ईई आध्याय
( Kहिल, ईई आनुक् )
ओम् < मा > एका < भद्रम् > पञ्चानुष्टुभो < जागर्ष्य् > एका जातवेदस्यम् < स्वस्त्ययनम् > द्वे < वर्षन्त्व् > एका < हिरण्य वर्णाम् > एकोना श्रीर् भार्गवी श्रीर् अलक्ष्मीघ्नम् श्रैयम् आनुष्टुभम् वै शक्वर्य् अन्तम् हिंसाग्नेयी चतुर्थी प्रस्तार पङ्क्तिस् त्रिष्टुभौ पञ्चदश्य् उपरिष्टाद् बृहती श्रीः पुत्राः परे षट् < चिक्लीतः > पञ्चानन्द कर्दमौ वैश्वदेवम् < मयि श्लेषश् > श्लेषो जातवेदस्यम् बृहत्य् आदि < संस्रवन्त्व् > इति संस्रवान् वैश्वदेवम् द्वितीयादि त्रि
ष्टुभाव् < आ ते > सप्त प्रजावान् गर्भार्थाशी स्तुतिः प्रजापतिर् ऐन्द्रवायव्यौ चतुर्थी बृहती पञ्चमी प्रस्तार पङ्क्तिर्
< अग्निः > पञ्च जीव पुत्राग्नि वारुणम् अतिजगत्य् आनुष्टुप् त्रिष्टुब् अन्तम् < चक्षुर् > एकात्म स्तुतिश् < शंवती > षट् शान्तिर् आनुष्टुभम् पञ्चम्य् आदि बृहती जगत्यौ < स्वप्न > एका < यस्योप > अनुष्टुब् वालखिल्याः परेष्टौ ॥
२,१ १ मा बिभेर् न मरिष्यसि परि त्वा पामि सर्वतः ।
२,१ १ घनेन हन्मि वृश्चिकम् अहिम् दण्डेनागतम् ।
२,१ १ त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिः ॥१ ( प् ६९ )
२,१ २ आदित्य रथ वेगेन विष्णोर् बाहु बलेन च ।
२,१ २ गरुड पक्ष निपातेन भूमिम् गच्छ महा यशाः ।
२,१ ३ गरुडस्य जात मात्रेण त्रयो लोकाः प्रकम्पिताः ।
२,१ ३ प्रकम्पिता मही सर्वा सशैल वन कानना ।
२,१ ४ गगनम् नष्ट चन्द्रार्कम् ज्योतिषम् न प्रकाशते ।
२,१ ४ देवता भय भीताश् च मारुतो न प्लवायति मारुतो न प्लवायत्य् ओम् नमः ।
२,१ ५ भो सर्प भद्र भद्रम् ते दूरम् गच्छ महा यशाः ।
२,१ ५ जनमेजयस्य यज्ञान्ते आस्तीक वचनम् स्मर ।
२,१ ६ आस्तीक वचनम् श्रुत्वा यः सर्पो न निवर्तते ।
२,१ ६ शतधा भिद्यते मूर्ध्नि शिंश वृक्ष फलम् यथा ।
२,१ ७ अगस्त्यो माधवश् चैव मुचुकुन्दो ( मुचुकुन्दो ) महा मुनिः ।
२,१ ७ कपिलो मुनिर् आस्तीकः पञ्चैते सुख शायिनः ।
२,१ ८ नर्मदायै नमः प्रातर् नर्मदायै नमो निशि ।
२,१ ८ नमो अस्तु नर्मदे तुभ्यम् त्राहि माम् विष सर्पतः ।
२,१ ९ यो जरत्कारुणा जातो जरत् कन्याम् महा यशाः ।
२,१ ९ तस्य सर्पो अपि भद्रम् ते दूरम् गच्छ महा यशाः ।
२,१ ९ तस्य सर्पस्य सर्पत्वम् तस्मै सर्प नमो अस्तु ते । ( प् ७० )
२,२ १ भद्रम् वद दक्षिणतो भद्रम् उत्तरतो वद ।
२,२ १ भद्रम् पुरस्तान् नो वद भद्रम् पश्चात् कपिञ्जल ।
२,२ २ भद्रम् वद पुत्रैर् भद्रम् वद गृहेषु च ।
