००५

अथ पञ्चमो ऽध्यायः

मूलम् - अनुक्रमणिका

संज्ञानं पञ्च कश्यपः संज्ञानः शंयुरुत्तमा साशीः शक्वरी सर्वत्र नैर्हस्त्यं तृचं निर्हस्त्यः सपत्नघ्नं (निर्हस्त्यः सपत्नघ्नं Macdonell, Bṛhaddevatā part II. p. 320; निर्हस्त्यसपत्नघ्नं का; → ऋग्वि ४. २४. ४) सेनादरणमानुष्टुभं बृहतीमध्यं प्र सप्त कश्यपो जमदग्निरुत्तमा शंयुराद्याग्नेयी गायत्री द्वितीयोपोत्तमाशीः पाङ्क्तं (पाङ्क्तं ibid; पाङ्क्त्यं-का) तृतीया अक्षरस्तुतिः सानुष्टुप् चतुर्थी सौमी पञ्चमी सौरी विदा दश पादाश्च पञ्च विश्वामित्र इन्द्रो वा प्रजापतिरैन्द्रं पावमानमानुष्टुभं (पावमानं ibid; पावनं-का) पुरीषपदान्याग्नेयवैष्णवैन्द्रपौष्णदैवानि वैराजानि द्वितीयापञ्चम्यावृष्णिहौ (अष्टम्यप्युष्णिक्) चतुर्थी न्यङ्कुसारिणी सप्तमी पुरस्ताद्बृहती नवम्यन्त्ये पङ्क्ती अग्निरेकादश लिङ्गोक्तदेवतं यजूंषि वायुः सप्त प्रउगेणोक्तदैवतं गायत्रं षष्ठी शक्वरी याजुषाणि पञ्च होता द्वादश वसिष्ठो वा (वाशब्दः समुच्चये । विश्वामित्रौ वसिष्ठश्च प्रैषाणामृषी । पुरोरुचां निविदां प्रैषाणां च विश्वामित्र ऋषिरिति शांश्रौ ८. १५. १५ भाष्ये ।) प्रैषसूक्तान्याद्यमाप्रियं परं लिङ्गोक्तदेवतमनिरुक्तं स्वयज्ञोक्तदेवतमन्यत्प्रोक्तमजैदेकादश सप्तमीनवम्यौ त्रिष्टुभौ देवं होताष्टादश होता द्वादश इदं तृचं वसिष्ठवामदेवौ कुन्तापौ द्विबृहत्यावनुष्टुब्वच्यस्वरानुष्टुबन्तं (आद्ये द्वे बृहत्यावित्यर्थः. Scheftelowitz suggests द्वितीया बृहती (?).) (‘वच्यस्व त्रिरानुष्टुबन्तम्’ इति शुद्धम् । Scheftelowitz suggests वच्यस्वानु०.) राज्ञश्चतुष्कमिन्द्रः पङ्क्त्यन्तं (‘उप वो नर एमसि इति चतुर्दशी सेयं पङ्क्तिः’ इति आश्वश्रौ ८. ३. १२ भाष्ये ऽपि ।) यः पञ्च यः षड् यत्पञ्च एता द्व्यूनैतशो मुनिः षष्ठ्यष्टम्यावृष्णिहावन्त्या द्विपदा यजूंषि वा चत्वारि विततौ षडानुष्टुभमिहेत्था चतुष्कं द्विपदं भुगेकपादा निचृद्वीमे ऽनुष्टुबादित्याः पञ्च जगती त्रिष्टुबुपरिष्टाद्बृहती पुरस्ताद्बृहती द्विपदा यजुर्वा त्वं तृचमानुष्टुभं तु यद्दश होतृप्रतिगरित्रोः संवादो नाकपृत्सु जगत्याद्या जगत्याद्या ॥

मूलम् - १

संज्ञा᳓नमुश᳓ना वदत् संज्ञा᳓नं व᳓रुणो वदत् ।
संज्ञा᳓नमि᳓न्द्रश्चाग्नि᳓श्च संज्ञा᳓नं सविता᳓ वदत् ॥ १ ॥
संज्ञा᳓नं नः स्वे᳓भ्यः संज्ञा᳓नम᳓रणेभ्यः ।
संज्ञा᳓नमश्वि᳓ना युव᳓मिहा᳓स्मा᳓सु नि᳓ यच्छताम् ॥ २ ॥
य᳓त्कक्षी᳓वान् संव᳓ननं पुत्रो᳓ अ᳓ङ्गिरसाम᳓वेत् ।
ते᳓न नो ऽद्य वि᳓श्वे देवाः᳓ सं᳓ प्रियां᳓ स᳓मवीवनन् ॥ ३ ॥
सं᳓ वो म᳓नांसि जानतां स᳓मा᳓कूतिं मनामसि ।
असौ᳓ यो᳓ वि᳓मना ज᳓नस्तं᳓ समा᳓वर्तयामसि ॥ ४ ॥
तच्छंयो᳓रा᳓ वृणीमहे गातुं᳓ यज्ञाय गातुं᳓ यज्ञ᳓पतये दै᳓वी स्वस्ति᳓रस्तु नः स्वस्ति᳓र्मा᳓नुषेभ्यः ।
ऊर्ध्वं᳓ जिगातु भेषजं᳓ शं᳓ नो अस्तु द्विप᳓दे शं᳓ च᳓तुष्पदे ॥ ५ ॥

टिप्पनी - १

दशममण्डलान्ते पठनीयम् (According to the commentary on the Caraṇavyūha Samjñānam is the last hymn of the Bāṣkalaśākha and consists of 15 verses. But as it has only 5 verses, the commentator also counted the next two hymns and made up 15. In the British Museum MS. No. Add 5351, India Office MS. No. ??131, the Bombay edition of Ṛgvedabhāsya and also in the Aundh edition these three hymns are given together. That these were originally not one is clear from their different contents. The fact that these three hymns were handed down together at the end of the Ṛgveda Saṁhitā and that the verse Tacchaṁyorā with which the Bāṣkalaśākha ends also appears secondarily at the end of the third hymn lead the commentator to look upon the Tacchaṁyorā coming for the second time as the proper end of the whole. Not only the Khilānukramaṇī but the Bṛhaddevatā (VIII. 93–7) also says that these three are independent hymns. Ṛgvidhāna IV. 126-7 also points to the same. Thus the conception that the Samjñāna hymn consisted of 15 verses is quite late. In the Nirnayasagar edition of Ṛgveda the first Tacchaṁyorā which originally formed the end of the Samjñāna hymn is omitted. In order to make up the number 15 a quite late verse is added. The fact that Śānkha Śr. III. 6. 3 quotes mere beginning of the hymn shows that it is old, and belongs to the Vedic period. [See Scheftelowitz, Zeitschrift für Indologie und Iranistik, Vol. I, pp. 50-7, 1922].) । पूर्णमासे विनियोगः (शांश्रौ ३. ६. ३) । ऋमं-मॅ३२-आउ२५- मु-अल-जुना-औंध-पुस्तकेष्विदमुपलभ्यते । बृहद्दे ८. ९३; ऋग्वि ४. १२६-१२७ अत्रापीदं निर्दिष्टम् ।
२ = अथर्व ७. ५२. १; तैब्रा २. ४. ४. ६. संज्ञानं नः-अथर्व-तैब्रा-ऋमं-आउ; संज्ञानं न-अल -जुना-मु; संज्ञानं वः-मॅ-औंध. स्वेभ्यः-का-ऋमं-मॅ-आउ-अल; स्वेभिः-अथर्व; श्वेभ्यः-मु; स्वैः-तैब्रा. अरणेभ्यः-का-ऋमं-मॅ-आउ-अल-मु; अरणेभिः-अथर्व; अरणैः-तैब्रा. यच्छतां-का-मु-अल; यच्छतं-इतरेषु ।
३ = खिल ३. १५. ३२. कक्षीवान्; कक्षीवां. संवननं-का-आउ-ऋमं-मु-अल-जुना; संवननो-मॅ. अङ्गिरसामवेत्-का-आउ; अङ्गिरसामवे-मॅ-अल-जुना; अङ्गिरसा भवेत्-ऋमं-मु; अङ्गिरसां भवेत्-औंध. समवीवनन्-का; समचीचरन्-ऋमं; समजीजनन्-इतरेषु ।
४.१ = अथर्व ३. ८. ५.१. जानतां; सं व्रता-अथर्व. समाकूतिं-का; समाकूतिर्-मॅ- मु-ऋमं-आउ; समाकूतीर-अथर्व-अल-जुना. मनामसि-का- मु- अल-जुना-मॅ; नमामसि-अथर्व-आउ. जनः; दनः-ऋमं; नसः-मु; मनः-औंध. तं; सं-औंध; स्वं ।
५ = तैसं २. ६. १०. २; तैब्रा ३. ५. ११; तैआ १. ९. ७; शब्रा १. ९. १. २६-२८, मैसं ४. १३. १०; शांब्रा १. ५; ३. ८; मागृ १. ५. ६; २. १५. ६; आश्वगृ ३. ५. ९; शांगृ ४. ५. ९; १. १४. २१; माश्रौ १. ३. ४. → वैसू १३. ३; निरु ४. २१ (सभाष्यं); पञ्चामृ; शांम; संकौ; ऋब्र; संभा. इयं शंयुबार्हस्पत्या ऋग्वेदसंहिताया अन्त्या ऋगिति शांगृ २. ११. १३; ४. ५. बाष्कलानां ‘तच्छंयोरा वृणीमहे’ इत्यन्त्या ऋग्भवतीति आश्वगृ ३. ५. ९ नारायणीयवृत्तिः । अस्मिन्मन्त्रे प्रथमं चतुर्भिः पादैरवसानं अनन्तरं द्वाभ्यां पादाभ्यामवसानमिति ऋप्रा १८. ५६.
ऋमं-मु-औंध-पुस्तकेष्वयं मन्त्रो नास्ति ।

मूलम् - २

नैर्ह᳓स्त्यं सेनाद᳓रणं प᳓रि व᳓र्त्मेव य᳓द्धविः᳓ ।
ते᳓नामि᳓त्राणां बाहू᳓न् हवि᳓षा शोषयामसि ॥ १ ॥
प᳓रि व᳓र्त्मान्येषामि᳓न्द्रः पूषा᳓ च चक्र᳓तुः ।
ते᳓षां वो अग्नि᳓दग्धानामग्नि᳓गूळ्हानामि᳓न्द्रो हन्तु व᳓रंवरम् ॥ २ ॥
ऐ᳓षु नह्य᳓ विषा᳓दनं हरिण᳓स्य धि᳓यं यथा ।
प᳓राङमित्राँ᳓ ऐषत्वर्वा᳓ची गौ᳓रुपे᳓जतु ॥ ३ ॥

टिप्पनी - २

ऋमं-अल-जुना-मु-औंधपुस्तकेषूपलभ्यते । → बृहद्दे (Cf. Bṛhaddevatā, Part II, p. 320.) ८. ९४ : यत्तु नैर्हस्त्यं तत्सपत्ननिबर्हणं; ऋग्वि ४. १२४ : सेनादारणमेतत्स्यान्नैर्हस्त्यमिति शौनकः ।
१. नैर्हस्त्यं; नैर्हस्त्ये-अल. वर्त्मेव-का; वर्त्मे तु-इतरेषु. बाहून्-का-जुना; व्याहून्-अल; बाहूः.
१.१ = अथर्व ६. ६६. २.२ तेनामित्राणां-का; तेनाविप्राणां-जुना.
२ = अर्थव ६. ६७. १.१, २.२. एषां; सर्वतः-अथर्व. च चक्रतुः-का; च सस्रतुः-मु-अथर्व; च सस्रुतः-अल-जुना; नु यच्छतु-ऋमं.
२.२ = खिल ३. २१. २.२. अग्निदग्धानामग्निगूळ्हानां-का; अभिमूळ्हानां ऋमं-मु-अल-अथर्व; अग्निदग्धानामग्निमूळ्हानां-जुना.
३ = अथर्व ६. ६७. ३. ऐषु-का; एषु. नह्य-का; नह्या. विषादनं-का; वृषाजिनं-इतरेषु. धियं यथा-का-मु-अल; भियं यथा-जुना; हि प्रियं यथा-ऋमं; भियं कृधि-अथर्व. पराङ्-का; परां-जुना-मु; पराँ-औंध; परा. अमित्राँ-का-ऋमं; अमित्रां-मु-जुना; अमित्रा-अल; अमित्र-अथर्व. ऐषत्व०; एषत्व०-अथर्व. गौरुपेजतु-का-जुना-ऋमं; गौरुपाजतु-मु; गौरुपेषतु-अथर्व; गौदुपेजतु-अल ।

मूलम् - ३

प्रा᳓ध्वरा᳓णां पते वसो हो᳓तर्व᳓रेण्यक्रतो ।
तु᳓भ्यं गायत्र᳓मृच्य᳓ते ॥ १ ॥
गो᳓कामो अ᳓न्नकामः प्रजा᳓कामोत᳓ कश्य᳓पः ।
भूतं᳓ भविष्य᳓त्प्र᳓ स्तौति मह᳓द्ब्र᳓ह्मैकमक्ष᳓रं बहु᳓ ब्र᳓ह्मैकमक्ष᳓रम् ॥ २ ॥
य᳓दक्ष᳓रं भूतकृ᳓तो वि᳓श्वे देवा᳓ उपा᳓सते ।
महर्षि᳓मस्य गोप्ता᳓रं जम᳓दग्निमकुर्वत ॥ ३ ॥
जम᳓दग्निरा᳓ प्यायते छ᳓न्दोभिश्चतुरुत्त᳓रैः ।
रा᳓ज्ञः सो᳓मस्य भक्षे᳓ण ब्र᳓ह्मणा वीर्या᳓वता शिवा᳓ नः प्रदि᳓शो दि᳓शः ॥ ४ ॥
अजो᳓ य᳓त्ते᳓जो द᳓दृशे शुक्रं᳓ ज्यो᳓तिः परोगु᳓हा ।
त᳓दृषिः क᳓श्यपः स्तौ᳓ति सत्यं᳓ ब्र᳓ह्म चराचरं᳓ ध्रुवं᳓ ब्र᳓ह्म चराचर᳓म् ॥ ५ ॥
त्र्यायुषं᳓ जम᳓दग्नेः क᳓श्यपस्य त्र्यायुष᳓म् ।
अग᳓स्त्यस्य त्र्यायुषं᳓ य᳓द्देवा᳓नां त्र्यायुषं᳓ त᳓न्नो अस्तु त्र्यायुषु᳓म् ॥ ६ ॥
त᳓च्छंयो᳓रा᳓ वृणीमहे गातुं᳓ यज्ञा᳓य गातुं᳓ यज्ञ᳓पतये दै᳓वी स्वस्ति᳓रस्तु नः स्वस्तिर्मा᳓नुषेभ्यः ।
ऊर्ध्वं᳓ जिगातु भेषजं᳓ शं᳓ नो अस्तु द्वि᳓पदे शं᳓ च᳓तुष्पदे ॥ ७ ॥

टिप्पनी - ३

ऋमं-मु-अल-औंध । → बृहद्दे ८. ९४ : सं समिद् (= ऋसं १०. १९१. १) प्राध्वराणां चेत्याग्नेय्यावेव ते स्मृते ।
१. गायत्रमृच्यते = ऋसं ८. ३८. १०. ऋच्यते; ऋद्यतो-अल ।
२. प्रजाकामोत (प्रजाकामः + उत)-का; प्रजाकाम उत-ऋमं-मु-औंध-जुना; पूजाकाम उत-अल. भूतं भविष्यत् = अथर्व ४. ११. २; ११. ७. १७; १५. २. ६. महद्-का-ऋमं; मह०-अल-जुना; सह-मु-औंध ।
३. = तैआ १. ९. ६ भूतकृतो-का-ऋमं-अल- जुना; भूतकृतं-तैआ-मु-औंध. जमदग्निमकुर्वत-का-तैआ-ऋमं-अल; जमदग्निरकुर्वतं-मु-औंध ।
४ = तैआ १. ९. ६; = अथर्व ८. ९. १९ : सप्त च्छन्दांसि चतुरुत्तराणि. प्यायते-का; प्यायसे. चतुरुत्तरैः; चतुरक्षरैः-ऋमं. राज्ञः-तैआ-अल-जुना; राज्ञा-का-ऋमं; राजा-मु-औंध. भक्षेण-का-अल-जुना-मु-औंध; दक्षेण- ऋमं; तृप्तामः-तैआ. वीर्यावता-तैआ-ऋमं-औंध-जुना; वीर्याता-अल. वीर्यावतां-मु; वीर्यवतां-का. ऋमं-मु-अल-जुना-औंधपुस्तकेषु ‘सत्या नः प्रदिशो दिशः’ इत्यधिकम् ।
५. ददृशे-का-ऋमं-अल-जुना; ददृश्रे-मु-औंध. परोगुहा-मु-अल- जुना-औंध; पुरोगुहा-ऋमं. तदृषिः-का-ऋमं-अल-जुना; यदृषिः-मु-औंध. कश्यपः-मु-औंध; कश्यप-का-अल-जुना-ऋमं.
६. = वासं ३. ६२; शांगृ १. २८; हिगृ १. ९. ६; खागृ २. ३. २१; मागृ १. १. २४; पागृ १. १६. ७; २. १. १५; मंब्रा १. ६. ८; ऋब्र; आपमं; मंदी; आसू.
६.१ = अथर्व ५. २८. ७. देवानां; देवेषु-वासं. तन्नो-का-वासं; तन्मे-ऋमं-मु-आपमं-अल-औंध. षष्ठमन्त्रस्यान्ते मु-औंधपुस्तकयोः ‘सर्वमस्तु शतायुषं बलायुषम्’ इत्यधिकं ऋमं-पुस्तके च ‘शतायुषं बलायुषम्’ इत्यधिकम् । ऋमं-पुस्तके षष्ठमन्त्रानन्तरमेको मन्त्रो ऽधिकः स एवं-

