जातवेदा अस्माभिः प्रत्तं हव्यं देवेभ्यो वहतु। प्रजानन् यद् यस्मै वोढव्यं तत् प्रजानन्॥
उदकधारां हरेत् ‘तन्तुं तन्वभि ‘ति।
तन्तुं॑त॒न्वन्रज॑सोभा॒नु॒मन्वि॑हि॒ज्योति॑ष्मतःप॒थोर॑क्षधि॒याकृ॒तान्।
अ॒नु॒ल्ब॒णंव॑यत॒जोरगु॑वा॒मपो॒मनु॑र्भवज॒नया॒दैव्यं॒जन॑म्॥
(अष्ट० ८. अध्या० १. व० १४. ऋ० ६.)
अग्निं प्रति देवानां वचनम्। हे अग्ने ! यथा तन्तुवायस्तन्तून् प्रसार्य पटं वयति तद्वत् तन्तुं तन्तुस्थानीयमङ्गजातं तन्वन् विस्तारयन्। अर्थसङ्गत्या तृतीयेन पादेन सम्बन्धः। जोगुवाम्।‘गु शब्दे’। यङ्लुगन्तात् क्विप्। शब्दायितारः स्तोतारो जोगुवः। तेषां जोगुवां यजमानानाम्।अपः। कर्मनामैतत्। यज्ञाख्यं कर्म। अनुल्बणम् अविकृतमविगुणं वयत।वचनव्यत्ययः। वयनं निर्वर्तय। निर्वर्त्य च रजसोऽस्माल्लोकाद् भानुं दीप्तं देवलोकमन्विहि।अनुर्धात्वर्थानुवादी। इहि गच्छ। हविर्गृहीत्वा गच्छंश्च तव धिया प्रज्ञया कर्मणा वा कृतान् पथः स्वर्गमार्गान् ज्योतिष्मतः प्रकाशकान्186 रक्ष प्रहतान् कुरु।मनुर्भव मन्ता च भव।कस्य।यस्य देवस्य यो भागस्तस्य मन्ता। मत्वा च दैव्यं दिवि भवं जनं देवजनं जनय अमृतकल्पेन हविषा प्रोज्जीवय ॥
चर्मण्यमात्यानारोहयेत् ‘आरोहतायुरि’ति।
आरो॑ह॒तायु॑र्ज॒रसं॑वृणा॒नाअ॑नुपू॒र्वंयत॑माना॒यति॒ष्ठ।
इ॒हत्वष्टा॑सु॒जनि॑मास॒जोपा॑दी॒र्घमायुः॑करतिजी॒वसे॑वः॥
( अष्ट० ७ अध्या० ६. व० २७. ऋ० ६.)
संकुसुकस्यैषा। हे ज्ञातयः। इदं चर्मारोहत आयुर्जीवितं जरसं च वृणानाः यावज्जरमायुः प्रार्थयमानाः।अनुपूर्वं ज्येष्ठक्रमेण वर्णक्रमेण चयतमानाः। अन्येषु प्रेतकर्मसु कनिष्ठक्रमेण प्रवृत्तिः। अत्र तु शान्तिकर्मणि सर्व एव प्रयत्नोऽनुपूर्वं कर्तव्यः। यतिष्ठ यावन्तः स्थ। इह कर्मणि वष्ट हविषां पापानां वा तनूकर्ता अयमग्निसुजनिमा सुजन्मासजोषाः समानप्रीतिरन्यैर्हविर्भागिभिः दीर्घमायुः करति करोतु जीवसे चिरजीवनाय वो युष्माकम्॥
मध्यमं परिधि परिदधाति ‘इमं जीवेभ्य’ इति।
इ॒मंजी॒वेभ्यः॑परि॒धिंद॑धामि॒मैषां॒नुगा॒दप॑रो॒अर्थ॑मे॒तम्।
श॒तंजी॑वन्तुश॒रदः॑ पुरू॒चीरन्त॒र्मृ॒त्युंद॑धतां॒॒पर्व॑तेन॥
(अष्ट० ७. अध्या० ६. व० २१. ॠ० ४.)
स एवर्षिः। इमं मध्यमं परिधिं जीवेभ्यः जीवतामेषामर्थाय दधामि मृत्योरेषां च मध्ये स्थापयामि तिरोधानार्थम्।तिरोधानेन किं प्रयोजनम्। एषां जीवतां मध्येऽपरोमृतादन्यः कश्चिदप्येतमर्थं मरणलक्षणं क्षिप्रकाल एव मा गात्। किन्तु सर्व एव शतं शरदो जीवन्तु पुरूचीः।पुरूणि बहून्यार्तवानि कुसुमादीन्यञ्चति। मृत्युं तु पर्यतेनाश्मनान्तर्दधताम् अन्तर्हितं कुर्वन्तु। अनेन पादेनोत्तरतोऽग्नेरश्मानं दधाति॥
जुहोति ‘परं मृत्यो’ इति चतसृभिः।
पर॑मृत्यो॒अनु॒परे॑हि॒पन्थां॒यस्ते॒स्वइत॑रोदेव॒याना॑त्।
चक्षु॑ष्मतेशृण्व॒तेते॑ब्रवीमि॒मानः॑प्र॒जांरी॑रिषो॒मोतवी॒रान्॥
(अष्ट० ७. अध्या० ६ व० २६. ऋ० १.)
संकुसुकस्यैव। हे मृत्यो ! येन पथा देवा यान्ति स देवयानः पन्थाः। तस्मादितरो यस्ते स्वभूतः पितृयानः पन्थाः तं परम् अन्यं पन्थां पन्थानम् अनुपरेहि अनुपरागच्छ तत्तद्गामिनं जनमनुवर्तस्व, मास्माननुपरागाः।किञ्च चक्षुष्मान् त्वं भवसि। ब्रुवतो मे श्रद्धां द्रष्टुं शृण्वंश्च भवसि, नानादरेण पराङ्मुखः। अतः चक्षुष्मते शृण्वते च ते ब्रवीमि। किं ब्रवीषि। नोऽस्माकं प्रजां दुहितुदौहित्रादिकां मा रीरिषः, मा उत वीरान्पुत्रपौत्रादिकान्॥
मृ॒त्योःप॒दंयो॒पय॑न्तो॒यदैत॒द्राघी॑य॒आयुः॑मत॒रंदधा॑नाः।आ॒प्याय॑मानाःप्र॒जया॒धने॑नशु॒द्धःपू॒ताभ॑वतयज्ञियासः॥
(अष्ट ७ अध्या ० ६. व० २६ ऋ० २.)
मृत्योः पदं मृत्योरागतस्य पदं पादं निधानस्थानं योपयन्तः संलोपयन्तः प्रमृजन्तः यद् यस्मात् ऐत गतवन्तो यूयम्। यस्मादिति वचनात् तस्मादिति गम्यते। तस्माद् द्राघीयःदीर्घतरमायुःप्रतरं प्रकृष्टतरं दधानाः युष्मासु स्थापयन्तः प्रजया धनेन चाप्यायमानाः वर्धमानाः शुद्धाः शरीरेण पूता मनसा भवत। लङिमध्यमपुरुषबहुवचने ‘बहुलं छन्दस्यमाङ्योगेऽपि’ (६-४-७५) इत्यडभावः। अभवत। कीदृशाः। यज्ञियासः यज्ञार्हाः। अनेन होमेन यूयमेवम्भूताः स्थेति ज्ञातीन् प्रति कर्तुर्वचनम्॥
‘इमे जीवाः’ ’ इमं जीवेभ्यः’ इति द्वे अपि गते॥
अमात्यानीक्षेत ‘यथाहानी’ति।
यथाहा॑न्यनुपू॒र्वंभव॑न्ती॒यथ॑ऋ॒तव॑ऋ॒तुभि॒र्यन्ति॑सा॒धु।
यथा॒नपूर्व॒मप॑रो॒जहा॑त्ये॒वाघा॑त॒रायूं॑षिकल्यै॒षाम्॥
( अष्ट०७ अध्या० ६ व० २६. ऋ० ५.)
यथाहान्यनुपूर्वं क्रमेण भवन्ति आदित्यवारः सोमवार इति। यथा वा वसन्तादय ऋतवः ऋतुभिः ग्रीष्मादिभिः साधु अनुपूर्वं यन्ति, न कदाचिदन्यथा। यथेति वचनात् तथेति गम्यते। तथैषां ज्ञातीनां मध्ये पूर्वं पूर्वोत्पन्नम् अपरः अपरोत्पन्नः यथा न जहातिज्येष्ठे जीवतिकनिष्ठो न म्रियते, एव एवमेषामायूंषि कल्पय हे धातः ! प्रजापते !॥
अञ्जाना ईक्षेत ‘इमा नारीरि’ ति।
इ॒मानारी॑रविध॒वाःसु॒पत्नी॒राञ्ज॑नेनसर्पी॒षासंवि॑शन्तु।
अ॒न॒श्रवो॑नमी॒वाःसु॒रत्ना॒आरो॑हन्तु॒जन॑यो॒योनि॒मग्रे॑॥
(अष्ट० ७ अध्या० ६ व० २७. ऋ० ७.)
इमाः नार्यः अविधवाः भर्तृमत्यः।सुपत्नीःसुपत्न्यः शोभनःपतिरासाम्। अविधवा इत्यनेनैव सिद्धे शोभनपतित्वविवक्षया पुनर्वचनम्।आञ्जनेन ईषदञ्जनसाधनेन सर्पिषाज्येन संविशन्तु।अनेकार्थत्वाद् धातूनां संविशिरञ्जने वर्तते। अक्षिणी समञ्जन्ताम्। समज्य चानश्रवः अश्रुरहिताः अरुदत्यः। अनमीवाः अरोगाःशारीरमानसपीडारहिताः। सुरत्नाःशोभ नाभरणाः। जनयः अपत्यजननयोग्याः योनिं गृहमारोहन्तु प्रविशन्तु अग्नेप्रथमं पुरुषेभ्यः॥
‘अश्मानमभिमृशेत् ‘अश्मन्वती’ ति।
अश्म॑न्वतीरीयते॒संर॑भध्व॒मुत्तिष्ठत॒प्रत॑रतासखायः।
अत्रा॑जहाम॒येअस॒न्नशे॑वाःशि॒वान्व॒यमुत्त॑रेमा॒भिवाजा॑न्॥
(अष्ट० ८. अध्या० १. व० १४. ऋ० ८.)
अग्निना यज्ञार्थमाहूता देवाः परस्परमाहुः। अश्मन्वती। ‘अशू व्याप्तौ’। भावे मनिन्प्रत्ययः। व्याप्तिमती अप्रतिहतगतिः देवसेना रीयते। ‘रीङ्गतौ’। लोडर्थे लट्। रीयतां गच्छतु। यूयमपि संरभध्वं यज्ञान् प्रति गन्तुं संरम्भं कुरुत। कोऽर्थः। उतिष्ठत प्रतरत चाध्वानं हे सखायः !।अत्रेषु मार्गेषु ये मार्गाःअशेवाः असुखाः असन् तान् जहाम परित्यजाम।ये तु शिवाः पन्थानः तान् वयमुत्तरेम अतिक्रामेम तैर्गच्छेम अभिवाजान् हविर्लक्षणान्यन्नानि प्रति। सैषा अश्मशब्दलिङ्गादस्मिन् कर्मणि विनियुक्ता। अथवा अस्मिन्नेवार्थे योज्यते — अश्मन्वती उत्तरतः स्थापितेनाश्मना तद्वती।एषा क्रिया रीयते गच्छति समाप्यते। हे अमात्याः ! यूयं संरभध्वमित्यादि। गृहं प्रति गमनमार्गेषु शिष्टपदयोजना तुल्या॥
गृहान् प्रति गच्छन्तोऽमात्या जपेयुः’आपो हि ष्ठे ‘ति। तिस्रो गताः॥
अत्र कर्तुर्जपः ‘परीमे गामि’ति।
परी॒मेगाम॑नेषत॒पर्य॒ग्निम॑हृषत।
दे॒वेष्व॑क्रत॒श्रवः॒कइ॒माँआद॑धर्षति॥
( अष्ट० ८. अध्या० ८. व० १३. ऋ० ५.)
शिरिम्बिठस्यार्षम्। इमे अमात्याः गां पर्यनेषत परिणयन्ति परिगृह्यनयन्ति। अग्निं च परि अहृषत परिगृह्य हरन्ति। देवेषु च श्रवः हविराख्यमन्नम् अक्रत अकृषत यदहौषुः। एवं च क इमानादधर्षतिआधर्षितुं प्रभवति॥
उदित आदित्ये सौर्याणि स्वस्त्ययनानि च जपन्ति। उभयान्यपि व्याख्यातानि॥
अन्नंसंस्कृत्य जुहोति ‘अप न.’ इति।
अप॑नः॒शोशु॑चद॒घमग्ने॑शुशु॒ग्ध्यार॒यिम्।
अप॑नः॒शोशु॑चद॒घम्॥
(अष्ट० १. अध्या० ७. व० .५ ॠ० १)
अत्र छन्दोगब्राह्मणाधीतमितिहासमाचक्षते— “कुत्सश्च लुशश्चयुगपदिन्द्रं व्यह्वताम्187। स इन्द्रः कुत्समुपावर्तत। स तं शतैः कुशाभिरण्डयोरबध्नात् मायं लुशं गमदिति। एतज् जज्ञिवान् लुश इन्द्रमुपालभत। प्रमुच्चस्व। परिकुत्सादिहागहि। किमु त्वा वा मुष्कयोर्बद्ध188 आसत इति। स कुत्सोऽबिभेत् इन्द्रं वाहमक्रमिषमेनसा पर्यगृहिषीति। स तदेनोऽपनुनुत्सुः अग्निमस्तौदि”ति। हे अग्ने ! नः अस्माकमघम् अपशोशुचत् अपनय।रयिं धनं च आशुशुग्धि। शाघीति याच्ञाकर्मसु पठ्यते। तस्यैवेदं विकृतं रूपम्। याच्ञ्याच तत्पूर्वकं दानं लक्ष्यते। आभिमुख्येन देहि। अप नः। अर्थभूयस्त्वार्थोऽभ्यासः। अभ्यासे हि भूयांसमर्थं मन्यन्ते यथाहो दर्शनीया अहो दर्शनीयेति॥
सु॒क्षे॒त्रि॒यासु॑गातु॒याव॑सू॒याच॑यजामहे।
अप॑नः॒शोशु॑चद॒घम्॥
(अष्ट० १ अध्या० ७ व० ५. ऋ० २.)
सुक्षेत्रिया। सर्वत्र तृतीयाया डादेशः। इह लोके तावच्छोभनक्षेत्रेच्छया परलोके सुगातुया सुगतीच्छया वसूया धनेच्छया च त्वां यजामहे। त्वं चाप नः शोशुचदघम्॥
प्रयद्भन्दि॑ष्ठएषां॒प्रास्माका॑सश्चसू॒रयः॑।
अप॑नः शोशु॑चद॒घम्॥
( अष्ट० १. अध्या० ७. व० ५. ऋ० ३.)
प्र यद्। यदिति पुल्लिँङ्गेऽपि। ‘सुपां सुलुक् —’(७१-३९ ,इत्यादिना सोर्लुक्। योऽहं प्रभन्दिष्ठः। भन्दतिरर्चतिकर्मा। ततस्तृजन्तात्’तुश्छन्दसि’ (५.३.५९) इति इष्ठनि ‘तुरिष्ठेमेयस्सु’(६-४-१५४) इति तृशब्दस्य लोपे रूपम्।प्रकर्षेण स्तोता। कस्य। एषाम्। पूर्वनिर्दिष्टस्याग्नेरयं प्रतिनिर्देशः। व्यत्ययेन बहुवचनम्।‘इदमोऽन्वादेशे—’ (२-४-३२) इत्यन्वादेश उदात्तः। अस्याग्नेः। ये चास्माकासः आस्माकाः अस्माकं सम्बन्धिनः। सूरयो मेधाविनः। प्रशब्दश्रुतेर्भन्दिष्ठ इत्येतद्विपरिणामेनापेक्ष्यते। ये अस्मदीयाः सूरयः प्रभन्दिष्ठाः। तेषामिति गम्यते। तेषां सर्वेषां नः पापमपनयेति॥
प्रयत्ते॑अग्नेसू॒रयो॒जाये॑महिप्रते॑व॒यम्।
अप॑नः॒शोशु॑चद॒घम्॥
(अष्ट० १. अध्या० ७. व० ५. ऋ० ४.)