२,२ २ भद्रम् अस्माकम् वद भद्रम् नो अभयम् वद ।
२,२ ३ भद्रम् अधस्तान् नो वद भद्रम् उपरिष्टान् नो वद ।
२,२ ३ भद्रम् भद्रम् नावद भद्रम् नस् सर्वतो वद ।
२,२ ४ असपत्नम् पुरस्तान् नश् शिवम् दक्षिणतस् कृधि ।
२,२ ४ अभयम् सततम् पश्चाद् भद्रम् उत्तरतो गृहे ।
२,२ ५ यौवनानि महयसि जिग्युषाम् इव दुन्दुभिः ।
२,२ ५ शकुन्तक प्रकक्षिणम् शत पत्राभि नो वद ।
२,२ ५ आवदंस् त्वम् शकुने भद्रम् आ वद ॥२ ( प् ७१ )
२,३ १ जागर्षि त्वम् भुवने जातवेदो जागर्षि यत्र यजते हविष्मान् ।
२,३ १ इदम् हविश् श्रद्दधानो जुहोमि तेन पासि गुह्यम् नाम गोनाम् ।
२,३ १ विदा दिवो विष्यन्न् अद्रिम् उक्थैः ॥३
२,४ १ स्वस्त्ययनम् तार्क्ष्यम् अरिष्टनेमिम् महद् भूतम् वायसम् देवतानाम् ।
२,४ १ असुरघ्नम् इन्द्र सखम् समत्सु बृहद् यशो नावम् इवारुहेम ।
२,४ २ अंहो मुचम् आङ्गिरसम् गयम् च स्वस्त्य् आत्रेयम् मनसा च तार्क्ष्यम् । ( प् ७१ )
२,४ २ प्रयत पाणिश् शरणम् प्रपद्ये स्वस्ति सम्बाधेष्व् अभयन् नो अस्तु ।
२,४ २ प्र श्यावाश्व धृष्णुया ॥
२,५ १ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
२,५ १ रोहन्तु सर्व बीजान्य् अव ब्रह्म द्विषो जहि ।
२,५ १ प्र संराजे बृहदर्चा गभीरम् ॥५
२,६ १ हिरण्य वर्णाम् हरिणीम् सुवर्ण रजत स्रजाम् ।
२,६ १ चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह ।
२,६ २ ताम् मावह जातवेदो लक्ष्मीम् अनपगामिनीम् ।
२,६ २ यस्याम् हिरण्यम् विन्देयम् गाम् अश्वम् पुरुषान् अहम् ।
२,६ ३ अश्व पूर्वाम् रथ मध्याम् हस्ति नाद प्रमोदिनीम् ।
२,६ ३ श्रियम् देवीम् उपह्वये श्रीर् मा देवी जुषताम् ।
२,६ ४ कांस्य् अस्मि ताम् हिरण्य प्रवाराम् अर्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् ।
२,६ ४ पद्मेस्तिथाम् पद्म वर्णाम् ताम् इहोपह्वये श्रियम् ।
२,६ ५ चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देव जुष्टाम् उदाराम् ।
२,६ ५ तम् पद्म नेमिम् शरणम् प्रपद्येऽलक्ष्मीर् मे नश्यताम् त्वाम् वृणोमि ॥६
२,६ ६ आदित्य वर्णे तपसो अधिजातो वनस्पतिस् तव वृक्षो अथ बिल्वः ।
२,६ ६ तस्य फलानि तपसा नुदन्तु मायान्तरा याश् च बाह्यालक्ष्मीः । ( प् ७२ )
२,६ ७ उपैतु माम् देव सखः कीर्तिश् च मणिना सह ।
२,६ ७ प्रादुर् भूतो अस्मि राष्ट्रेऽस्मिन् कीर्तिम् वृद्धिम् ददातु मे ।
२,६ ८ क्षुत् पिपासा मला ज्येष्ठाम् अलक्ष्मीन् नाशयाम्य् अहम् ।