मूलम्

ॐ च मे स्वरश्च मे यज्ञोप च ते नमश्च ।
यत्ते न्यूनं तस्मै त उप यत्ते ऽतिरिक्तं तस्मै ते नमः ॥

टिप्पनी

७. दैवी; दैवीः-मु । अस्य मन्त्रस्यानन्तरं मु-पुस्तके ‘इति परिशिष्टानि समाप्तानि’ इति लिखितं निविदध्यायश्चानन्तरं मुद्रितः ।

मूलम् - ४

विदा᳓ मघवन् विदा᳓ गातु᳓म᳓नु शंसिषो दि᳓शः ।
शि᳓क्षा श᳓चीनां पते पूर्वीणां᳓ पुरूवसो ॥ १ ॥
आभि᳓ष्ट्वमभि᳓ष्टिभिः प्रचेतन प्र᳓ चेतय ।
इ᳓न्द्र द्युम्ना᳓य न इष᳓ एवा᳓ हि᳓ शक्रः᳓ ॥ २ ॥
राये᳓ वा᳓जाय वज्रिवः श᳓विष्ठ वज्रिन्नृञ्ज᳓से ।
मं᳓हिष्ठ वज्रिन्नृञ्ज᳓स आ᳓ याहि पिब म᳓त्स्व ॥ ३ ॥
विदा᳓ राये᳓ सुवी᳓र्यं भु᳓वो वा᳓जानां प᳓तिर्व᳓शाँ अ᳓नु ।
मं᳓हिष्ठ वज्रिन्नृञ्ज᳓से यः᳓ श᳓विष्ठः शू᳓राणाम् ॥ ४ ॥
यो᳓ मं᳓हिष्ठो मघो᳓नां चिकित्वाँ᳓ अभि᳓ नो न᳓य ।
इ᳓न्द्रो विदे त᳓मु स्तुषे वशी᳓ हि शक्रः᳓ ॥ ५ ॥
त᳓मूत᳓ये हवामहे जे᳓तारम᳓पराजितम् ।
स᳓ नः पर्षद᳓ति द्वि᳓पः क्र᳓तुश्छ᳓न्द ऋतं᳓ बृह᳓त् ॥ ६ ॥
इ᳓न्द्रं ध᳓नस्य सात᳓ये हवामहे जे᳓तारम᳓पराजितम् ।
स᳓ नः पर्षद᳓ति द्वि᳓पः स᳓ नः पर्षद᳓ति स्रि᳓धः ॥ ७ ॥
पू᳓र्वस्य य᳓त्ते अद्रिवः सुम्न᳓ आ᳓ धेहि नो वसो ।
पूर्तिः᳓ शविष्ठ श᳓श्वत् ई᳓शे हि᳓ शक्रः᳓ ॥ ८ ॥
नूनं᳓ तं᳓ न᳓व्यं म᳓न्यसे प्र᳓भो ज᳓नस्य वृत्रहन् ।
स᳓मन्ये᳓षु ब्रवावहै शू᳓रो यो᳓ गो᳓षु गच्छति स᳓खा सुशे᳓वो अद्वयाः ॥ ९ ॥
एवा᳓ ह्येवै᳓वा᳓ ह्यग्ना᳓ ३ई᳓ एवा᳓ ह्येवै᳓वा᳓ हि विष्णा᳓ ३उ᳓ ।
एवा᳓ ह्येवै᳓वा हीन्द्र । एवा᳓ ह्येवै᳓वा हि पूषन् । एवा᳓ ह्येवै᳓वा हि देवाः ॥ १० ॥
एवा᳓ हि᳓ शक्रो᳓ वशी᳓ हि शक्रो᳓ व᳓शाँ अ᳓नु ।
आ᳓यो मन्या᳓य मन्य᳓व उ᳓पो मन्या᳓य मन्य᳓व उ᳓पेहि विश्व᳓थ ॥ ११ ॥

टिप्पनी - ४

अस्य सूक्तस्यादितो नव मन्त्राः ‘महानाम्न्यः’ (The Mahānāmnyaḥ (9 verses) belong to the Vedic period, as is clear from the fact that they were known to the other Vedas and are mentioned along with old Ṛgveda hymns; Cf. VS. XXIII, 35; TS. V. 2. 11.1; M6. III. 12. 21; KS. V. 10. 5; AV. XI. 7.6. From AV. XI 7. 6 it appears that at the time of the composition of the other Vedas the Mahānāmnyaḥ were as popular as the Pāvamâni and Revatī verses of Ṛgveda. All words in them belong to RV, vocabulary. Ia Upākaraṇa ceremonial in Baudhayana we find Mahānāmnyaḥ after the 10th Maṇḍala of Ṛgveda so mentioned as if they formed a regular part of the Saṁhitā coordinated with the Maṇḍalas. (Cf. Oldenberg, Hymnen des Ṛgveda, Band I. pp. 509-10). The statement in the Khilānukramaņi that Indra or Prajāpati composed this hymn is also referred to in AB. V. 7, 2-1. [See, Scheftelowitz, Zeit. Indo. Iran. I. 58-68].) इत्युच्यन्ते (आश्वश्रौ ७. १२. १०; ऐआ ४. १. १ भाष्यं; शांश्रौ १०. ६. १८ भाष्ये; षब्रा ३. ११; शांब्रा २३. २ द्रष्टव्यम्) । अन्त्यौ द्वौ च ‘पुरीषपदानि’ इत्युच्येते (आश्वश्रौ ७. १२. ११, ८. १४. १६; तांब्रा १३. ४. १२, १३; लाट्याश्रौ ४. १०. १८ भाष्यं इत्यादि द्रष्टव्यम्) । ऐआ ४. १. १ मध्ये सामवेदे पूर्वार्चिकान्ते चैतदुपलभ्यते । एतत्सूक्तं ‘तच्छंयोरा’ इति पूर्वसूक्तस्यान्त्यं मन्त्रमनुवर्तत इति बृहद्दे ८. ९८-१०२; ऋग्वि ४. १२७-१२८ एताभ्यां स्पष्टम् । अल-जुना-पुस्तकयोरेतदुपलभ्यते ।
१. शंसिषो-का; शासिषो; शसिषो ।
२. ०भिष्टिभिः; ०भिष्टिभिः स्वार्न्नांशुः-साम. प्रचेतन-का; प्रचेतनः-जुना ।
४. राये-का-साम-अल-जुना; रायः-ऐआ. भुवो; भवो-साम ।
५. मघोनां; मघोनां अंशुर्न्न शोचिः-साम. चिकित्वाँ-अल-जुना; चिकित्वो. तमु-का; तमुप. स्तुषे वशी-का- ऐआ-अल-जुना; स्तुहि ईशे-साम ।
६. जेतारमपराजितं = ऋसं १. ११. २. स नः पर्षदति = ऋसं १०. १८७. १. पर्षद्; स्वर्षद्-साम. ऋतुश्छन्दः; क्रतुच्छन्द-अल ।
७. इन्द्रं धनस्य सातये = ऋसं ८. ३. ५. पर्षदति; स्वर्षदति-साम. स्रिधः; द्विषः-साम ।
८. अद्रिवः; अद्रिवों ऽशुर्मदाय-साम. शश्वत-का-अल; शस्यते-साम-ऐआ. ईशे-का-ऐआ-अल; वशी-साम. पूर्तिः; पूर्द्धि-अल ।
९. मन्यस-का; संन्यसे-साम-ऐआ; सन्यसे-अल-जुना; सन्यस्ये. समन्येषु ब्रवावहै = ऋसं १. ३०. ६; समर्येषु ब्रवावहै-साम; समन्येषु प्रवावहै-अल; समन्येषु ब्रवामहै. सखा सुशेवो अद्वयाः = ऋसं १. १८७. ३. अद्वयाः-ऐआ-अल-जुना; अद्वयुः-साम.
१०. द्वितीयः पादः साम-अल-पुस्तकयोर्नास्ति किंतु बृहद्दे ८. १०२ तत्र प्रमाणम् । जुनागडपुस्तके दशमो मन्त्र एवं वर्तते- ‘एवा ह्ये ३व । एवा ह्यग्ने । एवा हीन्द्र । एवा हि पूषन् । एवा हि देवाः ।’
११. सामवेदे नास्ति. अस्य केचनांशाः पूर्वमन्त्रेभ्य उद्धृताः. एवा हि शक्रो = २.२, वशी हि शक्रो = ५.२; : वशाँ अनु = ४.१. १०.२, ११.१ → आश्वश्रौ ६. २. १२ : एवा ह्येवैवा हीन्द्रं; एवा हि शक्रो वशी हि शक्र. विश्वथ-का-अल; विश्वध-ऐआ ।

मूलम् - ५

निविदध्यायः
अग्निर्देवेद्धः । अग्निर्मन्विद्धः । अग्निः सुषमित् । होता देववृतः । होता मनुवृतः । प्रणीर्यज्ञानाम् । रथीरध्वराणाम् । अतूर्तो होता । तूर्णिर्हव्यवाट् । आ देवो देवान् वक्षत् । यक्षदग्निर्देवो देवान् । सो अध्वरा करति जातवेदाः ॥ १ ॥
इन्द्रो मरुत्वान् सोमस्य पिबतु । मरुत्स्तोत्रो मरुद्गणः । मरुत्सखा मरुद्वृध: । घ्नन् वृत्रा सृजदपः । मरुतामोजसा सह । य ईमेनं देवा अन्वमदन् । अप्तूर्ये वृत्रतूर्ये । शम्बरहत्ये गविष्ठौ । अर्चन्तं गुह्या पदा । परमस्यां परावति । आदीं ब्रह्माणि वर्धयन् । अनाधृष्टान्योजसा । कृण्वन् देवेभ्यो दुवः । मरुद्भिः सखिभिः सह । इन्द्रो मरुत्वाँ इह श्रवदिह सोमस्य पिबतु । प्रेमा देवो देवहूतिमवनु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु । चित्रश्चित्राभिरूतिभिः । श्रवद्ब्रह्माण्यावसा गमत् ॥ २ ॥
इन्द्रो देवः सोमं पिबतु । एकजानां वीरतमः । भूरिजानां तवस्तमः । हर्योः स्थाता । पृश्नेः प्रेता । वज्रस्य भर्ता । पुरां भेत्ता । पुरां दर्मा । अपां सृष्टा । अपां नेता । सत्वनां नेता । निजघ्निर्दूरेश्रवाः । उपमाजिकृद्दंसनावान् । इहोशन् देवो बभूवान् । इन्द्रो देव इह श्रवदिह सोमं पिबतु । प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु । चित्रश्चित्राभिरूतिभिः । श्रवद्ब्रह्माण्यावसा गमत् ॥ ३ ॥
सविता देवः सोमस्य पिबतु हिरण्यपाणिः सुजिह्वः । सुबाहुः स्वङ्गुरिः । त्रिरहन् सत्यसवनः । यत्प्रासुवद्वसुधिती उभे जोष्ट्री सवीमनि । श्रेष्ठं सावित्रमासुवन् । दोग्ध्रीं धेनुम् । वोळ्हारमनड्वाहम् । आशुं सप्तिम् । जिष्णुं रथेष्ठाम् । पुरंधिं योपाम् । सभेयं युवानम् । परामीवां साविषत् पराघशंसम् । सविता देव इह श्रवदिह सोमस्य मत्सत् । प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु । चित्रश्चित्राभिरूतिभिः । श्रवद्ब्रह्माण्यावसा गमत् ॥ ४ ॥
द्यावापृथिवी सोमस्य मत्सताम् । पिता च माता च । पुत्रश्च प्रजननं च । धेनुश्च ऋषभश्च । धन्या च धिषणा च । सुरेताश्च सुदुघा च । शंभूश्च मयोभूश्च । ऊर्जस्वती च पयस्वती च । रेतोधाश्च रेतोभृच्च । द्यावापृथिवी इह श्रुतामिह सोमस्य मत्सताम् । प्रेमां देवी देवहूतिमवतां देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवताम् । चित्रे चित्राभिरूतिभि: । श्रुतां ब्रह्माण्यावसा गमताम् ॥ ५ ॥
ऋभवो देवाः सोमस्य मत्सन् । विष्ट्वी स्वपसः । कर्मणा सुहस्ताः । धन्या धनिष्ठाः । शम्या शमिष्ठाः । शच्या शचिष्ठाः । ये धेनुं विश्वजुवं विश्वरूपामरक्षन् । अरक्षन् धेनुरभवद्विश्वरूपी । अयुञ्जत हरी । अयुर्देवाँ उप । अबुध्रन् सं कनीनामदन्तः । संवत्सरे स्वपसो यज्ञियं भागमायन् । ऋभवो देवा इह श्रवन्निह सोमस्य मत्सन् । प्रेमां देवा देवहूतिमवन्तु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् | प्रेमं सुन्वन्तं यजमानमवन्तु । चित्राश्चित्राभिरूतिभिः । श्रवन् ब्रह्माण्यावसा गमन् ॥ ६ ॥
विश्वे देवाः सोमस्य मत्सन् । विश्वे वैश्वानराः । विश्वे विश्वमहसः । महि महान्तः । तक्वान्ना नेमधितीवानः । आस्क्राः पचतवाहसः । वात आत्मानो अग्निजूताः । ये द्यां च पृथिवीं चातस्थुः | अपश्च स्वश्च । ब्रह्म च क्षत्रं च । बर्हिश्च वेदिं च । यज्ञं चोरु चान्तरिक्षम् । ये स्थ त्रय एकादशाः । त्रयश्च त्रिंशच्च । त्रयश्च त्री च शता । त्रयश्च त्री च सहस्रा । तावन्तो ऽभिषाचः । तावन्तो रातिषाचः । तावतीः पत्नीः । तावतीर्ग्नाः । तावन्त उदरणे । तावन्तो निवेशने । अतो वा देवा भूयांसः स्थ । मा वो देवा अतिशसा मा परिशसा विक्षि । विश्वे देवा इह श्रवन्निह सोमस्य मत्सन् । प्रेमां देवा देवहूतिमवन्तु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवन्तु । चित्राश्चित्राभिरूतिभिः । श्रवन् ब्रह्माण्यावसा गमन् ॥ ७ ॥
अग्निर्वैश्वानरः सोमस्य मत्सत् । विश्वेषां देवानां समित् । अजस्रं दैव्यं ज्योतिः । यो विड्भ्यो मानुषीभ्यो ऽदीदेत् । द्युषु पूर्वासु दिद्युतानः । अजर उपसामनीके । आ यो द्यां भात्या पृथिवीम् । उर्वन्तरिक्षम् । ज्योतिषा यज्ञाय शर्म यंसत् । अग्निर्वैश्वानर इह श्रवदिह सोमस्य मत्सत् । प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु । चित्रश्चित्राभिरूतिभिः । श्रवद्ब्रह्माण्यावसा गमत् ॥ ८ ॥ मरुतो देवाः सोमस्य मत्सन् । सुष्टुभः स्वर्काः । अर्कस्तुभो बृहद्वयसः । शूरा अनाधृष्टरथाः । त्वेषासः पृश्निमातरः । शुभ्रा हिरण्यखादयः । तवसो भन्ददिष्टयः । नभस्या वर्षनिर्णिजः । मरुतो देवा इह श्रवन्निह सोमस्य मत्सन् । प्रेमां देवा देवहूतिमवन्तु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवन्तु । चित्राश्चित्राभिरूतिभिः । श्रवन् ब्रह्माण्यावसा गमन् ॥ ९ ॥
अग्निर्जातवेदाः सोमस्य मत्सत् । स्वनीकश्चित्रभानुः । अप्रोषिवान् गृहपतिस्तिरस्तमांसि दर्शतः । घृताहवन ईड्यः । बहुलवर्त्मास्तृतयज्वा । प्रतीत्या शत्रून् जेतापराजितः । अग्ने जातवेदो ऽभि द्युम्नमभि सह आयच्छस्व । तुशो अप्तुशः । समिद्धारं स्तोतारमंहसस्पाहि । अग्निर्जातवेदा इह श्रवदिह सोमस्य मत्सत् । प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु । चित्रश्चित्राभिरूतिभिः । श्रवद्ब्रह्माण्यावसा गमत् ॥ १० ॥
अस्य मदे जरितरिन्द्रः सोमस्य मत्सत् । अस्य मदे जरितरिन्द्रो ऽहिमहन् । अस्य मदे जरितरिन्द्रो वृत्रमहन् । अस्य मदे जरितरिन्द्रो ऽपां वेगमैरयत् । अस्य मदे जरितरिन्द्रो ऽजिन्वदजुवो ऽपिन्वदजितः । अस्य मदे जरितरिन्द्र उदार्यं वर्णमतिरदव दासीद्विशो अस्तभ्नात् । अस्य मदे जरितरिन्द्र उद्द्यामस्तभ्नादप्रथयत् पृथिवीम् । अस्य मदे जरितरिन्द्रो दिवि सूर्यमैरयद्व्यन्तरिक्षमतिरत् । अस्य मदे जरितरिन्द्रः समुद्रान् प्रकुपिताँ अरम्णात् । अस्य मदे जरितरिन्द्र ऋश्याँ इव पम्फणतः पर्वतान् प्रकुपिताँ अरम्णात् । अस्य मदे जरितरिन्द्र इह श्रवदिह सोमस्य मत्सत् । प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु । चित्रश्चित्राभिरूतिभिः । श्रवद्ब्रह्माण्यावसा गमत् ॥ ११ ॥

