००५

(V अध्याय, अनुक्रमणी)
ओम् < सञ्ज्ञानम् > पञ्च कश्यपस् सञ्ज्ञानश् शम्युर् उत्तमा साशीश् शक्वरी सर्वत्र < नैर्हस्त्यम् > तृचम् निर्हस्त्य सपत्नघ्नम् सेना दरणम् आनुष्टुभम् बृहती मध्यम् < प्र > सप्त कश्यपो जमदग्निर् उत्तमा शम्युर् आद्याग्नेयी गायत्री द्वितीयोपोत्तमाशीः पाङ्क्त्यम् तृतीयाक्षर स्तुतिस् सानुष्टुप् चतुर्थी सौमी पञ्चमी सौरी < विदा > दश पादाश् च पञ्च विश्वामित्रेन्द्रो वा प्रजापतिर् ऐन्द्रम् पावनम् आनुष्टुभम् पुरीष पदान्य् आग्नेय वैष्नवाइन्
द्र पौष्ण दैवानि वैराजानि द्वितीया पञ्चम्याव् उष्णिहौ चतुर्थी न्यङ्कुसारिणी सप्तमी पुरस्ताद् बृहती नवम्य् अन्त्ये पङ्क्ती < अग्निर् > एकादश लिङ्गोक्त देवतम् यजूंषि
< वायुस् > सप्त प्रउगेणोक्त दैवतम् गायत्रम् षष्ठी शक्वरी याजुषाणि पञ्च < होता > द्वादश वसिष्ठो वा प्रैष सूक्तान्य् आद्यम् आप्रियम् परम् लिङ्गोक्त देवतम् अनिरुक्तम् स्वयज्ञोक्त देवतम् अन्यत् प्रोक्तम् < अजैद् > एकादश सप्तमी नवम्यौ त्रिष्टुभौ < देवम् होता > अष्टादश < होता > द्वादश < इदम् > तृचम् वसिष्ठ वामदेवौ कुन्तापौ द्विबृहत्याव् अनुष्टुब् < वच्यस्वर् > आनुष्टुब् अन्तम् राज्ञश् चतुष्कम् < इन्द्रः > पङ्क्त्य् अन्तम् < यः > पञ्च < यष् षड्
यत् > पञ्चैता द्व्यूनाइतशो मुनिष् षष्ट्य् अष्टम्याव् उष्णुहाव् अन्त्या द्विपदा यजूंषि वा चत्वारि
< विततौ > षड् आनुष्टुभम् < इहेत्थ > चतुष्कम् द्विपदम् < भुग् > एकपादा निचृद् < वि > इमेऽनुष्टुब् < आदित्याः > पञ्च जगती त्रिष्टुब् उपरिष्टाद् बृहती पुरस्ताद् बृहती द्विपदा यजुर् वा < त्वम् > तृचम् आनुष्टुभम् तु < यद् > दश होतृ प्रतिगरित्रोस् संवादो नाक पृत्सु जगत्य् आद्या जगत्य् आद्या ॥

5.1
सञ्ज्ञानम् उशनावदत् सञ्ज्ञानम् वरुणो वदत् ।
सञ्ज्ञामम् इन्द्रश् चाग्निश् च सञ्ज्ञानम् सविता वदत् ।१
सञ्ज्ञानम् नस् स्वेभ्यस् सञ्ज्ञानम् अरणेभ्यः ।
सञ्ज्ञानम् आश्विन युवम् इहास्मासु नियच्छताम् ।२
यत् कक्षीवान् संवननम् पुत्रो अङ्गिरसाम् अवेत् ।
तेन नो अद्य विश्वे देवास् सम् प्रियाम् सम् अवीवनम् ।३
सम् वो मनांसि जानताम् सम् आकूतिम् मनामसि ।
असौ यो विमना जनस् तम् समावर्तयामसि । ४
तत् शम्योर् आवृणीमहे गातुम् यज्ञाय गातुम् यज्ञ पतये दैवी स्वस्तिर् अस्तु नस् स्वस्तिर् मानुषेभ्यः ।
ऊर्ध्वम् जिगातु भेषजम् शम् नो अस्तु द्विपदे शम् चतुष्पदे ॥५(प् १३२)
5.2
नैर्हस्त्यम् सेना दरणम् परि वर्त्मेव यद्द् हविः ।