प्र यत्ते। (हे अग्ने !)। यदिति जसो लुक्।ये वयं ते तव प्रसूरयः। स्तोतृनामैतत्। प्रकर्षेण स्तोतारः। यच्छ्रुतेस्तध्याहारः। ते वयं प्रजायेमहि प्रजाः प्राप्नुयाम। ते इति षष्ठीनिर्देशात् प्रसादेन स्वभूताः इति वा वाक्यशेषः, तव प्रसादेन तव वा स्वभूताः इति। किञ्चाप नः शोशुचघम्॥
प्रयद॒ग्नेः सह॑स्वतोवि॒श्वतो॒यन्ति॑भा॒नवः॑।
अप॑नः॒ शोशु॑चद॒घम्॥
(अष्ट० १. अध्या० ७. व० ५ ॠ० ५.)
प्र यत्। यत्। षष्ठ्येकवचनस्य लुक्। यस्याग्नेःसहस्वतो बलवतः स्वभूता भानवः ज्वालाः विश्वतः सर्वतो यन्ति, स त्वमपनयाघम्॥
त्वंहिवि॑श्वतोमुखवि॒श्वतः॑परि॒भूरसि।
अप॑नः॒ शोशु॑चद॒घम्॥
(अष्ट० १.अध्या० ७. व० ५. ऋ० ६.)
त्वं हिं। हिर्यस्मादर्थे। हे विश्वतोमुख ! सर्वतोज्वाल ! हे अग्ने ! यस्मात् त्वं विश्वतः परिभूरसि।परिपूर्वो भवतिः परिग्रहेवर्तते। परिग्रहीतासि स्तोतॄणां यष्टॄणां च। तस्मादस्माकमपि अघमपनयेति॥
द्विपो॑नोविश्वतोमु॒खाति॑ना॒वेव॑पारय।
अप॑नः॒शोशु॑चद॒घम्॥
(अष्ट० १.अध्या० ७. व० ५ॠ० ७.)
द्विषो नः।हे विश्वतोमुख ! नः अस्माकं द्विषः अतिपारय यथा वयं तानतीत्य गच्छेम तथा कुरु।नावेव।यथा कश्चिन्नाविकः सिन्धुं नावातिपारयति तद्वत्। किञ्च अप नः॥
सनः॒सिन्धु॑मिवना॒वयाति॑पर्षाःस्व॒स्तये॑।
अप॑नः॒शोशु॑चद॒घम्॥
(अष्ट० १. अध्वा० ७ व०५ ऋ० ८.)
स नः। यस्त्वमेवमुक्तगुणः स त्वं नः अस्मानतिपर्षाःअतिपारय स्वस्तये अविनाशाय सिन्धुमिव नावया नावा नाविकः कश्चित्। किञ्च अप नः शोशुचदघम्॥
श्राद्धमन्त्रा व्याख्याताः॥
शूलगवे ‘रुद्राय महादेवाय जुष्टो वर्धस्वेति’ वृषभस्याभिषेचनम189न्त्रो निगदसिद्धः॥
‘यस्मै नमस्तस्मै त्वा जुष्टं नियुनज्मी’ति नियोजनमन्त्रः। रुद्रदेवत्योऽयं पशुः। तथाच ‘रुद्राय जुष्टो वर्धस्वे’त्यभिषेचनमन्त्रः। ‘हराय कृथाये’त्यादिभिश्च द्वादशभिर्देवनामभिर्होमः। तस्मादयमपि मन्त्रस्तद्देवत्य एव। लक्षणतश्च तद्देवत्यत्वम्। इदं हि देवस्य लक्षणं ‘यस्मै नमः’ इति। तथाच शिंशुमारब्राह्मणे श्रूयते —‘यस्मै नमस्तच्छिरों धर्मोमूर्धानमि’त्यादि। अत्र हि देवतान्तराणां स्खशब्देनोक्त्वाद् ‘यस्तै नम’ इति देवस्य लक्षणतो निर्देशः॥
** हराय कृथाय शर्वाय शिवाय भवाय महादेवायोग्राय पशुपतये रुद्राय शङ्करायेशानायाशनये स्वाहा।**
हरेत्यादिस्वाहाकारान्तो द्वादशभिर्देवनामभिर्युक्त एको होममन्त्रः वपाया अवदानानां स्थालीपाकस्य च। नाम्नां निर्वचनं यथासम्भवं कर्तव्यम्। भक्तानामार्त्तिं हरतीति हरः। करोति कृथः कर्ता समस्तस्य। ‘शॄहिंसायाम्’। शृणाति सर्वमन्तकाल इति शर्वः। भवति सर्वत्रेति भवः। शिवं भद्रं, तत् सर्वेभ्यः करोतीति शिवः। ‘शिव एको ध्येयः शिवङ्करः सर्वस्य।सर्वमन्यत्परित्यजे’ त्यथर्वशिखा।
“शिवमिच्छन् मनुष्याणां तस्मादेष शिवः स्मृतः।”
इति महाभारतम्।आकारप्रभावाभ्यामन्येभ्यो महानिति महादेवः। उग्रोनभिभवनीयः। ‘उग्रं हास्य राष्ट्रमव्यर्थ्यं भवती’ति दर्शनात्। पशुपतिःव्याख्यातम्। रो190दयति सर्वमन्त्यकाल इति रुद्रः। रोदेर्णिलुक् चेति वैयाकरणाः। अशुभद्रावको वा रुद्रः। शं सुखं तत् करोतीति ताच्छील्ये ट इति शङ्करः। ईशानः सर्वस्येश्वरः। अश्नोतेरशनिः सर्वव्यापी॥
बलिं हरेद् ‘यास्ते रुद्रे’त्यादिभिः।
यास्तेरुद्रपूर्वस्यांदिशिसेनास्ताभ्यएतद्।
नमस्तेअस्तुमामाहिंसीः॥
हे रुद्र ! यास्ते सेनाः पूर्वस्यां दिशि स्थिताः ताभ्यः एतद् बलिरूपेण मया दीयते। एनदिति पाठे अनन्वादेशेऽपि छान्दस एनदादेशः। शिष्ट स्पष्टम्। एतेन प्रतिदिशं बलिमन्त्रा व्याख्याताः। यास्ते रुद्र ! दक्षिणस्यां दिशि प्रतीच्यां दिशि उदीच्यां दिशीति॥
‘कद्रुद्राय’, ‘इमा रुद्राय’, ‘आ ते पितः’, ‘इमा रुद्राय’ इति चतुर्भिः सूक्तैरुपस्थानम्।
कद्रु॒द्रा॑य॒प्रचे॑तसेमी॒ह्लुष्ट॑माय॒तव्य॑से।
वो॒चेम॒शन्त॑मंहृ॒दे॥
(अष्ट० १. अध्या० ३. व० २६. ऋ० १.)
कद्रुद्राय। कण्वस्यार्षम्। कत् कदा नु रुद्राय।तादर्थ्ये चतुर्थी। प्रचेतसे प्रकृष्टज्ञानाय।मीह्लुष्टमाय व्यष्ट्याभूमेरतिशयेन सेक्त्रे।जगद्योनौ वा स्ववीर्यस्य सेक्त्रे।तव्यसे। तुरिति सौत्रो धातुर्वृद्धयर्थः’तुरुस्तुशम्यमः— ’ (७-३-९५) इत्यत्र निर्दिष्टः।तस्य तृचि ‘तुश्छन्दसि’ (५-३-५९) इतीयसुनि कृते ‘तुरिष्ठेमेयस्तु’ (६-४-१५४) इति तृचो लुकि छान्दस ईयसुन ईकारलोपः। तवीयसे प्रवृद्धतराय। एवम्भूतं रुद्रमुद्दिश्य।हृदे शन्तमं हृदयस्यातिशयेन सुखतरं वचनं कदा नु वोचेम।वचेराशिषि ‘लिङ्याशिषि’ (३-१-८६) ‘वच उम्’ (७-४-२०)॥
यथा॑नो॒अदि॑तिः॒कर॒त्पश्वे॒नृभ्यो॒यथा॒गवे॑।
यथा॑तो॒काय॑रु॒द्रिय॑म्॥
(अष्ट०१. अध्या० ३ व० २६. ॠ० २.)
इति इह महाभारतम्। वसुः प्रशस्तश्च। एवंभूतो रुद्रः शुक्रो वर्ण इव सूर्यः हिरण्यमिव रोचते। यच्छब्दश्रुतेः क्रियापेक्षत्वात तच्छब्दमध्याहृत्योत्तरयर्चैकवाक्यता। स॥
शंनः॑कर॒त्यर्व॑तेसु॒गंमे॒षाय॑मे॒ष्ये।
नृभ्यो॒नारि॑भ्यो॒गवे॑॥
(अष्ट० १. अभ्या०३. व० २७. ऋ०६.)
शन्नः।स रुद्रोऽस्माकम् अर्वते अश्वाय शं करति करोतु सुगं सुखेन गम्यम्।न च केवलायार्वते। किन्तर्हि। मेषादिभ्यश्च। उत्तरास्तिस्रः सोमदेवत्या अपि ‘चतुर्भिः सूक्तैरि’ति कृत्स्नस्य सूक्तस्य विनियोगसामर्थ्याद् रौद्रेऽपि यज्ञे प्रयुज्यन्ते। सोमोऽपि देवस्याष्टासु मूर्तिष्वन्यतमा मूर्तिरिति। दिशश्चोपस्थीयन्ते, न देवः। ततः किम्।यथा रौद्रीभिर्दिशामुपस्थानं, तथा सौमीभिरपि॥
अ॒स्मेसो॑म॒श्रिय॒मधि॒निधे॑हिश॒तस्य॑नृ॒णाम्।
महि॒श्रव॑स्तुविनृ॒म्णम्॥
(अष्ट० १. अध्या० ३. व० २७. ऋ० ७ )
अस्मे सोम। हे सोम ! अस्मे अस्मासु श्रियमधिनिधेहि। अधिः सप्तम्यर्थानुवादी।अस्मासु स्थापय। कियतीम्। शतस्य नृणां बहूनां पुरुषणामुपभोगयोग्याम्।महि महत्। श्रवः अन्नं धनं वा। तुविनृम्णम्।तुवीति बहुनाम। नृम्णं बलम्। तयोर्बहुव्रीहिः। स्वरस्तु छान्दसः। बहुविधेन बलेनोपेतं श्रवश्चास्मे अधिनिधेहि॥
मानः॑सोमपरि॒बाधो॒मारा॑तयोजुहुरन्त।
आन॑इन्दो॒वाजे॑भज॥
(अष्ट०१. अध्या०३. व० २७. ऋ० ८.)
मा नः। हे इन्दो! सोम ! नोऽस्मान् सोमपरिबाधः सोमयागस्य परिबाधितारो191 राक्षसादयो मा जुहुरन्त। ह्वृच्छेर्वा हुरतेर्वा संमोहनार्थस्यैतद्रूपम्।संमोहं मा प्रापिपन्। (तथा अरातयः शत्रवो मा जुहुरन्त।) त्वंच नोऽस्मान् वाजे सङ्ग्रामे यज्ञे वा आभज आमीक्ष्ण्येन स्वीकुरु॥
यास्ते॑प्र॒जाअ॒मृत॑स्य॒पर॑स्मि॒न्धाम॑न्नृ॒तस्य॑।
मू॒र्धानाभासोमवेनआ॑भूष॑न्तीःसोमवेदः॥
(अष्ट० १. अध्या० ३. व० २७. ऋ० ९.)
यास्ते। हे सोम ! अमृतस्यामरणधर्मणः। परस्मिन् धामन् परे धामनि स्थाने वेद्याख्ये। ऋतस्य प्राप्तस्य। ते याः प्रजाः परिचारकाः इत्यर्थाद् गम्यते। यच्छब्दश्रुतेस्तच्छब्दोऽध्याहार्यः। ताः प्रजाः। मूर्धा मूर्धनि प्रधानभूते। सर्वस्य मूर्धस्थानीयो वा त्वम्। नाभा पृथिव्या नाभिस्थानीये उत्तरवेद्याख्येस्थाने। वेनः। वेनतिः कान्तिकर्मा।कामयस्व अविच्छिन्नमेता निर्वर्तयन्तु यज्ञमिति। तथा हे सोम ! आभूषन्तीश्च प्रजाः वेदः विद्धि।आभूषन्तीरित्याङ् मर्यादायाम्। ‘भू सत्तायाम्’।श्रुतिस्मृत्युदीरितायां मर्यादायां या भवन्ति ताः विद्धि। विदित्वा च कामयस्वेति॥
इ॒मारु॒द्राय॑त॒वसेकप॒र्दिने॑क्ष॒यद्वी॑राय॒प्रभ॑रामहेम॒तीः।
यथा॒शमस॑द्द्वि॒पदे॒चतु॑ष्पदे॒॒विश्वं॑पु॒ष्टंग्रामे॑अ॒स्मिन्न॑नातु॒रम्॥
(अष्ट० १. अध्या०८. व० ५. ॠ० १.)
इमा रुद्राय।कुत्सस्यार्षम्।तवसे। अन्तर्णीतमत्वर्थमिदम्। तवो वृद्धिः। तद्वते। कपर्दिने जटाबन्धवते। क्षयद्वीराय।‘क्षि निवासगत्योः’।यमाश्रित्य वसन्ति वीरभद्रादयो बीरास्तस्मै।रुद्राय। तादर्थ्येचतुर्थी एवंभूतं रुद्रमुद्दिश्य। इमा मतीः। मन्यतेरर्चतिकर्मणः। स्तुतिनामैतत्। स्तुतीः। प्रभरामहे। ‘हृग्रहोर्भश्छन्दसि’ (वा० ३-१-८४)। प्रहरामहे प्रोच्चारयामः। यथा प्रहरणे सत्यस्माकं द्विपदे चतुष्पदे च शं सुखमसत्। पञ्चमो लकारः।स्यात्। यथा च ग्रामेऽस्मिन् यत्राहं वसामि तत्र। यत् किश्चित् प्राणिजातं तद्विश्वं पुष्टमनातुरं चासत्॥
मृ॒लानो॑रुद्रोतनो॒मय॑स्कृधिक्ष॒यद्वी॑राय॒नम॑सावधेमते।
यच्छंच॒योश्च॒मनु॑राये॒जेपि॒तातद॑श्याम॒तव॑रुद्र॒प्रणी॑तिषु॥
(अष्ट० १. अध्या० ८. व० ५, ऋ० २.)
मृलानः।हे रुद्र।नोऽस्मान् (मूल) मृलय सुखय। उत नः अपि च अस्माकं मयस्कृधि सुखं कुरु। ऐहिकामुष्मिकादिभेदेनापौनरुक्त्यम्। क्षयद्वीराय ते। द्वितीयार्थे चतुर्थी। क्षयद्वीरं त्वाम्। नमसा हविषा चरुपुरोडाशादिलक्षणेन, नमस्कारेण वा। विधेम परिचरेम परिचरन्तश्च। यच्छं शमनं रोगा णामुत्पन्नानाम्।योश्च। यौतेः पृथग्भावकर्मण एतद्रूपम्। याफ्नं चाभयानां सर्वप्राणिनाम्। पिता मनुः। ‘मानव्योहि प्रजाः’ इति हि ब्राह्मणम्। आयेजे। यजिर्दानार्थः। आङ्पूर्वश्चादानार्थः। लिटि सम्प्रसारणे ‘वा. छन्दसि’ (६-१ १०६) इति पूर्वरूपाभावे यणादेशः। द्विर्वचनमेत्वाभ्यासलोपौ। आप्तवान् स्वीकृतवान्। वयमपि तदश्याम अश्नुवीमहि। हे रुद्र ! तव
प्रणीतिषु शासनेषु वर्तमानाः॥
अ॒श्याम॑तेसुम॒तिंदे॑वय॒ज्यया॑क्ष॒यद्वी॑रस्य॒तव॑रुद्रमीद्वः।
सु॒म्ना॒यन्निद्विशो॑अ॒स्माक॒माच॒रारि॑ष्टवीराजुहवामतेह॒विः॥
( अष्ट० १. अध्या० ८. व० ५ऋ० ३.)