टिप्पनी - ५

एता ११ निविदः मु; शांश्रौ ७. ९. ३; ८. १६-२५ अत्रोपलभ्यन्ते । तथा च
१ = ऐब्रा २. ३४; शब्रा १. ४. २. ५; तैसं २. ५. ९; आश्वश्रौ १. ३; ५. ९. अलपुस्तके ‘अग्निर्देवेद्धः’ एतावदेव । ‘द्वादशपदा वा एषा निविद्’ इति ऐब्रा २. ३३. ६.
४. → ऐब्रा ३. २९ सायणभाष्यम्.
७. → शब्रा १४. ६. ९. २; बृउ ३. ९. १ (वैश्वदेवस्य निविद्); निरु ७. २४ दुर्गभाष्यम् । ९. → ऋसं १. ८६. ४ सायणभाष्यम्.
१०. → शब्रा १३. ५. १. १२.
११. = ऐब्रा ४. १; शांब्रा १७. ३; षोडशीशस्त्र इयमुत्तमा निविद् (आवश्रौ. ६ २; शांश्रौ ८. ७. ४) ।
१. प्रणीर्यज्ञानां → ऋसं १०. ४६. ४ : नेतारमध्वराणाम्. रथीरध्वराणां = ऋसं १. ४४. २; ८. ११. २.
२. शांश्रौमध्ये केषांचन पादानां व्यत्यासः । मरुत्स्तोत्रो मरुद्गणः = ऋसं ४. १८. ७ सायणभाष्यं. य ईमेनं देवा… गविष्ठौ → ऋसं ३. ४७. ४. गविष्ठौ; गविष्टौ- मु-शांश्रौ. ‘परमस्यां परावति’ इत्यस्यानन्तरं शांश्रौमध्ये ‘वधीद्वृत्रं सृजदपः । मरुतामोजसा सह’ इत्यधिकम्. ‘घ्नन्वृत्रा सृजदपः । मरुतामोजसा सह’ इति शांश्रौमध्ये नास्ति. ‘प्रेदं ब्रह्म प्रेदं क्षत्रम्’ इति ऐब्रा ३. ११. ९ मध्ये निवित्पादत्वेनोद्धृतम् । अस्या निविदो विषये ऋसं ८. ३७. १, ६ द्रष्टव्यम् ।
३. सृष्टा; स्रष्टा-मु. भूरिजानां; भूरिदानं-मु. हर्योः स्थाता… … पुरां दर्मा अपां सृष्टा → ऋसं ३. ४५. २. पुरां भेत्ता = साम. १. २७५. अपां नेता = ॠसं २. १२. ७. उपमाजिकृत्-का; उपमातिकृत्-इतरेषु. सोमं पिबतु; सोमस्य पिबतु-मु ।
४. पिबतु; मत्सत्-शांश्रौ. सविता … सुजिह्नः → ऋसं ३. ५४. ११. यत्प्रासु०; यः प्रासु०-शांश्रौ-मु. वसुधिती-शांश्रौ → खिल ५. ७. ३.४, वसुधीती-का-मु. आसुवन्; आसुवं-शांश्रौ-मु. जिष्णुं रथेष्ठां पुरंधिं योषां-का-शांश्रौ; पुरंधिं योषां जिष्णुं रथेष्ठां-मु. गमतां; गमन्तां-मु ।
६. शच्या शचिष्ठाः = ऋसं ४. २०. ९. अरक्षन्अरक्षन् धनुः-का-मु → ऋसं ४. ३३. ४; अतक्षन् । अतक्षन् धेनुः-शांश्रौ. धेनुरभव०; धेनुमभव०-शांश्रौ- मु. अबुध्नन्; अबुघ्नन्-मु. श्रवन्; श्रवत्-मु ।
७. विश्वे विश्वमहसः-का; विश्वे हि विश्वमहसः-मु. तक्वान्ना-का-मु; पक्वान्ना- शांश्रौ. नेमधितीवानः-का; नेमतिथीवानः-इतरेषु. आस्क्राः-का; अस्क्राः-मु. वात आत्मानो-का; वातात्मानो-इतरेषु. अग्निजूताः-का; अग्निदूताः-शांश्रौ-मु; अग्निहूताः. अतिशसा मा परिशसा विक्षि-का; अपिशसा मा परिशसा वृक्षि-मु; अविशसा मा विशसायुरा वृक्षि-शांश्रौ ।
८. उपसामनीके… भात्या = ऋसं ५. ७६. १ : आ भात्यग्निरूषसामनीकं दीदेत्-का; अदीदेत्-मु. भात्या-का; भात्यां-मु. उर्वन्तरिक्षं-का; ओर्वन्तरिक्षं-शांश्रौ-मु. यज्ञाय-का; यज्ञियाय-शांश्रौ ।
९. श्रवन्-का; श्रवत्-मु ।
१०. बहुलवर्त्मा-का; बहुलवर्मा-इतरेषु. प्रतीत्या शत्रून् = ऋसं १०. ११६. ५. तुशो अप्तुशः- मु; स्तुशो अस्तुशः-शांश्रौ. समिद्धारं-का; समेद्धारं-इतरेषु ।
११. अस्य मदे … → ऋसं ७. ८२. ३. ०पिन्वदजितः-का; ०पिन्वदपितः-मु. दासीद्विशो-का; दासीद्दिशो-मु; दासं वर्णं-शांश्रौ. अस्तभ्नात्; अहन्-शांश्रौ. उद्द्यामस्तभ्नात् = ऋसं २. १२. २. दिवि सूर्यमैरयद्व्यन्तरिक्षमतिरत्; व्यन्तरिक्षमतिरदा सूर्य दिव्यैरयत्-शांश्रौ. व्यन्तरिक्षमतिरत् = ऋसं ८. १४. ७. समुद्रान् प्रकुपिताँ अरभ्णात्-का; समुद्रं प्रकुपितं अरभ्णात्-मु. पर्वतान् प्रकुपिताँ अरभ्णात् = ऋ २. १२. २. ऋश्याँ-का; ऋष्याँ-शांश्रौ-मु.
मु-पुस्तक निविदां परिगणनं कृतं तद्यथा-
अग्निर्द्वादश । इन्द्रो मरुत्वानिन्द्रो देवः सविता देवः पृथग्विंशतिः । द्यावापृथिवी पञ्चदश । ऋभवो देवाः सप्तदश । विश्वे देवास्त्रिंशत् । अग्निर्वैश्वानरः पञ्चदश । मरुतो देवाश्चतुर्दश । अग्निर्जातवेदा अस्य मदे पृथक् षोळश । इति निविदध्यायः ॥

मूलम् - ६

वायु᳓रग्रेगा᳓ यज्ञप्रीः᳓ साकं᳓ गन् म᳓नसा यज्ञ᳓म् ।
शिवो᳓ नियु᳓द्भिः शिवा᳓भिः ॥ १ ॥
हि᳓रण्यवर्तनी न᳓रा देवा᳓ पती᳓ अभि᳓ष्टये ।
वायु᳓श्चे᳓न्द्रश्च सु᳓मखा ॥ २ ॥
का᳓व्या रा᳓जाना क्र᳓त्वा द᳓क्षस्य दुरोणे᳓ ।
रिशा᳓दसा सध᳓स्थ आ᳓ ॥ ३ ॥
दै᳓व्या अध्वर्यू᳓ आ᳓ गतं र᳓थेन सू᳓र्यत्वचा ।
म᳓ध्वा यज्ञं᳓ स᳓मञ्जाथे ॥ ४ ॥
इ᳓न्द्र उक्थे᳓भिर्भ᳓न्दिष्ठो वा᳓जानां च वा᳓जपतिः ।
ह᳓रिवान् सुता᳓नां स᳓खा ॥ ५ ॥
वि᳓श्वान् देवा᳓न् हवामहे ऽस्मि᳓न् यज्ञे᳓ सुपे᳓शसः ।
त᳓ इमं᳓ यज्ञ᳓मां गमन् देवा᳓सो देव्या᳓ धिया᳓ ॥
जुषाणा᳓ अध्वरे᳓ स᳓दो ये᳓ यज्ञ᳓स्य तनूकृ᳓तः ।
वि᳓श्व आ᳓ सो᳓मपीतये ॥ ६ ॥
वाचा᳓ महीं᳓ देवीं᳓ वा᳓चमस्मि᳓न् यज्ञे᳓ सुपे᳓शसम् ।
स᳓रस्वतीं हवामहे ॥ ७ ॥

टिप्पनी - ६

एताः ‘पुरोरुचः’ शांश्रौ ७. १०. ९-१६; मु-पुस्तके चोपलभ्यन्ते । काश्चन अन्यत्राप्युपलभ्यन्ते ।
१ = वासं २७. ३१; शांब्रा १४. ४; आश्वश्रौ २. १२; ५. १०. ३.
४ = वासं ३३. ७२-७३.
६. शांब्रा १४. ५; आश्वश्रौ ५. १० अत्र निर्दिष्टा. खिलानुक्रमण्यनुसारेणेयं शक्वरी सा च का-मु-पुस्तकानुसारिणी । शांब्रा-शांश्रौ-पुस्तकयोस्तु सा महापङ्क्तिः ‘जुषाणा अध्वरे सदो’ इत्यंशस्य तत्राभावात् ।
२. सुमखा-का; सुमखौ-शांश्रौ; सुमुखः-मु ।
३. काव्या राजाना-का-मु; काव्ययोराजानेषु-वासं-शांश्रौ ।
४. दैव्या अध्वर्यू-का; दैव्यावध्वर्यू-वासं शांश्रौ ।
६. सुपेशसः; सजोषसः-शांश्रौ ।
७. = अथर्व ५. ७. ४ : सरस्वतीं … हवामहे । वाचं जुष्टां मधुमतीमवादिषं देवानां देवहूतिषु. वाचा महीं-का; वाचामहं-शांश्रौ; वाचमहं-मु. वाचमस्मिन्; वाचास्मिन्-मु. सुपेशसं; सुपेशसा-मु । मु-पुस्तके षष्ठो मन्त्रः षष्ठसप्तमत्वेन पठितः सप्तमश्चाष्टमत्वेन पठितः ।

मूलम् – ७ [ १ ]

प्रैषाध्यायः
(अ) हो᳓ता यक्षदग्निं᳓ समि᳓धा सुषमि᳓धा स᳓मिद्धं ना᳓भा पृथिव्याः᳓ संगथे᳓ वाम᳓स्य ।
व᳓र्ष्मन् दिव᳓ इळ᳓रपदे᳓ वे᳓त्वा᳓ज्यस्य हो᳓तर्य᳓ज ॥
(आ) हो᳓ता यक्षत्तनून᳓पातम᳓दितेर्ग᳓र्भं भु᳓वनस्य गोपा᳓म् ।
म᳓ध्वाद्य᳓ देवो᳓ देवे᳓भ्यो देवया᳓नान् पथो᳓ अनक्तु वे᳓त्वा᳓ज्यस्य हो᳓तर्य᳓ज ॥
(इ) हो᳓ता यक्षन्न᳓राशंसं नृशस्तं᳓ नृँ᳓ प्रणेत्र᳓म् ।
गो᳓भिर्वपा᳓वान् स्याद्वीरैः᳓ श᳓क्तीवान् र᳓थैः प्रथमया᳓वा हि᳓रण्यैश्च᳓न्द्री वे᳓त्वा᳓ज्यस्य हो᳓तर्य᳓ज ॥
(उ) हो᳓ता यक्षदग्नि᳓मीळ᳓ ईळितो᳓ देवो᳓ देवाँ᳓ आ᳓ वक्षद्दूतो᳓ हव्यवा᳓ळ᳓मूरः ।
उ᳓पेमं᳓ यज्ञ᳓मु᳓पेमां᳓ देवो᳓ देव᳓हूतिमवतु वे᳓त्वा᳓ज्यस्य हो᳓तर्य᳓ज ॥
(ए) हो᳓ता यक्षद्बर्हिः᳓ सुष्ट᳓रीमो᳓र्णम्रदा अस्मि᳓न्यज्ञे᳓ वि᳓ च प्र᳓ प्रथतां स्वासस्थं᳓ देवे᳓भ्यः ।
ए᳓मेनदद्य᳓ व᳓सवो रुद्रा᳓ आदित्याः᳓ सदन्तु प्रिय᳓मि᳓न्द्रस्यास्तु वे᳓त्वा᳓ज्यस्य हो᳓तर्य᳓ज ॥
(ऐ) हो᳓ता यक्षद्दु᳓र ऋष्वाः᳓ कवष्यो᳓ को᳓षधावनीरु᳓दा᳓ताभिर्जि᳓हतां वि᳓ प᳓क्षोभिः श्रयन्ताम् ।
सुप्रायणा᳓ अस्मि᳓न् यज्ञे᳓ वि᳓ श्रयन्तामृतावृ᳓धो व्य᳓न्त्वा᳓ज्यस्य हो᳓तर्य᳓ज ॥
(ओ) हो᳓ता यक्षदुषा᳓सान᳓क्ता बृहती᳓ सुपे᳓शसा नृँ᳓ प᳓तिभ्यो यो᳓निं कृण्वाने᳓ ।
संस्म᳓यमाने इ᳓न्द्रेण देवै᳓रे᳓दं᳓ बर्हिः᳓ सीदतां वीता᳓मा᳓ज्यस्य हो᳓तर्य᳓ज ॥
(औ) हो᳓ता यक्षद्दै᳓व्या होता᳓रा मन्द्रा᳓ पो᳓तारा कवी᳓ प्र᳓चेतसा ।
स्वि᳓ष्टमद्या᳓न्यः᳓ क᳓रदिषा᳓ स्व᳓भिगूर्तमन्य ऊ᳓र्जा स्वतवसेमं᳓ यज्ञं᳓ दिवि᳓ देवे᳓षु धत्तां᳓ वीता᳓मा᳓ज्यस्य हो᳓तर्य᳓ज ॥
(अं) हो᳓ता यक्षत्तिस्रो᳓ देवी᳓रपसामप᳓स्तमा अ᳓च्छिद्रमद्ये᳓द᳓म᳓पस्तन्वताम् ।
देवे᳓भ्यो देवी᳓र्देव᳓म᳓पो व्य᳓न्त्वा᳓ज्यस्य हो᳓तर्य᳓ज ॥
(अः) हो᳓ता यक्षत्त्व᳓ष्टारम᳓चिष्टम᳓पाकं रेतोधां᳓ वि᳓श्रवसं यशोधा᳓म् ।
पुरुरू᳓पम᳓कामकर्शनं सुपो᳓षः पो᳓षैः स्यात्सुवी᳓रो वीरै᳓र्वे᳓त्वा᳓ज्यस्य हो᳓तर्य᳓ज ॥
(क) हो᳓ता यक्षद्व᳓नस्प᳓तिमुपा᳓व स्रक्षद्धियो᳓ जोष्टा᳓रं शश᳓मन्न᳓रः ।
स्व᳓दात्स्व᳓धितिर्ऋतुथा᳓द्य᳓ देवो᳓ देवे᳓भ्यो हव्य᳓वाड् वे᳓त्वा᳓ज्यस्य हो᳓तर्य᳓ज ॥
(ख) हो᳓ता यक्षदग्निं स्वा᳓हा᳓ज्यस्य स्वा᳓हा मे᳓दसः स्वा᳓हा स्तोका᳓नां स्वा᳓हा स्वा᳓हाकृतीनां स्वा᳓हा हव्य᳓सूक्तीनाम् ।
स्वा᳓हा देवा आज्यपा जुषाणा᳓ अ᳓ग्न आ᳓ज्यस्य व्य᳓न्तु हो᳓तर्य᳓ज ॥

मूलम् – ७ [ २ ]

(अ) अजैदग्निरसनद्वाजं नि देवो देवेभ्यो हव्यवाट् ।
प्राञ्जोभिर्हिन्वानो धेनाभिः कल्पमानो यज्ञस्यायुः ।
प्रतिरन्नुपप्रेष होतर्हव्या देवेभ्यः ॥
(आ) होता यक्षदग्निमाज्यस्य जुषतां हविर्होतर्यज ॥
(इ) होता यक्षत्सोममाज्यस्य जुषतां हविर्होतर्यज ॥
(उ) होता यक्षदग्नीषोमौ च्छागस्य वपाया मेदसो जुषेतां हविर्होतर्यज ॥
(ए) होता यक्षदग्नीषोमौ पुरोळाशस्य जुषेतां हविर्होतर्यज ॥
(ऐ) होता यक्षदग्नीषोमौ च्छागस्य हविषा आत्तामद्य मध्यतो मेद उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घस्तां नूनं घासे अज्राणां यवसप्रथमानां सुमत्क्षराणां शतरुद्रियाणामग्निष्वात्तानां पीवोपवसनानां पार्श्वतः श्रोणितः शितामत उत्सादतो ऽङ्गादङ्गादवत्तानां करत एवाग्नीषोमौ जुषेतां हविर्होतर्यज ॥
(ओ) देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थम् ।
प्रदक्षिणिद्रशनया नियूय ऋतस्य वक्षि पथिभी रजिष्ठैः ॥
(औ) होता यक्षद्वनस्पतिमभि हि पिष्टतमया रभिष्टया रशनयाधित । यत्राग्नेराज्यस्य हविषः प्रिया धामानि यत्र सोमस्याज्यस्य हविषः प्रिया धामानि यत्राग्नीषोमयोश्छागस्य हविषः प्रिया धामानि यत्र वनस्पतेः प्रिया पाथांसि यत्र देवानामाज्यपानां प्रिया धामानि यत्राग्नेर्होतुः प्रिया धामानि तत्रैतं प्रस्तुत्येवोपस्तुत्येवोपावस्रक्षद्रभीयांसमिव कृत्वी करदेवं देवो वनस्पतिर्जुषतां हविर्होतर्यज ॥
(अं) वनस्पते रशनया नियूय पिष्टतमया वयुनानि विद्वान् ।
वहा देवत्रा दधिषो हवींषि प्र च दातारममृतेषु वोचः ॥
(अः) होता यक्षदग्निं स्विष्टकृतमयाळग्निरग्नेराज्यस्य हविषः प्रिया धामान्ययाट् सोमस्याज्यस्य हविषः प्रिया धामान्ययाळग्नीषोमयोश्छागस्य हविषः प्रिया धामान्ययाड् वनस्पतेः प्रिया पाथांस्ययाड् देवानामाज्यपानां प्रिया धामानि यक्षदग्नेर्होतुः प्रिया धामानि यक्षत्स्वं महिमानमायजतामेज्या इषः कृणोतु सो अध्वरा जातवेदा जुषतां हविर्होतर्यज ॥
(क) अग्निमद्य होतारमवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोळाशं गृह्णन्नग्नय आज्यं गृह्णन् सोमायाज्यं बध्नन्नग्नीषोमाभ्यां च्छागं सूपस्थाद्य देवो वनस्पतिरभवदग्नय आज्येन सोमायाज्येनाग्नीषोमाभ्यां च्छागेनाघत्तां तं मेदस्तः प्रति पचताग्रभीष्टामवीवृधेतां पुरोळाशेन त्वामद्य ऋष आर्षेय ऋषीणां नपादवृणीतायं यजमानो बहुभ्य आ संगतेभ्यः । एष मे देवेषु वसु वार्यायक्षत इति ता या देवा देवदानान्यदुस्तान्यस्मा आ च शास्स्वा च गुरस्वेषितश्च होतरसि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥

मूलम् – ७ [ ३ ]

(अ) देवं बर्हिः सुदेवं देवैः स्यात्सुवीरं वीरैर्वस्तोर्वृज्येताक्तोः प्रभ्रियेतात्यन्यान् राया बर्हिष्मतो मदेम वसुवने वसुधेयस्य वेतु यज ॥
(आ) देवीर्द्वारः संघाते विड्वीर्यामञ्छिथिरा ध्रुवा देवहूतौ वत्स ईमेनास्तरुणा आमिमीयात्कुमारो वा नवजातो मैना अर्वा रेणुककाटः प्रणग्वसुवने वसुधेयस्य व्यन्तु यज ॥
(इ) देवी उपासानक्ता व्यस्मिन् यज्ञे प्रयत्यह्वेतामपि नूनं दैवीर्विशः प्रायासिष्टां सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज ॥
(उ) देवी जोष्ट्री वसुधिती ययोरन्याघा द्वेषांसि यूयवदान्यावक्षद्वसु वार्याणि यजमानाय वसुवने वसुधेयस्य वीतां यज ॥
(ए) देवी ऊर्जाहुती इषमूर्जमन्यावक्षत्सग्धिं सपीतिमन्या नवेन पूर्वं दयमाना स्याम पुराणेन नवं तामूर्जमूर्जाहुती ऊर्जयमाने अधातां वसुवने वसुधेयस्य वीतां यज ॥
(ऐ) देवा दैव्या होतारा पोतारा नेष्टारा हताघशंसावाभरद्वसू वसुवने वसुधेयस्य वीतां यज ॥
(ओ) देवीस्तिस्रस्तिस्रो देवीरिळा सरस्वती भारती द्यां भारत्यादित्यैरस्पृक्षत्सरस्वतीमं रुद्रैर्यज्ञमावीदिहैवेळ्या वसुमत्या सधमादं मदेम वसुवने वसुधेयस्य व्यन्तु यज ॥
(औ) देवो नराशंसस्त्रिशीर्षा षळक्षः शतमिदेनं शितिपृष्ठा आदधति सहस्रमीं प्रवहन्ति मित्रावरुणेदस्य होत्रमर्हतो बृहस्पतिस्तोत्रमश्विनाध्वर्यवं वसुवने वसुधेयस्य वेतु यज ।
(अं) देवो वनस्पतिर्वर्षप्रावा घृतनिर्णिग् द्यामग्रेणास्पृक्षदान्तरिक्षं मध्येनाप्राः पृथिवीमुपरेणादृंहीद्वसुवने वसुधेयस्य वेतु यज ॥
(अः) देवं बर्हिर्वारितीनां निधेधासि प्रच्युतीनामप्रच्युतं निकामधरणं पुरुस्पार्हं यशस्वदेना बर्हिपाण्या बर्हीष्यभिष्याम वसुवने वसुधेयस्य वेतु यज ॥
(क) देवो अग्निः स्विष्टकृत्सुद्रविणा मन्द्रः कविः सत्यमन्मायजी होता होतुर्होतुरायजीयानग्ने यान् देवानयाड् याँ अपिप्रेर्ये ते होत्रे अमत्सत । तां ससनुषीं होत्रां देवंगमां दिवि देवेषु यज्ञमेरयेमं स्विष्टकृच्चाग्ने होताभूर्वसुवने वसुधेयस्य नमोवाके वीहि यज ॥

मूलम् - ७ [ ४ ]

(अ) होता यक्षदिन्द्रं हरिवाँ इन्द्रो धाना अत्तु पूषण्वान्करम्भं सरस्वतीवान् भारतीवान् परिवाप इन्द्रस्यापूषो मित्रावरुणयोः पयस्या प्रातःसावस्य पुरोळाशाँ इन्द्रः प्रस्थितां जुषाणो वेतु होतर्यज ॥
(आ) होता यक्षदिन्द्रं हरिवाँ इन्द्रो धाना अत्तु पूषण्वान् करम्भं सरस्वतीवान् भारतीवान् परिवाप इन्द्रस्यापूषो माध्यंदिनस्य सवनस्य पुरोळाशाँ इन्द्रः प्रस्थितां जुषाणो वेतु होतर्यज ॥
(इ) होता यक्षदिन्द्रं हरिवाँ इन्द्रो धाना अत्तु पूषण्वान् करम्भं सरस्वतीवान् भारतीवान् परिवाप इन्द्रस्यापूषस्तृतीयस्य सवनस्य पुरोळाशाँ इन्द्रः प्रस्थितां जुषाणो वेतु होतर्यज ॥
(उ) होता यक्षदग्निं पुरोळाशानां जुषतां हविर्होतर्यज ॥
(ए) होता यक्षद्वायुमग्रेगामग्रेयावानमग्रे सोमस्य पातारं करदेवं वायुरावसा गमज्जुषतां वेतु पिबतु सोमं होतर्यज ॥
(ऐ) होता यक्षदिन्द्रवायू अर्हन्ता रिहाणा गव्याभिर्गोमन्ता भ्रियन्तां वीरया शुक्रया एनयोर्नियुतो गोअग्रयाणां वीरौ कशाश्वपुरस्तात्तासामिह प्रयाणमास्तिकविमोचनं करत एवेन्द्रवायू जुषेतां वीतां पिबतां सोमं होतर्यज ॥
(ओ) होता यक्षन्मित्रावरुणा सुक्षत्रा रिशादसा नि चिन्मिषन्ता निचिरा निचय्याँसाक्ष्णश्चिद्गातुवित्तरानुल्बणेन चक्षसा ऋतमृतमिति दीध्याना करत एवं मित्रावरुणा जुषेतां वीतां पिबेतां सोमं होतर्यज ॥
(औ) होता यक्षदश्विना नासत्या दीद्यग्नी रुद्रवर्तनी न्यन्तरेण चक्रेण च वामीरिष ऊर्ज आवहतं सुवीराः सनुतरेणा नरुषो बाधेतां मधुकशयेमं यज्ञं युवाना मिमिक्षतां करत एवाश्विना जुषेतां वीतां पिबेतां सोमं होतर्यज ॥
(अं) होता यक्षदिन्द्रं प्रातः प्रातःसावस्यार्वावतो गमदा परावत ओरोरन्तरिक्षादा स्वात्सधस्थादिमे अस्मै शुक्रा मधुश्रुतः प्रस्थिता इन्द्राय सोमास्तां जुषतां वेतु पिबतु सोमं होतर्यज ॥
(अः) होता यक्षदिन्द्रं माध्यंदिनस्य सवनस्य निष्केवल्यस्य भागस्यात्तारं पातारं श्रोतारं हवमागन्तारमस्या धियो ऽवितारं सुन्वतो यजमानस्य वृधमोभा कुक्षी पृणतां वार्त्रघ्नं च माघोनं चेमे अस्मै शुक्रामन्थिनः प्रस्थिता इन्द्राय सोमास्तां जुषतां वेतु पिबतु सोमं होतर्यज ॥
(क) होता यक्षदिन्द्रं तृतीयस्य सवनस्य ऋभुमतो विभुमतो वाजवतो बृहस्पतिवतो विश्वदेव्यावतः समस्य मदाः प्रातस्तनाग्मत सं माध्यंदिनाः समिदातनास्तेषां समुक्षितानां गौर इव प्रगाह्या वृषायस्वायूया बाहुभ्यामुप याहि हरिभ्यां प्रप्रुथ्या शिप्रे निष्पृथ्य ऋजीषिन्निमे अस्मै तीव्रा आशीर्वन्तः प्रस्थिता इन्द्राय सोमास्तां जुषतां वेतु पिबतु सोमं होतर्यज ॥
(ख) होता यक्षदिन्द्रं मरुत्वन्तमिन्द्रो मरुत्वाञ्जुषतां वेतु पिबतु सोमं होतर्यज ॥
(ग) होता यक्षदादित्यान् प्रियान् प्रियधाम्नः प्रियव्रतान् महः स्वसरस्य पतीनुरोरन्तरिक्षस्याध्यक्षान् स्वादित्यमवोचत्तदस्मै सुन्वते यजमानाय करन्नेवमादित्या जुषन्तां मन्दन्तां व्यन्तु पिबन्तु मन्दन्तु सोमं होतर्यज ॥
(घ) होता यक्षद्देवं सवितारं परामीवां साविषत् पराघशंसं सुसावित्रमसाविषत्तदस्मै सुन्वते यजमानाय करदेवं देवः सविता जुषतां मन्दतां वेतु पिबतु सोमं होतर्यज ॥
(ङ) अग्निमद्य होतारमवृणीतायं सुन्वन् यजमानः पचन् पक्तीः पचन् पुरोळाशान् गृह्णन्नग्नय आज्यं गृह्णन् सोमायाज्यं बघ्नन्नग्नये च्छागं सुन्वन्निन्द्राय सोमं भृज्ज हरिभ्यां धानाः सूपस्था अद्य देवो वनस्पतिरभवदग्नय आज्येन सोमायाज्येनाग्नये च्छागेनेन्द्राय सोमेन हरिभ्यां धानाभिरघत्तं मेदस्तः प्रति पचताग्रभीदवीवृधत पुरोळाशैरपादिन्द्रः सोमं गवाशिरं यवाशिरं तीव्रान्तं बहुरमध्यमुपोत्था मदा व्यश्रोद्विमदाँ आनळवीवृधताङ्गूषैस्त्वामद्य ऋष आर्षेय ऋषीणां नपादवृणीतायं सुन्वन्यजमानो बहुभ्य आ संगतेभ्यः । एष मे देवेषु वसु वार्यायक्ष्यत इति ता या देवा देवदानान्यदुस्तान्यस्मा आ च शास्स्वा च गुरस्वेषितश्च होतरसि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥
(च) धानासोमानामिन्द्राद्धि च पिब च बब्धां ते हरी धाना उप ऋजीषं जिघ्रतामा रथचर्षणे सिञ्चस्व यत्त्वा पृच्छाद्विषं पत्नीः क्वामीमदथा इत्यस्मिन् सुन्वति यजमाने तस्मै किमरास्थाः । सुष्ठु सुवीर्यं यज्ञस्यागुर उद्यचं यद्यदचीकमतोत्तत्तथाभूद्धोतर्यज ॥
(छ) इह मद एव मघवन्निन्द्र ते श्वो वसुमतो रुद्रवतो आदित्यवत ऋभुमतो विभुमतो वाजवतो बृहस्पतिवतो विश्वदेव्यावतः श्वस्सुत्यामग्निमिन्द्रायेन्द्राग्निभ्यां प्रब्रूहि । मित्रावरुणाभ्यां वसुभ्यो रुद्रेभ्यो आदित्येभ्यो विश्वेभ्यो देवेभ्यो ब्रह्मणेभ्यः सोम्येभ्यः सोमपेभ्यो ब्रह्मन् वाचं यच्छ ॥
(ज) होता यक्षदश्विना सोमानां तिरो अह्व्यानां त्रिरा वर्तिर्यातां त्रिरह मानयेथामुतो तुरीयं नासत्या वाजिनाय देवाः । सजूरग्नी रोहिदश्वो घृतस्नुः । सजूरुषा अरुषेभिः । सजूः सूर्य एतशेभिः । सजोषसावश्विना दंसोभिः करत एवाश्विना जुषेतां मन्देतां वीतां पिबेतां सोमं होतर्यज ॥

मूलम् - ७ [ ५ ]

(अ) होता यक्षदिन्द्रं होत्रात्सजूर्दिवा पृथिव्या ऋतुना सोमं पिबतु होतर्यज ॥
(आ) होता यक्षन्मरुतः पोत्रात्सुष्टुभः स्वर्का ऋतुना सोमं पिबन्तु पोतर्यज ॥
(इ) होता यक्षद्ग्रावो नेष्ट्रात्त्वष्टा सुजनिमा सजूर्देवानां पत्नीभिर्ऋतुना सोमं पिबतु नेष्टर्यज ॥
(उ) होता यक्षदग्निमाग्नीध्रादृतुना सोमं पिबत्वग्नीद्यज ॥
(ए) होता यक्षदिन्द्रं ब्रह्माणं ब्रह्मणादृतुना सोमं पिबतु ब्रह्मन् यज ॥
(ऐ) होता यक्षन्मित्रावरुणा प्रशास्तारौ प्रशास्त्रादृतुना सोमं पिबतां प्रशास्तर्यज ॥
(ओ) होता यक्षद्देवं द्रविणोदां होत्रादृतुभिः सोमं पिबतु होतर्यज ॥
(औ) होता यक्षद्देवं द्रविणोदां पोत्रादृतुभिः सोमं पिबतु पोतर्यज ॥
(अं) होता यक्षद्देवं द्रविणोदां नेष्ट्रादृतुभिः सोमं पिबतु नेष्टर्यज ॥
(अः) होता यक्षद्देवं द्रविणोदामपाद्धोत्रादपात्पोत्रादपान्नेष्ट्रात्तुरीयं पात्रममृक्तममर्त्यमिन्द्रपानं देवो द्रविणोदाः पिबतु द्राविणोदसः ।
स्वयमायूयाः स्वयमभिगूर्याः स्वयमभिगूर्तया होत्राय ऋतुभिः सोमस्य पिबत्वच्छावाक यज ॥
(क) होता यक्षदश्विनाध्वर्यू आध्वर्यवादृतुना सोमं पिबेतामध्वर्यू यजताम् ॥
(ख) होता यक्षदग्निं गृहपतिं गार्हपत्यात्सुगृहपतिस्त्वधाग्ने ऽयं सुन्वन् यजमानः स्यात्सुगृहपतिस्त्वमनेन सुन्वता यजमानेनाग्निर्गृहपतिर्गार्हपत्यादृतुना सोमं पिबतु गृहपते यज ॥

टिप्पनी - ७ [ ५ ]