तेनामित्राणाम् बाहून् हविषा शोषयामसि ।१
परि वर्त्मान्य् एषाम् इन्द्रः पूषा च चक्रतुः ।
तेषाम् वो अग्नि दग्धानाम् अग्नि गूढानाम् इन्द्रो हन्तु वरम् वरम् ।२
ऐषु नह्य विषादनम् हरिणस्य धियम् यथा ।
परान् अमित्रान् ऐषत्व् अर्वाची गौर् उपेजतु ॥३२
5.3
प्राध्वराणाम् पते वसो होतर् वरेण्य क्रतो ।
तुभ्यम् गायत्रम् ऋच्यते ।१
गो कामो अन्न कामः प्रजा कामोत कश्यपः ।
भूतम् भविष्यत् प्रस्तौति महद् ब्रह्मैकम् अक्षरम् बहु ब्रह्मैकम् अक्षरम् ।२
यद् अक्षरम् भूतकृतो विश्वे देवोपासते ।
महर्षिम् अस्य गोप्तारम् जमदग्निम् अकुर्वत ।३
जमदग्निर् आप्यायते छन्दोभिश् चतुर् उत्तरैः ।(प् १३३)
राज्ञस् सोमस्य भक्षेण ब्रह्मणा वीर्यवताम् शिवा नः प्रदिशो दिशः । ४
अजो यत् तेजो ददृशे शुक्रम् ज्योतिः परो गुहा ।
तद् ऋषिः कश्यप स्तौति सत्यम् ब्रह्म चराचरम् ध्रुवम् ब्रह्म चराचरम् ।५
त्र्यायुषम् जमदग्नेः कश्यपस्य त्र्यायुषम् ।
अगस्त्यस्य त्र्यायुषम् यद् देवानाम् त्र्यायुषम् तन् नो अस्तु त्र्यायुषम् ।६
तत् शम्योर् आवृणीमहे गातुम् यज्ञाय गातुम् यज्ञ पतये दैवी स्वस्तिर् अस्तु नस् स्वस्तिर् मानुषेभ्यः ।
ऊर्ध्वम् जिगातु भेषजम् शम् नो अस्तु द्विपदे शम् चतुष्पदे ॥७३
5.4
विदा मघवन् विदा गातुम् अनु शंसिषो दिशः ।
शिक्षा शचीनाम् पते पूर्वीणाम् पुरूवसो ।१(प् १३४)
आभिष् ट्वम् अभिष्टिभिः प्रचेतन प्रचेतय ।
इन्द्र द्युम्नाय नेषैवा हि शक्रः ।२
राये वाजाय वज्रिवश् शविष्ठ वज्रिन् ऋञ्जसे ।
मन्हिष्ठ वज्रिन् ऋञ्जसायाहि पिब मत्स्व । ३
विदा राये सुवीर्यम् भुवो वाजानाम् पतिर् वशाम् अनु ।
मन्हिष्ठ वज्रिन् ऋञ्जसे यश् शविष्ठस् शूराणाम् ।४
यो मन्हिष्ठो मघोनाम् चिकित्वो अभि नो नय ।
इन्द्रो विदे तम् उ स्तुषे वशी हि शक्रः ॥५
तम् ऊतये हवामहे जेतारम् अपराजितम् ।
स नः पर्षद् अतिद्विषस् क्रतुश् छन्दर्तम् बृहत् ।६
इन्द्रम् धनस्य सातये हवामहे जेतारम् अपराजितम् ।
स नः पर्षद् अतिद्विषस् स नः पर्षद् अतिस्रिधः ।७
पूर्वस्य यत् तेऽद्रिवस् सुम्नाधेहि नो वसो ।
पूर्तिश् शविष्ठ शश्वतेशे हि शक्रः ।८
नूनम् तम् नव्यम् मन्यसे प्रभो जनस्य वृत्रहन् ।
सम् अन्येषु ब्रवावहै शूरो यो गोषु गच्छति सखा सुशेवो अद्वयाः ॥९
एवा ह्य् एवैवा ह्य् अग्ने ।एवा ह्य् एवैवा हि विष्णो ।
एवा ह्य् एवैवा हीन्द्र ।एवा ह्य् एवैवा हि पूषन् ।
एवा ह्य् एवैवा हि देवाः । १०
एवा हि शक्रो वशी हि शक्रो वशाम् अनु ।
आयो मन्याय मन्यवोपो मन्याय मन्यवोपेहि विश्वथ ॥११(प् १३५)