अश्याम ते। हे रुद्र ! मीह्वः ! वृष्ट्युदकेन सेक्तः ! क्षयद्वीरस्य तव या देवयज्या त्वामुद्दिश्य कृता तयाते सुमतिं शोभनां मर्ति भक्तेष्वनुग्रहात्मिकां बुद्धिंवयम् अश्याम अश्नुवीमहि। त्वं च अस्माकं या विशपुत्रादयः मनुष्याः ताः सुम्नायन्। सुम्नमिति सुखनाम। ‘छन्दसि परेच्छायामपि’ (वा० ३-१-८) इति क्यच्।ताभ्यः सुखमिच्छन्। आचर अभिमुखं चर। इत् पदपूरणः। वयं च अरिष्टवीराः केनाप्यहिंसितपुत्रा भूत्वा ते हविर्जुहवाम। एषा नः प्रार्थना॥
त्वे॒षंव॒यंरु॒द्रंय॑ज्ञ॒साधं॑वं॒कुंक॒विमव॑से॒निह्व॑यामहे।
आ॒रेअ॒स्मद्दैव्यं॒हेलो॑अस्यतुसुम॒तिमिद्व॒यम॒स्यावृ॑णीमहे॥
(अष्ट० १.अध्या० ८. व० ५. ऋ०.४.).
त्वेषं वयम्।त्वेषं दीप्तम्।यज्ञसाधं यज्ञस्य साधयितारम्। एष ह्येवसाधुकर्म कारयति। वङ्कुंवञ्चितारं यज्ञद्रुहाम्।कविं क्रान्तदर्शिनं सर्वत्राप्रतिहतज्ञानम्। एवम्भूतं रुद्रं वयमवसे अस्मत्पालनाय निहयामहे नियमेनह्वयामहे। स च निहूतः दैव्यं हेलःदेवानां सम्बन्धिनं कोपम्। अस्मत् अस्मत्तः आरे दूरे अस्यतु। अस्य देवस्य या सुमतिः तामेव वयम् आवृणीमहे॥
दि॒वोव॑रा॒हम॑रु॒षंक॑प॒र्दिनं॑त्वे॒षंरू॒पं॑नम॑सा॒निह्व॑यामहे।हस्ते॒बिभ्र॑द्भेष॒जावा॑र्याणि॒शर्म॒व॑र्मछ॒र्दिर॒स्मभ्यं॑यंसत्॥
( अष्ट० १. अध्या० ८. व० ५ ॠ० ५.)
दिवो वराहम्।दिवः द्युलोकात् निह्वयामहे इति सम्बन्धः। वराहो मेघःतत्सदृशः ग्रीवा देवस्य नीला। तdद्द्वारकोऽयं देवस्य मेघसादृश्यव्यपदेशः। अरुषं महान्तं कपर्दिनम्। त्वेषं रूपं रूपवन्तम्। नमसा नमस्कारेण हविषा वा प्रदेयेन निमित्तेन हविः प्रदातुं निह्वयामहे। स च वार्याणि वरणीयानि भेषजानि हस्ते विभ्रदागत्य शर्म सुखम्। वर्म कवचं छर्दिः। रेफः छान्दसः। छदिः। शत्रुप्रयुक्तानामिष्वादीनां छादयितृ वर्मं। अस्मभ्यं यंसत् यच्छतु ददातु॥
इ॒दंपि॒त्रेम॒रुता॑मुच्यते॒वचः॑स्वा॒दोःस्वादी॑योरु॒द्राय॒वर्ध॑नम्।
रास्वा॑चनोअमृतमर्त॒भोज॑नं॒त्मनेतो॒काय॒तन॑यायमृल॥
(अष्ट० १.अध्या ८. व० ६. ॠ० ६.)
इदं पित्रे।मरुतां पित्रे रुद्राय तुभ्यमिदं स्तुतिरूपं वचः उच्यते स्वादोः स्वादीयः। स्वादु मध्वादि। ततोऽपि स्वादुतरम्।वर्धनं वर्धयितृ। स्तूयमाना हि देवता वीर्येण वर्धते। त्वं चनः अस्मभ्यम्। रास्व देहि। चः पादपूरणः। अमृत ! हे अमरण ! अमरणधर्मन् !।मर्तभोजनम्। मर्ताःमनुष्याः तेषां यद् भोग्यमन्नपानादि तद् रास्व।त्मने। सर्वत्र द्वितीयार्थेचतुर्थी।आत्मानं माम्। तोकाय। तोकः पुत्रः। तनयाय।तनयः पौत्रः। उपलक्षणं चैतत्। सपुत्रबान्धवं मामूलय ॥
मानो॑म॒हान्त॑मु॒तमानो॑अर्भ॒कंमान॒उक्ष॑न्तमु॒तमान॑उक्षि॒तम्॥
मानो॑वधीःपि॒तरं॒मोतमा॒तरं॒मानः॑प्रि॒यास्त॒न्वो॑रुद्ररीरिषः॥
(अष्ट० १. अध्या० ८. व० ६. ऋ० ७.)
मा नः। नः अस्माकं महान्तं विद्यादिभिर्वृद्धं ज्येष्ठं पुत्रं मा वधीः। एवमुत्तरेष्वपि योज्यम्। अर्भकः बालः। उक्षा सेचनसमर्थो युवा। उक्षितःसिक्तो गर्भस्थः। मातापितरौ प्रसिद्धौ। प्रियास्तन्वः तनूः। पु192त्राद्यपेक्षं बहुवचनम्। सर्वेषाम् अस्माकं तनूः मा रीरिषः मा हिंसीः॥
मान॑स्तो॒केतन॑ये॒मान॑आ॒यौमानो॒गोषु॒मानो॒अश्वे॑पुरीरिषः।
वी॒रान्मानो॑रुद्रभामि॒तोव॑धीर्ह्॒विष्म॑न्तः॒सद॒मित्त्वा॑हवामहे॥
(अष्ट० १. अध्या० ८. व० ६ ऋ० ८.)
मा नस्तोके। अस्माकं तोके पुत्रे तनये तत्पुत्रे च मा रीरिषः तद्विषयां हिंसां मा कार्षीः। द्वितीयार्थेवा सप्तमी। तोकादिकं मा हिंसीः। आयुश्शब्द उकारान्तोऽप्यस्ति ‘छन्दसीण’ इत्युण्प्रत्ययान्तः। वीरान्। पुत्राणामुक्तत्वात् परिचारकादयः शूराः। भामितः। ‘भाम क्रोधे’।ण्यन्तः। अपराधेन क्रोधितोऽपि सन्। मा वधीः। वयं हि हविष्मन्तो भूत्वा सदमित् सदैव त्वा हवामहे आह्वयामहे हविरुपभोगार्थम्। अतः मा वधीरिति ॥
उप॑ते॒स्तोमा॑न्पशु॒पाइ॒वाक॑रं॒रास्वा॑पितमेरुतांसु॒म्नम॒स्मे।
भ॒द्राहिते॑सुम॒तिर्मृ॑ल॒यत्त॒माथा॑व॒यमव॒इत्ते॑वृणीमहे॥
(अष्ट० १. अध्या०८. व० ६. ऋ० ९.)
उप ते। हे मरुतां पितः।अहं ते स्तोमान् स्तोत्राण्युपाकरम् उपाकरोमि संस्करोमि। पशुपा इव। यथाग्नीषोमीयादीनां पशूनां पाता यजमानः पशून् पशुदेवताभ्य उपाकरोति तद्वत्। त्वं चास्मे अस्मभ्यम्। सुम्नंसुखं रास्व। या ते सुमतिः भक्तेष्वनुग्रहात्मिका बुद्धिः सा भद्रा कल्याणी।हिः प्रसिद्धौ। मृलयत्तमा अतिशयेन सुखयित्री च। अथातो वयम् अवः पालनम्। इच्छब्दोऽवधारणे। ते इत्यनन्तरं च द्रष्टव्यः।तवैवावो वृणीमहे ॥
आ॒रेते॑गो॒घ्नमु॒तपू॑रुष॒घ्नंक्षय॑द्वीरसु॒म्न॒मस्मेते॑अस्तु।
मृ॒लाच॑नो॒अधि॑चब्रूहिदे॒वाधा॑चनः॒शर्म॑यच्छद्वि॒वर्हाः॥
(अष्ट० १. अध्या० ८. व० ६ ॠ० १०.)
आरे ते। हे क्षयद्वीर ! यत्ते गोघ्नं पुरुषघ्नं च घोरं रूपं तत् आरे दूरे अस्तु। यत्तुते सुम्नं सुखकरं शिवं रूपं तदस्मे अस्माकमस्तु। समीप इत्यर्थाद् गम्यते। ‘रुद्रो वा एष यदग्निस्तस्यैते तनुवो घोरान्ये शिवान्ये’ति तैत्तिरीयकब्राह्मणम्। हे देव ! त्वं नो मृल मूलय च अस्मभ्यमधिब्रूहि च। पक्षपातेन वचनमधिवचनम्। ‘तमिद्धनेषु हितेष्वधिवाकाय हवन्ते येषामिन्द्रस्ते जयन्ती’ त्यादौ दर्शनात्। अधा च अपि च। नोऽस्मभ्यम्। शर्म सुखम्। यच्छ देहि द्विबर्हाः। शर्मण एतद्विशेषणम्। छान्दसं पुंस्त्वम्।बृहिर्वृद्धयर्थः। द्वयोर्लोकयोरिह चामुत्र च प्रसिद्धम्॥
अवो॑चाम॒नमो॑अस्माअव॒स्यवः॑शृ॒णोतु॑नो॒हवंरु॒द्रोम॒रुत्वा॑न्।
तन्नो॑मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथिवीउ॒तद्यौः॥
(अष्ट०१. अध्या० ८. व० ३. ऋ० ११.)
अवोचाम। अवस्यवः। अवः पालनम्। तस्मात् क्यजन्तात् ‘क्याच्छन्दसी’त्युप्रत्ययः। अवस्यवः पालनकामाः वयमस्मै रुद्राय नमः नमोवाकमवोचाम उक्तवन्तः ब्रूमो वा। स च रुद्रः नः हवम् आह्वानं शृणोतु। मरुत्वान्। मरुतोऽस्य पुत्राः। तैस्तद्वान्।तन्नोऽस्माकं तत्कर्म रुद्रस्तवाख्यम्।मित्रादयो मामहन्ताम्। ‘मह पूजायाम्’। पूजयन्तु अहो अनेन सुस्तुतो रुद्रः इति। सिन्धुरन्तरिक्षं समुद्रो नदी वा॥
आते॑पितर्मरुतांसु॒म्नमे॑तु॒मानः॒सूर्य॑स्यसं॒दृशो॑युयोथाः।
अ॒भिनो॑वी॒रोअर्व॑तिक्षमेत॒प्रजा॑येमहरुद्रप्र॒जामिः॑॥
(अष्ट० २.अध्या० ७. व० १६. ऋ०१.)
आ ते पितः। गार्त्समदम्। हे मरुतां पितः ! ते सुम्नं त्वत्कर्तृकं सुखमेस्मान् आ एतु। नः अस्मान् सूर्यस्य संदृशः सन्दर्शनाद् मा युयोथाः। यौतिः पृथग्भावकर्मा। मा पृथक् कार्षीः। यावज्जीवं चक्षुष्मन्तो भूयास्म। नः वीरः पुत्रः अर्वति अश्वे अश्वपृष्ठे अभिक्षमेत सर्वप्रकारं समर्थोऽस्तु। प्रजाभिश्च वयं प्रजायेमहि पुत्रपौत्रादयो बहवो नः सन्तु॥
त्वाद॑त्तेभीरुद्र॒शन्त॑मेभिःश॒त॑हिमा॑अशीयभेष॒जेभिः॑।
व्य१॒॑स्मद्द्वेषो॑वित॒रंव्यंहो॒व्यमी॑वाश्चातयस्वा॒विषू॑चीः॥
(अष्ट० २.अध्या० ७. व० १६.ऋ० २५.)
त्वादत्तेभिः।हे रुद्र।त्वया दत्तैः शन्तमेभिः सुखतमैः भेषजैः शतं हिमाः शतं संवत्सरान् अशीय जीव्यासम्। द्वेषः। द्वितीयान्तमेतदसुनन्तम्। तच्चार्थाच्छत्रुसम्बन्धि। तदस्मत् अस्मत्तः। वीत्युपसर्गश्रुतेः सापेक्षत्वाच्चातयस्वेति वक्ष्यमाणमपेक्षते।विचातयस्व विगमय। न केवलं विचातयस्व। किन्तर्हि। वितरं चातयस्व व्यंहः।अंहः पापम्। तच्चापि विचातयस्व।व्यमीवाः रोगजातीश्च। कीदृशीः।विषूचीः। विष्वङ् नाना अञ्चतीःसर्वशरीरव्यापिनीः॥
श्रेष्ठो॑जा॒तस्य॑रुद्रश्रि॒यासि॑त॒वस्त॑मस्त॒वसां॑वज्रबाहो।
पर्षि॑णःपा॒रमंह॑सःस्व॒स्तिविश्वा॒॑अभी॑ती॒रप॑सोयुयोधि॥
(अष्ट० २. अध्या० ७ .व० १६. ॠ० ३.)
श्रेष्ठः। हे रुद्र ! त्वं जातस्य सर्वभूतजातस्य श्रिया श्रेष्ठोऽसि। तवसाम्। तवो वृद्धिः। मतुपो लुग्द्रष्टव्यः।तवस्वताम्।तवस्तमः। अत्रापि मतुपो लुक्। तवस्वत्तमः।वृद्धिमतां मध्ये अतिशयेन वृद्धिमान्।हे वज्रबाहो !। वज्रमायुधम्। पिनाकाद्यायुधहस्तः। एवंभूतरत्वं नः अस्मान् अंहसः पारं पर्यन्तंपर्षि प्रापय स्वस्त्यविनाशं यथा तथा। रपः पापं तज्जन्योऽनर्थो वा। तस्य या अभीतीः अभिगमनानि ताश्च विश्वाः अस्मत्तो युयोधि पृथक् कुरु॥
मात्वा॑रुद्रचुक्रुधामा॒नमो॑भि॒र्मादुष्टु॑तीवृषभ॒मासहू॑ती।
उन्नो॑वी॒राँअ॑र्पयभेष॒जेभिर्भि॒षक्त॑मंत्वाभि॒षजा॑शृणोमि॥
( अष्ट० २. अध्या० ७. व० १६. ऋ० ४.)
मा त्वा।हे रुद्र ! त्वा त्वाम्। वयं नमोभिर्मा चुक्रुधाम। यथा राज्ञो वा राजमात्रस्य वा पृथग्जनेन कृतो नमस्कारः प्रत्युत क्रोधाय भवति तद्वत् सर्वदेवं प्रति इति मन्यमानो गृत्समद एवमाह। क्षुद्रस्थापि मे नमस्तव महेश्वरस्य क्रोधाय मा भूदिति। मा दुष्टुती।तृतीयैकवचनस्य पूर्वसवर्णः।मा च दुष्टया स्तुत्या त्वां चुक्रुधाम। हे वृषभ।वर्षितः ! वृषभवत् प्रसह्यकारिन् !। मा सहूती मा देवतान्तरैरग्नीन्द्रादिभिः सहाह्वानेन चुक्रुधाम।नः अस्माकं वीरान् भेषजैःउदर्पय सम्बन्धय। त्वां ह्यहंभिषजां मध्ये भिषक्तमं शृणोमि॥
ह॒वीमभि॒र्हव॑ते॒योह॒विर्भिर॒व॒स्तो॑मेभीरु॒द्वंदिषीय।ऋ॒दू॒दर॑सु॒हवो॒मानो॑अ॒स्यैब॒भ्रुःसु॒शिप्रो॑रीरधन्म॒नायै॑॥
(अष्ट० १. अध्या० ७. व० १६. ऋ०५.)