[१] एते प्रैषा मु-पुस्तके ऽप्युपलभ्यन्ते । तथा च १ = मैसं ४. १३. २; कासं १५. १३; तैब्रा ३. ६. २; → ऐब्रा २. ४. १-१५ सायणभाष्यं; वासं २१. २९; ३०; ३३; ३४.
अ. = ऋसं ३. ५. ९; ऋप्रा १. ५७. नाभा पृथिव्याः = ऋसं १. १४३. ४ ।
इ. नराशंसं नृशस्तं नॄँ प्रणेत्रं = ऋप्रा ४ ७८. नृशस्तं; नृशस्त्रं-मु ।
ए. सदन्तुः स्वदन्तु-मैसं ।
ऐ. कवष्यो कोषधावनीः = ऋप्रा २. ४१. यक्षद्दूर; यशद्दुर-मु. ०रुदाताभि०; ०रुद्राताभि०-मु. श्रयन्तां; श्रयतां-मु. सुप्रायणा अस्मिन्यज्ञे वि श्रयन्तां = निरु ४. १८ (नि. ४. १)
ओ. नॄँ पतिभ्यो योनिं कृण्वाने = ऋप्रा ४. ७८.
औ. स्विष्टमद्यान्यः करत् = ऋप्रा ४. ५१. स्वतवसेमं-कासं; सतवसेमं-का-तैब्रा-मु ।
अः. अचिष्टं-मु; अचिष्टुं-का-कासं-तैब्रा ।
ख. = आश्वश्रौ ३. ४; शांश्रौ ५. १८. २. जुषाणा … व्यन्तु = ऐब्रा १. १७. ६ (सभाष्यं) : जुषाणो अग्निराज्यस्य वेतु. अयं प्रैषः मु-पुस्तके ७ [ २ ] अ अनन्तरं मुद्रितः । ‘इति प्रयाजप्रैषः’ इति च तत्राधिकम् ।
[ २ ] शांश्रौ ५. १६. ९; मैसं ४. १३. ५ : कासं १६. २१; तैब्रा ३. ६. ५-१५; ऐब्रा २. ५. ७; मु एतेष्वेते प्रैषा उपलभ्यन्ते । ‘उपप्रैषाः’ इति तेषां नाम ।
अ. उपप्रेष; उपप्रेष्य-तैब्रा-मु ।
आ-इ. = मैसं ४. १३. ५; आश्वश्रौ ३. ४. ८ भाष्यम् ।
उ. = शांश्रौ ५. १८. १०; → मैसं ४. १३. ५; तैब्रा ३. ६. ८. १. अग्नीषोमौ-मु; अग्नी-मैसं; इन्द्राग्नी-तैब्रा ।
ए. = शांश्रौ ५. १९. ७; → मैसं ४. १३. ५; तैब्रा ३. ६. ८. २. अग्नीषोमौ-मु; अग्नी- मैसं; इन्द्राग्नी-तैब्रा. ‘ए’ इत्यस्यानन्तरं मु-पुस्तके ‘होता यक्षदग्निं पुरोळाशस्य जुषतां हविर्होतर्यज’ इत्यधिकम् ।
ऐ. = मैसं ४. १३. ७; कासं १८. २१; तैब्रा ३. ६. ११. १; शांश्रौ ५. १९. १५; निरु ४. ३; → वासं २१. ४३. अग्नीषोमौ-मु; अग्नी-मैसं-कासं इन्द्राग्नी-तैब्रा. हविषा; हविष- मु. अग्निष्वात्तानां पीवोपवसनानां = ऋप्रा २. ७३. पार्श्वतः श्रोणितः शितामतः = निरु ४. ३. उत्सादतो ऽङ्गादङ्गादवत्तानां = ऋमा २. ४१. एवाग्नीषोमौ-मु; एवेन्द्राग्नी-इतरेषु ।
ओ. = निरु ८. ९; मसं ४. १३. ७; कासं १८. २१; तैब्रा ३. ६. ११; शांश्रौ ५. १९. १८.
औ. = मैसं ४. १३. ७; कासं १८. २१; तैब्रा ३. ६. ११; शांश्रौ ५. १९. १९. → वासं २१. ४६. वहा; वह-मु. दधिषो; दिधिषो-मु.
अं. = मैसं ४. १३. ७; कासं १८. २१; तैब्रा ३. ६. १२; निरु ८. २०; शांश्रौ ५ १९. २०; ऋप्रा ७. ९. वनस्पते रशनया नियूय = ऋसं १०. ७०. १०
अः. = मैसं ४. १३. ७; कासं १८. २१; शांश्रौ ५. १९. २२; → वासं २१. ४७; तैब्रा ३. ६. ११. ४; शांश्रौ १. ९. २. अग्नीषोमयोश्छागस्य-मुः अग्न्योश्छागस्य-मैसं; अश्विनोश्छागस्य-कासं; अग्निरिन्द्राग्नियोश्छागस्य-तैब्रा. अध्वरा; अध्वरान्-कासं. ’अः’ अस्यानन्तरं ‘इति पाशुकप्रैषाः । अथानुयाजप्रैषाः’ इति मु-पुस्तके ।
क. = मैसं ४. १३. ९; तैब्रा ३. ६. १५; शांश्रौ ५. २०. ५; वासं २१. ५९-६१; २८. ४६. अग्नीषोमाभ्यां-मु; इन्द्राग्निभ्यां-मैसं-तैब्रा. सूपस्थाद्य-का; सूपस्था अद्य-मु; → तैसं १. २. २. ३ : सूपस्था देवो वनस्पतिः. छागेनाधत्तां-का; छागेनाधत्तं-वासं २८. ४६: शांश्रौ ५. २०. ५ भाष्यं; छागेनाघस्तां-तैब्रा-मैसं; छागेनाद्यस्तं-मु. शांश्रौ ६. १. १०; ११ (सभाष्यं). संगतेभ्यः संगथेभ्यः-मु. ‘वसु’ मु-पुस्तके नास्ति । मु-पुस्तके ‘क’ इत्ययं प्रैषः ‘सूक्तवाकप्रैषः’ इति संज्ञया ७ [ ३ ] अनन्तरं वर्तते ।
[ ३ ] अ. = मैसं ४. १३. ८; तैब्रा ३. ६. १३; शांश्रौ ५. २०. १; → वासं २१. ४८; २८. १२. आ. = मैसं ४. १३. ८; तैब्रा ३. ६. १३; → वासं २१. ४९; २८. १३. मैना अर्वा रेणुककाटः प्रणग् → ऋसं ८. २८. ४ : न ता अर्वा रेणुककाटो अश्नुते. प्रणग्-मैसं; पृणग्-तैब्रा-मु. ०स्तरुणा; ०स्तरुण-तैब्रा-मु. नवजातो; वनजातौ-मु ।
इ. = मैसं ४. १३. ८; तैब्रा ३. ६. १३; → वासं २१. ५०; २८. १४. व्यस्मिन्-का; ०द्यास्मिन्-मैसं-तैब्रा-मु. प्रायासिष्टां; प्रायाशिष्टां-तैब्रा ।
उ. = मैसं ४. १३. ८; तैब्रा ३. ६. १३; निरु ९. ४२; → वासं २१. ५१; २८. १५. यूयवदा०; युयुवदा॰-मु ।
ए. = मैसं ४. १३. ८; तैब्रा ३. ६. १३; निरु ९. ४३; → वासं २१. ५२; २८. १६. दयमानाः-मैसं; दयमाना-तैब्रा-मु ।
ऐ. = मैसं ४. १३. ८; तैब्रा ३. ६. १३ → वासं २१. ५३; २८. १७. हृताघशंसौ-तैब्रा-मु; हताघशंसा-मैसं ।
ओ. = मैसं ४. १३. ८; तैब्रा ३. ६. १३ → वासं २१. ५४; २८. १८.
औ. = मैसं ४. १३. ८; तैब्रा ३. ६. १६; शांश्रौ १. १३. २; → वासं २१. ५५; २८. १९.
अं. = मैसं ४. १३. ८; तैब्रा ३. ६. १३; शांश्रौ ५. २०. ४: → वासं २१. ५६; २८. २०. ०मुपरेणा०; ०मपरेणा०-मु ।
अः. = मैसं ४. १३. ८; तैब्रा ३. ६. १३; शांश्रौ ५. २०. ४; → वासं २१. ५७; २८. २१. यशस्वदेना; यशस्विदेना-मु ।
क. = खिल ४. ९. ६; मैसं ४. १०. ३; तैब्रा ३. ५. ९. १; ३. ६. १३; ऋप्रा ४. ७३; अश्वश्रौ १. ८; शांश्रौ १. १३. ३-४ → वासं २१. ५८; २८. २२.
[४] अ. = आश्वश्रौ ५. ४; शांश्रौ ७. १. ३. मु-पुस्तके अस्मात्पूर्वं किंचिदधिकं विद्यते तद्यथा- ‘अथ सुत्यायां सवनीयप्रैषाः । होता यक्षदग्निं च्छागस्य वपाया मेदसो जुषतां हविर्होतर्यज’ । इन्द्रं हरिवाँ … इन्द्रस्यापूपो = ऐब्रा २. २४. ५. प्रातःसावस्य; प्रातः प्रातःसावस्य-मु । मु-पुस्तके अ इति प्रैषानन्तरं उ ए ऐ ओ औ अं इति प्रैषा मुद्रिताः शिष्टाश्च ७ [ ५ ] अन्ते निवेशिताः । ७ [ ५ ] अन्ते ‘होता यक्षदग्निं पुरोळाशस्य जुषतां हविर्होतर्यज’ इति प्रैषो मुद्रितः । तस्य चानन्तरं आ उ अः ख ग इति प्रैषा विनिवेशिताः तदनन्तरं कियांश्चिदधिको भागो वर्तते तस्य चानन्तरं इ क घ ङ च छ ज इति प्रैषाणां स्थानम् । मध्ये वर्तमानो मु-पुस्तकस्थो ऽधिको भागो ऽत्र दीयते-

मूलम्

होता यक्षदग्निं छागस्य हविष आददद्य मध्यतो मेद उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्यागृभः ॥
घसन्नूनं घासे अज्राणां यवसप्रथमानां सुमत्क्षराणां शतरुद्रियाणामग्निष्वात्तानां पीवोपवसनानां पार्श्वतः श्रोणितः शितामत उत्सादतो ऽङ्गादङ्गादवत्तानां करदेवाग्निर्जुषतां हविर्होतर्यज [→ प्रैष ७. [२] ऐ ] ॥
(होता यक्षद्वनस्पतिमभि हि पिष्टतमया रभिष्टयारशनयाधित ॥
यत्राग्नेराज्यस्य हविषः प्रिया धामानि यत्र सोमस्याज्यस्य हविषः प्रिया धामानि यत्राग्नेश्छागस्य हविषः प्रिया धामानि यत्र वनस्पतेः प्रिया पाथांसि यत्र देवानामाज्यपानां प्रिया धामानि यत्राग्नेर्होतुः प्रिया धामानि तत्रैतं प्रस्तुह्येवोपस्तुत्येवोपावस्रक्षद्रभीयांसमिव कृत्वी करदेवं देवो वनस्पतिर्जुषतां हविर्होतर्यज [= प्रैष. ७ [२] औ ] ॥
होता यक्षदग्निं स्विष्टकृतमयाळग्निरग्नेराज्यस्य हविषः प्रिया धामान्ययाट् सोमस्याज्यस्य हविषः प्रिया धामान्ययाळग्नेश्छागस्य हविषः प्रिया धामान्ययाट् वनस्पतेः प्रिया पाथांस्ययाट् देवानामाज्यपानां प्रिया धामानि यक्षदग्नेर्होतुः प्रिया धामानि यक्षत्स्वं महिमानमायजतामेज्या ऽइष कृणोतु सो ऽअध्वरा जातवेदा जुषतां हविर्होतर्यज) [ = प्रैष ७ [ २ ] अः ]

टिप्पनी

उ. = आश्वश्रौ ५. ४; शांश्रौ ७. १. ७
ए. = आश्वश्रौ ५. ५; शांश्रौ ७. २. ३. अवसा गमत् = ऋसं ५. ४६. ६.
ऐ. = आश्वश्रौ ५. ५; शांश्रौ ७. २. ३. अर्हन्ता रिहाणा-का; अर्हन्तार्हणा-मु. गोअग्रयाणां वीरौ कशाश्वपुरस्तात्-का; गोअग्रा वीरोपशाश्वपुरस्त्याः-मु. आस्तिकविमोचनं-का; अस्त्विहविमोचनं-मु ।
ओ. = शांश्रौ ७. २. ६; आश्वश्रौ ५. ५. नि चिन्मिषन्ता … चक्षसा = ऋसं ८. २५. ९ : अक्ष्णश्चिद्गातुवितरानुल्बणेन चक्षसा । नि चिन्मिषन्ता निचिरा नि चिक्यतुः । निचय्याँसा°-का; निचिर्यांसा०-मु. चक्षसा-का; चक्षस-मु. पिबेतां-का; पिब्तां-मु ।
औ. = शांश्रौ ७. २. ९; आश्वश्रौ ५. ५. च वामीः-का; वामीः-मु. ऊर्ज आवहतं-का; ऊर्जावहतं-मु. ०आ नरुषो-का; ०आररुषो-मु. मधुकशयेमं यज्ञं युवाना मिमिक्षतां = पंब्रा २१. १०. १२; काश्रौ २३. ३. १. पिबेतां-का; पिबतां मु.
अं. = शांश्रौ ७. ४. २; आश्वश्रौ ५. ५. ओरोरन्तरिक्षात् = ऋसं ३. ४६. ३. स्वात्सधस्थात् = ऋसं ६. १७. ५.
अः. = शांश्रौ ७. १७. ४; आश्वश्रौ ५. ५. मन्थिनः-का; मधुश्चुतः-भु.
क. = शांश्रौ ८. २. ४. प्रातस्तनाग्मत-का; प्रातस्तना अग्मत-मु. वृषायस्वायूया बाहुभ्यां = ऋप्रा ९. ५२. प्रप्रुथ्या शिप्रे = ॠसं ३. ३२. १. ऋजीषिन्-का; ऋजीषिं-मु. निष्पृथ्य-का; निष्यृथ्य-मु ।
ख. = शांश्रौ ७. १९. ३.
ग. = शांश्रौ ८. १. ५; आश्वश्रौ ५ १७. प्रियधाम्नः … पतीनुरोः = ऋप्रा ४. ७३. स्वादित्यमवोचत तत्-का; खादित्यानवोदधत्-मु. ‘मन्दन्तु’ मु-मध्ये नास्ति ।
घ. = शांश्रौ ८. ३. ३; आश्वश्रौ ५. १८. सुसावित्रमसाविषत् = ऋप्रा ५. २७. मन्दतां-का; मदतां-मु ।
ङ. = शांश्रौ ५. २०. ६ (भाष्यं) → मैसं ४. १३. ९; तैब्रा ३. ६. १५; वासं २१. ५९; २८. २३; प्रैष [ २ ] क. भृज्ज-का; भृंजन्-मु. तीव्रान्तं बहुरमध्यं = ऐब्रा २. २०. १५. मदा व्यश्रोत्-का; मदाश्रौत्-मु. संगतेभ्यः-का; संगथेभ्यः-मु ।
च. = शांश्रौ ८. ८. २; निरु ५. १२ (सभाष्यं). धानासोमानां-का-मु; धानाः सोमानां-शांश्रौ-निरु (भाष्यं). यत्त्वा-का-निरु; यत्वा-मु. विषं पत्नीः-का-मु; यृषन् पत्नी-निरु (भाष्यं). अरास्थाः-का-निरु; अरात्थाः-मु. उदृशं; उद्रुचं-निरु (भाष्यं). यद्यदचीक०-का; यद्यदृचीक०-मु. अचीकमतोत्तत्तथा-का; अचीकमतां तत्तथा-निरु (भाष्यं) ।
छ. = शांश्रौ १०. १. ११. मु-मध्ये एतन्नास्ति. ते श्वो-का; तेभ्यो-शांश्रौ (भाष्यं). वसुमतो …. विश्वदेव्यावतः = ऐब्रा २. २०. १४ : वसुमते रुद्रवत आदित्यवत ऋभुमत विभुमते वाजवते बृहस्पतिवते विश्वदेव्यावते. → मैसं ४. ९. ८; प्रैष [ ४ ] क.
ज. = आश्वश्रौ ६. ५. आ वर्तिः-का; वर्तिः-मु. यातां-का; यातं-मु. अह-का; ??ह-मु. मानयेथां-का; मादयेथां-मु. देवाः-का; धेनुः-मु. अरुषेभिः-का; अरुणांभिः-मु. एतशेभिः-का; एतशेन-मु. सजोषसावश्विना-का; सजोषावश्विना-मु. मन्देतां-का; मदेतां-मु. पिबेतां-का; पिबतां-मु ।
[ ५ ] एते द्वादश ऋतुप्रैषाः ऐब्रा ५. ९; मु अत्रोपलभ्यन्ते ।
अ. = शांश्रौ ७. ८. २. दिवा-का; दिव आ-मु ।
आ. पिबन्तु-का; पिबतु-मु ।
ए. इन्द्रं ब्रह्माणं-का; इन्द्रो ब्रह्मा-मु. ब्रह्मणा०-का; ब्राह्मणा०-मु. प्रशास्तर्यज = ऋप्रा १. १०२; माश्रौ २. ४. १. २८.
औ. पोतर्यज = ऋप्रा १. १०१; माश्रौ २. ४. १. २८.
अः → ऋसं २. ३७. ४. ‘पिबतु’ मु-मध्ये नास्ति ।
क. पिबेतामध्वर्यू यजताम्-का; पिबतामध्वर्यू यजतं-मु ।
ख. त्वधाग्ने-का; त्वयाग्ने-मु. = त्वयाग्ने ऽयं सुन्वन्यजमानस्य-ऋप्रा २. ४२; मु. काश्मीरपुस्तके ऽविद्यमाना अन्ये ऽपि केचन प्रैषाः सूत्रेषु ऋक्प्रातिशाख्ये च निर्दिष्टा वर्तन्ते ते ऽप्यत्र संगृह्यन्ते-

मूलम् - १

होता यक्षदश्विना सरस्वतीमिन्द्रं सुत्रामाणमिमे सोमाः सुरामाणश्छागैर्न मेषैर्ऋषभैः सुताः शष्पैर्न तोक्मभिर्लाजैर्महस्वन्तो सदा मासरेण परिष्कृताः शुकाः पयस्वन्तो ऽमृताः प्रस्थिता वो मधुश्चुतस्तानश्विना सरस्वतीन्द्रः सुत्रामा वृत्रहा जुषन्तां सौम्यं मधु पिबन्तु मदन्तु व्यन्तु होतर्यज ।

टिप्पनी - १

= वासं २१. ४२; तैब्रा २. ६. ११. १०; शांश्रौ १५. १५. ९, मैसं ३. ११. ४; कासं ३८. ९. शुक्राः पयस्वन्तो ऽमृताः → ऋप्रा २. ४८. तानश्विना सरस्वतीन्द्रः → ऋप्रा ४. ७३. अश्विना-तैब्रा-शांश्रौ; अश्विनौ-इतरेषु. सुत्रामाणं-वासं-तैब्रा-शांश्रौ; मैसं-कासं मध्य एतन्नास्ति. परिष्कृताः-वासं-तैब्रा; परिस्रुता-मैसं. सदा; मदा-तैब्रा. मधुश्चुतः-वासं-तैब्रा; मधुश्च्युतः-मैसं. सुत्रामा वृत्रहा-वासं-तैब्रा; मैसंमध्ये नास्ति. मदन्तु व्यन्तु-वासं; मदन्तां व्यन्तु-मैसं; मदन्तु वियन्तु सोमं-तैब्रा.

मूलम् - २

पिता मातरिश्वाछिद्रा पदा धा अच्छिद्रोक्था कवयः शंसन् सोमो विश्वविन्नीथानि नेषद्बृहस्पतिरुक्थामदानि शंसिषत् ।

टिप्पनी - २

आज्यशस्त्रात्पूर्वं करणीयो ऽयं जपः ऐब्रा २. ३८; आश्वश्रौ ५. ९; शांश्रौ ७. ९. १; तैसं ५. ६. ८. ६. अत्रोपलभ्यते । बृहस्पतिरुक्थामदानि शंसिषत् = ऋप्रा ९. ९. धा अच्छिद्रोक्था; धादच्छिद्रोक्था-आश्वश्रौ. अच्छिद्रोक्था कवयः शंसन् सोमो विश्वविन्नीथानि; अच्छिद्रा उशिजः पदा नु तक्षुः सोमो विश्वविन्नेता-तैसं; पदोशिगसीयानुतक्षिषत्सोमो नीथविन्नीथानि-शांश्रौ.