२,६ ८ अभूतिम् असमृद्धिम् च सर्वान् निर्णुद मे गृहात् ।
२,६ ९ गन्ध द्वाराम् दुराधर्षाम् नित्य पुष्टाम् करीषिणीम् ।
२,६ ९ ईश्वरीम् सर्व भूतानाम् ताम् इहोपह्वये श्रियम् ।
२,६ १० मनसः कामम् आकूतिम् वाचस् सत्यम् अशीमहि ।
२,६ १० पशूनाम् रूपम् अन्नस्य मयि श्रीश् श्रयताम् यशः ।
२,६ ११ कर्दमेन प्रजा भूता मयि सम्भव कर्दम ।
२,६ ११ श्रियम् वासय मे कुले मातरम् पद्म मालिनीम् ।
२,६ १२ आप स्रवन्तु स्निग्धानि चिक्लीता वस मे गृहे ।
२,६ १२ नि च देवीम् मातरम् श्रियम् वासय मे गृहे ।
२,६ १३ पक्वाम् पुष्करिणीम् पुष्टाम् पिङ्गलाम् पद्म मालिनीम् ।
२,६ १३ सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह ।
२,६ १४ आर्द्रम् पुष्करिणीम् यष्टीम् सुवर्णाम् हेम मालिनीम् ।
२,६ १४ चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह ।
२,६ १५ ताम् मावह जातवेदो लक्ष्मीम् अनपगामिनीम् ।
२,६ १५ यस्याम् हिरण्यम् प्रभूतम् गावो दास्यो विन्देयम् पुरुषान् अहम् ॥८
२,६ १६ यानन्दम् समाविशद् उपाधावन् विभावसुम् ।
२,६ १६ श्रियस् सर्वोपासिष्व चिक्लीत वस मे गृहे ।
२,६ १७ कर्दमेन प्रजा स्रष्टा सम्भूतिम् गमयामसि ।
२,६ १७ अदधाद् उपागाद् येषाम् कामान् ससृज्महे ।
२,६ १८ जातवेदः पुनीहि मा रायस् पोषम् च धारय ।
२,६ १८ अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अंहसः ।
२,६ १९ अच्छा नो मित्रमहो देव देवान् अग्ने वोचस् सुमतिम् रोदस्योः ।
२,६ १९ वीहि स्वस्तिम् सुक्षितिम् दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ।९ ( प् ७३ )
२,६ १६ यः शुचिः प्रयतो भूत्वा जुहुयाद् आज्यम् अन्वहम् ।
२,६ १६ सूक्तम् पञ्चदशर्चम् च श्री कामः सततम् जपेत् ।
२,६ १७ पद्मानने पद्मोरू पद्माक्षी पद्म संहवे ।
२,६ १७ तन् मे भजसि पद्माक्षी येन सौख्यम् लभाम्य् अहम् ।
२,६ १८ अश्वदायै गोदायै धनदायै महा धने ।
२,६ १८ धनम् मे जुषताम् देवि सर्व कामांश् च देहि मे ।
२,६ १९ पुत्र पौत्रम् धनम् धान्यम् हस्त्य् अश्वादि गवे रथम् ।
२,६ १९ प्रजानाम् भवसि मातायुष्मन्तम् करोतु मे ।
२,६ २० धनम् अग्निर् धनम् वायुर् धनम् सूर्यो धनम् वसुः ।
२,६ २० धनम् इन्द्रो बृहस्पतिर् वरुणम् धनम् उत्सृजे ।
२,६ २१ वैनतेय सोमम् पिब सोमम् पिबतु वृत्रहा ।
२,६ २१ सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः ।
२,६ २२ न क्रोधो न च मात्सर्यम् न लोभो नाशुभा मतिः ।