हवीमभिः। हवनयोग्यैर्हविर्भिः। हवते। व्यत्ययेनायं भावे कर्तृप्रत्ययः। हूयते। यः। चतुर्थ्यर्थे प्रथमा। यस्मै हवीमभिः हविर्भिः हूयते। तं रुद्रम्। स्तोमेभिः स्तोत्रैः अवदिषीय। ‘दैप् शोधने’ इत्यस्याशिषि लिङ्। छान्दसमात्मनेपदमित्वं च। अवदातं कृषीय।स च रुद्रः। ऋदूदरो मृदूदरः। ऋजूदरो वा। मलोपो जकारो वा छान्दसः। तथावग्रहाभावः। सुहवः स्वाह्वानः।बभ्रुः बभ्रुवर्णः भर्त्ता वा जगताम्। सुशिप्रः। शिप्रेहनू नासिके वा उत्तरोष्ठस्योपरि श्मश्रुश्रेणिर्वा।‘पीत्वी शिप्रे अवे वय’ इत्यादौ दर्शनात्। मृगयादिव्यापारे हिरण्मयी केशनियमनरज्जुर्वा शिप्रा। दृश्यते च ‘शिप्राः शीर्षसु वितता हिरण्मयीरि’ति। ताः शोभना अस्पेति सुशिप्रः। एवम्भूतो रुद्रः नः अस्मान्। अस्यै प्रसिद्धायै मनायै ‘अनभिमानुको हैष देवः प्रजा भवति यस्य रुद्रः प्रजां पशून् वाभिमन्यते’ इत्यादावभिपूर्वको मन्यतिः कोपदृष्टौ दृष्टः। स एवायमभिरहितः। भिदादिषु दर्शनात् स्त्रियां भावेअङ्। मा रीरधत्। रन्धयतिर्वशीकरणकर्मा। दृश्यते हि ‘द्विषन्तं मह्यं रन्धयन्निति’। स्वस्यै शत्रूणां वा कोपदृष्ट्यैमास्मान् वश्यान् कार्षीदिति॥
उन्मा॑ममन्दवृष॒भोम॒रुत्वा॒न्त्वक्षीयसा॒वय॑सा॒नाध॑मानम्।
घृणी॑वच्छा॒याम॑र॒पाअ॑शी॒या॑विवासेयंरु॒द्रस्य॑सु॒म्नम्॥
( अष्ट० २. अध्या० ७.व० १७. ऋ०२.)
उन्मा। वृषभो मरुत्वांश्च रुद्रः। त्वक्षीयसा।‘तक्षू त्वक्षू तनूकरणे’। तृजन्तादीयसुन्। अत्यन्तं तनुभूतेन वयसोपलक्षितम्। नाधमानं याचमानं, वय इति गम्यते। एवम्भूतं माम्।उन्ममन्द।‘मदि स्तुतिमोदस्वप्नगतिषु’। अन्तर्भावितव्यर्थः,ण्यन्त एव वा।लोडर्थेलिट्।उन्मादयतु उत्कृष्टमोदं करोतु। उन्मोदितश्चाहंअरपाः अपापः अनर्थरहितो वा भूत्वा अशीय अश्नुवीय।क्रिम्। तमेव रुद्रम्।घृणीव छायां यथा घर्माभितप्तश्छायामश्नुते तद्वत्।प्राप्य च रुद्रस्य यत् सुम्नं स यद् भक्तेभ्यः करोति तद् आविवासेयं तेनात्मानं माच्छादयेयं तदनुभवेयम्॥
क्व॑१॒स्थते॑रुद्रमृल॒याकु॒र्हस्तो॒योअस्ति॑भेष॒जोजला॑षः।
अ॒प॒भ॒र्तारप॑सो॒दैव्य॑स्या॒भीनुमा॑वृषभचक्षमीथाः॥
(अष्ट० २. अध्या० ७. व० १७. ऋ० ७)
क्वस्यः।हे रुद्र ! क्वते स्यः सः हस्तः। कीदृशः। मृलयाकुः सुखयिता। यो वा जलाषः भेषजः। तद्वत्ययं तदुपचारः। सुखरूपेण भेषजेन तद्वान्। दैव्यस्य देवसम्बन्धिनस्तैः क्रियमाणस्य तेषां वासुरैः क्रियमाणस्य रपसः अनर्थस्यापहर्ता। एवम्भूतस्ते सहस्तः क्व। नाहं तेन स्पृश्ये। तेन मां स्पृश, येन स्पृष्टोऽहमपापः स्याम्।यथोक्तं महाभारते—
‘स्पृष्टस्य त्र्यम्बकेनाथ फल्गुनस्यामितौजसः।
यत्किञ्चिदशुभं देहे तत् सर्वं नाशमेयिवत्॥”
इति। स्पृष्ट्वा च नु क्षिप्रं मां हे वृषभ।अभिचक्षमीथाः। अभिः सर्वतोभावे। सर्वत्र समर्थं कुरु। सर्वपुरुषार्थक्षमं कुरु॥
प्रब॒भ्रवे॑वृष॒भाय॑श्वितीचेम॒होम॒हींसु॒॑ष्टुतिमी॑रयामि।
न॒म॒स्याक॑ल्मली॒किनं॒नमो॑भिर्गृणी॒मसि॑त्वे॒षंरु॒द्रस्य॒नाम॑॥
(अष्ट० २. अध्या० ७. व० १७. ऋ० ८.)
प्र बभ्रवे। बभ्रुः कपिलपिङ्गलः।स्वभावतस्तद्वर्णाय। वृषभाय वर्षित्रे वृषभवत् प्रसह्यकारिणे वा। श्वितीचे। श्वेतो वर्णः श्विती। तामञ्चति गच्छति इति श्वित्यङ्ग्। दृश्यते चान्यत्रापि —“श्वित्यञ्चोमा दक्षिणतस्कपर्दाः’ ‘शुक्लाकृष्णादजनिष्ट श्वितीचि’ इति। तस्मै। भस्मोदूधूलनेन श्वेतवर्णभाजे। एवंभूताय रुद्राय। महो महीं महतोऽप्याकाशादेर्महतीं सुष्टुतिं शोभनां स्तुतिं प्रेरयामि उच्चारयामि। नमस्य नमस्कुरु हे मदीयान्तरात्मन्।कल्मलीकिनम्।ज्वलतो नामधेयमिदम्। तेजसा ज्वलन्तम्। रुद्रस्य त्वेषं दीप्तमतिप्रसिद्धं नाम शिवो रुद्र इत्यादि नमोभिर्नमस्कारैः सह गृणीमसि गृणीमः उच्चारयामः नमो रुद्राय नमश्शिवायेति॥
स्थि॒रोभि॒रङ्गैः॑पुरुरूप॑उ॒ग्रोव॒भ्रुःशु॒क्रेभिः॑पिपिशे॒हिर॑ण्यैः।ईशा॑ना॒दस्यभुव॑नस्य॒भूरे॒र्नवाउ॑योषद्रुद्राद॑सु॒र्यम्॥
(अष्ट० २. अध्या० ७ व० १७. ऋ० ९.)
स्थिरेभिः। पुरुरूपो रुद्रः उग्रोऽनभिभवनीयः बभ्रूर्बभ्रुवर्णः शुक्रेभिः शुक्लैर्दीप्तैः स्थिरेभिरङ्गैर्हिरण्यैर्हिरण्य-वदुज्ज्वलैःर्हिरण्मयैर्वा पिपिशे दीप्यते। ‘पितरो द्यामपिंशन्नि’ ति दृश्यते। अत्रैकवाक्यताप्रसिद्ध्यर्थं यत्तदावध्याहार्यौ। य एवं पिपिशे तस्मादस्य भुवनस्येशानाद् भूरेः सर्वप्रकारं प्रभूताद् रुद्रात् असुर्यं बलं न वा उ योषत्। वै प्रसिद्धौ। उः पदपूरणः। यौतिः पृथग्भावे। न खलु कदाचिदपि तस्माद् बलं वियुतं भवति। सर्वदैवासौ बलवानिति॥
अ॑र्हन्बिभर्षि॒साय॑कानि॒धन्वार्ह॑न्नि॒ष्कंय॑ज॒तंवि॒श्वरू॑पम्।
अर्ह॑न्नि॒दंद॑यसे॒विश्वमभ्वं॒नवाओजी॑योरुद्र॒त्वद॑स्ति॥
(अष्ट० २. अध्या०. ७. व० १७. ऋ० १०)
अर्हन् बिभर्षि। हे रुद्र ! त्वमेव सायकानि धन्व च बिभर्षि। अर्हन् त्वमेव च यजतं यागादिकर्मसाधनं विश्वरूपं कुण्डलाद्यनेकरूपं निष्कं हिरण्यमपि बिभर्षि। शरवणे निषिक्तं यद् देवस्य वीर्यं तत्स्पर्शात् स प्रदेशो हिरण्मयोऽभवदिति ह्यैतिहासिकाः स्मरान्ति। हिरण्मयाभरणधारणाभिप्रायं वेदम्। अभ्वमित्यन्तरिक्षनाम्ना जगल्लक्ष्यते। इदं विश्वमभ्वं त्वमेवार्हन् दयसे सर्वविषयां दयां त्वमेव कर्तुमर्हसि। कथम्।नवै। वै प्रसिद्धौ।त्वत् त्वत्तः। ओजीयः ओजस्वितरं किञ्चिदपि वस्तु न वै अस्ति। यदि स्यात् तेन जिघांसितमसौ न रक्षितुं शक्नुयात्। ततश्च तद्विषयास्य दयानर्हिता स्यात्॥
स्तु॒हिश्रु॒तंग॑र्व॒॒सदं॒युवा॑नंमृ॒गंनभ॒मिमु॑पह॒त्नुमु॒ग्रम्।
मृ॒लाज॑रि॒त्रे॒रु॑द्र॒स्तवा॑नो॒न्यंते॑अ॒स्मन्निव॑पन्तु॒सेनाः॑॥
(अष्ट० २. अध्या० ७. व० १८. ॠ० ११.).
स्तुहि श्रुतम्। श्रुतं विख्यातमाबालगोपालं प्रसिद्धम्। गर्तसदम्। गर्त इति रथनाम। ‘आरोहथोवरुण मित्र गर्तमि’ त्यादौ दर्शनात्। युवानं नित्यतरुणं मृगं न भीमं मृगमिव भयानकम् उपहत्नुमुपहन्तारं ब्रह्मद्विषाम् उम्रमनभिभवनीयमेवंभूतं रुद्रं स्तुहि हे मदीयान्तरात्मन् !। त्वं च हे रुद्र। स्तवानः स्तूयमानोऽस्माभिः मृल मृलय जरित्रे। विभक्तिव्यत्ययः। जरितारं स्तोतारम्। ते तव सेनाश्चास्मत् अस्मत्तः अन्यं निवपन्तु निघ्नन्तु॥
कु॒मा॒रश्चि॑त्पि॒तरंव॒न्द॑मानं॒प्रति॑नानामरुद्रोप॒यन्त॑म्।
भूरे॑र्दा॒तारं॒सत्प॑तिंगृणीषेस्तु॒तस्त्वंभे॑ष॒जारा॑स्य॒स्मे॥
(अष्ट० २. अध्या० ७. व० १८. ऋ० १२)
कुमारश्चित्।हे रुद्र।मां प्रत्युपयन्तम् उपगच्छन्तं त्वामहं प्रतिनानाम।लोडर्थेलिट्। छान्दसोऽभ्यासस्य दीर्घः। प्रतिः प्रशब्दस्यार्थे।प्रणमानि प्रणमनं लभेय। अत्र दृष्टान्तः— कुमारश्चित् कुमार इव पितरं वन्दमानं लालयन्तम्। किञ्च भूरेर्दातारं प्रभूतस्य दातारं सत्पतिं सतां पालयितारं त्वामहं गृणीषे। व्यत्ययेनात्मनेपदं मध्यमपुरुषश्च।गृणामि स्तौमि। स्तुतश्च त्वं भेषजानि रासि देहि अस्मे अस्मभ्यम्॥
यावो॑भेष॒जाम॑रुतः॒ शु॒ची॑नि॒याशंत॑मावृषणो॒याम॑यो॒भु।
यानि॒मनु॒रवृ॑णीतापि॒तान॒स्ताशंच॒योश्च॑रु॒द्रस्य॑वशिम॥
(अष्ट० २. अध्या० ७. व० १८. ऋ० १३.)
या वः। हे मरुतः ! वृषणः ! वर्षितारः !।यानि वो भेषजानि रुद्रात् पितुर्लब्धानि। शुचीनि, न लशुनादिवदशुचीनि। यानि च शन्तमानि सुखतमानि।यानि च मयोभु।वचनव्यत्ययः। मयोभूनि सुखस्य भावयितॄणि। नः अस्माकं मनुष्याणां पिता मनुरवृणीत प्रार्थयत। तानि रुद्रस्य भेषजानि। शञ्च शमनाय च रोगाणाम्। योश्च यापनाय च भयानां वश्मि कामयेय॥
परि॑णोहे॒तीरु॒द्रस्य॑वृज्याः॒परि॑त्वे॒षस्य॑दुर्म॒तिर्म॒हीगा॑त्।
अव॑स्थि॒राम॒घव॑द्भ्यस्तनुष्व॒मीढ्व॑स्तो॒काय॒तन॑यायमृल॥
(अष्ट०. २. अध्या० ७. व० १८. ऋ० १४.)
परिणः। नः अस्मान् रुद्रस्य हेतिः त्रिशूलाद्यायुधम्। परिवृज्याः। पुरुषव्यत्ययः। परिवृज्यात् सर्वतो वर्जयतु। त्वेषस्य दीप्तस्य मोगरूपस्यदेवस्य या दुर्मतिः हिंस्राबुद्धिः’ सा च मही महती नः परिगात्। ‘बहुलं छन्दस्यमाङ्योगेऽपि’ (६-४-७५) इत्यडभावः। परिर्वर्जने अस्मान् वर्जयित्वा अन्यत्रैतु। परोऽर्धर्चो देवं प्रति। हे मीढ्वः ! वर्षणेन सेक्तः!। मधवद्भ्यः। तादर्थ्ये एषा चतुर्थी।हविर्लक्षणेन धनेन तद्वतामस्मदादीनामर्थाय अस्मदादीन् प्रति। स्थिरा।द्वितीयैकवचनस्याकारः। स्थिरं धनुः अवतनुष्व अवततज्यं कुरु। किञ्च, तोकाय तनयाय तोकं च तनयं च मृल मृलय॥
ए॒वाब॑भ्रोवृषभचेकितान॒यथा॑देव॒नहृ॑णी॒षेनहंसि॑।
ह॒व॒न॒श्रुन्नो॑रुद्रे॒हबो॑धिबृह॒द्व॑देमवि॒दथे॑सु॒वीराः॑॥
( अष्ट० २. अध्या० ७. व० १८. ऋ० १५. )
एवाबभ्रो। हे बभ्रो ! बभ्रुवर्ण ! वृषभ ! चेकितान ! अतिशयेन ज्ञातः !।ज्ञानस्य अतिशयः सविषयत्वात्। देव ! रुद्र ! यथा त्वं न हृणीषे न कुप्यसि। यथा च न हंसि। (एव) एवम् साकांक्षत्वात् त्वामाह्वयामीति शेषः। आहूतश्च त्वं हवनश्रुत् नः अस्मत्संबन्धिनः तस्याह्वानस्य श्रोता असकृत् इह यज्ञे बोधि। कर्माणि लिङर्थे लुङ्। पुरुषव्यत्ययः। बुध्येथाः ज्ञायेथाः सन्निधत्स्व। सन्निहिते च त्वयि वयं सुवीराः शोभनैः पुत्रैरुपेताः विदथेऽस्मिन् यज्ञे बृहन्महार्थं वचो वदेम वदितुं शक्नुयाम॥
इ॒मारु॒द्राय॑स्थि॒रध॑न्वने॒गिरः॑क्षि॒प्रेष॑वेदे॒वाय॑स्व॒धान्वे॑।
अषा॑हूलाय॒सह॑मानायवे॒धसे॑तिग्मायु॑धायभरतशृ॒णोतु॑नः।
(अष्ट० ५ अध्या० ४. व० १३ ऋ० १.)
