००४

अथ चतुर्थो ऽध्यायः

मूलम् - अनुक्रमणिका

ॐ आ यस्मिन्नेकानुष्टुभं तु तदा रात्रि चतुष्कमाद्या बृहत्यर्वाञ्चमेका त्रिष्टुम्नमस्ते चतुष्कमश्माखानो वैद्युतमन्त्ये त्रिष्टुभौ यां चरवारिंशत्प्रत्यङ् कृत्यानाशनमाशीः पाङ्क्त्यन्तमायुष्यं दश दाक्षायणायैकर्चाः (दाक्षायणा एकर्चा: Macdonell, Bṛhaddevatā, part II, p. 305) सनकः सनाकः सनातनः सनन्दनः सहसंज्ञाः सुमः सुश्रीः सुवाक् सर्वो हिरण्यात्मस्तुतिः पञ्चम्यष्टमीनवम्यौ त्रिष्टुभः सप्तमी शक्वरी भूमिः सप्त प्राजापत्या लाक्षा लाक्षास्तवो मेधां नव मेधा मानवी मधावी चतुर्थ्यादिर्महाबृहती पङ्क्तिर्विराड्जगती गायत्री त्रिष्टुबा सूः सप्ताथर्वणः सुभेषज आग्नेयं (आग्नेयं Macdonell, ibid.; आग्नेयः-का.) प्रकृतिः कृतिराकृतिर्विकृतिः संकृतिरभिकृतिरुत्कृतिर्वेनस्तृचं वेनो भाववृत्तं तु येन सप्तोना मानवः शिवसंकल्पो मानसं यासां द्वे अनुष्टुप्पङ्क्ती नेजमेष तृचं प्राजापत्यो नेजमेषो ऽनीकवन्तमेका ॥

मूलम् - १

आ᳓ य᳓स्मिन् देव᳓वीतये पुत्रा᳓सो यन्तु संय᳓तः ।
अ᳓नाधृष्टं विपन्य᳓या प्र᳓ति श्रुता᳓य वो धृष᳓त् ॥ १ ॥
अहं᳓ रुद्रे᳓भिर्व᳓सुभिश्चरामि० ॥ ऋ. सं. १०. १२५. १

टिप्पनी - १

ऋसं १०. १२४ अनन्तरं (Cf. Bṛhaddevatâ, part II p. 304. Macdonell means to say that this and the next hymn (आ रात्रि) precede ṚV. X 128. In fact the present hymn (आ यस्मिन्) precedes ṚV. X.125.) पठनीयम् ।
अनाधृष्टं विपन्यया = शांश्रौ १८. ३. २

मूलम् - २

आ᳓ रात्रि पा᳓र्थिवं र᳓जः पितु᳓रप्रायि धा᳓मभिः ।
दिवः᳓ स᳓दांसि बृहती᳓ वि᳓ तिष्ठस आ᳓ त्वेषं᳓ वर्तते त᳓मः ॥ १ ॥
ये᳓ ते रात्रि नृच᳓क्षसो युक्ता᳓सो नवति᳓र्न᳓व ।
अशीतिः᳓ सन्त्व᳓ष्टा उतो᳓ ते सप्त᳓ सप्ततिः ॥ २ ॥
रा᳓त्रीं प्र᳓ पद्ये जन᳓नीं सर्व᳓भूतनिवे᳓शनीम् ।
भद्रां᳓ भग᳓वतीं कृष्णां᳓ विश्व᳓स्य जगतो᳓ निशाम् ॥ ३ ॥
संवेशनीं᳓ संयमनीं᳓ ग्रह᳓नक्षत्रमा᳓लिनीम् ।
प्र᳓पन्नो ऽहं᳓ शिवां रात्रीं᳓ भद्रे᳓ पार᳓मशी᳓महि ॥ ४ ॥
म᳓माग्ने व᳓र्चो विहवे᳓ष्वस्तु० ॥ ऋ. सं. १०. १२८. १

टिप्पनी - २

ऋसं १०. १२७ अनन्तरं पठनीयम् (Cf. Bṛhaddevatā, part II, p. 304) । ऋमं-मॅ २५-मु-आउ १९-औंध-ऋब्र (शांतिपाठः)-आश्वमंसं.१-पञ्चामृ-पुस्तकेष्वस्मिन्सूक्ते दश मन्त्रा अधिकाः । जुनागड-पुस्तक इदं सप्तदशर्चम् । अल-आश्वमंसं.२-पुस्तकयोरिदं पञ्चदशर्चम् । तत्र १-४ = का १-४; ५ = ऋमं ९; ६ = ऋमं १०. शिष्टाः ऋमं-पाठात् सर्वथा भिन्नाः । ऋमं-पाठे ५, ६, ७, ८ मन्त्राणामन्तिमैः पादैः ऋसं १.९९ इत्येकर्चं सूक्तं संपद्यते । चतुर्दशमन्त्रस्य पूर्वार्धः ऋसं १०.१२७ सूक्तस्य सर्वानुक्रमात् उत्तरार्धश्च ऋग्वि ४. २८ अस्मादुद्धृतः । द्वादशो मन्त्रः तैआ १०.१.६५ अनेन समानः । केषुचित्पुस्तकेषु ५-८, १०, ११, १४ मन्त्रास्त्यक्ताः ।
१. = वासं ३४. ३२; अथर्व १९. ४७. १; निरु ९. २९; → पैप्प. अथर्व. ६. २०. पितुरप्रायि धामभिः; पितरः प्रायुधामभिः-मु-ऋब्र; पितरः प्रयुधामभिः-पैप्प. अथर्व. बृहती वि; बृहतीव-पैप्प. अथर्व ।
२. = अथर्व १९.४७. ३; → पैप्प. अथर्व ६. २०. ये ते रात्रिः; एते रात्रे-पैप्प. अथर्व. युक्तासो; दृष्टारो-पैप्प. अथर्व द्रष्टारो-अथर्व. नवतिर्नव-मॅ-मु-आउ-अल-जुना-ऋब्र; नवतीर्नव-का. सन्त्वष्टा; सन्त्यष्टा-अथर्व; सन्त्वाष्टा-पैप्प. अथर्व. सप्ततिः; सप्ततीः-मु-ऋब्र ।
३. निशां-का-ऋमं-ऋब्र-अल-जुना-मॅ-मु-आउ; दिशां-पञ्चामृ ।
४. संवेशनीं-जुना; संवेशिनीं-अल. संयमनीं-जुना; संयमिनीं-मु-अल. ग्रह०-का-ऋब्र-मॅ-आउ-अल-जुना; गृह०-ऋमं-पञ्चामृ. ‘भद्रे पारमशीमह्यों नमः’ इत्यधिकमितरेषु पुस्तकेषु ।
ऋमं-आदिपुस्तकस्था अधिका मन्त्रा ऋब्र-पाठानुसारेणाधो दीयन्ते-