२,६ २२ भवन्ति कृत पुण्यानाम् भक्तानाम् श्री सूक्तम् जपेत् ।
२,६ २३ सरसिज निलये सरोज हस्ते धवलतराम् शुभ गन्ध माल्य शोभे ।
२,६ २३ भगवति हरि वल्लभे मनोज्ञे त्रिभुवन भूति करि प्रसीद मह्यम् । ( प् ७७ )
२,६ २४ श्री वर्चस्वम् आयुष्यम् आरोग्यम् आविधात् शुभमानम् महीयते ।
२,६ २४ धान्यम् धनम् पशुम् बहु पुत्र लाभम् शत संवत्सरम् दीर्घम् आयुः ।
२,६ २५ विष्णु पत्नीम् क्षमाम् देवीम् माधवीम् माधव प्रियाम् ।
२,६ २५ लक्ष्मीम् प्रिय सखीम् देवीम् नमान्य् अच्युत वल्लभाम् ।
२,६ २६ महा लक्ष्मी च विद्महे विष्णु पत्नी च धीमहि ।
२,६ २६ तन् नो लक्ष्मीः प्रचोदयात् ।
२,६ २७ पद्मानने पद्मिनि पद्म पत्रे पद्म प्रिये पद्म दलायताक्षि ।
२,६ २७ विश्व प्रिये विश्व मनो अनुकूले त्वत् पाद पद्मम् हृदि सन्निधत्स्व ।
२,६ २८ आनन्दः कर्दमः श्रीतस् चिक्लीतेव विश्रितः ।
२,६ २८ ऋषयश् श्रियः पुत्राश् च श्रीर् देवी देव देवता । ( प् ७८ )
२,६ २९ ऋण रोगादि दारिद्र्यम् पाप क्षुद् अपमृत्यवः ।
२,६ २९ भयः शोक मनस् तापा नश्यन्तु मम सर्वदा ।
२,६ २३ चन्द्राभम् लक्ष्मीम् ईशानाम् सूर्याभम् श्रियम् ऐश्वरीम् ।
२,६ २३ चन्द्र सूर्याग्नि वर्णाभाम् महा लक्ष्मीम् उपास्महे ।
२,६ २४ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
२,६ २४ रोहन्तु सर्व बीजान्य् अव ब्रह्म द्विषो जहि ।
२,६ २५ पद्म प्रिये पद्मिनि पद्म हस्ते पद्मानने ।
२,६ २५ विश्व प्रिये विष्णु मनो अनुकूले त्वत् पाद पद्मम् मयि सन्निधत्स्व ।
२,६ २६ या सा पद्मासनस्था विपुल कटि तटी पद्म पत्रायताक्षी गम्भीरा ।
२,६ २६ वर्त नाभि स्तन भर नमिता शुभ्र वस्त्रोत्तरीया ।
२,६ २७ लक्ष्मीर् दिव्यैर् गजेन्द्रैर् मणि गण खचितै स्नापिता हेम कुम्भैः ।
२,६ २७ नित्यम् सा पद्म हस्ता मम वसतु गृहे सर्व माङ्गल्य युक्ता ।
२,६ २८ सिद्ध लक्ष्मीर् मोक्ष लक्ष्मीर् जय लक्ष्मीः सरस्वती ।
२,६ २८ श्रीर् लक्ष्मीर् वर लक्ष्मीश् च प्रसन्ना मम सर्वदा ।
२,६ २९ वराम् कुशा पाशम् अभीतिम् उद्राम् करैर् वहन्ती कमलासनस्थाम् ।
२,६ २९ बालार्क कोटि प्रतिभाम् त्रिनेत्राम् भजेऽहम् आद्याम् जगद् ईश्वरीम् ताम् ।
२,६ ३० सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।
२,६ ३० शरधये त्र्यम्बके गौरी नारायणि नमो अस्तु ते । ( प् ७९ )
२,७ १ चिक्लीतो यस्य नाम तद् दिव नक्तम् च सुक्रतो ।
२,७ १ अस्मान् दीदास युज्याय जीवसे जातवेदः पुनन्तु माम् देव जनाः ।