इमा रुद्राय। वसिष्ठस्यर्षम्।स्वधान्वे। स्वधेत्यन्ननाम।मत्वर्थीयो वनिप्प्रत्ययः। हविर्लक्षणेनान्नेन तद्वते। अषाह्लाय केनाप्यनभि भूताय। सहमानाय सर्वमभिभवते।वेधसे विधात्रे।अन्यानि विशेषणानि प्रसिद्धानि। एवंभूताय रुद्राय स्तुतिरूपाः गिरो भरत। ‘हृग्रहोर्भश्छन्दसि ’ ( वा ० ३-१- ८४ )। हरत प्रेरयत। स च नो गिरः शृणोतु॥
सहिक्षये॑ण॒क्षम्य॑स्य॒जन्म॑नः॒साम्रा॑ज्येनदि॒व्यस्य॒चेत॑ति।
अव॒न्नव॑न्ती॒रुप॑नो॒दुर॑श्चरानर्मा॒वोरुद्रजासु॑नोभव॥
(अष्ट० ५ अध्या० ४. व० १३. ऋ० २)
स हि। स हि रुद्रः क्षयेण।निवासवचनोऽयम्। ‘क्षयो निवासे’ (६-१-१०१) इत्याद्युदात्तत्वम्। निवासेन कैलासादिना। क्षम्यस्य। क्षमा पृथ्वी। तत्र भवः।जन्मनः। अन्तर्णीतमत्वर्थमेतत्। जन्मवतः प्राणिजातस्य। तृतीयार्थे षष्ठी। साम्राज्येनैश्वर्येण दिव्यस्य च दिवि भवस्य देवजनस्य च। चेतति। कर्मणि कर्तृप्रत्ययः। चेत्यते ज्ञायते मनुष्यैर्देवैश्च। स्थानैश्वर्याभ्यां स चेत्यते कैलासादौ वसति अनवच्छिन्नैश्वर्यश्चेति। तस्मात् तस्मै गिरो भरतेत्यन्वयः। परोऽर्धर्चः प्रत्यक्षकृतो देवं प्रति। हे रुद्र ! नः अस्मान्।अवन् रक्षन्। अवन्तीः रक्षन्तीः। दुरः द्वारः उपचर।अस्माकं रक्षको भूत्वा गृहस्य रक्षा हेतूनां द्वारां समीपे तिष्ठ। वास्तोप्यती रुद्रः प्रार्थ्यते। यस्यैषा भवति —‘नमो रुद्राय वास्तोष्पतये’ ‘आयनो विद्रविणे उद्याने यत्परायणे आवर्तने विवर्तने यो गोपायति तं हुवे’ इति। तथा नः अस्माकं जासु प्रजासु अनमीवो भव आरोग्यनिमित्तं भव॥
याते॑दि॒द्युदव॑सृष्टादि॒वस्परि॑क्ष्म॒याचर॑ति॒परि॒सावृ॑णक्तुनः।
स॒ह॑स्रंतेस्वपिवातभेष॒जामान॑स्तो॒केषु॒तन॑येषुरीरिषः॥
(अष्ट० ५ अध्या० ४. व० १३ ऋ०. ३.)
या ते। हे रुद्र ! या ते तव स्वभूता दिद्युद् आयुधम् अवसृष्टा त्वया विसृष्टा। दिवस्परि। परिः पञ्चम्यर्थानुवादी। द्युलोकात्। अशनिरत्र विवक्षिता। सा हि वर्षितुर्देवस्यायुधम्। क्ष्मया। पृथिवीनामैत्तत्। तृतीया च सप्तम्यर्थे। पृथिव्याम्। चरति वर्तते। सा नः परिवृणक्तु सर्वतो वर्जयतु। हे स्वपिबात !।अपिभेरर्थे। ‘वा गतिगन्धनयोः’। सुष्टु भक्तैरभिगत !। ते तव स्वभूतानि भेषजानि सहस्रं बहूनि। सर्वाण्येव भेषजानि तव स्वभूतानीति स्वतन्त्रेयं स्तुतिः, न पूर्वेण सम्बध्यते, न परेण। एवम्भूतस्त्वं नः तोकेषु तनयेषु मा रीरिषः पुत्रपौत्रविषयां हिंसां मा कार्षीः॥
मानो॑वधीरुद्र॒मापरा॑दा॒माते॑भूम॒प्रसि॑तौहीलि॒तस्य॑।
आनो॑भजब॒र्हिषि॑जीवशं॒सेयू॒यंपा॑तस्व॒स्तभिः॒सदा॑नः॥
(अष्ट० ५. अध्या० ४. व० १३. ऋ० ४.)
मा नः। हे रुद्र ! नः अस्मान् मा वधीः। मा च परादाः हिंसितृभ्यः सत्त्वेभ्यो मृत्युप्रभृतिभ्यः।किञ्च हीलितस्य क्रुद्धस्य ते प्रसितौ। प्रसितिर्जालं, येन मत्स्याः बध्यन्ते। दृश्यते च ‘कृणुष्व पाजः प्रसितिं न पृथ्वीम्’ इति। यया त्वं दुष्कृतो बघ्नासि तस्यां प्रसितौ मा वयं भूम। नः अस्मांश्चाभज आभिमुख्येन भज बर्हिषि स्तीर्णे।कीदृशे बर्हिषि।जीवशंसे। जीवाः प्राणिन, तेषां प्रशंसनीये। परः पादो वैश्वदेवः।हे देवाः ! यूयं च सदा न पात रक्षत स्वस्तिभिरविनाशैः सह॥
उत्तरतोऽग्नेर्दर्भवीतासु कुशसूनासु वा शोणितं निनयेत्।
श्वासिनीर्घोषिणी र्विचिन्वतीःसमश्नुतीःसर्पा एतद् वोऽनेन \ वः प्रीणानि॥
इति। श्वासिनीः सर्परूपा देवस्य सेना उच्यन्ते। सम्बोधने जसि ’ वा छन्दसि ’ (६- १ - १०६) इति पूर्वसवर्णः। वेगवशेन श्वासोऽतिशयितो यासां ताः श्वासिन्यः। घोषिण्यः घोषवत्यः।विचिन्वत्यः हन्तव्यानन्विच्छन्त्यः। समश्नन्त्यः सहभुञ्जानाः। एवम्भूताः सर्पाः सर्परूपाः सेनाः। एतत् शोणितं वः युष्माकं भागः। अनेन वः प्रीणानि॥
अथोदङावृत्य तत्र प्रदेशे क्षारितमसृगादि ताभ्य एव निवेदयति ‘श्वासिनीःसर्पा’ इत्यन्तम्। गतम्॥
अत्र प्रदेशे यद्वः उपभोगयोग्यं तद्धरध्वं स्वीकुरुत॥
शन्तातीयं जपन्। व्याख्यातं शन्ताती[यम्॥193
इति हरदत्तमिश्रविरचितायामाश्वलायनगृह्यमन्त्र194व्याख्यायां
चतुर्थोऽध्यायः।
________________
शुभं भूयात्॥
.
मन्त्राणा वर्णानुक्रमणिका।
| मन्त्राः | मन्त्राः |
| अगोरुधायगविषे | अजैष्माद्यासनाम चा |
| अग्न आयूंषि | अजो भागस्तपसा |
| अग्नइला नम इला | अतिद्रव सारमेयौ श्वानौ |
| अग्नये समिधं | अति नः सश्चतो नय |
| अग्नयेस्वाहा अग्नीषोमाभ्यां | अतो देवा अवन्तु |
| अग्नये स्वाहा इन्द्राग्निभ्यां | अत्र पितरो यथाभागं |
| अग्नये स्वाहा कामाय | अत्रैव वोऽपिनह्यामि |
| अग्नये स्वाहा सोमाय | अथ प्राचीनावीती |
| अग्नये स्विष्टकृते | अदितिः केशान् वपतु |
| अग्नावग्निश्चरति | अदितिर्द्यौरदितिरन्तरिक्षं |
| अग्निं दूतं वृणीमहे | अदित्सन्तं चिदाघृणे |
| अग्निं नरो दीधितिभिः | अदृश्रमस्य केतवो |
| अग्निमग्निंहवीमभिः | अद्यादेवा ! उदिता |
| अग्निमीले पुरोहितम् | अद्याद्याश्वःश्व इन्द्र ! |
| अग्निराचार्यः | अद्यानो देव ! सवितः ! |
| अग्निर्ऋषिः पवमानः | अन्नपतेऽन्नस्य नो |
| अग्निरैतु प्रथमो | अपत्यं परिपन्थिनं |
| अग्निष्टे होता स ते | अपत्ये तायवो यथा |
| अग्निष्वात्ताः पितरः | अप नः शोशुचदथं |
| अग्नेःप्रयातं | अप श्वेत ! पदा जहि |
| अग्नेतमद्याश्वं | अपहता असुराः रक्षांसि |
| अग्नेत्वं पारय | अपामीवामप विश्व |
| अग्ने त्वमस्मद्युयोधि | अप्रेतवाविच सर्पतातो |
| अग्ने नय सुपथा | अपेन्द्र! द्विषतो |
| अग्नेपवस्व स्वश्च | अप्रजरती पौत्रमृत्युं |
| अग्नेमन्युंप्रतिनुदन् | अबीध्यग्निःसमिधा |
| अग्नेर्वर्म परिगोभिर्व्ययस्व | अभयं नः प्राजापत्येभ्यो |
| अग्नेबृहन्नुषसामूर्ध्वः | अभयं मित्रावरुणा मह्यं |
| अघानो विश्वसौभग ! | अभि गोत्राणि सहसा |
| अघोरचक्षुः | अभि त्वा देवः सविता |
| अङ्गादङ्गात् सम्भवसि | अभिनोनर्यं वसु |
| अच्युताय भौमाय | अभिभूरहमागमं |
.
| मन्त्राः | मन्त्राः |
| अभिमन्त्र्य कुमारीं | अश्याम ते सुमतिं |
| अभिवृत्य सपत्नानभि | असपत्नः सपत्नहा |
| अभि सूयवसं नय | असावभ्यङ्क्ष्व |
| अभीवर्तेन हविषा येन | असूयन्त्यै चानुमत्यै |
| अभीषुणः सखीनां | अस्माकं देवा उभयाय |
| अमीमदन्त पितरः | अस्माकमिन्द्रः |
| अमीवहा वास्तोष्पते | अस्माकमुत्तमं कृधि |
| अमीषां चित्तं प्रतिलोभयन्ती | अस्माद् वै त्वं |
| अमुष्मै त्वा जुष्टं | अस्मे प्रयन्धि मघवन् ! |
| अमृतापिधानमसि | अस्मे सोम श्रियमधिनिधेहि |
| अमृतोपस्तरणमसि | अहं ते पूर्वःपादावारभे |
| अमोऽसि प्राण ! तदृतं | अहं वर्ष्म सजातानां |
| अमोऽहमस्मि सा त्वं | अहमस्मि सपत्नहा |
| अयं त इध्म आत्मा | अहिरिव भोगैः पर्येति |
| अयं तुभ्यमिति | आक्रन्दय बलमोजो न |
| अयं ते योनिः | आ गावो अग्मन्नुत |
| अयं नो अग्निर्वरिबः | आग्ने याहि मरुत्सखा |
| अयाश्चाग्नेऽस्यनभिशस्तीश्च | आचार्योऽहतेन वाससा |
| ” | आच्याजानु दक्षिणतः |
| अयुक्त सप्त शुन्ध्युवः | आजुह्वानः सुप्रतीकः |
| अरङ्गरो वावदीति | आत एतु मनः पुनः |
| अरिष्ठः समर्तो | आतत्ते दल मन्तुमः ! |
| अर्यमणं नु देवं | आ ते अग्नऋचा |
| अर्वाची सुभगे | |
| अर्वाश्वमिन्द्रममुतो | आ ते पितर्मरुतां |
| अर्हन् बिभर्षि सायकानि | आ स्वाहार्षमन्तरेधि ध्रुवः |
| अवक्रन्द दक्षिणतो | आदित्या रुद्रा वसवः |
| अवसृज पुनरग्ने! | आदित्यास्त्वा |
| अवसृष्टा | आदित्यो मेऽध्वर्युः |
| अनोचाम नमो | आधत्त पितरो गर्भं |
| अश्मनस्तेजोऽसि चक्षुर्मे | आ नः प्रजां जनयतु |
| अश्मनस्तेजोऽसि श्रोत्रं | आ नो भद्राः क्रतवो |
| अश्मन्वती रीयते | आपो मरीचीः |
| अश्मन्वतीरीयते संरभध्वं | आपो हि ष्टा मयोभुवः |
| अश्मा भव परशुर्भव | आ मन्द्रैरिन्द्र ! हरिभिः |
.
| मन्त्राः | मन्त्राः |
| आमूरज प्रत्यावर्तयेमाः | इमामग्ने! शरणिंमीमृषः |
| आयुर्विश्वायुः परिपासति | इमा रुद्राय तवसे |
| आयुष्यं वर्चस्यं | इमा रुद्राय स्थिरधन्वने |
| आरिख किकिरा कृणु | इमे जीवा वि मृतैः |
| आरे ते गोध्नं | इमे ये धिष्ण्यासो |
| आरोहतायुर्जरसं | इष एकपद्यूर्जे |
| आवदंस्त्वं शकुने ! | इह प्रियं प्रजया ते |
| आवो रथं शतयावानं | इहैव तिष्ठ निमिता |
| आ वामश्वासो रथिरा | इहैवायमितरो |
| आशुःशिशानो | इहैवैधि मापच्योष्ठाः |
| आसीनासो अरुणीनां | उच्चैर्वाजि पृतनाषाट् |
| आहंपितॄन्त्सुविदत्रान् | उच्छ्वञ्चमाना पृथिवी |
| आहार्षं त्वाविदं त्वा | उच्छ्वञ्चस्व पृथिवि ! |
| इदं पितृभ्यो नमो अस्तु | उत नो गोषणिंधियं |
| इदं पित्रे | उत् ते स्तभ्नामि पृथिवीं |
| इदं वत्स्यावो | उदीरतामवर उत् |
| इदं विष्णुर्विचक्रमे | उदीर्ष्व नार्यभिजीवलोकं |
| इदमदहमर्वावस्रोः | उदु त्यं जातवेदसं |
| इन्द्रः सीतां निगृह्णातु | उद्गातेव शकुने ! |
| इन्द्रः स्पलुत वृत्रहा | उद्धर्षय मघवन् ! |
| इन्द्र आसां नेता | उद्बुध्यस्वाग्ने! |
| इन्द्र! श्रेष्ठानि द्रविणानि | उन्मामन्द वृषभो |
| इन्द्रस्य वृष्णो | उप ते स्तोमान् |
| इन्द्रावरुणा सौमनसं | उपश्वासय पृथिवीं |
| इन्द्रो यज्वने पृणते | उपसर्प मातरं |
| इमं जीवेभ्यः परिधिं | उपहूताः पितरः |
| इमं तस्मै बलिं | उपावरोह जातवेदः ! |
| इममग्ने ! चमसं | उपेदमुपपर्चनमासु |
| इममश्मानमारोह | उरुव्यचा नो महिषः |
| इममिन्द्रो अदीधरत् | उरूणसावसुतृपा |
| इमां स्वमिन्द्र! | उष्णेन वायवुदकेन |
| ऊनं मे पूर्यंतांपूर्णं | |
| इमा नारीरविधवाः | ऋचा कपोतं नुदत |
| इमामग्निस्त्रायतां | ऋतमग्रे प्रथमं |
.