मूलम्

स्तोष्यामि प्रयतो देवीं शरण्यां बह्वृचप्रियाम् ।
सहस्रसंमितां दुर्गां जातवेदसे सुनवाम सोमम् ॥ ५ ॥
शान्त्यर्थं तद्द्विजातीनामृषिभिः समुपाश्रिताः ।
ऋग्वेदे त्वं समुत्पन्नारातीयतो नि दहाति वेदः ॥ ६ ॥
ये त्वां देवि प्रपद्यन्ति ब्राह्मणा हव्यवाहनीम् ।
अविद्या बहुविद्या वा स नः पर्षदति दुर्गाणि विश्वा ॥ ७ ॥
ये अग्निवर्णां शुभां सौम्यां कीर्तयिष्यन्ति ये द्विजाः ।
तान् तारयति दुर्गाणि नावेव सिन्धुं दुरितात्यग्निः ॥ ८ ॥
दुर्गेषु विषमे घोरे संग्रामे रिपुसंकटे ।
अग्निचोरनिपातेषु दुष्टग्रहनिवारणि दुष्टग्रहनिवारण्यों नमः ॥ ९ ॥
दुर्गेषु विषमेषु त्वं संग्रामेषु वनेषु च ।
मोहयित्वा प्रपद्यन्ते तेषां मे अभयं कुरु तेषां मे अभयं कुर्वों नमः ॥ १० ॥
केशिनीं सर्वभूतानां पञ्चमीति च नाम च ।
सा मां समां दिशां देवी सर्वतः परिरक्षतु सर्वतः परिरक्षत्वों नमः ॥ ११ ॥
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।
दुर्गां देवीं शरणमहं प्र पद्ये सुतरसि तरसे नमः सुतरसि तरसे नमः ॥ १२ ॥
दुर्गा दुर्गेषु स्थानेषु शं नो देवीरभिष्टये ।
य इमं दुर्गास्तवं पुण्यं रात्रौ रात्रौ सदा पठेत् ॥ १३ ॥
रात्रिः कुशिकः सौभरो रात्रिर्वा भारद्वाजी रात्रिस्तवं गायत्रम् ।
रात्रीसूक्तं जपेन्नित्यं तत्काल उपपद्यते ॥ १४ ॥

टिप्पनी

६. तद्द्विजाती०-ऋब्र; तद्विजाती०-ऋमं-मॅ-मु-पञ्चामृ; त्वं द्विजाती०-आउ. समुपाश्रिताः; सोमपाश्रिताः-ऋमं-ऋब्र-पञ्चामृ-मॅ-मु-आउ; सोमपैः श्रिता-आउ. समुत्पन्नारा०; समुत्पन्नामरा०-मु-पञ्चामृ ।
७. देवि; देवीं-पञ्चामृ. प्रपद्यन्ति; प्रपद्यन्ते-आउ. ; सा-मॅ ।
८. ये अग्नि०-ऋमं-ऋब्र-पञ्चामृ-मु; अग्नि०-मॅ-आउ. तान् तार०; तांस्तार०-आउ ।
९.२. अग्निचोर… नमः-ऋब्र; अग्निचोरनिपातेषु दुष्टग्रहनिवारणे दुष्टग्रहनिवारण्यों नमः-ऋमं अग्निचोरनिपातेषु सर्वग्रहनिवारणे सर्वग्रहनिवारण्यों नमः- आउ; अग्निचोरनिपातेषु सर्वग्रहनिवारिणि सर्वग्रहनिवारिण्यों नमः-मॅ; अग्निचौरनिपाते च सर्वग्रहनिवारणे सर्वग्रहनिवारण्यों नमः-अल; अग्निचौरनिपातेषु सर्वग्रहनिवारणे-जुना; अग्निचोरनिपाते च सर्वग्रहनिवारणे दुष्टग्रहनिवारण्यों नमः-मु; अग्निचोरनिपाते न सर्वग्रहनिवारणे सर्वग्रहनिवारण्यों नमः-पञ्चामृ. ९.२-१०.१ आश्वमंसं.१ पुस्तके नास्ति ।
१०.२. मोहयित्वा; नमस्कृत्वा-अल-जुना. कुरु; कृणु-मॅ. कुर्वों; कृण्वों मॅ. तेषां मे; तेषां नो-अल-जुना ।
११. केशिनीं; ‘केशिनी’ इति साधु. समां दिशां-ऋब्र; समादिशा- ऋमं-मु; समां विशां-पञ्चामृ; समा निशा-मॅ-आउ-औंध; समाहिषा-जुना. देवी; देवीं-पञ्चामृ. सर्वतः (२); विश्वतः-जुना ।
१२. = तैआ १०. १. ६५; मनाउ ६. ३. कर्मफलेषुः; कर्मफलेन-पञ्चामृ ।
१३. य इमं; इमं-पञ्चामृ ।
१४. रात्रिः; रात्री-अनु. कुशिकः सौभरो-अनु-मॅ-मु-आउ; कुशिकः सोभरो-ऋब्र; कुशिकसौभरो-पञ्चामृ; कुशिकसोभरो-ऋमं. रात्रिर्वा भारद्वाजी रात्रिस्तवं गायत्रम्-अनु-मु-ऋब्र-पञ्चामृ; रात्रिस्तवं गायत्री-ऋमं; रात्रिस्तवो गायत्री-मॅ-आउ. रात्रीसूक्तं; रात्रिसूक्तं-मु. जपेन्नित्यं तत्काल उपपद्यते; जपन्नेव तं कालं प्रतिपद्यते-ऋग्वि; जपेन्नित्यं तत्कालमुपपद्यते न योनिं पुनरायाति सर्वपापैः प्रमुच्यते-औंध ।
अल-आश्वमंसं.२-पुस्तकयोः (Dr. V.M. Apte (ABORI XX, Part III-IV, pp. 259-60) has reproduced these verses “as they are not traced either to Müller or to Aufrecht or to Scheftelowitz.” In fact the Rātri-sūkta of AMS 379 is identical with that already published by Peterson in his Second Report of operations in search of Sanskrit Manuscripts in the Bombay Circle, Bombay 1884.) का१-४; ऋमं ९-१० अनन्तरं वर्तमाना नव मन्त्रा अधो दीयन्ते । औधपुस्तके ऋमं-पाठानुसारं १४ मन्त्रानन्तरमेते नव मन्त्राः १५-२३ इति दत्ताः ।