मूलम् - ३

दैव्याः शमितार आरभध्वमुत मनुष्या उपनयत मेध्या दुर आशासाना मेधपतिभ्यां मेधम् । प्रास्मा अग्निं भरत स्तृणीत बर्हिरन्वेनं माता मन्यतामनु पितानु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यः । उदीचीनामस्य पदो निधत्तात्सूर्यं चक्षुर्गमयताद्वातं प्राणमन्ववसृजतादन्तरिक्षमसुं दिशः श्रोत्रं पृथिवीं शरीरम् । एकधास्य त्वचमाच्छ्यतात्पुरा नाभ्या अपिशसो वपामुत्खिदतादन्तरेवोष्माणं वारयध्वात् । श्येनमस्य वक्षः कृणुतात्प्रशसा बाहू शला दोषणी कश्यपेवांसाछिद्रे श्रोणी कवषोरू स्रेकपर्णाष्ठीवन्ता षड्विंशतिरस्य वङ्क्रयस्ता अनुष्ठ्योच्च्यावयताद्गात्रं गात्रमस्यानूनं कृणुतात् । ऊवध्यगोहं पार्थिवं खनतान् । अस्ना रक्षः सं सृजतात् । वनिष्ठुमस्य मा राविष्टोरूकं मन्यमाना नेद्वस्तोके तनये रविता स्वच्छमितारः । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३उ ॥

टिप्पनी - ३

तैब्रा ३. ६. ६. १ भाष्ये अध्रिगुप्रैष इत्यस्य संज्ञा । ऐब्रा २. ६; शांब्रा १०. ४; आश्वश्रौ ३. ३; शांश्रौ ५. १७. १-१०; मैसं ४. १३. ४; तैब्रा ३. ६. ६. १- ३; कासं १६. २१; निरु ५. ११ भाष्यं एतेष्विदं दृश्यते । → शब्रा १३. ५. २.
उदीचीनाम्; उदीचीनाँ-निरुक्तभाष्यं. सगर्भ्यो ऽनु सखा सयूथ्यः-ऋमा २. ४१. अध्रिगो शमीध्वं सुशमि शमीध्वमध्रिगो-निरु ५. ११. माता मन्यतामनु पितानु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यः-वासं ६. ९. आरभध्वमुत मनुष्या-ऐब्रा-आश्वश्रौ; उत मनुष्या आरभध्वं-इतरेषु. मेधपतिभ्यां; मेधपतये-मैसं. स्तृणीत बर्हिः = ऋसं १. १३. ५. अन्ववसृजतादन्तरिक्षमसुं दिशः श्रोत्रं-ऐब्रा-आश्वश्रौ-शांश्रौ; अन्ववसृजताद्दिशः श्रोत्रगन्तरिक्षमसुं-तैब्रा; अन्ववसृजतादन्तरिक्षमसुं-मैसं. वारयध्वात्-ऐब्रा-आश्रश्रौ-शांश्रौ; वारयतात्-तैब्रा-मैसं. रवच्छमितारः-ऐब्रा-आश्वश्रौ-शांश्रौ-तैब्रा; रवद्-मैसं. अन्ये ऽपि केचन प्रैषा आश्वश्रौ-मध्य उपलभ्यन्ते ते ऽत्रोद्रियन्ते-
आश्वश्रौ ३. ९; कासं १७. १९; मु-
होता यक्षदश्विना सरस्वतीमिन्द्रं सुत्रामाणं सोमानां सुराभ्णां जुषन्तां व्यन्तु पिबन्तु मदन्तु सोमान् सुराम्णो होतर्यज ।
आवश्रौ ३. ५; शांश्रौ ५. १९; मैसं ४. १३. ५; मु-
होता यक्षदग्निं पुरोळाशस्य जुषतां हविर्होतर्यज ।
आश्वश्रौ १०. ९; शांश्रौ १६. ७. २; वासं २३. ६४; मु-
होता यक्षत्प्रजापतिं महिम्नो जुषतां वेतु पिबतु सोमं होतर्यज ।

मूलम् - ८

कुन्तापाध्यायः (८-२२)

इदं᳓ जना उपश्रुतं न᳓राशं᳓स स्तविष्यते ।
षष्टिं᳓ सह᳓स्रा नवतिं᳓ च कौर᳓व आ᳓ रुश᳓मेषु दद्महे ॥ १ ॥
उ᳓ष्ट्रा य᳓स्य प्रवा᳓हिणो वधू᳓मन्तो द्वि᳓र्द᳓श ।
वर्ष्मा᳓ र᳓थस्य नि᳓ जिहीळते दि᳓व ई᳓षमाणा उ᳓पस्पृ᳓शः ॥ २ ॥
एष᳓ इषा᳓य मामहे शतं᳓ नि᳓ष्कान् द᳓श स्रजः ।
त्री᳓णि शता᳓न्य᳓र्वतां सह᳓स्रा द᳓श गो᳓नाम् ॥ ३ ॥

टिप्पनी - ८

८-२२ एतानि कुन्तापसूक्तानि ऐतरेयब्राह्मणे (६. ३२-३६) निर्दिष्टानि । तत्र ‘इदं जना’ इत्याद्या ऋचः ‘नाराशंस्यः’ उच्यन्ते । अथर्व २०. १२७. १-३; शांश्रौ १२. १४. १-३ अत्रापि ता उपलभ्यन्ते । ऋसं १. १२६. १-३ आभिः सह प्रायः तासां समानत्वम् ।
१. = आश्वश्रौ ८. ३ जना उपश्रुतं-का; जना उपश्रुत-इतरेषु. नराशंस-का-शांश्रौ-आश्वश्रौ-मु; नाराशंस-अथर्व. कौरव-का-शांश्रौ; कौरम-इतरेषु ।
२. प्रवाहिणो; प्रवाहणो-अथर्व-मु ।
३. इषाय-का-अथर्व-शांश्रौ; इयाय-मु ।

मूलम् - ९

वच्य᳓स्व रेभ वच्य᳓स्व वृक्षे᳓ न᳓ पक्वे᳓ शकुनः᳓ ।
नि᳓ष्टे जिह्वा᳓ चर्चरीति क्षुरो᳓ न᳓ भुरि᳓जोरिव ॥ १ ॥
प्र᳓ रेभासो मनी᳓षया वृ᳓था गा᳓व इवेरते ।
अमो᳓तपुत्रका एषा᳓मु मो᳓दका उपा᳓सते ॥ २ ॥
प्र᳓ रेभ धि᳓यं भरस्व गोवि᳓दं वसुवि᳓दम् ।
देवत्रे᳓मां᳓ वा᳓चं शृणीही᳓षुर्ना᳓ वीरा᳓स्तारम् ॥ ३ ॥

टिप्पनी - ९

एता: ‘रैभ्यः’ अथर्व २०. १२७. ४-६; शांश्रौ १२. १५. १; १२. १४, ४-५; मु अत्रोपलभ्यन्ते ।
१. निष्टे-का; नष्टे-अथर्व-शांश्रौ-मु. क्षुरो न भुरिजोरिव = ऋसं ८. ४. १६.
२. मनीषया-का-मु; मनीषा-अथर्व-शांश्रौ. एषामु मोदका उपासते-का; एषाममोत गा इवासते-अथर्व-शाश्रौ; अमोतका इवासते-मु ।
३. धियं-का; धीं-अथर्व. शृणीहीषुः-मु-शांश्रौ; श्रीणीहीषुः-अथर्व. वीरास्तारं-का; वीरस्तारं-अथर्व-शांश्रौ; न वीरमस्तारं-मु ।

मूलम् - १०

रा᳓ज्ञो विश्वजनी᳓नस्य यो᳓ देवो᳓ म᳓र्त्याँ अ᳓ति ।
वैश्वानर᳓स्य सुष्टुति᳓मा᳓ सुनोता परिक्षि᳓तः ॥ १ ॥
परिक्षि᳓न्नः क्षे᳓ममकरत्त᳓म आसन᳓मा᳓ सरम् ।
अराय्यं᳓ कु᳓र्वन् कौ᳓रव्यः प᳓तिर्वदति जाय᳓या ॥ २ ॥
कतर᳓त्त आ᳓ हराणि द᳓धि म᳓न्यां३ परिस्रु᳓तम् ।
जाया᳓ प᳓तिं वि᳓ पृच्छति राष्ट्रे᳓ रा᳓ज्ञः परिक्षि᳓तः ॥ ३ ॥
अ᳓भीव स्वः प्र᳓ जिहीते य᳓वः पक्वः᳓ प᳓थो बि᳓लम् ।
ज᳓नः स᳓ भद्र᳓मेधते राष्ट्रे᳓ रा᳓ज्ञः परिक्षि᳓तः ॥ ४ ॥

टिप्पनी - १०

एता: ‘पारिक्षित्यः’ अथर्व २०. १२७. ७-१०; शांश्रौ १२. १७. १. १-४; मु अत्रापि दृश्यन्ते । शांश्रौ १२. १६. २; आश्वश्रौ ८. ३; ऐब्रा ६. ३२ भाष्यमपि द्रष्टव्यम् ।
१. सुनोता-का-मु-अथर्व; शृणोता-शांश्रौ. परिक्षितः-का; परिक्षितिः-मु ।
२. परिक्षिन्नः-का; परिक्लिन्नः-मु; परिच्छिन्नः-अथर्व. क्षेममकरत्-का-मु; क्षेममकरुत्तम-शांश्रौ; क्षेममकरोत्-अथर्व. तम आसनमा-का-अथर्व; तमासुनुमा-मु. सरम्-का-मु; चरन्-अथर्व-शांश्रौ. अराय्यं-का; मरायं-मु; कुलायं-अथर्व-शांश्रौ. कुर्वन्-का-मु; कृण्वन्-अथर्व-शांश्रौ ।
३. मन्थां-मु-शांश्रौ; मन्थं-अथर्व. परिस्रुतं-शांश्रौ; परि श्रुतं-अथर्व; परिस्रुतां-मु. जाया-का; जायाः-अथर्व ।
४. अभीव स्वः प्र जिहीते-का; अभीवर्ष्म प्र जिहाते-मु. भद्रमेधते-का; भद्रमैधत्त-मु; भद्रमेधति-शांश्रौ ।

मूलम् - ११

इ᳓न्द्रः कारु᳓मबूबुधदु᳓त्तिष्ठ वि᳓ चरा च᳓रन् ।
म᳓मे᳓दुग्र᳓स्य चर्कृतिः᳓ स᳓र्व इ᳓त्ते पृणादरिः᳓ ॥ १ ॥
इह᳓ गावः प्र᳓ जायध्वमिहा᳓श्वा इह᳓ पूरुषाः ।
इहो᳓ सह᳓स्रदक्षिणो वीर᳓स्त्राता᳓ नि᳓ षीदतु ॥ २ ॥
ने᳓मा᳓ इन्द्र गा᳓वो रिषन्मो आ᳓पां गो᳓पती रि᳓षत् ।
मा᳓साममित्रयु᳓र्ज᳓न इन्द्र मा᳓ स्तेन᳓ ई᳓शत ॥ ३ ॥
उ᳓प वो न᳓र एमसि सूक्ते᳓न व᳓चसा वयं᳓ भद्रे᳓ण व᳓चसा वय᳓म् ।
च᳓नो दधिष्व नो गि᳓रो न᳓ रिष्येम कदा᳓ चन᳓ ॥ ४ ॥

टिप्पनी - ११

एताः ‘कारव्यः’ अथर्व २०. १२७. ११-१४; मु अत्र दृश्यन्ते । १-३ = शांश्रौ १२. १५. २-४.
२ ऐब्रा ८. ११; आपमं १. ९. १.
१. चरन्-का; जरन्-शांश्रौ; जनं-अथर्व-मु. चर्कृतिः-का; चर्कृधि-अथर्व-शांश्रौ-मु. सर्व इत्त पृणादरिः-का; सर्वां इत्ते पृणादुरिः-मु ।
२. वीरस्त्राता-का-मु; ऽपि पूषा-अथर्व-शांश्रौ । षीदतु-का; षीदति-अथर्व ।
३. नेमा-का-अथर्व-मु; मेमा-शांश्रौ. गोपती रिषत्-का-शांश्रौ; गोप रीरिषत्-अथर्व ।
४. वो नर एमसि-का-मु; नो न रमसि-अथर्व. चनो-का; वना-अथर्व. दधिष्व नो-का; दधिध्वं नो-मु; दधिध्वनो-अथर्व. नो गिरो-का; नों ऽगिरो-मु ।

मूलम् - १२

यः᳓ स᳓मेयो विदथ्यः३ सु᳓त्वा य᳓ज्या च पू᳓रुषः ।
सू᳓र्यं चा᳓मू रिशा᳓दसं त᳓द्देवाः᳓ प्रा᳓गकल्पयन् ॥ १ ॥
यो᳓ जाम्याः३ प्र᳓त्यमदद्यः᳓ स᳓खायं नि᳓नित्सति ।
ज्ये᳓ष्ठो य᳓द᳓प्रचेतास्त᳓दा᳓हुरधरागि᳓ति ॥ २ ॥
य᳓द्भद्र᳓स्य पु᳓रुषस्य पुत्रो᳓ भवति दा᳓धृषिः ।
त᳓द्वि᳓प्रो अ᳓ब्रवीदुद᳓ग्गन्धर्वः᳓ का᳓म्यं व᳓चः ॥ ३ ॥
य᳓श्च पणि᳓रमु᳓जिष्यो३ य᳓श्च रेवाँ᳓ अ᳓दाशुरिः ।
धी᳓राणां श᳓श्वताम᳓हं त᳓दपा᳓गि᳓ति शुश्रव ॥ ४ ॥
ये᳓ च देवा᳓ अयजन्ता᳓यो ये᳓ च पराददुः᳓ ।
सू᳓र्यो दि᳓वमिव गत्वा᳓य मघ᳓वानो वि᳓ रप्शते ॥ ५ ॥

टिप्पनी - १२

‘दिशां क्लृप्तयः’-नामकमेतत्सूक्तं अथर्व २०. १२८. १-५; मु अत्र वर्तते ।
१ = शांश्रौ १२. २०. २. १.
२ = शांश्रौ १२. २०. २. ३.
३ = शांश्रौ १२. २०. २. २.
४-५ = शांश्रौ १२. २०. २. ४. ऐब्रा ६. ३२ सायणभाष्यं द्रष्टव्यम् ।
१. रिशादसं**-का; रिशादसः-शांश्रौ-अथर्व. तद्देवाः-का; तं देवाः-मु ।
२. जाम्याः प्रत्यमदत्-का; जाम्या अप्रत्तमदत्-मु; जाम्या अप्रथयत्तत्-शांश्रौ; जाम्या अप्रथयः-अथर्व. यः-का-मु; यत्-अथर्व-शांश्रौ. निनित्सति-का-मु; दुधूर्षति-अथर्व-शांश्रौ. यदप्रचे०-का; यदि प्रचे०-मु ।
३. उदग्; उ तत्-अथर्व-शांश्रौ. काम्यं-का; काव्यं-मु ।
४. पणिरभुजिष्यो; पणि रघुजिष्ठ्यो-अथर्व. अहं-का-अथर्व-मु; अह-शांश्रौ. शुश्रव-का; शुश्रुम-अथर्व-शांश्रौ-मु ।
५. देवा; देवाँ-अथर्व. पराददुः-का; पराददिः-अथर्व-मु. गत्वाय-का; गत्वा-मु. मघवानो-का; मघवा नो-अथर्व ।

मूलम् - १३

यो᳓ ऽनक्ताक्ष्यो᳓ अनभ्यक्तो३ म᳓णिवो अ᳓हिरण्य᳓वः ।
अ᳓ब्रह्मा᳓ब्रह्मणः पुत्र᳓स्तो᳓ ता᳓ क᳓ल्पेषु सं᳓मिता ॥ १ ॥
य᳓ आ᳓क्ताक्ष्यः स्वभ्यक्तः सुम᳓णिः सुहिरण्य᳓वः ।
सु᳓ब्रह्मा ब्रह्म᳓णः पुत्र᳓स्तो᳓ ता᳓ क᳓ल्पेषु सं᳓मिता ॥ २ ॥
अप्रपाणा᳓ च वेशन्तां रेवाँ᳓ अ᳓प्रचतिश्च᳓यः ।
अ᳓यभ्या क᳓न्या कल्याणी त्वो᳓ ता᳓ क᳓ल्पेषु सं᳓मिता ॥ ३ ॥
सुप्रपाणा᳓ च वेशन्ता᳓ रेवाँ᳓ सु᳓प्रचतिश्च᳓यः ।
सु᳓यभ्या क᳓न्या कल्याणी᳓ त्वो᳓ ता᳓ क᳓ल्पेषु सं᳓मिता ॥ ४ ॥
परिवृक्ता᳓ च म᳓हिषी स्वस्या᳓ च यु᳓धिंगमः᳓ ।
श्वा᳓शुर᳓श्व आ᳓यामी त्वो᳓ ता᳓ क᳓ल्पेषु सं᳓मिता ॥ ५ ॥
वावाता च महिष्वणिस्या᳓ च यु᳓धिंगमः᳓ ।
अ᳓नाशुर᳓श्व आ᳓यामी त्वो᳓ ता᳓ क᳓ल्पेषु सं᳓मिता ॥ ६ ॥

टिप्पनी - १३

एताः जनकल्पाभिधा ऋचः अथर्व २०. १२८. ६-११; शांश्रौ १२. २१. २. १-६; मु अत्रापि द्रष्टव्याः ।
१. ०नाक्ताक्ष्यो-का; ०नाक्ताक्षो-अथर्व-शांश्रौ-मु. मणिवो-का-भु; अमणिवो-अथर्व-शांश्रौ. ०ब्रह्मणः पुत्र०-का; ०ब्रह्मणस्पुत्र-मु । पुत्रस्तो ता-का; पुत्रस्तोता-अथर्व. संमिता-का; संमितः-मु ।
२. आक्ताक्ष्यः-का; आक्ताक्षः- इतरेषु. स्वभ्यक्तः-का; सुभ्यक्तः-अथर्व. ब्रह्मणः पुत्र०-का; ब्रह्मणस्पुत्र०-मु. संमिता-का; संमितः-मु ।
३. वेशन्ता; येशान्ता-मु. अप्रचतिश्चयः-का; अप्रददिश्च यः-शांश्रौ-मु; अप्रतिदिश्ययः-अथर्व. अयभ्या; अयभ्रा-मु. त्वो ता-का; तोता-अथर्व-शांश्रौ-मु. संमिता-का; संमितः- मु ।
४. वेशन्ता; येशान्ता-मु. सुप्रचतिश्चयः-का; सुप्रददिश्च यः -शांश्रौ-मु; सुप्रतिदिश्ययः-अथर्व. सुयभ्या; सुयभ्रा-मु. त्वो-का; तो-अथर्व-मु-शांश्रौ. संमिता-का; संमितः-मु ।
५. परिवृक्ता च महिषी स्वस्त्या-का-अथर्व; परिवृक्ता च महिष्यनस्त्या-शांश्रौ; वावाता च महिष्यनस्ता-मु. च युधिंगमः-का; चायुधिंगमः-शांश्रौ. श्वाशुरश्व आयामी त्वो-का; अनाशुरश्व आयामी-मु; अनाशुरश्वायामी तो-शांश्रौ; अनाशुरश्चायामी-अथर्व. संमिता-का; संमितः-मु ।
६. वावाता; परिवृक्ता-मु. महिष्वणिस्था-का; महिषी स्वस्त्या-अथर्व-शांश्रौ; महिषी विष्वस्त्या-मु. अनाशुरश्व आयामी-का; श्वाशुरश्चायामी-अथर्व; श्वाशुरश्व आयामी-मु; श्वाशुरश्वायामी-शांश्रौ. त्वो-का; तो-अथर्व-शांश्रौ-मु. संमिता-का; संमितः- मु ।