२,७ २ पुनन्तु मनसा धियः पुनन्तु विश्वा भूतानि ।
२,७ २ जातवेदो यद् अस्तुतम् ।
२,७ ३ विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ।
२,७ ३ सम्भूतास्माकम् वीरा ध्रुवा ध्रुवेशु तिष्ठति ।
२,७ ४ ध्रुवा द्यौर् ध्रुवा पृथिवी ध्रुवा ध्रुवेषु तिष्ठति ।
२,७ ४ अग्नेऽच्छा यद् अस्तुतम् रायस् पोषम् च धारय ।
२,७ ५ अच्छा नो मित्र महो देव देवान् अग्ने वोचस् सुमतिम् रोदस्योः ।
२,७ ५ वीहि स्वस्तिम् सुक्षितिम् दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥१०
२,८ १ मयि श्लेषो मा वधीः प्र संराजम् च सुक्रतो ।
२,८ १ अस्मान् पृणीष्व युज्याय जीवसे जातवेदः पुनीहि मा ।
२,८ २ मर्तो यो नो दिदासत्य् अधिरथा न नीनशत् ।
२,८ २ दविध्वतो विभावसो जागारम् उत ते धियम् ।
२,८ ३ अनमीवा भवन्त्व् अघ्न्या सु सन् गर्भो विमोचतु ।
२,८ ३ अरातीयन्ति ये केचित् सूरयश् चाभि मज्मना ।
२,८ ४ रायस् पोषम् विधारय जातवेदः पुनीहि मा ।
२,८ ४ उस्रा भवन्तु नो मयो बह्वीर् गोष्ठे घृताच्यः ।
२,८ ५ अच्छा नो मित्रमहो देव देवान् अग्ने वोचस् सुमतिम् रोदस्योः ।
२,८ ५ वीहि स्वस्तिम् सुक्षितिम् दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥११ ( प् ८० )
२,९ १ संस्रवन्तु मरुतस् सम् अश्वास् उ पूरुषाः ।
२,९ १ सम् धान्यस्य या स्फातिस् संस्राव्येण हविषा जुहोमि ।
२,९ २ एह यन्ति पशवो ये परेयुर् वायुर् येषाम् सहचाराम् जुजोष ।
२,९ २ त्वष्टा येषाम् रूप धेयानि वेदास्मिंस् ताम् लोके सविताभिरक्षतु ।
२,९ ३ इमम् गोष्ठम् पशवस् संस्रवन्तु बृहस्पतिर् आनयतु प्रजानन् ।
२,९ ३ सिनीवाली नयत्य् अग्रैषाम् आजग्मुषो अनुमते नियच्छ ।
२,९ ४ संसिञ्चामि गवाम् क्षीरम् सम् आज्येन बलम् रसम् ।
२,९ ४ संसिक्तास्माकम् वीरा ध्रुवा गावस् सन्तु गोपतौ ।
२,९ ५ आहरामि गवाम् क्षीरम् आहरामि धान्यम् रसम् ।
२,९ ५ आहृतास्माकम् वीरा पत्नीर् इदम् अस्तकम् ॥१२
२,१० १ आ ते गर्भो योनिम् एतु पुमान् बाणेवेषुधिम् ।
२,१० १ आ वीरो अत्र जायताम् पुत्रस् ते दश मास्यः ।
२,१० २ करोमि ते प्राजापत्यम् आ गर्भो योनिम् एतु ते ।
२,१० २ अनूनः पूर्णो जायताम् अनन्धो अश्रोणो अपिशाच धीतः । ( प् ८१ )
२,१० ३ पुमांस् ते पुत्रो जायताम् पुमान् अनुजायताम् ।
२,१० ३ यानि भद्राणि बीजान्य् ऋषभा जनयन्ति नः ।
२,१० ४ तानि भद्राणि बीजान्य् ऋषभा जनयन्तु ते ।
२,१० ४ तैस् त्वम् पुत्रम् जनयेस् स जायताम् वीरतमस् स्वानाम् ।