मूलम्

क्षीरेण स्नापिता दुर्गां चन्दनेनानुलेपिता ।
बैल्वपत्रकृता माला नमो दुर्गे नमो नमः ॥ ७ ॥
सर्वभूतपिशाचेभ्यः सर्वसर्पसरीसृपैः ।
देवेभ्यो मानुषेभ्यश्चोभयेभ्यो माभिरक्षताम् ॥ ८ ॥
ऋग्वेदे स्तुतया देवी काश्यपेन उदाहृता ।
जातवेदप्रभा गौरी जातवेदसे सुनवाम सोमम् ॥ ९ ॥
सुरासुरैर्द्विजवरैः पिशाचासुरराक्षसैः ।
अरातीभयमुत्पन्नमरातीयतो निदहाति वेदः ॥ १० ॥
राजद्वारे पथे घोरे संग्रामेषु च गौतमी ।
सर्वं रक्षतु दुरितं स नः पर्षदति दुर्गाणि विश्वा ॥ ११ ॥
महद्भये समुत्पन्ने स्मरन्ति च जपन्ति च ।
सर्वं तारयते दुर्गा नावेव सिन्धुं दुरितात्यग्निः ॥ १२ ॥
य इमं स्तवं दुर्गायाः पठन्ति च शृणोति च ।
त्रिषु लोकेषु विख्यातं त्रिषु लोकेषु पूजितम् ॥ १३ ॥
अपुत्रो लभते पुत्रान् धनहीनो धनं लभेत् ।
अचक्षुर्लभते चक्षुर्बद्धो मुच्येत बन्धनात् ॥ १४ ॥
व्याधितो मुच्यते रोगादरोगी श्रियमाप्नुयात् ।
सर्वकामित्वं ददाति नारायणि नमो ऽस्तु ते ।
……………… कात्यायनि नमो ऽस्तु ते ॥ १५ ॥

टिप्पनी

७. स्नापिता; स्नपिता-आश्वमंसं-जुना चन्दनेनानुलेपिता; चन्दनेन विलेपिता-औंध. बैल्वपत्रकृता माला; बिल्वपत्रकृतापीडा-औंध ।
८. भयेभ्यो माभिरक्षतां; उभयेभ्यो ऽभिरक्ष मां-औंध ।
९. ऋग्वेदे स्तुतया; या ऋग्वेदे स्तुता-औंध. काश्यपेन; कश्यपेन-आश्वमंसं ।
१०. पिशाचासुरराक्षसैः; पिशाचोरगराक्षसैः-औंध. अरातीभयमुत्पन्नं; अरातीभय उत्पन्ने-औंध ।
११. राजद्वारे पथे; गजद्वारे ऽपथे-औंध. गौतमी; गौतमीं-जुना. दुरितं; दुरिता-जुना ।
१२. महद्भये; महाभये-औंध ।
१३. य इमं स्तवं दुर्गायाः; य इमं दुर्गास्तवं-औध; परमं स्तव दुर्गायाः ( ? )-आश्वमंसं. पठन्ति च शृणोति च; शृण्वन्ति च जपन्ति च-औध ।
१५. अरोगी; आरोगी-जुना. सर्वकामित्वं ददाति; ददाति कामितं सर्वं-औंध, सर्वकाममित्वं ददाति ( ? )-आश्वमंसं. नारायणि नमोस्तु ते कात्यायनि नमोस्तु ते कात्यायनि नमोस्तु ते-जुना. आश्वमंसं-पुस्तके ऋमं १३ मन्त्रो ऽन्ते विनिवेशितः । औंध-पुस्तके च ऋसं १०.४.२२; १.१३३.५ मन्त्रौ अन्ते विनिवेशितौ । जुनागडलिखितपुस्तके सप्तदशर्चं रात्रिसूक्तं विद्यते । तत्रादौ का १-४ मन्त्राः । अनन्तरं

मूलम्

आदित्यवर्णां तपसा ज्वलन्तीं वैरोकिणीं चन्द्रसहस्रदीप्तीम् ।
दैवीं कुमारीं ऋषिभिश्च पूजितां तां दुर्गमातां शरणं प्रपद्ये ॥

टिप्पनी

इति पञ्चमो मन्त्रः । तदनन्तरं ऋमं-पुस्तकस्थौ ९-१० मन्त्रौ ततः अल-पुस्तकस्थौ ७-८ मन्त्रौ ततश्च ऋमं-पुस्तकस्थ एकादशो मन्त्रो ऽन्ते च ९-१५ अल-पुस्तकस्था मन्त्राः ।

मूलम् - ३

अर्वा᳓ञ्चमि᳓न्द्रममु᳓तो हवामहे यो᳓ गोजि᳓द्धनजि᳓दश्वजि᳓द्यः᳓ ।
इमं᳓ नो यज्ञं᳓ विहवे᳓ जुषस्वेह᳓ कु᳓र्मो हरिवो वेदि᳓नं त्वा ॥ १ ॥

टिप्पनी - ३

इदमुत्तरे च द्वे सूक्ते ऋसं १०.१२८ अनन्तरं पठनीयानि (Cf. Bṛhaddevatā, part II, p. 304.) । तैसं ४. ७. १४. ४; तैब्रा २. ४. ३. २; अथर्व ५. ३. ११; कौसू १४०. ६; ऋमं-ऋब्र (सांवत्स. श्राद्ध)-मॅ२६-मु-आउ २०-अल-जुना-आश्वमंसं-प्रर (समावर्तन) ।
यज्ञं; हव्यं-औंध. जुषस्वेह-का; जुषस्वास्म-औंध, जुषस्वास्य-इतरेषु. कुर्मो-तैसं-तैब्रा; कुल्मो-ऋमं-ऋब्र-मु-आउ-अल-जुना-प्रर. वेदिनं-का; मेदिनं-इतरेषु. ‘इमं नो यज्ञं विहवे शृणोत्वस्माकमभूर्हर्यश्व मेदी’ इत्यथर्वपाठः ।

मूलम् - ४

न᳓मस्ते अस्तु विद्यु᳓ते न᳓मस्ते स्तनयित्न᳓वे ।
न᳓मस्ते अस्त्व᳓श्मने यो᳓ मा दूणा᳓शो अ᳓स्यसि ॥ १ ॥
न᳓मस्ते प्रवतो न᳓पाद्य᳓त्तस्त᳓पः समू᳓हसि ।
मृळ᳓या नस्तनु᳓भ्यो᳓ ऽभयं नः पशु᳓भ्यः ॥ २ ॥
प्र᳓वतो न᳓पान्न᳓म एवा᳓स्तु तु᳓भ्यं न᳓मस्ते हेत᳓ये त᳓पुषे च कृण्मः ।
विद्मा᳓ ते ना᳓म परमं᳓ गु᳓हा य᳓त्समुद्रे᳓ अन्त᳓र्नि᳓हितापि ना᳓सि ॥ ३ ॥
यां᳓ त्वा देवा᳓ अ᳓जनिष्ट धि᳓ष्व धि᳓यं कृण्वाना᳓ अ᳓सनाय वा᳓जम् ।
सा᳓ नो मृळ विद᳓थे गृणाना᳓ त᳓स्यै ते न᳓मो अस्तु देवि ॥ ४ ॥