[TABLE]
.
| मन्त्राः | मन्त्राः |
| तानि भद्राणि बीजानि | ध्रुवं ते राजा वरुणो |
| तान् पूर्वया निविदा | ध्रुवं ध्रुवेण |
| तीव्रान् घोषान् | ध्रुवा द्यौर्ध्रुवा पृथिवी |
| ते आचरन्ती | ध्रुवान् ते परिददामि |
| तेजसा मा समनज्मि | न तद्रक्षांसि न पिशाचाः |
| त्वं तस्य द्वयाविनो | न ता अर्वा रेणुककाटः |
| त्वं नः पश्चादधराद् | न ता नशन्ति न दभाति |
| त्वं व्रतानां व्रतपतिः | न ते अदेवः प्रदिवः |
| त्वं हि राधस्पते | न पूषणं मेथामसि |
| त्वं हि विश्वतोमुख ! | नमो ब्रह्मणे नमो अस्तु |
| त्वं ह्यग्ने ! प्रथमो | नमा मित्रस्य वरुणस्य |
| त्वमग्न ईलितो | नमो वः पितर इषे |
| त्वमग्ने! द्युभिस्त्वं | न यः सम्पृच्छे |
| त्वमर्थमा भवसि | न वै श्वेतस्य |
| त्वां ह्यग्ने ! सदमित् | नहि तेषाममा चन |
| त्वा दत्तेभी रुद्र ! | निरस्तः परावसुः |
| त्वेषं वयं रुद्रं | निष्कं वा घा कृणवते |
| दिवश्छद्मासि | नृचक्षसो अनिमिषन्तो |
| दिवो वराहमरुषं | नेजमेष ! परापत |
| देवकृतं ब्रह्मणं कल्पमानं | परं भृत्यो ! अनुपरेहि |
| देव ! सवितरेष ते | परावतो ये दिधिषन्त |
| देवस्य त्वा सवितुः | परिणो हेती रुद्रस्य |
| देवाः ! कपोत इषितो | परितृन्धि पणीनामारया |
| देवानां प्रतिष्ठे | परि पूषा परस्ताद्धस्तं |
| देवानां भद्रा सुमतिः | परीमे गामनेषत |
| देवीं वाचमजनयन्त | परेतन पितरः ! |
| देवीः षलुर्वीरुरु नः | पशुपतये शिवाय |
| द्विषो नो विश्वतोमुख! | पाहि नो अग्ने ! |
| धनुर्हस्तादाददानो | पुनर्नः पितरो मनः |
| घन्वना गा धन्वनाजिं | पुनर्मांमैत्विन्द्रियं |
| धाता ददातु दाशुषे | पुमांस्ते पुत्रोऽनादि |
| धाता धातॄणां भुवनस्य | पूषन् ! तव व्रते |
| धाता प्रजानामुत | पूषन्ननु प्र गा इहि |
| धामन् ते विश्वं भुवनं | पूषा गा अन्वेतु नः |
.
| मन्त्राः | मन्त्राः |
| पूषा त्वेतंश्च्यावयतु | बह्वीनां पिता बहुरस्य |
| पूषा त्वेतो नयतु | बृहस्पतिर्ब्रह्मेति |
| पूषेमा आशा अनुवेद | बृहस्पते ! परिदीयारथेन |
| पूष्णश्चक्रं न रिष्यति | बृहस्पते यज्ञं |
| पृथिवी वृता साग्निना | ब्रह्मचार्यस्यपो |
| पृथिव्या अधि सम्भव | ब्रह्मणो वस्तेजसा |
| पृषदश्वा मरुतः | भद्रं कर्णेभिः शृणुयाम |
| पृष्ठेन पृष्ठं सन्धाय | ” |
| प्रजापतये त्वा ग्रहं | भद्रा अश्वा हरितः |
| प्रजापतिर्मह्यमेताः | भद्रान्नः श्रेयस्समनैष्ट |
| प्रजापते! न त्वदेतानि | भरेष्विन्द्रं सुहवं |
| ” | भूः स्वाहा |
| प्रजावतीःसुयवसं | ” |
| प्रतिश्चक्ष्व विचक्ष्वेन्द्रः | भूताः स्थ प्रशस्ताः स्थ |
| प्रतीचीने मामहनीष्वः | भूतेभ्यस्त्वा |
| प्र ते ददामि मधुनो | भूर्भुवः स्वरोम् |
| प्रत्यङ् देवानां विशः | मधुमतीरोषधीर्द्याव |
| प्र त्वा मुञ्चामि वरुणस्य | मधु वाता ऋतायते |
| प्रदक्षिणिदभिगृणन्ति | मनो न्वाहुवामहे |
| प्रदात्रे स्वाहा | मम देवा विह्वे सन्तु |
| प्र धारा यन्तु मधुनो | मम व्रते हृदयं ते |
| प्रपये पथामजनिष्ट | ममाग्ने ! वर्चो विहवेषु |
| प्र बभ्रवे वृषभाय | मयि देवा द्रविणमायजन्तां |
| प्रभङ्गी शूरो मघवा | मयि मेधां मयि प्रजां |
| प्र यत्ते अग्ने! सूरयो | मयोभूर्वातो अभिवातु |
| प्र यदग्नेः सहस्वतो | महि ज्योतिर्बिभ्रतं |
| प्र यद्भन्दिष्ठ एषां | महि त्रीणामवोऽस्तु द्युक्षं |
| प्र यो वां मित्रावरुणा! | मह्यं यजन्तु मम यानि |
| प्राणापानयोरुरुव्यचाः | माकिर्नेशन् माकीं रिषत् |
| प्रियं मा कुरु देवेषु | मा चिदन्यद् विशंसत |
| प्रेताजयतानर! इन्द्रो | माता रुद्राणां दुहिता |
| प्रेतो मुञ्चामि नामुतः | मा ते गृहे निशि |
| प्रेहि प्रेहि पथिभिः | मा त्वा रुद्र! चुक्रुषाम |
| बर्हिषदः ! पितर! ऊत्यर्वाक् | मा त्वा श्येन उद्वधीन्मा |
| बलविज्ञायः स्थविरः | मा नः सोमपरिबाधो |
.
| मन्त्राः | मन्त्राः |
| मामस्तीके तनये | यद्वा रेतो अश्विना |
| मा नौअग्नेऽवसृजो | यद्वेद राजा वरुणो |
| मा नौ महान्तमुत | यद्वोदेवाश्चकृम |
| मा नौ वधी रुद्र! मा | यन्नासत्या भेषजं |
| मा विदन् परिपन्थिनो | यमृत्विजो बहुधा |
| मित्रस्य त्वा चक्षुषा | यस्मै त्वा काम ! कामाय |
| ** ”** | यस्मै पुत्रासो |
| मित्रस्य वश्चक्षुषा | यस्य ते विश्वा भुवनानि |
| मुञ्चामि त्वा हविषा | यां पूषन् ! ब्रह्मचोदनीं |
| मृत्योः पदं योपयन्तो | याःसरूपा विरूपाः |
| मृलानो रुद्रो | या तिरश्चीनिपद्यते |
| मेधांते देवः | या ते अग्ने ! यज्ञिया |
| मैनमग्ने ! विदहो | या ते अष्ट्रागो |
| यं देवासोऽवथ वाजसातौ | या ते विद्युदवसृष्टा |
| यः शुक्रः इव सूर्यो | या देवेषु तन्वमैरयन्त |
| यः समिधा य आहुती | या वो भेषजा मरुतः ! |
| य ईशिरे भुवनस्य | यासामूध्वश्चतुर्बिलं |
| यच्च गोषु दुःध्वप्न्यं | यास्ते प्रजा अमृतस्य |
| यत इन्द्र ! भयामहे ततो | यास्तेराके ! सुमतमः |
| यत् क्षुरेण मर्चयता | यास्ते रुद्र ! पूर्वस्यां |
| यत्ते कृष्णैः शकुन आतुतोद | युगपदग्नीन् |
| यत्ते राजम्छृतं हविः | युवं वस्त्राणि |
| यत्ते सुसोमिहृदये | युवा सुवासाः |
| यत्र बाणाः संपतन्ति | यूयं गावो मेदयथा |
| यत्र वेत्थंवनस्पते ! | ये अग्निंदग्धा ये |
| यथा कलां यथा शफं | ये चित् पूर्वं ऋतसापः |
| यथा नो अदितिः | ये चेह पितरो ये च |
| यथा नो मित्रोवरुणो | ये तातृषुर्देवत्रा |
| यथाहान्यनुपूर्वं | ये देवानां यज्ञियाः |
| यथेयं पृथिवी मही | ये नः पूर्वे पितरः |
| यदग्ने ! सेन्द्रस्य | ये नःसंपत्नाअप ते |
| यदन्तरिक्षं पृथिवीं | येन घाता बृहस्पतेः |
| यदस्य कर्मणो | यैन भूयश्चरात्र्यां |
| यदाबध्नन् दाक्षायणा | येन सूर्य ! ज्योतिषा |
| यदि क्षितियुर्यदि वा | येनापविक ! चक्षसा |
| यदुलूको वदति | येनावपत् सविता |
.
| मन्त्राः | मन्त्राः |
| येनेन्द्रो हविषा कृत्वी | विश्व आदित्या बसवश्च |
| येभ्यो माता मधुमत् | विश्वस्य हि प्रेषितो |
| येभ्यों होत्रां प्रथमां | विश्वाहा त्वा सुमनसः |
| ये युध्यन्ते प्रधनेषु | विश्वा हि वो नमस्यानि |
| ये रूपाणि प्रतिमुञ्चमानाः | विश्वेदेवा नो अद्या |
| ये सत्यासो हविरदः | विश्वे! यजत्रा ! अधिवोचत |
| ये सर्पाःपार्थिवाः | विष्णो ! श्रेष्ठेन रूपेण |
| यो अस्मै हविषा विधन्न तं | वीणागाथिनौ संशास्ति |
| योगक्षेमं व आदाय | वीरं मे दत्त पितरः! |
| यो नः पूषन्नघो वृको | वेणुरसि वानस्पत्योऽसि |
| यो नः स्वो अरणो | शं नः करत्यर्वते सुगं |
| यो म राजन् ! युज्यो वा | शं नः सत्यस्य पतयः |
| यो वः शिवतमो रसः | शं नः सूर्य उरुचक्षाः |
| यौ ते श्वानौ यम ! रक्षितारौ | शं नः सोमो भवतु |
| रथवाहनं हविरस्य नाम | शं न इन्द्राग्नी |
| रथे तिष्ठन् नयति | शं न इन्द्रो वसुभिर्देवः |
| राकामहं सुहवां | शं नो अग्निर्ज्योतिरनीकः |
| वक्ष्यन्तीवेदागनीगन्ति | शं नो अज एकपाद् |
| वनस्पते ! वीड्वङ्गो हि | शं नो अदितिर्भवतु |
| वयमद्येन्द्रस्य प्रेष्ठा | शं नो देवः सविता |
| वयमु त्वा पथस्पते ! | शं नो देवा विश्वदेवाः |
| वषड् वां दस्रावस्मिन् | शं नो द्यावापृथिवी |
| वसवस्त्वा गायत्रेण | शं नो धाता शमु धर्ता |
| वह वपां जातवेदः ! | शं नो भगः शमु नः |
| वामदेव्यमक्षः | शं नो भव चक्षसा |
| वायोष्ट्वा वीर्येणारोहामि | शं नो भवन्तु वाजिनः |
| वास्तोष्पते ! प्रतरणः | शग्धि पूर्धि प्रयंसि च |
| वास्तोष्पते ! प्रतिजानीहि | शतं जीव शरदो |
| वास्तोष्पते ! शग्मया | शतमिन्नु शरदो |
| वि द्यामेषि रजस्पृथ्वहा | शान्ता पृथिवी शिवं |
| वि न इन्द्र ! मृधो जहि | शास इत्था महाँ अस्यमित्र |
| वि पथो वाजसातये | शिवं वास्तु शिवं वास्तु |
| वि पूषन्नारया तुद | शिवं शग्मं शंयोः |
| वि रक्षो वि मृधोजहि | शिवः कपोत इषितो नः |
| विराजो दोहोऽसि | शिवा नः शन्तमा भव |
.
| मन्त्राः | मन्त्राः |
| शिवो नः सुमना भव | सहस्रणीथाः कवयो |
| शीतिके ! शीतिकावति ! | सहस्रसनिं वाजं |
| शीतोष्णाभिरद्भिः | सहत्नाक्षेण शतशारदेनं |
| शुनं नः फाला | स हि क्षयेण क्षम्यस्य |
| शुनं वाहाः शुनं | सा मा सत्योक्तिः परिपातु |
| शुनमहं हिरण्यस्य | सावित्रीं भो अनुब्रूहि |
| शुनासीराविमां | सावित्र्या द्वितीयम् |
| शुन्धन्तां पितरः | सुक्षोत्रिया सुगातुया |
| शृण्वन्तं पूषणं वयं | सुचक्षा अहमक्षिभ्यां |
| शृतं यदा करसि | सुत्रामाणं पृथिवीं |
| श्रेष्ठो जातस्य | सुमङ्गलीरियं वधूः |
| श्वासिनीर्घोषिणीः | सुश्रवः सुश्रवा असि |
| संक्रन्दनेनानिमिषेण | सुसन्दृशं त्वा वयं |
| सं पूषन्नध्वनः | सूर्य चक्षुर्गच्छतुवातं |
| सं पूषन् ! विदुषा नय | सूर्याय स्वाहा |
| संसृष्टं धनमुभयं | सूर्यो देवीमुषसं |
| स इषुहस्तैः सनिषङ्गिभिः | सूर्यो नो दिवस्पातु |
| सङ्गच्छस्व पितृभिः | सोम एकेभ्यः पवते |
| सजूर्ऋतुभिः सजूर्विधाभिः | सोमस्य मा तवसं वक्षि |
| सत्यं यशः श्रीर्मयि | सोमाय पितृमते |
| सदसस्पतिमद्भुतं | सोमो नो राजावतु |
| स नः सिन्धुमिव | स्तुषे जनं सुव्रतं |
| सप्त त्वा हरितो रथे | स्तुहि श्रुतं गर्त्तसदं |
| समञ्जन्तु विश्वेदेवाः | ” |
| समानी व आकूतिः | स्थिरेभिरङ्गैः |
| समु पूष्णा गमेमहि | स्थिरौ गावौ भवतां |
| सम्राजं च विराजं च | स्मृतं निन्दा च |
| सम्राजो ये सुवृधो | स्योना पृथिवी भवा |
| सम्राज्ञी श्वशुरे | स्वधिते मैनं |
| सर्पदेवजनेभ्य | |
| सर्पोऽसि सर्पतां | स्वस्तिदा विशस्पतिः |
| सविता ते हस्तं | स्वस्ति नः पथ्यासु |
| सवितुष्ट्वा प्रसव | स्वस्ति न इन्द्रो |
| स वृतो जपेद् महन्मे | स्वस्ति नो मिमीतामश्विना |
| स्वादिष्ठया मदिष्ठया | स्वस्तिरिद्धि प्रपथे |
| हतो मे पाप्मा | हुत्वाहैतं स्थालीपाकं |
| हराय कृथाय शर्वाय | हेतिः पक्षिणी न बृभाति |
| हवीमभिर्हवते | होतारमेव प्रथमं |
_______________________
स्मृतग्रन्थाद्यनुक्रमणी।
| वाक्यम् | ग्रन्थनाम | कर्तृनाम |
| ‘मन्त्राणां ब्राह्मणार्पेयच्छन्दो —’ | स्मृतिः | … |
| ‘यो हवा अविदितार्षेय —’ | श्रुतिः | … |
| ‘अथ यो मन्त्रे मन्त्रे—’ | ” | … |
| “नमस्तस्मै” | … | गृह्यकारः |
| ‘यज्ञो वै नमः’ | ब्राह्मणम् | … |
| ‘गोपीथाय प्रहूयसे’ | … | … |
| ‘अथाप्यस्यां तद्धितेन—’ | … | … |
| ‘अनुकृष्टस्तु यः—’ | … | शौनकः |
| ‘जामि स्यात्—’ | श्रुतिः | … |
| ‘प्रजापते ! व्याहृतयः—’ | … | शौनकः |
| ‘स्वाहेत्येतत् सु आहेति—’ | … | यास्कः |
| ‘स्वरादित्यो भवाते—’ | भाष्यम् | … |
| ‘यः खलु वै ददाति—’ | श्रुतिः | … |
| ‘अक्षराण्येव सर्वत्र—’ | … | … |
| ‘अमो नाम साम—’ | श्रुतिः | … |
| ‘सैव नाम—’ | … | … |
| ‘दशास्यां पुत्रानाधेहि—’ | श्रुतिः | … |
| ‘तद् येऽनादिष्टदेवता—’ | … | यास्कः |
| ‘विष्णुर्वै यज्ञः’ | श्रुतिः | … |
| ‘प्रजापतिर्वै यज्ञः’ | ” | … |
| ‘सौचीकोऽग्निः—’ | … | … |
| ‘यो वामाश्विने—’ | … | … |
| ‘विवाहाग्निं—’ | गृह्यसूत्रम् | आश्वलायनः |
| ‘अस्माद् वै त्वं—’ | … | … |
| ‘शं नो मित्रो वरुणो—’ | श्रुतिः | … |
| ‘स त्वमग्नेस्सौभग—’ | … | … |
| ‘चर्मणि द्वीपिनं—’ | … | … |
| ‘यदि तूपशाम्येत्—’ | … | … |
| ‘अपि वोत्तरया—’ | … | आपस्तम्बीयाः |
| ‘त्वां दूतमग्ने— ' | श्रुतिः | … |
| ‘युगे त्वां दूतमरतिं’ | ” | … |
.