मूलम् - १४

य᳓दिन्द्रादो᳓ दाशराज्ञे᳓ ऽमानुषं विगा᳓हथाः ।
वि᳓रूपः स᳓र्वस्मा आसीत्सदृ᳓ग᳓क्षाय व᳓ञ्चते ॥ १ ॥
त्वं᳓ विपाक्षं मघवन्नम्रं᳓ पर्याकरोरभि᳓ ।
त्वं᳓ रौहिणं᳓ व्यस्य᳓स्त्वं᳓ वृत्र᳓स्याभिनच्छि᳓रः ॥ २ ॥
यः᳓ प᳓र्वतान् व्य᳓दधाद्यो᳓ अपो᳓ व्य᳓गाहथाः ।
यो वृत्रं वृत्रहन्नहन् त᳓स्मा इन्द्र न᳓मो ऽस्तु ते ॥ ३ ॥
प्र᳓ष्टिं धा᳓वन्तं ह᳓र्योरौच्चैःश्रवस᳓मब्रवम् ।
स्वस्त्य᳓श्व जै᳓त्राये᳓न्द्रमा᳓ वहतो र᳓थम् ॥ ४ ॥
य᳓त्वा श्वेता᳓ उ᳓च्चैःश्रवसं ह᳓र्योर्युञ्जन्ति द᳓क्षिणम् ।
मूर्धा᳓नम᳓श्वं देवा᳓नां बि᳓भ्रदि᳓न्द्रं महीयते ॥ ५ ॥

टिप्पनी - १४

एताः ‘इन्द्रगाथाः’ अथर्व २०. १२८. १२-१६; मु-पुस्तके च द्रष्टव्याः ।
१ = शांश्रौ १२. १५. ५.
२ = शांश्रौ १२. १६. १. १.
४ = शांश्रौ १२. १६. १. २.
१. यदिन्द्रादो-अथर्व-शांश्रौ; यदिन्द्रो-मु. ऽमानुषं; मानुषं-अथर्व. विगाहथाः-अथर्व- शांश्रौ; व्यगाहथाः-मु. सदृगक्षाय वञ्चते-मु; सह यक्षाय कल्पते-अथर्व; स ह यक्ष्माय पत्यते-शांश्रौ ।
२. विषाक्षं-मु; वृषाक्षुं-अथर्व-शांश्रौ. पर्याकरोः-मु; मर्याकरोः-शांश्रौ; मर्याकरो-अथर्व. अभि-का-मु; अपि-शांश्रौ; रविः-अथर्व. व्यास्यस्त्वं-का-मु; व्यास्यो वि-अथर्व-शांश्रौ ।
३. यो वृषं वृत्रहन्नहन्; यो वृत्रो वृत्रहन्नहन्-मु; इन्द्रो यो वृत्रहान्महं-अथर्व. तस्मा इन्द्र-का; तस्मादिन्द्र-अथर्व ।
४. प्रष्टिं-का; पृष्ठं-अथर्व. अब्रवं-का-मु; अब्रुवन्-अथर्व-शांश्रौ. वहतो रथं-का; वह सुस्रजं-अथर्व-शांश्रौ-मु ।
५. यत्वा श्वेता उच्चैःश्रवसं; यत्वा श्वेतोच्चैःश्रवसं-मु; ये त्वा श्वेता अजैश्रवसो-अथर्व. हर्यो०-का-मु; हार्यो-अथर्व. मूर्धानमश्वं-का-मु; पूर्वा नमस्य-अथर्व. महीयते-का; महीयसे-भु. बिभ्रदिन्द्रं-का; बिभ्रदिन्द्र-अथर्व ।

मूलम् - १५

एता᳓ अ᳓श्वा आ᳓ प्लवन्ते । प्रतीपं᳓ प्रातिसत्वन᳓म् ।
ता᳓सामे᳓का ह᳓रिक्लिका । ह᳓रिक्लिके कि᳓मिच्छसि ॥ १ ॥
साधुं᳓ पुत्रं᳓ हिरण्यय᳓म् । क्वा᳓ह तं᳓ प᳓रास्यः ।
य᳓त्रामू᳓स्तिस्रः᳓ शिंश᳓पाः । प᳓रि त्र᳓यः पृ᳓दाकवः ॥ २ ॥
शृ᳓ङ्गं ध᳓मन्त आ᳓सते । अयं᳓ वहाते अवहि ।
स᳓ इत्थ कं स᳓ एव कम् । स᳓ घा घ ते स᳓घा घ मे ॥ ३ ॥
गोमी᳓ घ गोमिनीरभि । पु᳓मां भूम्ने᳓ निनित्ससि ।
ब᳓ल्बब᳓थो इ᳓ति । ब᳓ल्बबो अ᳓थो इ᳓ति ॥ ४ ॥
अ᳓जको ऽर᳓को ऽविका᳓ । अ᳓श्वस्य वारो गोः᳓ श᳓फः ।
केशि᳓नी श्ये᳓नी ए᳓नीव । अ᳓नामयोपजि᳓ह्विका ॥ ५ ॥
को᳓ अम्ब हु᳓लमा᳓युनि । को᳓ अ᳓र्जुन्याः प᳓यः ।
को᳓ अ᳓सिक्न्याः प᳓यः । ए᳓तं पृच्छ कुहं᳓ पृच्छ ॥ ६ ॥
कु᳓हा कं᳓ प᳓क्वकं पृच्छ । य᳓ आय᳓न्ति श्व᳓भिष्कु᳓भि ।
अ᳓ब्जन्तः कुभाय᳓वः । आ᳓मनको म᳓नस्थकः ॥ ७ ॥
देवत्तः᳓ प्र᳓तिजू᳓र्यः । पिन᳓ष्टि पर्तिका᳓ हविः ।
प्र᳓ बुद्बुदो मथायति । शु᳓ङ्ग उ᳓त्पत ॥ ८ ॥
मा᳓ त्वा᳓ति स᳓खा नो वदत् । वशा᳓याः पुत्र᳓मायन् त᳓म् ।
इ᳓रा चे᳓न्द्रममन्दत । इय᳓न्नियन्नि᳓ति ॥ ९ ॥
अ᳓थो इय᳓न्नि᳓ति । अ᳓थो ज्या᳓यस्तरो भुवत् ।
इयं᳓ यका᳓ शलाकका᳓ । आ᳓ भिनोति नि᳓ भज्यते ॥ १० ॥
त᳓स्या अनुनिभ᳓ञ्जनम् । व᳓रुणो याति ब᳓भ्रुभिः ।
शतं᳓ बभ्रो᳓रभी᳓शुभिः । शतं᳓ क᳓शा हिरण्य᳓यीः ॥ ११ ॥
शतं᳓ र᳓था हिरण्य᳓याः । आ᳓हलकुः शवर्तकः᳓ ।
आ᳓यवनेन तेजनी । शफे᳓न पी᳓व ओ᳓हते ॥ १२ ॥
व᳓निष्ठुनोप᳓ नृत्यति । इमं᳓ म᳓ह्यमदुरि᳓ति ।
ते वृक्षाः᳓ सह᳓ ति᳓ष्ठन्ति । पा᳓कवलिः श᳓कवलिः ॥ १३ ॥
अश्वत्थः᳓ खदिरो᳓ ध᳓वः । अरदुः᳓ परमः᳓ शये ।
हत᳓ इव पापपू᳓रुषः । अ᳓दोहमि᳓त्पी᳓यूषकम् ॥ १४ ॥
द्वौ᳓ च हस्ति᳓नो दृ᳓ती। अ᳓ध्यर्धं च प᳓रस्वतः ।
आ᳓दला᳓बुक᳓मेकक᳓म् । अलाबुकं᳓ नि᳓खातकम् ॥ १५ ॥
कर्करि᳓को निखात᳓कः । त᳓द्वा᳓त उ᳓न्मथायति ।
कुलायं᳓ क᳓रवाँ इ᳓ति । उग्रं᳓ वल्षदा᳓ततम् ॥ १६ ॥
न वल्षदा᳓ततम् । क᳓ एषां कर्करिं᳓ लिखत् ।
क᳓ एषां दुन्दुभिं᳓ हन᳓त् । य᳓दीं हनत्कथं᳓ हन᳓त् ॥ १७ ॥
दै᳓लीं हनत्कथं᳓ हन᳓त् । प᳓र्याका᳓रं पु᳓नः पुनः ॥ १८ ॥

टिप्पनी - १५

एतानि सप्ततिपदानि ‘ऐतशप्रलापाः’ इतिसंज्ञकानि अथर्व २०. १२९-१३२ मु-पुस्तके च द्रष्टव्यानि । १-३, १२, १५-१८ = शांश्रौ १२. १८. ऐब्रा ६. ३३; आश्वश्रौ ८. ३; वैसू ३२. २०; गोब्रा २. ६. १३ अपि द्रष्टव्यम् ।
१. प्रातिसत्वनं-का-ऐब्रा-मु; प्राति सुत्वनं-अथर्व-शांश्रौ. हरिक्लिका हरिक्लिके-शांश्रौ-मु; हरिविनका हरिक्निके-अथर्व ।
२. -अथर्व-शांश्रौ कं-मु ।
३. वहाते-का; महान्ते-मु; महा ते-अथर्व. अवहि-मु; अर्वाहः-अथर्व. स इत्थ कं स एव कं-का-मु; स इच्छकं सघाघते-अथर्व. सघा घ ते सघा घ मे-का; सघा घ ते सघा ग मे -मु; सघाघते-अथर्व ।
४. गोमी घ गोमिनीरभि-का; गोमी घ मोमिनीरभि-मु; गोमीघा गोगतीरिति-अथर्व. पुमां भूम्ने निनित्ससि-का; पुमां कुस्तेनिमिच्छसि-अथर्व; पुमान् भूम्ने निजित्सति-मु. वल्बबथो इति-का; बद्बबथो इति-मु; पल्प बद्ध वयो इति-अथर्व. बल्बबो अथो-का; बद्बबो अथो-मु; बद्धवो अघा-अथर्व ।
५. अजको ऽरको ऽविका-मु; अजागारकेविका-अथर्व. वारो गोः शफः-का; वारो गोशपद्यके-अथर्व; वालो गोशफः-मु. केशिनी श्येनी एनीव-का; श्येनीपती सा- अथर्व; केशिनी श्येनी एनीवा-मु ।
६. अम्ब हुलमायुनि-का; अंब कुलिमायुनि-मु; अर्थ बहुलिमा इषूनि-अथर्व. असिक्न्याः-का; असिद्याः-अथर्व ।
७. य आयन्ति श्वभिष्कुभिः-का; यवानो यति स्वभिः कुभिः-अथर्व. अब्जन्तः कुभायवः-का; अकुभ्यन्तः कुभायवः-मु; अकुप्यन्तः कुपायकुः-अथर्व. आमनको मनस्थकः-का; आमणको मणत्थकः-मु; आमणको मणत्सकः-अथर्व ।
८. देवत्तः प्रति जूर्यः-का; देवत्तः प्रतिहूर्यः-मु; देव त्वप्रति सूर्य-अथर्व. पिनष्टि पर्तिका-का; पिनष्टि पतिका-मु; एनश्चिपङ्क्तिका-अथर्व. प्र बुद्बुदो मथायति-का-मु; प्र दुद्बुदो मघाप्रति-अथर्व. शुङ्ग उत्पत-का-मु; श्रृंग उत्पन्न-अथर्व ।
९. त्वाति-का; त्वाभि-अथर्व; त्वाबि-मु. नो वदत्-का; नो विदन्-अथर्व; नाविदन्-मु. आयन् तं-का; आयान्तं-मु; आ यन्ति-अथर्व. चेन्द्रममन्दते-का-मु; वेदुमयंदत-अथर्व ।
१०. इयन्निति; इयंनिति-मु; इयमिति-अथर्व. ज्यायस्तरो भुवत्-का- मु; ऽश्वा अस्थिरो भवन्- अथर्व. इयं यका-का-मु; उथं यकां शलोलका-अथर्व. मिनोति-का; मिणोति-मु; आमिनोनिति भद्यते-अथर्व ।
११. तस्या अनुनिभञ्जनं-का-मु; तस्य अनु निभंजनं-अथर्व. बभ्रुभिः-का-मु; वस्वभिः-अथर्व. शतं बभ्रोरभीशुभिः-का; शतं वा भारती शवः-अथर्व; शतं बभ्रोरभीशवः-मु. बभ्रोः-का-मु; वायोः-अथर्व. कशा हिरण्ययीः-मु; कुथा हिरण्ययाः-अथर्व ।
१२. रथा-का; रथ्या-अथर्व. आहलकुः शवर्तकः-का; आहलकुः शवर्तकुः-मु; अहल कुश वर्तक-अथर्व. तेजनी-का; तेदनी-शांश्रौ; तीजनी-अथर्व; तेजनिः-मु. ओहते-का; ओहति-मु. पीव-का; इव-अथर्व ।
१३. वनिष्ठुनाप-का-मु; वनिष्ठा नाव-अथर्व. नृत्यति-का-मु; गृह्यन्ति-अथर्व. इमं-का-मु; इदं- अथर्व. अदुरिति-का-मु; मदूरिति-अथर्व. तिष्ठन्ति-का; तिष्ठति-अथर्व. पाकवलिः शकवलिः-का-मु; पाक बलिः शक बलिः-अथर्व ।
१४. शये-का; शयो-अथर्व. खदिरो-का; खबुरो-मु. अरदुः परमः-का-मु; अरदुपरम-अथर्व. पापपूरुषः-का-मु; व्याप पूरुषः-अथर्व. अदोहमित्पीयूषकं-का-मु । अदूहमित्यां पूषकं-अथर्व.
१५. द्वौ च-का; दौव-अथर्व. हस्तिनो दृती-का; हस्तिनौ दती-मु; हस्तिनो दृती-अथर्व; अध्यर्धं च-का-मु; अत्यर्धर्च-अथर्व.
१६. तद्वात-का-मु; कद्वात-शांश्रौ. उन्मथायति-का; उन्मथा इति-मु. करवाँ-का-मु; कृणवाद्-अथर्व-शांश्रौ. वल्षद्-का; बलिशद्-मु; वनिषद्-अथर्व-शांश्रौ ।
१७. वल्षद्-का; बलिशद्-मु; वनिषद्-अथर्व-शांश्रौ. कर्करिं-का; कर्करी-अथर्व; कर्करी (रिखत्)-मु. यदीं हनत् कथं हनत् = आश्वश्रौ ८. ३. १७. यदीं; यदीयं-अथर्व ।
१८. ‘अन्त्या (अष्टादशी) द्विपदा’ इति खिलानुक्रमणी । दैलीं-का-मु; लेलिं-शांश्रौ; देवी-अथर्व. कथं-का-मु-शांश्रौ, कु-अथर्व. पर्याकारं पुनःपुनः = आश्वश्रौ. ८. ३. १७. पर्याकारं-का-मु-आश्वश्रौ; पर्यागारं-अथर्व-शांश्रौ ।
अथर्व २०. १३२ अन्ते यदधिकं तदत्र दीयते-

मूलम्

त्रीण्युष्ट्रस्य नामानि । हिरण्यं इत्येके अब्रवीत् ।
द्वौ वा ये शिशवः । नीलशिखण्डवाहनः ।

मूलम् - १६

वि᳓ततौ किर᳓णौ᳓ द्वौ᳓ ता᳓वा᳓ पिनष्टि पू᳓रुषः ।
न᳓ वै कुमारि त᳓त्त᳓था य᳓था कुमारि म᳓न्यसे ॥ १ ॥
मातु᳓ष्टे किर᳓णौ᳓ द्वौ᳓ नीवी᳓तः᳓ पु᳓रुषादृते᳓ ।
न᳓ वै कुमारि त᳓त्त᳓था य᳓था कुमारि म᳓न्यसे ॥ २ ॥
निगृ᳓ह्य क᳓र्णकौ द्वौ᳓ नि᳓राय᳓च्छसि मध्यम᳓म् ।
न᳓ वै कुमारि त᳓त्त᳓था य᳓था कुमारि म᳓न्यसे ॥ ३ ॥
उत्ताना᳓यै शयाना᳓यै ति᳓ष्ठन्नेवा᳓व गूहसि ।
न᳓ वै कुमारि त᳓त्त᳓था य᳓था कुमारि म᳓न्यसे ॥ ४ ॥
श्लक्ष्णा᳓यां श्ल᳓क्ष्णिकायां श्ल᳓क्ष्णमेवा᳓व गूहसि ।
न᳓ वै कुमारि त᳓त्त᳓था य᳓था कुमारि म᳓न्यसे ॥ ५ ॥
अ᳓व श्लक्ष्ण᳓मवभ्रशदन्त᳓र्लोम᳓वति ह्रदे᳓ ।
न᳓ वै कुमारि त᳓त्त᳓था य᳓था कुमारि म᳓न्यसे ॥ ६ ॥