टिप्पनी - ४

ऋसं १०. १२८ अनन्तरं पठनीयम् (Ibid.) । अथर्व १. १३ अनेनेदं समानम् । ‘नमस्ते वैद्युतं सूक्तमाशीर्वादः परं तु यत्’ इति बृहद्दे ८. ४४ । अन्यत्रापि (बृहद्दे १. ५४) इदं निर्दिष्टम् ।
१.१. = वासं ३६.२१; पैप्प. अथर्व; मंदी; कौसू ३८.८. यो मा दूणाशो-का; येना दूडाशे-अथर्व ।
२. ऽभयं नः पशुभ्यः-का; मयस्तोकेभ्यः कृधि-अथर्व; = वासं ३६. २२; मंदी : शं नः कुरु प्रजाभ्यो ऽभयं नः पशुभ्यः ।
३. विद्मा ते नाम परमं गुहा = ऋम १०. ४५. २. नाम-का; धाम-अथर्व. °पि नासि-का; ०सि नाभिः-अथर्व ।
४. अजनिष्ट-का; असृजन्त-अथर्व; ‘अजनिषत’ इति युक्तम् । धिष्व धियं-का; विश्व इषुं-अथर्व वाजं-का; धृष्णुं-अथर्व.

मूलम् - ५

यां᳓ कल्प᳓यन्ति नो ऽर᳓यः क्रूरां᳓ कृत्यां᳓ वधू᳓मिव ।
तां᳓ ब्र᳓ह्मणा प᳓रि निङ्मः प्रत्य᳓क्कर्ता᳓रमृच्छतु ॥ १ ॥
शीर्षण्वतीं᳓ कर्णवतीं᳓ वि᳓श्वरूपां भयं᳓करीम् ।
यः᳓ प्रा᳓हिणो᳓मि हाद्य᳓ त्वा वि᳓ त᳓त्त्वं᳓ योजयाशुभि ॥ २ ॥
ये᳓न चिते᳓न व᳓दसि प्र᳓तिकूलमघायूनि ।
त᳓मेवं᳓ ते नि᳓ कृत्ये ह मा᳓स्माँ ऋष्यो अ᳓नागसः ॥ ३ ॥
अभि᳓ वर्तस्व कर्ता᳓रं नि᳓रस्तास्मा᳓भिरो᳓जसा ।
आ᳓युरस्य नि᳓ वर्तस्व प्रजां᳓ च पुरुषा᳓दिनि ॥ ४ ॥
य᳓स्त्वा कृत्ये चकारेह᳓ तं᳓ त्वं᳓ गच्छ पुनर्नवे ।
अ᳓रातीः कृत्यां नाशय स᳓र्वाश्च यातुधान्यः ॥ ५ ॥
क्षि᳓प्रं कृत्ये नि᳓ वर्तस्व कर्तु᳓रेव᳓ गृहा᳓न्प्र᳓ति ।
पशूं᳓श्चा᳓वास्य नाशय वीरां᳓श्चास्य नि᳓ बर्हय ॥ ६ ॥
य᳓स्त्वा कृत्ये प्र᳓ जिगाति [वि॒द्वाँ अवि᳓दुषो॒ गृहा᳓न् ।
तस्यै॒वेतः॒ परे᳓त्या॒शु त॒नुं कृ᳓धि॒ परु᳓ष्यसः ॥ ७ ॥
प्र॒तीची᳓ त्वा॒पसे᳓धतु॒ ब्रह्म᳓ रोचिष्ण्वमित्र॒हा ।
अ॒ग्निश्च॒ कृत्ये᳓ रक्षो॒हा रि᳓प्र॒हा चाज᳓ एक॒पात् ॥ ८ ॥
यथा॒ त्वाङ्गि᳓रसः॒ पूर्वे॒ भृग᳓व॒श्चाप᳓ सेधि॒रे ।
अत्र᳓यश्च व॒सिष्ठा᳓श्च॒ तथै॒व त्वाप᳓सेधिम ॥ ९ ॥]
य᳓स्ते प᳓रूंषि संदधौ᳓ र᳓थस्येव ऋमु᳓र्धिया᳓ ।
तं᳓ गृच्छ त᳓त्र ते ज᳓नम᳓ज्ञातस्ते ऽयं᳓ ज᳓नः ॥ १० ॥
[यो नः᳓ कश्चिद्र॒णस्थो᳓ वा॒] कश्चिद्वान्यो ऽभि हिंसति ।
त᳓स्य त्वं᳓ द्रोरिवेद्धो ऽग्नि᳓स्तनुः᳓ पृच्छस्व हेळितः ॥ ११ ॥
भ [वा᳓श॒र्वा दे॒वहे᳓ळिम॒ ] स्य ते पापकृ᳓त्वने ।
ह᳓रस्वतीस्त्वं᳓ च कृत्ये नो᳓च्छिपस्त᳓स्य किंचन᳓ ॥ १२ ॥
ये᳓ नो शिवा᳓सः प᳓न्थानः परायान्ति परा᳓वतम् ।
तै᳓र्देव्य᳓रातीः कृत्या᳓ नो गम᳓यस्वा᳓ नि᳓ वर्तय ॥ १३ ॥
यो᳓ नः क᳓श्चिद्द्रुहो᳓ ऽरातिर्म᳓नसाप्य᳓भि दा᳓सति ।
दू᳓रस्थो वान्तिकस्थो᳓ वा त᳓स्य हृद्य᳓म᳓सृक् पिब ॥ १४ ॥
ये᳓नासि कृत्ये प्र᳓हिता दृढ्ये᳓नास्मज्जिघां᳓सया ।
त᳓स्य व्यन᳓च्चा᳓व्यनच्च हिन᳓स्तु शरदा᳓शनिः ॥ १५ ॥
य᳓द्यु वै᳓षि द्विप᳓द्यस्मा᳓न् य᳓दि वैषि च᳓तुष्पदी ।
नि᳓रस्ता᳓तो ऽव्रता᳓स्मा᳓भिः कर्तु᳓रष्टा᳓पदी गृह᳓म ॥ १६ ॥
यो᳓ नः श᳓पाद᳓शपतो य᳓श्च नः श᳓पतः श᳓पात् ।
वृक्ष᳓ इव विद्यु᳓ता हत᳓ आ᳓ मूला᳓दनु शु᳓ष्यतु ॥ १७ ॥
यं᳓ द्विष्मो᳓ य᳓श्च नो द्वे᳓ष्ट्यघा᳓युर्य᳓श्च नः श᳓पात् ।