२,१० ५ यो वशायाम् गर्भो यो अपि वेहतीन्द्रस् तन् निदधे वनस्पतौ ।
२,१० ५ तैस् त्वम् पुत्रान् विन्दस्व सा प्रसूर् धेनुका भव ।
२,१० ६ सम् वो मनांसि जानाताम् सम् नभिस् सम् ततो असत् ।
२,१० ६ सम् त्वा कामस्य योक्त्रेण युञ्जान्य् अविमोचनाय ।
२,१० ७ कामस् समृध्यताम् मह्यम् अपराजितम् एव मे ।
२,१० ७ यम् कामम् कामये देव तम् मे वायो समर्धय ॥१३ ( प् ८२ )
२,११ १ अग्निर् एतु प्रथमो देवतानाम् सो स्याः प्रजाम् मुञ्चतु मृत्यु पाशात् ।
२,११ १ तद् अयम् राजा वरुणो अनुमन्यताम् यथेयम् स्त्री पौत्रम् अघन् न रोदीत् ।
२,११ २ इमाम् अग्निस् त्रायताम् गार्हस्पत्यः प्रजाम् अस्यै तिरतु दीर्घम् आयुः ।
२,११ २ अशून्योपस्था जीवताम् अस्तु माता पौत्रम् आनन्दम् अभि विबुध्यताम् इयम् ।
२,११ ३ मा ते गृहे निशि घोरोत्थाद् अन्यत्र त्वद् रुदत्यस् संविशन्तु ।
२,११ ३ मा त्वम् विकेश्य् उरावधिष्ठा जीव पुत्रा पति लोके विराज प्रजाम् पश्यन्ती सुमनस्यमाना ।
२,११ ४ अप्रजस्यम् पौत्र मर्त्यम् पाप्मानम् उत वाघम् ।
२,११ ४ प्रजाम् इवोन्मुच्यस्व द्विषद्भ्यः प्रति मुञ्चामि पाशान् ।
२,११ ५ देव कृतम् ब्राह्मणम् कल्पमानम् तेन हन्मि योनिषदः पिशाचान् ।
२,११ ५ क्रव्यादो मृत्यून् अधरान् पातयामि दीर्घम् आयुस् तव जीवन्तु पुत्राः ।
२,११ ५ त्वम् ह्य् अग्ने प्रथमो मओता ॥१४ ( प् ८३ )
२,१२ १ चक्षुश् च श्रोत्रम् च मनश् च वाक् च प्राणापाणौ देहेदम् शरीरम् ।
२,१२ १ द्वौ प्रत्यञ्चाव् अनुलोमौ विसर्गाव् एदन् तम् मन्ये दश यन्त्रम् उत्सम् ।
२,१२ १ यानयत् परावतः ॥१५ ( प् ८४ )
२,१२ २ उरश् च पृष्ठश् च करौ च बाहू जङ्घे चोरूदरम् शिरश् च ।
२,१२ २ रोमाणि मांसम् रुधिरास्थि मज्जम् एतत् शरीरम् जल बुद्बुदोपमम् ।
२,१२ ३ भ्रुवौ ललाटे च तथा च कर्णौ हनू कपोलौ छुबुकस् तथा च ।
२,१२ ३ ओष्ठौ च दन्ताश् च तथैव जिह्वा मे तत् शरीरम् मुख रत्न कोशम् ॥
२,१३ १ शंवतीः पारयन्त्य् एतेदम् पृच्छस्व वचो यथा ।
२,१३ १ अभ्यारन् तम् समाकेतम् यैवेदम् इति ब्रवत् ।
२,१३ २ जाया केतम् परिस्रुतम् भारती ब्रह्म वादिनी ।
२,१३ २ सञ्जानाना मही जाता यैवेदम् इति ब्रवत् ।
२,१३ ३ इन्द्रस् तम् किम् विभुम् प्रभुम् भानुना यम् जुहोषति ।
२,१३ ३ तेन सूर्यम् अरोचयद् येनेमे रोदस्युभे ।
२,१३ ४ जुषस्वाग्नेऽङ्गिरः काण्वम् मेध्यातिथिम् ।
२,१३ ४ मा त्वा सोमस्य बर्बृहत् सुतस्य मधुअत्तमः ।
२,१३ ५ त्वाम् अग्नेऽङ्गिरश् शोचस्व देववीतमः ।