| वाक्यम् | ग्नन्थनाम | कर्तृनाम |
| ‘दूतो देवानामसि—’ | श्रुतिः | …. |
| ‘सत्यं ज्ञानमनन्तं—’ | ” | … |
| ‘सत्यं कस्मात्—’ | … | यास्कः |
| ‘नाहं तन्तुं न—’ | श्रुतिः | … |
| ‘स इत्तन्तुं स विजानाति—’ | ” | … |
| ‘अयमेवाग्निवैश्वानरः’ | … | यास्कः |
| ‘अया ते अग्ने—’ | श्रुतिः | … |
| ‘अग्नये स्वाहा’ | ” | … |
| ‘सूर्याय स्वाहा’ | ” | … |
| ‘अमृतं वाज्यम् अमृतं—’ | ” | … |
| ‘अयाः सन् हव्यं—’ | … | कौषीतकिनः |
| ‘अया ते अग्ने समिधा—’ | … | … |
| ‘यदिन्द्राग्नी अवमस्यां—’ | श्रुतिः | … |
| ‘यदिन्द्राग्नी परमस्यां—’ | ” | … |
| ‘अग्निर्वै देवानां—’ | ” | … |
| ‘यद्युवै विदेशस्थं—’ | ” | … |
| ‘को वनस्पतिर्यूपः—’ | … | यास्कः |
| ‘वनस्पते रशनया—’ | … | .. |
| ‘नाष्या चेन्नद्यन्तरा—’ | श्रुतिः | … |
| ‘प्रान्धं श्रोणं चक्षसे—’ | ” | … |
| ‘अङ्गादङ्गात् सम्भवसि’ | … | … |
| ‘धत्तं रयिं सह—’ | तैत्तिरीयम् | … |
| ‘पुमान् पुरुमना भवति’ | … | यास्कः |
| ‘सोम ओषधीनां—’ | श्रुतिः | … |
| ‘या ओषधीः सोम—’ | ” | … |
| ‘श्रेयांसं दक्षं मनसा—’ | … | … |
| ‘पवस्व सोमधारया’ | … | … |
| ‘अभ्यासे भूयांसमर्थं—’ | … | यास्कः |
| ‘अन्नादो वा एषो—’ | श्रुतिः | … |
| ‘यो नो अग्नेअररिवा—’ | ” | … |
.
| वाक्यम् | ग्रन्थनाम | कर्तृनाम |
| ‘कुशलीकृतशिरसम्’ | … | … |
| ‘तेषां मातुरग्नेऽधिजननं—’ | स्मृतिः | … |
| ‘ऐन्द्र्या गार्हपत्यम्’ | … | … |
| ‘अग्नेरपत्यं प्रथमं—’ | स्मृतिः | वसिष्ठः |
| ‘धनमिच्छेद्धुताशनात्—’ | ’ | … |
| ‘आदित्याज्जायते—’ | ” | … |
| ‘यदा खलु वा असावादित्यो—’ | श्रुतिः | … |
| ‘चरितव्रताय मेधाजननं—’ | गृह्यसूत्रम् | आश्वलायनः |
| ‘प्रदक्षिणमुदकुम्भेन—’ | ” | ” |
| ‘देवा वै ब्रह्मन्नवदन्त—’ | श्रुतिः | … |
| ‘तृतीयस्यामितो दिवि—’ | ” | … |
| ‘एतेन वापनादिपरिदानान्तं—’ | गृह्यसूत्रम् | आश्वलायनः |
| ‘एतद्विदं ब्रह्मचारिणं—’ | … | … |
| ‘अन्वारब्धे जुहुयात्—’ | … | … |
| ‘ऋषिर्दर्शनात्—’ | … | यास्कः |
| ‘धात्वर्थं बाधते कश्चित्—’ | … | … |
| … | .. | तैत्तिरीयाः |
| ‘आदित्यमुपस्थापयेत् —’ | गृह्यसूत्रम् | आश्वलायनः |
| ‘गणानां त्वा गणपतिं—’ | श्रुतिः | … |
| ‘विशां कविं —’ | ” | … |
| ‘त्वामग्नेवसुपतिं—’ | ” | … |
| ‘वसूयवो वसुपते | ” | … |
| ‘गोपतिः शूरगोनाम्’ | ” | … |
| भूमिमुपस्पृशेदग्न इला—’ | गृह्यसूत्रम् | आश्वलायनः |
| ‘सुविते सु इते सूते—’ | … | यास्कः |
| सोमप्रवाकं परिपृच्छेत्—’ | … | … |
| ‘लोका अपि रजांसि—’ | … | यास्कः |
| ‘द्यौरहं पृथिवी त्वम्—’ | … | … |
| ‘विश्वान् देवान्—’ | श्रुतिः | … |
| ‘जगतीं विश्वेभ्यो देवेभ्यः’ | ब्राह्मणम् | … |
| ‘विश्वे त्वा देवा—’ | ” | … |
.
| वाक्यम् | ग्रन्थनाम | कर्तृनाम |
| ‘विश्वे त्वा देवा आनुष्टुभेन—’ | श्रुतिः | … |
| ‘अन्नं वै विराट् ' | " | … |
| ‘ऋचो यजूंषि सामानि—’ | " | … |
| ‘गोमातरो यच्छुभयन्ते—’ | " | … |
| ‘अमृतं वाज्यम्—’ | " | … |
| ‘एतेन भक्षिणो—’ | … | … |
| पर्वतनारदौ—’ | … | … |
| ‘यत्ते अग्ने’ | श्रुतिः | … |
| ‘आत्मैवैषां रथो—’ | … | यास्कः |
| ‘अक्तुनाह्वां वयुनानि—’ | श्रुतिः | … |
| ‘अग्नेर्वा आदित्यो—’ | ” | … |
| ‘किमस्मान् दुच्छुनायसे’ | ” | … |
| ‘चित्रं देवानामुद्गात् ' | " | … |
| ‘ये अग्निजिह्वाःउत—’ | ” | … |
| ‘देवो भूत्वा देवान्—’ | … | … |
| ‘स्तूयमाना हि देवता—’ | … | … |
| ‘स यदेव मनसा—’ | ब्राह्मणम् | … |
| अथैनं पितरः—’ | … | … |
| ‘प्रत्यक्षकृताः स्तोतारः—’ | … | … |
| ‘संवत्सरः प्रजापतिः’ | … | … |
| ‘एतौ मे गावौ—’ | … | … |
| ‘अवद्वेषो मधोनी—’ | … | प्रस्कण्वः |
| ‘एषा प्रतीची दुहिता—’ | … | सत्यश्रवाः |
| ‘विदिवो देवी—’ | … | वसिष्ठः |
| ‘केतुं कृण्वन्न केतव’ | …. | … |
| ‘अथातो वास्तुपरीक्षा—’ | गृह्यसूत्रम् | आश्वलायनः |
| ‘तच्छमीशाखया—’ | ” | ” |
| ‘या च का च बहुलकृतिः—’ | … | यास्कः |
| ‘कः पुरन्धिर्भगः—’ | … | ” |
| ‘इमामू नु कवितमः—’ | … | … |
| ‘सत्यं ज्ञानमनन्तं—’ | श्रुतिः | … |
| ‘यद्यद्रूपं कामयते—’ | … | यास्कः |
| ‘रुद्रं जलाषभेषजम्’ | श्रुतिः | … |
| ‘मेना ग्ना’ | … | यास्कः |
.
| वाक्यम् | ग्रन्थनाम | कर्तृनाम |
| ‘स्त्रीणां’ | … | यास्कः |
| ‘अग्ने पत्नीरिहावह—’ | … | … |
| ‘या उभयविधाः रयुः’ | भाष्यम् | यास्कः |
| अर्को यद्वोमरुतो—’ | … | … |
| ‘इन्द्रमर्केभिः—’ | … | …. |
| ‘स्वर्काःस्वञ्चनाः—’ | … | यास्कः |
| ‘ये देवासो—’ | श्रुतिः | … |
| ‘सत्यसंहिता वै—’ | ” | … |
| ‘अग्निर्वा इतो वृष्टिं—’ | ” | … |
| ‘धामच्छदिव खलु—’ | ” | … |
| ‘मरुतः सृष्टां वृष्टिं—’ | ” | … |
| ‘यदा खलु वा असावादित्यः—’ | ” | … |
| ‘समानमेत दुदकं—’ | ” | … |
| ‘कृष्णं नियानं हरय—’ | ” | … |
| ‘ऋजुर्विभ्वा—’ | … | यास्कः |
| ‘ज्येष्ठ आह चमसाद्वा—’ | … | वामदेवः |
| ‘ऊमा वै पितरः प्रातस्सवन— ' | श्रुतिः | … |
| अग्निः पादौवायुः—’ | ” | … |
| ‘सुषुम्नः सूर्यरश्मिः—’ | ” | … |
| नपादित्यनन्तरायाः—’ | … | यास्कः |
| ‘समुद्रादुर्मिर्मधुमान्—’ | श्रुतिः | … |
| ’ एष इमं लोकं’ | ” | … |
| ‘एकैव व्याहृतिः’ | ” | …. |
| ‘त्वमिन्द्र शमरिणा’ | ” | … |
| ‘त्वमिन्द्र कपोताय’ | ” | … |
| ‘नदन्न भिन्नममया—’ | ” | … |
| ‘अरङ्गरेव मध्वेरयेथ’ | ” | … |
| ‘त्रिर्नोअश्विना—’ | ” | … |
| ‘एमा अश्मन् रेवतीः—’ | ” | … |
| वरुणोऽपामधिपतिः—’ | ” | … |
| आपो वै वरुणस्य—’ | ” | … |
| ‘अपो हि ष्ठा’ | … | … |
.
| वाक्यम् | ग्रन्थनाम | कर्तृनाम |
| ‘गृहानहं सुमनसः’ | … | … |
| ‘प्रवासादेत्य—’ | गृह्यसूत्रम् | आश्वलायनः |
| ‘प्रत्यक्षकृतोऽयं मन्त्रः’ | … | यास्कः |
| ‘तिस्रो द्यावो निहिता—’ | … | वसिष्ठः |
| तिस्त्र क्षेत्रपत्याः’ | … | यास्कः |
| ‘शुनासीरौ शुनो वायुः—’ | … | ” |
| ‘अथात्र प्रत्यक्षता हि —’ | … | ” |
| ‘मा चिदन्यद् विशंसत’ | … | ” |
| ‘कण्वम् अभिप्रगायत’ | … | … |
| ‘सोम ओषधीनां— ' | श्रुतिः | … |
| ‘ओषध्यात्मा—’ | ” | … |
| ‘भूतान्येवमन्तानि—’ | … | … |
| ‘गार्गी वाचक्नवी—’ | श्रुतिः⠀ | … |
| ‘वया इदग्नेऽग्नयः | … | … |
| ‘विश्वेदेवाः शारतनमा—’ | … | … |
| ‘त्वां दूतमग्ने अमृतं युगे—’ | … | वीतहव्यः |
| ‘अग्निर्वै देवानां —’ | ब्राह्मणम् | … |
| ‘अग्नौ प्रास्ताहुतिः—’ | स्मृतिः | … |
| ‘अथर्यति दक्षिणाग्नौ — ' | … | … |
| ‘ते ते प्राणान् स्परिष्यन्ति’ | … | … |
| ‘शतायुर्वैपुरुषः—’ | ब्राह्मणम् | … |
| ‘यदद्भ्योऽजायन्त —’ | श्रुतिः | … |
| ‘त्रिते देवा अमृजत—’ | ” | … |
| ‘ते देवा आप्त्येषु—’ | … | … |
| ‘तस्मानिष्कतमाः—’ | मानवम् | मनुः |
| ‘नलदमाली दक्षिणामुखः—’ | … | … |
| ‘जैह्यं पुंसि च मैथुन्यम्—’ | स्मृतिः | … |
| ‘वाच्यग्निर्मित्र उत्सर्गे—’ | मानवम् | मनुः |
| ‘सूर्यं चक्षुर्गमयताद्’ | श्रुतिः | … |
| ‘अहं वैश्वानरो भूत्वा—’ | भगवद्गीता | व्यासः |
| ‘कपोतश्चेदगारं—’ | गृह्यसूत्रम् | आश्वलायः |
| ‘दृतोरिव ते वृकमस्तु—’ | … | … |
| ‘दुहियाचिरुधि’ | … | … |
.
| वाक्यम् | ग्रन्थनाम | कर्तृनाम |
| ‘उभयाविन्नुपधेहि—’ | … | … |
| ‘यदाव्जनं त्रैककुदं —’ | … | आपस्तम्बीयाः |
| ‘सनाकःसनकश्चैव—’ | … | … |
| ‘साम्राज्यं भौज्यं—’ | … | … |
| ‘हिरण्यदा अमृतत्वं—’ | … | … |
| ‘शतानीकं सत्राजितं—’ | … | … |
| ‘पृणक् विप्रूंशंवरं—’ | … | … |
| ‘त्वमग्ने व्रतपा—’ | … | … |
| ‘दिक्ष्वतीकाशान्—’ | यजुः | … |
| ‘श्रियमिच्छेद हुताशनात्’ | … | … |
| ‘देवगृहा वै नक्षत्राणि—’ | … | … |
| ‘यद् ब्राह्मणश्चाब्राह्मणश्च—’ | … | … |
| ‘षण्मोर्वीरंहसस्पान्तु—’ | … | … |
| ‘किमिच्छन्ती सरमा’ | … | … |
| ‘भारद्वाजमयूराणां—’ | … | … |
| ‘आरोहथो वरुण—’ | … | … |
| ‘युवा स्वपा रुद्र—’ | श्रुतिः | … |
| ‘बृहस्पतिर्ह वै—’ | … | …. |
| ‘पुरोहितं यत् सुभृतं—’ | ब्राह्मणम् | … |
| ‘त्वां दूतमग्ने’ | … | … |
| ‘या च का च बलकृतिः—’ | … | नैरुक्ताः |
| ‘अथो ये अस्य—’ | श्रुतिः | … |
| ‘ओजसो जातमुत—’ | ” | … |
| ‘त्वमिन्द्र बलादधि—’ | ” | … |
| ‘द्वादशं शतम्’ | … | … |
| ‘यथा देवसेनानामग्रे—’ | … | … |
| ‘तभिद्धनेषु हितेषु—’ | श्रुतिः | तैत्तिरीयाः |
| ‘सर्वस्य वाहं मित्रमस्मि’ | … | … |
| ‘आधर्मे सिञ्च पयः— ' | … | … |
| ‘आनूनमश्विनोऋषिः’ | … | … |
| ‘यद्वा अश्विनां धुनः—’ | …. | … |
| ‘निमिषश्चिज्जवीयसे’ | श्रुतिः | … |
| ‘अनो मनस्वयं सूर्या—’ | … | … |
| ‘रासभावश्विनोः’ | निघण्टुः | … |
.