शु᳓ने पे᳓ष्ट्रमिवा᳓वक्षा᳓मं तं᳓ प्र᳓त्यस्यामि मृत्य᳓वे ॥ १८ ॥
य᳓श्च सापत्नः᳓ शप᳓थो य᳓श्च जाम्याः᳓ शप᳓थः ।
ब्रह्मा᳓ च य᳓त्क्रुद्धः᳓ शपात् स᳓र्वं त᳓त् कृध्यधस्पद᳓म् ॥ १९ ॥
स᳓बन्धुश्चा᳓सबन्धुश्च यो᳓ अस्माँ᳓ अभि दा᳓सति ।
त᳓स्य त्वं᳓ भिन्ध्यधिष्ठाय पदा᳓ विष्पूर्यते शि᳓रः ॥ २० ॥
अभि᳓ प्रेहि सहस्राक्षं᳓ युक्त्वा᳓शुं शपथ र᳓थम् ।
श᳓त्रूँरन्वि᳓च्छती कृत्ये वृ᳓कीवा᳓विवृतो गृहा᳓न् ॥ २१ ॥
प᳓रि णो वृङ्धि शप᳓थान् द᳓हन्नग्नि᳓रिव व्रज᳓म् ।
श᳓त्रूँरेवा᳓ वि नो जहि दिव्या᳓ वृक्ष᳓मिवाश᳓निः ॥ २२ ॥
श᳓त्रून्मे प्रोष्ट शप᳓थान् कृत्या᳓श्च सु᳓हृदो हृ᳓द्याः ।
जिह्माः᳓ श्लक्ष्णा᳓श्च दु᳓र्हृदः स᳓मिद्धं जात᳓वेदसम् ॥ २३ ॥
असपत्नं᳓ पुर᳓स्तान्नः शिवं᳓ दक्षिणत᳓स्कृधि ।
अ᳓भयं स᳓ततं पश्चा᳓द्भद्र᳓मुत्तरतो᳓ गृहे᳓ ॥ २४ ॥
प᳓रेहि कृत्ये मा᳓ तिष्ठ वृद्ध᳓स्येव पदं᳓ नय ।
मृग᳓स्य हि मृ᳓गारिस्त्वं᳓ तं᳓ त्वं नि᳓कर्तुमर्हसि ॥ २५ ॥
अघ्न्या᳓स्ये घो᳓ररूपे व᳓ररूपे वि᳓नाशनि ।
जम्भिताः᳓ प्र᳓त्या गृभ्णीष्व स्व᳓यमादाया᳓द्भुतम् ॥ २६ ॥
त्व᳓मिन्द्रो य᳓मो व᳓रुणस्त्व᳓मा᳓पो अग्नि᳓रथानिलः᳓ ।
ब्रह्मा᳓ चैव᳓ रुद्र᳓श्च त्व᳓ष्टा चैव प्रजा᳓पतिः ॥ २७ ॥
आव᳓र्तध्वं निव᳓र्तध्वमृत᳓वः परिव᳓त्सराः ।
अ᳓होरात्रा᳓श्चाब्दा᳓श्च त्वं᳓ दि᳓शः प्रदि᳓शश्च मे ॥ २८ ॥
त्व᳓मिन्द्रो य᳓मो व᳓रुणस्त्व᳓मा᳓पो अग्नि᳓रथानिलः᳓ ।
अत्या᳓हृत्य पशू᳓न् देवा᳓नु᳓त्पातयस्वा᳓द्भुतम् ॥ २९ ॥
अ᳓भ्यक्तास्ताः᳓ स्वलंकृताः स᳓र्वं नो दुरितं᳓ जहि ।
जानीथा᳓श्चैव कृत्या᳓नां कर्तॄ᳓न्नॄ᳓न् पापचे᳓तसः ॥ ३० ॥
य᳓था ह᳓न्ति पूर्वासि᳓नं त᳓यैवे᳓ष्वाशुकृज्ज᳓नः ।
त᳓था त्व᳓या युजा᳓ वयं᳓ त᳓स्य निकृण्म स्था᳓स्नु जङ्गमम् ॥ ३१ ॥
उ᳓त्तिष्ठैव᳓ परेहितो ३ घ्न्या᳓स्ये कि᳓मिहे᳓च्छसि ।
ग्रीवा᳓स्ते कृत्ये पदा᳓ चा᳓पि कर्त्स्यामि नि᳓र्द्रव ॥ ३२ ॥
स्वायसा᳓ सन्ति नोस᳓यो विद्मश्चैव᳓ प᳓रूंषि ते ।
तैः᳓ स्थ निकृ᳓ण्म स्थान्युग्रे᳓ य᳓दि नो जीवय᳓स्व ईम् ॥ ३३ ॥
मा᳓स्यो᳓च्छिषो द्विप᳓दं मो᳓ च किंचि᳓च्च᳓तुष्पदम् ।
मा᳓ ज्ञाती᳓र᳓नुजास्वन्वा᳓ मा᳓ वेशं᳓ प्र᳓तिवेशिना ॥ ३४ ॥
शत्रूयता᳓ प्र᳓हितामिमां᳓ ये᳓नाभि य᳓थायथा ।
त᳓तस्त᳓था त्वानुदतु यो᳓ ऽय᳓मन्त᳓र्म᳓यि श्रितः᳓ ॥ ३५ ॥
एवं᳓ त्वं᳓ नि᳓कृतास्माभि᳓र्ब्रह्म᳓णा देवि स᳓र्वशः ।
य᳓था त᳓मा᳓श्रितं कर्त्वा᳓ पा᳓पधीरेव नो जहि ॥ ३६ ॥
यो᳓ नः स्वो᳓ अ᳓रणो य᳓श्च नि᳓ष्ट्यो जि᳓घांसति ।
देवा᳓स्तं᳓ स᳓र्वे धूर्वन्तु ब्र᳓ह्म व᳓र्म म᳓मा᳓न्तरम् ॥ ३७ ॥
य᳓था विद्यु᳓द्धतो᳓ वृक्ष᳓ आ᳓ मू᳓लादनु शुष्य᳓ति ।
एवं᳓ स᳓ प्र᳓ति शुष्यतु यो᳓ मे पापं᳓ चिकी᳓र्षति ॥ ३८ ॥
य᳓था प्र᳓तिहिता भूत्वा᳓ ता᳓मेव᳓ प्र᳓ति धावति ।
पापं᳓ त᳓मेव᳓ धावतु यो᳓ मे पापं᳓ चिकी᳓र्षति ॥ ३९ ॥
कुवी᳓रं ते सु᳓खं रुद्रं᳓ न᳓न्दीमानं विमथ ह ।
ब्र᳓ह्म व᳓र्म म᳓मा᳓न्तरं श᳓र्म व᳓र्म म᳓मा᳓न्तरं घर्मव᳓र्म म᳓मा᳓न्तरं ॥ ४० ॥