२,१३ ५ आ शन्तम शन्तमाभिर् अभि स् तिभिश् शान्तिम् स्वस्तिम् अकुर्वत ।
२,१३ ६ सम् नः कनिक्रदद् देवः पर्जन्यो अभि वर्षत्व् ओषधयस् सम् प्रवर्धन्तम् ।
२,१३ ६ सम् नो द्यावा पृथिवी शम् प्रजाभ्यस् शम् नो अस्तु द्विपदे शम् चतुष्पदे ।
२,१३ ६ शम् नेन्द्राग्नी भवताम् अवोभिः ॥१६ ( प् ८५ )
२,१४ १ स्वप्नस् स्वप्नाधिकरणे सर्वम् निष्वापया जनम् ।
२,१४ १ आ सूर्यम् अन्यान् स्वापयाव्युषम् जागृयाम् अहम् ।
२,१४ १ केम् व्यक्ता नरस् सनीढाः ॥१७
२,१४ २ अजगरो नाम सर्पः सर्पिरविषो महान् ।
२,१४ २ तस्मिन् हि सर्पः सुधितस् तेन त्वा स्वापयामसि ।
२,१४ ३ सर्पः सर्पो अजगरः सर्पिरविषो महान् ।
२,१४ ३ तस्य सर्पात् सिन्धवस् तस्य गाधम् असीमहि ।
२,१४ ४ कालिको नाम सर्पो नव नाग सहस्र बलः । ( काळिक, बळ )
२,१४ ४ यमुन ह्रदे ह सो जातो यो नारायण वाहनः ।
२,१४ ५ यदि कालिक दूतस्य यदि काह्कालिकाद् भयम् । ( काळिक )
२,१४ ५ जन्म भूमिम् अतिक्रान्तो निर्विषो याति कालिकः । ( काळिक ) ( प् ८६ )
२,१४ ६ आयाहीन्द्र पथिभिर् इडितेभिर् यज्ञम् इमम् नो भाग धेयम् जुषस्व ।
२,१४ ६ तृप्ताम् जुहुर् मातुलस्येव योषा भागस् ते पैतृ स्वसेयी वपाम् इव । ( मातुळ )
२,१४ ७ यशस्करम् बलवन्तम् प्रभुत्वम् तम् एव राजाधिपतिर् बभूव ।
२,१४ ७ सङ्कीर्ण नागाश्व पतिर् नराणाम् सुमङ्गल्यम् सततम् दीर्घम् आयुः ।
२,१४ ८ कर्कोटको नाम सर्पो यो दृष्टी विषोच्यते ।
२,१४ ८ तस्य सर्पस्य सर्पत्वम् तस्मै सर्प नमो अस्तु ते ।
२,१४ ९ (१)अ अति कालिक रौद्रस्य विष्णुः सौम्येन भामिना । ( काळिक )
२,१४ ९ (१)ब् यमुन नदी कालिकम् ते विष्णु स्तोत्रम् अनुस्मरम् । ( काळिक )
२,१४ ९ (२)अ येऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु ।
२,१४ ९ (२)ब् तेषाम् अप्सु सदस् कृतम् तेभ्यः सर्पेभ्यो नमः ।
२,१४ १० नमो अस्तु सर्पेभ्यो ये के च पृथिवीम् अनु ।
२,१४ १० येऽन्तरिक्षे ये दिव् तेभ्यः सर्पेभ्यो नमः ।
२,१४ ११ उग्रायुधाः प्रमथिनः प्रवीरा मायाविनो बलिनो मिच्छमानाः ।
२,१४ ११ ये देवासुरान् पराभवन् तांस् त्वम् वज्रेण मघवन् निवारय ।( प् ८७ )
२,१५ यस्य व्रतम् उपतिष्ठन्तापो यस्य व्रते पशवो यान्ति सर्वे ।
२,१५ यस्य व्रते पुष्टि पत्र् निविष्टस् तम् सरस्वन्तम् अवसे जोहवीमि ।
२,१५ यज्ञे दिवो नृषदने पृथिव्याः ॥१८
२,१६ १ उप प्रवद मण्डूकि वर्षम् आवद तादुरि ।
२,१६ १ मध्ये ह्रदस्य प्लवस्व निगृह्य चतुरः पदः ।
इन्द्रासोमा तपतम् रक्षोब्जतम् ॥१९ ( प् ८८ )