| वाक्यम् | ग्रन्थनाम | कर्तृनाम |
| ‘गर्दभरथेनाश्विनौ—’ | ब्राह्मणम् | … |
| ‘हिरण्यहस्तमश्विना—’ | … | कक्षीवान् |
| ‘दृप्तो धर्ममतिक्रामति’ | … | … |
| ‘स्थिरौ गावौ भवतां—’ | श्रुतिः | … |
| ‘वीलुम्चिदद्रिम्’ | … | … |
| ‘धुनिः शिमीवां—’ | … | … |
| ‘गोभिः प्रीणीत मत्सरम् —’ | …. | … |
| ‘ते मत् प्रातः प्रजनिष्येथे ' | … | तैत्तिरीयाः |
| ‘राजा दण्डधरो हि — ' | मानवम् | मनुः |
| ‘शरीरजैःकर्मदोषैः—’ | … | ” |
| पूषा गा अन्वेतु—’ | श्रुतिः | … |
| ‘प्राचीनवंशं विमितं—’ | ” | … |
| ‘हविर्धानं मिन्वन्ति’ | … | … |
| ‘यत्र यूपमुन्मिन्वन्ति’ | … | … |
| ‘उच्छ्वञ्च पृथिवि —’ | श्रुतिः | … |
| ‘मधुना जुहोति—’ | ” | … |
| ‘इन्द्रं वो नरः—’ | ” | … |
| ‘इमं स्वग्निं शमय’ | तैत्तिरीयकम् | … |
| “कुत्सश्च लुशश्चयुगपद्—’ | छन्दोगब्राह्मणम् | … |
| ‘रुद्राय महादेवाय’ | श्रुतिः | … |
| ‘यस्मै नमस्तस्मै त्वा—’ | ” | … |
| ‘हराय कृथाय’ | ” | … |
| ‘रुद्राय जुष्टो वर्धस्व—’ | ” | … |
| ‘यस्मै नमस्तच्छिरो धर्मो—’ | शिशुमारब्राह्मणम् | … |
| ‘शिव एको ध्येयः—’ | अथर्वशिखा | … |
| ‘शिवमिच्छन् मनुष्याणां—’ | महाभारतम् | व्यासः |
| ‘उग्नंहास्य राष्ट्रमन्यर्थ्यम्—’ | … | … |
| ‘विदेहि रुद्रो रुद्रियं—’ | … | … |
| ‘अयं श्रेष्ठ इति ज्ञात्वा—’ | महाभारतम् | व्यासः |
| ‘मानध्यो हि प्रजाः’ | ब्राह्मणम् | … |
| ‘रुद्रो वा एष यदग्निः—’ | तैत्तिरीयकब्राह्मणम् | … |
| ‘समिद्धनेषु हितेषु—’ | श्रुतिः | … |
]
-
“‘न्त्र’ ग. पाठः.” ↩︎
-
" ‘षिदै’ क., ‘षिज्ञाने चार्था’ ग. पाठः." ↩︎
-
" ‘न्त्रे’ क. पाठः" ↩︎
-
“‘नो दे’ क. पाठः” ↩︎
-
“‘श्रवमि’ख, ग, पाठः. " ↩︎
-
“‘मित्यर्थः’ क. पाठः.” ↩︎
-
“भ्यं त्वदर्थॠ’, " ↩︎
-
“‘तव एवं’क. पाठः. ३, " ↩︎
-
“‘वः गौतमः कल्पतात्’ क. पाठः” ↩︎
-
" ‘म्यो’ ग. पाठः” ↩︎
-
“‘ति श्रु’ ख. ग. पाठः.” ↩︎
-
“‘स्य की’,” ↩︎
-
“‘रजी’ ख. ग. पाठः,” ↩︎
-
“‘भिकमन्यत् समीपे’ख. ग. पाठः. " ↩︎
-
" ‘प्रजापतिः ॠ’क. पाठः” ↩︎
-
" ‘र्थः । क’,” ↩︎
-
“‘त्र। भवतीति भूः तस्मै स्वाहा’ ख.ग.पाठः” ↩︎
-
“‘आर्षे त्रि’क. पाठः” ↩︎
-
" ‘इयं सौत्री ऋक् स्यात् ।’,” ↩︎
-
“ना वादक्लृ क.ग.पाठः” ↩︎
-
" ‘नोमु ‘ख, पाठः," ↩︎
-
" ‘र’ ख. ग. पाठः, " ↩︎
-
“‘प्ति’ ग. पाठः,” ↩︎
-
" ‘व. तद् द्र’ क. पाठः" ↩︎
-
“‘स्व पृ’ख. पाठः” ↩︎
-
“‘न्तोऽपयान्त्विति प’, " ↩︎
-
“‘णं. स. क.पाठः” ↩︎
-
“‘त् प्र’ ख.पाठः” ↩︎
-
“‘को’,” ↩︎
-
“‘गाः वरु’ ख.ग.पाठः” ↩︎
-
“‘नम् । आ’,” ↩︎
-
“‘ते अ’ ख. प. पाठः” ↩︎
-
" ‘ग्नौ’ प. पाठः.” ↩︎
-
“‘त्यर्थः । शे’,” ↩︎
-
" ‘क्तिं वा’ ख.ग.पाठः" ↩︎
-
“‘स्मिन् हे’ ख.ग.पाठः” ↩︎
-
“‘येत् । सू’” ↩︎
-
“‘र्णानयनौ स’,” ↩︎
-
“‘ति सू’ ग. पाठः,” ↩︎
-
“‘च’. पाठः.” ↩︎
-
“‘ति । स’ क. पाठाः” ↩︎
-
“‘किमिति’ स्व. ग. पाठः.” ↩︎
-
“‘ति यथा । अ ख.पाठः.” ↩︎
-
“‘हा इन्द्राग्नि’ ख. ग. पाठः,” ↩︎
-
“‘तः सन् स्वि’ ख. ग. पाठः,” ↩︎
-
" ‘से’ क. पाठः" ↩︎
-
“‘जं कर्मवै,” ↩︎
-
" ‘ण्यमाधा’ ग. पाठः." ↩︎
-
“‘या तृतीयार्थेस’ ख. ग. पाठः.” ↩︎
-
“‘वन्यां पृ’ क. पाठः” ↩︎
-
" ‘प’," ↩︎
-
“‘लम्’ ख. म. पाठः” ↩︎
-
“‘मू उप च । उ’ क. पाठः.” ↩︎
-
“’ र्थ्यएषा च ’ख.ग .पाठः,” ↩︎
-
“‘वा स्वाहे’ क. पाठः.” ↩︎
-
" ‘नैव व्या’ घ. पाठः." ↩︎
-
“‘शो दे’ ख. ग. पाठः,” ↩︎
-
“‘नं तत् को’,” ↩︎
-
" ‘जुरिदम् । दू’ ख. म. पाठः." ↩︎
-
“‘प्राध्वं श्रेण ’क.पा..” ↩︎
-
“‘यमानमित्य’ ग. पाठः” ↩︎
-
“‘यमानमित्य’ ग.पाठः” ↩︎
-
“‘श्चराव्दार्थे’ ख. ग. पाठः,” ↩︎
-
“‘त्रल’ ख. ग. पाठः” ↩︎
-
“‘त्तऔपासनमि’ ख. पाठः,” ↩︎
-
“‘स्था प्र’ क. पाठः,” ↩︎
-
“‘ब्रा’ ख. पाठः,” ↩︎
-
“‘बृहस्पते’ ख. ग. पाठः.” ↩︎
-
“‘तः ॥ धाता’ क. पाठः” ↩︎
-
“‘स्मै धात्रे इत्’ क. पाठः” ↩︎
-
“‘ते एतद्’ ख.ग.पाठः” ↩︎
-
“‘कैव दे’ ख. प. पाठः,” ↩︎
-
“’ रमाकाम्यकर्म’,” ↩︎
-
“‘र्थम् । नि’ ख. गं. पाठः,” ↩︎
-
“‘ष्ट’ ख. पाठ.” ↩︎
-
" ‘के इत्यर्थ’ क. पाठः" ↩︎
-
" ‘णोबा ख. ग. पाठः." ↩︎
-
“‘पी’ ख. ग. पाठः” ↩︎
-
“‘षं भक्षर्य’ क. पाठः.” ↩︎
-
“‘भीतोपवमिति’ख. ग. पाठः.” ↩︎
-
" ‘र्थः । किञ्च’ स्व. ग. पाठः." ↩︎
-
“‘न्त्रः । वाम’ क. पाठः,” ↩︎
-
" ‘मभ्यस्तं सु’ ख. ग. पाठः. " ↩︎
-
“‘उत्पन्नानां’,” ↩︎
-
“‘षः । अथवा’ ख ग. पाठः. " ↩︎
-
“‘वा । हस्थात्’, " ↩︎
-
“‘सि हृदयाश्च भ’ क. पाठः” ↩︎
-
" ‘क्षस्वैनं’ ख. ग. पाठः” ↩︎
-
“‘न्य’,.” ↩︎
-
“‘र्मकार’,” ↩︎
-
“‘मः ।व’, " ↩︎
-
“‘भिरिति’,” ↩︎
-
“भिःस्तृष्टभिरित्यर्थः ।’ख.ग. पाठः.” ↩︎
-
“‘दव्या’, " ↩︎
-
“‘त्यर्थः ।’,” ↩︎
-
“‘कमि’ ख. ग. पाठः.” ↩︎
-
“‘वक्ष्यायुर्थी’क. पाठः.” ↩︎
-
" ‘यहस्ताभ्यां’ स्व. ग. पाठः.” ↩︎
-
“‘क एवाभि’ ख. पाठः” ↩︎
-
“‘ति वामदेवार्षम् ।माणवक एवाभिधेयःहे’,” ↩︎
-
" ‘धमिति’,” ↩︎
-
" ‘जुरिदम्’,” ↩︎
-
“‘मिं अग्नेः’ पं. ग. पाठः.” ↩︎
-
“‘ना’, " ↩︎
-
" ‘बृ’ क. पाठः.” ↩︎
-
" ‘त्र्युपनयने व्या’," ↩︎
-
" ‘देवा वै ब्रह्मपदमबदन्तः । तत् पर्ण शृवाणोत्’" ↩︎
-
“भोजनस्य’,” ↩︎
-
“‘र्थज्ञाता च’ ख. ग. पाठः.” ↩︎
-
“‘मन्यस्य म’ क पाठः.” ↩︎
-
“‘वामदेवः अति जगति शक्वरी वा । अग्निर्देवता’, " ↩︎
-
“‘दीप्तिरित्यर्थः’ क.पाठः.” ↩︎
-
“‘ये’, " ↩︎
-
“‘धयतिर्दा’ ख. ग. पाठः,” ↩︎
-
“‘ति अग्नेःप्राधान्यम्’ क. पाठः " ↩︎
-
“‘भेदपक्षे’ख. ग. पाठ..” ↩︎
-
“‘त्यन्तं हृष्यतीति हृष्यन्’ ख. पाठः.” ↩︎
-
" ‘स्वाहा व्या’ ख. ग. पाठः.” ↩︎
-
" ‘काहुक. पाठः.” ↩︎
-
“‘षु व्रतानां’क. पाठः” ↩︎
-
“पृष्ठं सन्धाय’ ख. ग. पाठः.” ↩︎
-
“‘वता वा’क. पाठः” ↩︎
-
“‘ईक्षेतेत्य’ ख. ग. पाठः” ↩︎
-
" ‘नं ? उतूपिसुभिर्भया’ क, पाठः,” ↩︎
-
“‘रा ।यावन्मात्रमित्युत्तमा । अ’ ख. ग. पाठः” ↩︎
-
“‘म’ खपाठः.” ↩︎
-
“‘णमाख्यातमनु’, ‘ख.ग. पाठः” ↩︎
-
“‘षाः। व’,” ↩︎
-
" ‘इत्यचोद्य’ क. पाठः." ↩︎
-
“‘या इत्याभिप्रायः’ ख. ग. पाठः.” ↩︎
-
“‘म’ ख.ग, पाठः.” ↩︎
-
" ‘ण’ ग. पाठः." ↩︎
-
“‘बलिष्ठाभि्’ ख . ग. पाठः” ↩︎
-
“‘त्पित्सूनां रोगादीनां भ’, " ↩︎
-
" ‘त्रा न अग्नित्राःअन’ घ. पाठः.” ↩︎
-
“‘माभ’ ख. पाठः.” ↩︎
-
“‘पेवि’,” ↩︎
-
“‘णामवलग्नं दु’,” ↩︎
-
“वताश्चा’ घ. पाठः.” ↩︎
-
“‘भ्यः पा’ ख. पाठः.” ↩︎
-
“‘भगव’ स्व. ग. पाठः” ↩︎
-
“‘न्ते । ख.ग.पाठः” ↩︎
-
“‘त् । पृ’ ख.ग.पाठः” ↩︎
-
“‘त्यो देवता । हे’ घ.द्व.पाठः” ↩︎
-
“‘त्र्यः स्थ’ ख.पाठः” ↩︎
-
“‘गते प्रा’” ↩︎
-
“‘रा मनु’ ङ.पाठः” ↩︎
-
“‘स्य भ’ ख.ग.पाठः” ↩︎
-
“‘तज’ ग.पाठः” ↩︎
-
“‘वत् त्वा’ क. पाठः” ↩︎
-
“‘म ह्वृ’ घ.पाठः” ↩︎
-
" ‘वा’ घ. पाठः." ↩︎
-
“‘चम् । ष’,ङ.पाठः. " ↩︎
-
“णं तदुभयम’ ङ. पाठः.” ↩︎
-
" ‘हाकाशप्रतिमः’ ख. ग. पाठः” ↩︎
-
" ‘ति च । विह’ घ.ङ. पाठः." ↩︎
-
“‘ग्र’ घ. पाठः,” ↩︎
-
“‘ग’ घ. पाठः.” ↩︎
-
“‘न्तीत्यत्र’ ख.ग.पाठः” ↩︎
-
“‘वा पिता स्व’ घ.ङ. पाठः” ↩︎
-
“‘शः–मृत्युमिति ’ ङ. पाठः.” ↩︎
-
" ‘ल’ ख. पाठः." ↩︎
-
“‘देवाः गा’ क.पाठः” ↩︎
-
“‘स्य च नि’ घ, पाठः.” ↩︎
-
“‘देऽपि के’ घ. पाठः.” ↩︎
-
“‘क्ष्य ते इ’ ख.ग.पाठः” ↩︎
-
“‘सर्वापे’ ख.पाठः” ↩︎
-
“‘अष्टमीं वाचयति’ घ.ङ.पाठः” ↩︎
-
“‘रोहितः बृ’ घ.पाठः” ↩︎
-
“‘त्वी । त्वान्तादिभिः । कृत्वा’ ख.ग.पाठः” ↩︎
-
“‘अथैनं -सौपर्णैः । आ’ घ.ङ.पाठः” ↩︎
-
" ‘थेत्यादि । आ’ ख. पाठः," ↩︎
-
“‘लं ब’ ख. ग. पाठः.” ↩︎
-
“‘तु य’,” ↩︎
-
“‘न्तः य’ घ. ङ. पाठः.” ↩︎
-
" ‘या’," ↩︎
-
“यान्तीति’ ख. ग. पाठः.” ↩︎
-
“‘वन् ! इन्द्र ’ घ.ङ. पाठः” ↩︎
-
“‘हार्या अ’ क.पाठः” ↩︎
-
“‘स्य म’ ङ.पाठः” ↩︎
-
" ‘तु बेधाः’ ख. पाठः." ↩︎
-
“‘वभक्षे भ’ ख.ग.पाठः” ↩︎
-
“‘के श्रीभिर्युक्तः श्री’ ख.ग.पाठः” ↩︎
-
“‘के दे’ ख.ग.पाठः” ↩︎
-
“‘ष्टे च’ ख.ग.पाठः” ↩︎
-
“‘शान्’ ख.ग.पाठः” ↩︎
-
“‘ह्वयताम्’ ग., ‘ह्वयेताम्’ घ.पाठः” ↩︎
-
“‘योर्लब्धबद्ध’ ख.पाठः” ↩︎
-
“‘त’ ख. पाठः.” ↩︎
-
“‘ति गतः । रो’ क.पाठः” ↩︎
-
“‘बाधयितारः’ ख.ग.पाठः” ↩︎
-
“‘भ्रा’ घ.पाठः” ↩︎
-
" ‘यम् । इति भरतमिश्रविरचिता मन्त्रव्याख्या ॥’ क. पाठः." ↩︎
-
“‘न्त्रवृत्तौ व’ ग. ध, पाठः,” ↩︎