टिप्पनी - ५

ऋसं १०. १२८ अनन्तरं पठनीयम् । ‘यां कल्पयन्ति नो ऽरयः कृत्यानाशनमात्मनः’ इति बृहद्दे (Cf. Bṛhaddevatā, part II, pp. 304-5) ८. ४५ । ‘यां कल्पयन्तीति सदा जपेत नियतव्रतः । नैनं कृत्या निहिंसन्ति क्रुद्धाभिचरितानि च’ इति ऋग्वि ४. ३० । ऋग्वि ४. ४१ अत्रेदं कृत्यासूक्तमित्युक्तम् । अथर्व १०.१ प्रायो ऽनेन समानम् । पैप्प. अथर्व; कौसू. ३९. ७ अपि द्रष्टव्यम् ।
१. ब्रह्मणा परि निङ्मः; ब्रह्मणाप निर्णुद्मः-औध ।
२.२. यः प्राहिणोदिहाद्य त्वां वि तं त्वं योजयासुभिः-औंध ।
३.२. = तं कृत्ये ऽभिनिवर्तस्व मास्मानिच्छो अनागसः-अथर्व १०. १. ७. येन दिष्टेह वहसि प्रतिकूलमघायिनि । तमेवेतो निवर्तस्व मास्मान्मृच्छो अनागसः-औंध ।
४. वर्तस्व; कृन्तस्व-औंध ।
५. कृत्यां; कृत्ये-औध. नाशय सर्वाश्च यातुधान्यः = अथर्व १९. ३९. ८ ।
६. पशूंश्चावास्य; पशूंश्चैवास्य-औध ।
७-९ ‘यस्त्वा कृत्ये प्र जिगा’ इत्येतावन्मात्रों ऽशः का-पुस्तके वर्तते । शिष्टं त्रुटितम् । एते त्रयो मन्त्रा औंधपुस्तकादुद्धृताः । उद्धृतभागेषु सर्वत्र स्वरितमुपरिष्टाच्चिह्नाङ्कितमनुदात्तं चाधस्ताच्चिह्नाङ्कितम् । ‘प्र जिगाति’ अस्य स्थाने ‘प्रजिघाय’ इति औंध ।
१०. = अथर्व १०. १. ८ रथस्येव ऋभुर्धिया; रक्षस्येव विभुर्धिया-औंध गृच्छ-का; गच्छ-अथर्व-औंध. ते जनं-का; ते ऽयनं-अथर्व-औध ।
११. प्रथमपादः का-पुस्तके त्रुटितः औंध-पुस्तकादुद्धृतः । कश्चिद्वान्यो ऽभि-औध; कश्चिद्वा न्यभि-का । तनुः पृच्छस्व हेळितः; तनू मृच्छस्व हेळिता-औध ।
१२. भवा शर्वा देवहेळिमस्य ते; भवा शर्वा देवहेळिमस्यत-औंध; भ…… स्य ते-का; शिष्टं औंधपुस्तकानुसारेण पूरितम् । हरस्वतीस्त्वं; हरस्वती त्वं-औंध. नोच्छिषः; मोच्छिषः-औंध.
१३. = १५ औंध. ये नो-का; ये नः-औंध. परायान्ति; परायन्ति-औंध. तैर्देव्यरातीः-का; तैर्देवि रात्र्याः-औंध. गमयस्वा नि वर्तय-का; गमयस्वा नि वर्तय-का; गमयस्वानुकृत्तये-औंध ।
१४. = १३ औंध. द्रुहो ऽरातिर्मनसाप्यभि दासति-का; द्रुहारातिर्मनसा प्रतिभूषति-औंध ।
१५. = १४ औंध. व्यनच्चाव्यनच्च-का = ऋसं १०.१२०. २; अथर्व ५. २. २; व्यानच्चाव्यानच्च-औंध. शरदाशनिः-का; हरसाशनिः-औंध ।
१६. यद्यु-का; यदि-औंध. निरस्ततो ऽव्रतास्माभिः-का; निरस्तेतो व्रजास्माभिः-औध. गृहम्-का; गृहान्-औंध ।
१७.१. = तैब्रा ३. ७. ६. २३; तैआ २. ५. ११; आपश्रौ ४. १५. १. यो नः… शपात्-का; यो नः शपादशपतः शपतो यश्च नः शपात्-अथर्व ७. ५९.१; ६. ३७. ३.
१७.२. = अथर्व ७.५९.१. वृक्ष इव… शुष्यतु-का; वृक्षमिव विद्युदाशुतमा मूलादनु शोषय-औंध ।
१८.१. = अथर्व १६. ६. ४ : यं द्विष्मो यच्च नो द्वेष्टि तस्मा एनद्गमयामः.
१८.२. = अथर्व ६. ३७. ३.२. पेष्ट्रमिवावक्षामं; पिष्टमिव क्षामं-औंध. तं प्रत्यस्यामि मृत्यवे; तं प्रत्यस्य स्वमृत्यवे-औंध.
१९. = अथर्व २. ७. २. यश्च जाम्याः शपथः; यश्च यामी शपाति नः-औंध. ब्रह्मा यन्मन्युतः शपात्सर्वं तन्नो अधस्पदम्-अथर्व ।
२०.१. अथर्व ६. १५. २.१, ५४. ३.१. ०सबन्धुश्च-का; ०प्यबन्धुश्च-औंध. विष्पूर्यते शिरः-का; विस्फूर्य तच्छिरः-औंध ।
२१. = अथर्व ६. ३७. १. उप प्रागात्सहस्राक्षो युक्त्वा शपथो रथम्-अथर्व. युक्त्वाशुं शपथ रथं; युक्त्वा तु शपथं रथे-औंध. शप्तारमन्विच्छन्मम वृक इवाविमतो गृहम्-अथर्व. शत्रूँरन्विच्छती-का; शत्रूनन्विच्छती-औंध. वृकीवाविवृतो-का; वृकीवाविमतो-औंध ।
२२. = अथर्व ६. ३७. २. परि णो वृङ्धि शपथ ह्रदमग्निरिवा दहन्-अथर्व. व्रजं-का; ह्रदं-औंध. शप्तारमत्र नो जहि दिवो वृक्षमिवाशनिः-अथर्व. शत्रूँरेवा वि नो-का; शत्रूनेवाभितो-औंध ।
२३. प्रोष्ट-का; प्रोथ-औंध. सुहृदो हृद्याः-का; सुहृदो ऽसुहृत्-औंध ।
२४. = खिल २. २. ४. असपत्नं पुरस्तात् = अथर्व १९. १६. १; २७. १४. दक्षिणतस्कृधि-का; दक्षिणतः कृधि-औंध ।
२५. = अथर्व १०. १. २६. तिष्ठ-का-औंध; तिष्ठो-अथर्व. वृद्धस्येव-का; विद्धस्येव-अथर्व-औंध. मृगः स मृगयुस्त्वं न त्वा निकर्तुमर्हति-अथर्व. मृगारिस्त्वं … ०मर्हसि-का; मृगारिप्रो न त्वा नीकर्तुमर्हति-औंध ।
२६. = अघ्न्यास्येव घोररूपे विपुरूपे ऽविनाशिनि । जृम्भिता प्रति गृभ्णीष्व स्वयमादाय चाद्भुतम्-औंध ।
२७. ०मापो अग्नि०-का; ०मापो ऽग्नि०-औध. ब्रह्मा-का; त्वं ब्रह्मा-औंध. २८. दिशः प्रदिशः = अथर्व ९. २. २१; १९. ४५. ३ ।
२९. = त्वं यमं वरुणं सोमं त्वमापो ऽग्निमथानिलम् । अत्राहृत्य पशूंश्चैवमुत्पादसि चाद्भुतम्-औध.
३०. = अथर्व १०. १. २५ : अभ्यक्ताक्ता स्वरंकृता सर्वं भरन्ती दुरितं परेहि । जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम्. औधपुस्तके त्रिंशो मन्त्रो विभिन्नो वर्तते स यथा- ‘ये मे दमे दारुगर्भे शयानं श्रिया सहितं पुरुषं निजह्रुः । कुम्भीपाकं नरकं ग्रीवबद्धं हुता एवं पुरुषासो यमस्य ॥’ त्रिंशो मन्त्रश्चैकत्रिंशत्वेनागतः । ‘अभ्यक्ताक्ता स्वलंकृता सर्वं नो दुरितं दह’ इति तस्य पूर्वार्धः ।
३१. = अथर्व १०. १. २७ = ३२ औंध. पूर्वासिनं… … ०ज्जनः-का; पुरासीनं तथैवेष्वा सुकृन्नरः-औध. त्वया युजा वयं = ऋसं १. ८. ४; अथर्व ४. ३२. १ तस्य; औंधपुस्तके नास्ति. स्थास्नु-औंध; स्थास्तु-का ।
३२.१ = = अथर्व १०. १. २०. २. ०घ्न्यास्ये-का; ऽज्ञाते-अथर्व-औंध.
३२.२. = अथर्व १०. १. २१. १.
३२ = ३३ औंध. पदा-का; पादौ-अथर्व-औंध. चापि-का-अथर्व; चाभि-औंध. निर्द्रव-का-अथर्व. विद्रव-औध ।
३३.१ = अथर्व १०. १. २०. १: स्वायसा असयः सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि.
३३ = ३४. औंध. स्वायसा-का; स्वायसाः-औंध, विद्मश्चैव-का; विद्म चैव-औध. तैः स्थ… … ईम्-का; तैस्ते निकृण्मस्तान्युग्रे यदि नो जीवयस्वरीन्-औध.
३४ = ३५ औध. मो च-का; मोत-औध. ज्ञातीरनुजास्वन्वा-का; ‘ज्ञातीननुजसूत्वा’ इति पाठं शेफ्टेलोवित्झ्महाशया अभ्यूहन्ति. ज्ञातीननुजान् पूर्वान्-औंध. वेशं प्रतिवेशिना-का; वेशि प्रतिवेशिनौ-औंध.
३५ = ३६ औंध. शत्रूयता … … यथायथा-का; शत्रूयता प्रहितासि दूढ्येनाभि यथायतः-औंध.
३६ = ३७ औंध. एवं त्वं… … सर्वशः-का; यथेतमाश्रिता गत्वा पापधीनिव नो जहि-औंध ।
३७. = साम २. ९. ३. ८. ३; ऋसं ६. ७५. १९; अथर्व १. १९. ३.१, ४.२; आश्वगृ ३. ५. ७ = ४० औंध ।
३९. प्रतिहिता-का; प्रतिशुको औंध. तामेव-का; तमेव-औंध. तमेव-का; तमेवं-औध ।
४०. = ४२ औंध : कुबेर ते मुखं रौद्रं नन्दिन्नानन्दमावह । ज्वरमृत्युभयं घोरं विश नाशय मे ज्वरम् ।
औंधपुस्तके केचन मन्त्रा अधिकत्वेन विद्यन्ते ते ऽधो दीयन्ते-