टिप्पनी - १६

एताः ‘प्रवह्लिकाः’ अथर्व २०. १३३; शांश्रौ १२. २२; मु अत्राप्युपलभ्यन्ते । आश्वश्रौ ८. ३ अपि द्रष्टव्यम् ।
२. नीवीतः (नीवी + इतः)-मु; निवृत्तः-अथर्व-शांश्रौ. पुरुषादृते-मु; पुरुषादृतिः-शांश्रौ; पुरुषानृते-अथर्व ।
३. मध्यमं-का; मध्यमां-मु; मध्यमे-शांश्रौ-अथर्व. कर्णकौ; कर्तकौ-मु ।
४. तिष्ठन्नेवाव-का; तिष्ठन्तीवाव-अथर्व ।
५. गृहसि-गूहति-अथर्व ।
६. अवभ्रशद्-का-मु; इव भ्रंशद्-अथर्व-शांश्रौ. लोमवति-का-शांश्रौ; लोममति-अथर्व ।

मूलम् - १७

इहे᳓त्था प्रा᳓ग᳓पागुदगधरागरा᳓ला उदभर्त्सत ॥ १ ॥
इहेत्था प्रागपागुदगधराग्वत्साः प्रुपन्त आसते ॥ २ ॥
इहेत्था प्रागपागुदगधराक्स्थालीपाको वि लीयते ॥ ३ ॥
इहेत्था प्रागपागुदगधराक् सिलीपुच्छो विलीयते ॥ ४ ॥

टिप्पनी - १७

एताः ‘आजिज्ञासेन्याः’ अथर्व २०. १३४. १-४; शांश्रौ १२. २३. १; १; आश्वश्रौ ८. ३; मु अत्राप्युपलभ्यन्ते । सर्वास्वृक्षु ‘इहेत्था’ इत्यस्य स्थाने ‘इहेत्थ’ इति अथर्व-शांश्रौ-आश्वश्रौ-मु पुस्तकेषु ।
१. प्रागपागुदगधराक् = वासं ६. ३६. अराला-का-मु; अरालाग्-अथर्व-शांश्रौ. उदभर्त्सत-शांश्रौ; उदभार्त्सथ-अथर्व; उदभन्थते-मु ।
२. प्रुषन्त-का; पुरुषन्त-अथर्व ।
३. स्थालीपाको वि लीयते-का-शांश्रौ-अथर्व; सर्वापुत्सीलिलीशये-मु ।
४. सिलीपुच्छो वि लीयते-का; स्थालीपाको वि लीयते-मु; च्छ्लिलीषु च्छ्लिलीषते-शांश्रौ; स वै पृथु लीयते-अथर्व ।

मूलम् - १८

भुगित्यभिगतः । शरित्यभिष्ठितः । फलित्यपक्रान्तः ॥ १ ॥

टिप्पनी - १८

एते त्रयः पादाः ‘प्रतिराध्यः’ उच्यन्ते ते च अथर्व २०. १३५. १; शांश्रौ १२. २३. २; आश्वश्रौ ८. ३; मु अत्रापि दृश्यन्ते ।
शरिति-मु; शलिति-अथर्व-शांश्रौ. अभिष्ठितः-का-मु; अपक्रान्तः-अथर्व-शांश्रौ. अपक्रान्तः-का-मु; अभिष्ठितः-अथर्व-शांश्रौ ।

मूलम् - १९

वीमे देवा अक्रंसताध्वर्योः क्षिप्रं प्र चर ।
सुशस्तिरिद्गवामस्यति प्रखिदसो महत् ॥ १ ॥

टिप्पनी - १९

अयम् ‘अतिवादः’. अथर्व २०. १३५. ४; शांश्रौ १२. २३. ४; आश्वश्रौ ८. ३; मु अत्रापि द्रष्टव्यः ।
अध्वर्योः-का; अध्वर्यो-शांश्रौ-अथर्व-मु. सुशस्तिः-मु; सुसत्यं-शांश्रौ-अथर्व. अस्यति प्रखिदसो महत्-का; अस्यति प्राक्खिदसो महै-मु; अस्यसि प्रखुदसि-शांश्रौ-अथर्व ।

मूलम् - २०

आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन् ।
तां ह जरितर्न प्रत्यायन् तामु ह जरितः प्रत्यायन् ॥ १ ॥
तां ह जरितर्न प्रत्यगृभ्णन् तामु ह जरितः प्रत्यगृभ्णन् ।
अहा नेत सन्नविचेतनानि जज्ञा नेत सन्नपुरोगवासः ॥ २ ॥
उत श्वेत आशुपत्या उतो पद्याभिर्जविष्ठः ।
उतेमाशु मानं पिपर्ति ॥ ३ ॥
आदित्या रुद्रा वसवस्त्वेळते इदं राधः प्र᳓ति गृभ्णीह्य᳓ङ्गिरः ।
इदं राधो बृहत्पृथु᳓ देवा᳓ द᳓दत्वा वर᳓म् ॥ ४ ॥
त᳓द्वो अस्तु सुचे᳓तनं युष्मे अस्तु दिवे दिवे । प्र᳓त्येव गृभायत ॥ ५ ॥

टिप्पनी - २०

एता देवनीथाभिधा ऋचः अथर्व २०. १३५. ६-१०; ऐब्रा ६. ३५; शांश्रौ १२. १९. १-४; मु एतेषूपलभ्यन्ते । ऐब्रा-आश्वश्रौ (८. ३) मध्ये ‘सप्तदश पदानि’ इति तासां संज्ञा ।
१. दक्षिणां; ऽश्वं दक्षिणां शांश्रौ. जरितर्न-का; जरितः-अथर्व ।
२. जरितर्न-का; जरितर्नः-अथर्व. जरितः-का; जरितर्नः-अथर्व. प्रत्यगृभ्णन्-का; प्रत्यगृभ्यः-अथर्व. नेत-का; देत-शांश्रौ. जज्ञा-का; यज्ञा-शांश्रौ. नेत-का; देत-शांश्रौ. अहानेतरसं न वि चेतनानि यज्ञानेतरसं न पुरोगवामः-अथर्व ।
३. जविष्ठः-का; यविष्ठः-अथर्व-शांश्रौ. आशुपत्वा उतो-का; आशुपत्वोतो-शांश्रौ. उतेमाशु-का-मु; उतो आशु-शांश्रौ ।
४. त्वेळते-मु-ऐब्रा; त्वेनुत-अथर्व; त्वेलत-शांश्रौ. इदं राधो बृहत्-मु-ऐब्रा-आश्वश्रौ; इदं राधो विभु प्रभु इदं राधो बृहत्-अथर्व. ददत्वा वरं-का; ददत्वासुरं-अथर्व; ददतु यद्वरं-शांश्रौ. युष्मे-का; युष्माँ-अथर्व ।
५. सुचेतनं-का; सजोषणं-शांश्रौ. प्रत्येव-का; प्रत्वेव-शांश्रौ ।

मूलम् - २१

त्व᳓मिन्द्र श᳓र्मन्नरिणा हव्यं᳓ पा᳓रावतेभ्यः ।
वि᳓प्राय स्तुवते᳓ व᳓सु ऋजु᳓रिच्छ्रवसे वहः᳓ ॥ १ ॥
त्व᳓मिन्द्र क᳓पोताय च्छि᳓न्नपक्षाय व᳓ञ्चते ।
श्यामा᳓कं पक्वं᳓ विरुज वा᳓रस्मा अकृणो᳓र्बहु᳓ ॥ २ ॥
आरङ्गरो᳓ वावदीति त्रेधा᳓ बद्धो᳓ वरत्य᳓याः ।
इ᳓रामु ह प्र᳓ शंसत्य᳓निराम᳓प सेधत ॥ ३ ॥

टिप्पनी - २१

एताः ‘भूतेच्छदः’ अथर्व २०. १३५. ११-१३; शांश्रौ १२. १६. ४, ५, ३; मु अत्राप्युपलभ्यन्ते ।
१. शर्मन्नरिणा-का; शर्मरिणा-इतरेषु. पारावतेभ्यः-का; परावतेभ्यः-मु. वसु ऋजुरिच्छ्रवसे वहः-का; वसूनि जुरश्रवसे महे-मु; वसुवनिं दुरश्रवसे वह-अथर्व; वसु नि दूरश्रवसे वहः-शांश्रौ ।
२. वि रुज-का; पीलु च-मु-अथर्व-शांश्रौ. अकृणोः-अथर्व-शांश्रौ; अकृणोद्-का-मु ।
३. आरङ्गरो-का-मु; अरंगरो-इतरेषु. वरत्ययाः- का; वरत्रया-इतरेषु. उ ह; अह-अथर्व. शंसत्यनिरा०-का; शंसत्वनिरा०-मु. सेधत-का; सेधति-अथर्व-शांश्रौ; बाधतां-मु ।

मूलम् - २२

य᳓दस्या अं᳓हुभेद्याः पृ᳓थु स्थूर᳓मुपा᳓तसत् ।
मुष्का᳓ इ᳓दस्या एजतो गोश᳓फे शकुला᳓विव ॥ १ ॥
य᳓दा स्थूरे᳓ण पससा᳓ अ᳓णू मुष्का᳓ उपा᳓वधीत् ।
वि᳓श्वञ्चावस्यार्दतः सि᳓कतास्विव ग᳓र्दभौ ॥ २ ॥
य᳓द᳓ल्पिका स्व᳓ल्पिका कर्कन्धुके᳓व᳓ पच्यते ।
वास᳓न्तिक᳓मिव ते᳓जनं य᳓भ्यमाना वि᳓ नम्यते ॥ ३ ॥
य᳓द्देवा᳓सो ललाबुकं᳓ प्र᳓ विष्टीमि᳓नमा᳓विषुः ।
सक्थ्ना᳓ ते दृश्यते नारी᳓ सत्य᳓स्याक्षीभगो᳓ य᳓था ॥ ४ ॥
महानग्न्यु᳓प ब्रूते ऽश्व᳓स्या᳓ वेशितं᳓ प᳓सः ।
ईदृ᳓क्फ᳓लस्य वृ᳓क्षस्य शूर्पं᳓ शूर्पं भ᳓जेमहि ॥ ५ ॥
महानग्न्य᳓दृप्तं हि सो᳓ ऽक्रन्दद᳓स्वमा᳓सदत् ।
श᳓क्नुकामना᳓ भुव म᳓शकं स᳓क्थ्यु᳓द्यतम् ॥ ६ ॥
महानग्न्यु᳓लू᳓खलमति क्राम᳓न्त्य᳓ब्रवीत् ।
य᳓थैव ते वनस्पते ऽपि᳓ घ्नन्ति त᳓थैव मे ॥ ७ ॥
महानग्नी᳓ कृकवा᳓कुं शम्य᳓या परिधा᳓वति ।
इदं᳓ न᳓ विद्म ते᳓जनं शीर्ष्णा᳓ भवति धा᳓निका ॥ ८ ॥
महानग्नी᳓ महानग्नं᳓ धा᳓वन्तम᳓नु धावति ।
इमा᳓स्त᳓दस्य गा᳓ रक्ष य᳓भ मा᳓मद्ध्यो᳓दनम् ॥ ९ ॥
महा᳓न् वै᳓ भद्रो᳓ बिल्वो᳓ महा᳓न् पक्व᳓ उदुम्ब᳓रः ।
महाँ अभिज्ञु᳓ बा᳓धते महतः᳓ साधु᳓ खो᳓दनम् ॥ १० ॥
क᳓पृन्न᳓रः कपृथ᳓मु᳓द्दधातन चोद᳓यत खुद᳓त वा᳓जसातये ।
निष्टिग्र्यः पुत्र᳓मा᳓ च्यावयोत᳓य इ᳓न्द्रं सबा᳓ध इह᳓ सो᳓मपीतये ॥ ११ ॥
य᳓द्ध प्रा᳓चीर᳓जगन्तो᳓रो मण्डूरधाणिकीः ।
हता᳓ इ᳓न्द्रस्य श᳓त्रवः स᳓र्वे बुद्बुद᳓याशवः ॥ १२ ॥
दधिक्रा᳓व्णो अकारिषं जिष्णो᳓र᳓श्वस्य वाजि᳓नः ।
सुरभि᳓ नो मु᳓खा करत् प्र᳓ ण आ᳓यूंषि तारिषत्॥ १३ ॥

टिप्पनी - २२

इत्यृग्वेदे खि पञ्चमो ऽध्यायः ॥
इति खिलानि समाप्तानि ॥
ऐब्रा ६. ३६ अनुसारेण खिलानुक्रमणीमते चेदं दशर्चं सूक्तम् । वृषाकपिशस्त्र आहनस्यानन्तरं ‘कपृन्नरः’ ‘यद्ध प्राची०’ इति तृचौ ‘दधिक्राव्णौ’ इति मन्त्रश्च पठ्यते । अतो ऽत्रान्त्यास्तिस्र ऋच आहनस्याभिः संलग्नाः । शांब्रा ३०. ७-८; शांश्रौ १२. २४. २; १२. २५. १; आश्वश्रौ ८. ३. → ‘होतृप्रतिगरित्रोः संवादः’ इति खिलानुक्रमणी । आद्या दशर्चः ‘आहनस्याः’ इतिसंज्ञकाः । ऐब्रा ६. ३६. भाष्यं; शांब्रा ३०. ६; गोब्रा २. ६. १५; शांश्रौ १२. २४. १; आश्वश्रौ ८. ३; वैसू ३२. ३१ द्रष्टव्यम् । अश्वमेधे ‘यदस्या अंहुभेद्याः’ इत्यनयोद्गाता परिवृक्तां महिषीमभिमेथति → शांश्रौ १६. ४. मु-पुस्तके अष्टमीं नवमीं च वर्जयित्वा शिष्टा अष्टावाहनस्याः ।
१-४ = अथर्व २०. १३६. १-४.
१ = वासं २३. २८; शांश्रौ १२. २४. २. २; १६. ४. ३.
२ = शांश्रौ १२. २४. २. ३.
४ = वासं २३. २९; शांश्रौ १२. २४. २. १; १६. ४. ६.
५ = अथर्व २०. १३६. ९; शांश्रौ १२. २४. २. ६.
६ = अथर्व २०. १३६. ५.
७. = अथर्व २०. १३६. ६; शांश्रौ १२. २४. २. ७.
८ = अथर्व २०. १३६. १०; शांश्रौ १२. २४. २. ५.
९ = अथर्व २०.१३६. ११; शांश्रौ १२. २४. २. ४.
१० = अथर्व २०. १३६. १५; शांश्रौ १२. २४. २. ८.
११ = ऋसं १०. १०१. १२; अथर्व २०. १३७. २.
१२ = ऋसं १०. १५५. ४; अथर्व २०. १३७. १.
१३ = ऋसं ४. ३९. ६; अथर्व २०. १३७. ३.
१. पृथु-का-मु; कृधु-अथर्व-वासं-शांश्रौ. स्थूरं-का-मु; स्थूलं-अथर्व-वासं-शांश्रौ. मुष्का इदस्या-का; मुष्काविदस्य-इतरेषु. एजतो-का; एजते-मु. गोशफे → खिल ५. १५. ५.१.
२. स्थूरेण-का-मु; स्थूलेन-अथर्व-शांश्रौ. पससा अणू-का; पससा अनू-मु; पससाणौ-अथर्व-शांश्रौ. अर्दतः-का; वर्धतः-अथर्व-शांश्रौ; अर्दते-मु. सिकतास्विव-का; सिकतास्वेव-अथर्व. गर्दभौ-का; गर्दभः-मु ।
३. कर्कन्धुकेव-मु; कर्कधूकेव-अथर्व. पच्यते-का-मुः पद्यते-अथर्व. तेजनं-का-अथर्व; तेजनो-मु. यभ्यमाना वि नभ्यते-का; यभ्यमाना वि तन्वते-मु: यन्त्य वाताय वित्थति-अथर्व ।
४. ललाबुकं-का; ललामगुं-अथर्व-वासं -शांश्रौ; ललागमुं- मु. विष्टीमिन०-वासं-अथर्व-शांश्रौ; पिष्टीपिन०-मु. ०माविषुः-का; ०मापिषुः-मु. सक्थ्ना-मु-वासं-शांश्रौ; सकुला-अथर्व. ते दृश्यते-का; देदृश्यते-मु; देदिश्यते-वासं-अथर्व-शांश्रौ. नारी-का; नरः-मु. सत्यस्याक्षीभगो यथा-का; सक्थ्यः साक्षीव गो यथा-मु; सत्यस्याक्षिभुवो यथा-अथर्व-वासं-शांश्रौ ।
५. महानग्न्युप-का; महाणग्न्युप-मु. ऽश्वस्या-का; अश्वस्या-मु; स्वसा-अथर्व; स्वस्त्या-शांश्रौ. ईदृक्-का-मु; इत्थं अथर्व-शाश्रौ. शूर्पंशूर्पं-का; शूर्पेशूर्पं-अथर्व ।
६. महान०-का-अथर्व; महाण०-मु. अदृप्तं-का-मु; अदृपत्-शांश्रौ । अतृप्नद्-अथर्व. हि सो-का-मु; वि मो-अथर्व. अस्तमासदत्-का; अस्तमासरत्-मु; ….. [[चित्रे पाठो लप्तः ??]] …. यथैव ते-का-मु; यथा तव-अथर्व-शांश्रौ. ऽपि नान्त-….. [[चित्रे पाठो लप्तः ??]] …. तथैव मे-का-मु; तथैवति-अथर्व; तथा मम-शांश्रौ ।
८. इदं-का; अयं-अथर्व; वयं-शांश्रौ. तेजनं-का; यो मृगः-अथर्व-शांश्रौ । भवति धानिका-का; हरति धाणिकां-अथर्व-शांश्रौ ।
९. तदस्य-अथर्व; तु तस्य-शांश्रौ ।
१०. बिल्वो-अथर्व; बिल्बो-का. पक्व-का-मु; भद्र-अथर्व-शांश्रौ. अभिज्ञु-का-मु-शांश्रौ; अभिक्त-अथर्व ।