मूलम्

उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः ।
अव ब्रह्मद्विषो जहि ॥ ४१ ॥
यो मे करोति प्रद्वारे यो गृहे यो निवेशने ।
यो मे केशनखे कुर्यादञ्जने दन्तधावने ॥ ४३ ॥
प्रतिसर प्रतिधाव कुमारीव पितुर्गृहान् ।
मूर्धानमेषां स्फोटय पदमेषां कुले कृधि ॥ ४४ ॥
ये नो रथिं दुश्चरितासो अग्ने जहुर्मर्तासो अनृतं वदन्तः ।
तेषां वपूंष्यर्चिषा जातवेदः शुष्कं न वृक्षमभि सं दहस्व ॥ ४५ ॥
कृष्णवर्णे महद्रूपे बृहत्कर्णे महद्भये ।
देवि देवि महादेवि मम शत्रून् विनाशय ॥ ४६ ॥
खट् फट् जहि महाकृत्ये विधूमाग्निसमप्रभे ।
जहि शत्रूंस्त्रिशूलेन क्रुध्यस्व पित्र शोणितम् ॥ ४७ ॥
ये द्रुह्युर्ऋजवे मह्यमग्ने कदाधियो दुर्मदा अश्मनासः ।
आबध्यैतान् शोचिषा विध्य तन्तून् वैवस्वतस्य सदनं नयस्व ॥ ४८ ॥

मूलम् - ६

आयु᳓ष्यं वर्चस्यं राय᳓स्पो᳓षमौ᳓द्भिदम् ।
इदं᳓ हि᳓रण्यं व᳓र्चस्वज्जै᳓त्राया᳓ विशतादु मा᳓म् ॥ १ ॥
उच्चै᳓र्वाजि᳓ पृतनाषा᳓ट् सभासाहं᳓ धनंजय᳓म् ।
स᳓र्वाः स᳓मग्रा ऋ᳓द्धयो हि᳓रण्ये ऽस्मि᳓न्त्समा᳓हृताः ॥ २ ॥
शुन᳓महं᳓ हिरण्यस्वपितु᳓र्ना᳓मेव जग्रभ ।
ते᳓न मां᳓ सू᳓र्यत्वचमकरं पुरुषप्रिय᳓म् ॥ ३ ॥
सम्रा᳓जं च विरा᳓जं चाभिष्टि᳓र्या᳓ च मे ध्रुवा᳓ ।
लक्ष्मी᳓ राष्ट्र᳓स्य या᳓ मु᳓खे त᳓या मामिन्द्र सं᳓ सृज ॥ ४ ॥
अग्नेः᳓ प्र᳓जातं प᳓रि य᳓द्धि᳓रण्यममृ᳓तं जज्ञे᳓ अ᳓धि म᳓र्त्येषु ।
य᳓ एनद्वे᳓द स᳓ इ᳓देनदर्हति जरा᳓मृत्युर्भवति यो᳓ बिभ᳓र्ति ॥ ५ ॥
य᳓द्वे᳓द रा᳓जा व᳓रुणो य᳓दु देवी᳓ स᳓रस्वती ।
इन्द्रो᳓ य᳓द्वृत्रहा᳓ वेद त᳓न्मे वर्चस आ᳓युषे ॥ ६ ॥
न᳓ त᳓द्र᳓क्षांसि न᳓ पिशाचा᳓स्त᳓रन्ति देवा᳓नामो᳓जः प्रथमजं᳓ ह्ये३त᳓त् ।
यो᳓ बिभ᳓र्ति दाक्षायणा᳓हि᳓रण्यं स᳓ देवे᳓षु कृणुते दीर्घ᳓मा᳓युः स᳓ मनुष्ये᳓षु कृणुते दीर्घा᳓मा᳓युः ॥ ७ ॥
यदा᳓बध्नन् दाक्षायणा᳓ हि᳓रण्यं शता᳓नीकाय सुमनस्य᳓मानाः ।
त᳓न्म आ᳓ बध्नामि शतशारदाया᳓युष्माञ्जर᳓दष्टि᳓र्य᳓था᳓सत् ॥ ८ ॥
घृता᳓दु᳓ल्लुप्तं म᳓धुमत् सुव᳓र्णं᳓ धनंजयं᳓ धरु᳓णं धारयिष्णु᳓ ।
ऋण᳓क्सप᳓त्नान᳓धरांश्च कृण्व᳓दा᳓ रोह मां᳓ महते᳓ सौ᳓भगाय ॥ ९ ॥
प्रियं᳓ मा कुरु देवे᳓षु प्रियं᳓ रा᳓जसु मा कुरु ।
प्रियं᳓ विश्वे᳓षु गोप्त्रे᳓षु म᳓यि धेहि रुचा᳓ रु᳓चम् ॥ १० ॥
ना᳓सदासीन्नो सदासीत्० ॥ ऋ. सं. १०. १२९. १

टिप्पनी - ६

ऋसं १०. १२८ अनन्तरं पठनीयम् । अस्मिन्नेवार्थे बृहद्देवता (Cf. Bṛhaddevatā, part II, pp. 305) (८.४५):- ‘हिरण्यस्तुतिरायुष्यं नासद् (= ऋसं १०. १२९) यत्परमेष्ठिनः’ । ऋग्विधानमपि (४.४३)- ‘आयुष्यमायुर्वर्चस्यं सूक्तं दाक्षायणं महत्’ इति । शांगृ ३. १; आश्वगृ ३. ८. २१; शांक एतेष्विदमुद्धृतम् । ऋमं-ऋब्र-मॅ२७-आउ२०-मु-अल-जुना-आश्वमंसं-प्रर (समावतन)-संकौ (समावर्तन)-पुस्तकेष्विदं संपूर्णमुपलभ्यते । एतेष्वेकादशो मन्त्रो ऽधिकः । ऋब्र-प्रर-पुस्तकयोरस्य ऋषिच्छन्दोदेवताविनियोगा अपि कथिताः- ‘आयुष्यमिति सूक्तस्य सनकसनन्दनसनातनादय ऋषयः । हिरण्यं देवता । आद्याश्चतस्रो ऽनुष्टुभः पञ्चमी त्रिष्टुप् षष्ठ्यनुष्टुप् सप्तमी शक्वरी अष्टमीनवम्यौ त्रिष्टुभौ दशम्यनुष्टुबेकादशी पङ्क्तिः । कण्ठे मणिधारणे विनियोगः’ । संकौ अपि द्रष्टव्यम् ।
१-४ = हिगृ १. १०. ६; ११. १ = आपमं २. ८. १-३, ८. १ = वासं ३४. ५०; अन्त्ये. ५ = अथर्व १९. २६. १. ६ = अथर्व ५. २५. ६; १९. २६. ४. ७ = अथर्व १. ३५. २; वासं ३४. ५१. ८ = वासं ३४. ५२; अथर्व १. ३५. १. ९ = अथर्व ५. २८. १४; १९. ३३. २; ४६. ६. १० = अथर्व १९. ६२; तैसं ५. ७. ६. ४; मैसं ३. ४. ८; हिगृ १. १०. ६; आपमं २. ८. ४.
१. वर्चस्यं; वर्चस्यं सुवीर्यं-आपमं. वर्चस्वज्जैत्राया-हिगृ-मॅ-आउ-अल; वर्चस्व जैत्राया-मु-ऋब्र-वासं-संकौ-प्रर-ऋमं; वर्चस्वज्जैत्र्याया-आपमं. विशतादु मां-वासं-मॅ-आउ-प्रर; विशतादिमां-ऋमं-ऋब्र-जुना-मु-संकौ; विशतादिमं-अल; विशतान्मां-आपमं हिगृ ।
२. वाजि; वादि-आपमं. सभासाहं; सत्रासाहं-आपमं. समग्रा; समग्र-अल; समृद्धीः-आपमं. समाहृताः-का; समाभृताः-हिगृ; समाहिताः-इतरेषु ।
३. हिरण्यस्व०-का-ऋमं-मु-जुना-संकौ; हिरण्ये स्व०-अल; हिरण्यस्य-इतरेषु. नामेव-का-ऋमं-आउ-मॅ-प्रर; मानेव-ऋब्र-मु-जुना-अल-संकौ; नामाग्रभिषं-हिगृ; नामाग्रभैषं-आपमं. पुरुषप्रियं-का; पूरुषु प्रियं-मॅ-मु-अल-आउ-ऋब्र-संकौ-प्रर; पुरुषु प्रियं-ऋमं; पूरिषु प्रियं-जुना; हिगृ-आपमं-पुस्तकयोरुत्तरार्धो ऽन्यथा वर्तते- ‘तं मा हिरण्यवर्चसं करोतु पूरुषु (पुरुषु-हिगृ) प्रियम् ।
४. सम्राजं च विराजं; विराजं च सम्राजं-हिगृ. चाभिष्टिर्या च मे ध्रुवा-का-ऋमं-ऋब्र-मॅ-मु-आउ-प्रर-संकौ; चाभिष्टिर्यातवे ध्रुवा-अल-जुना; चाभिष्टिर्या च नो गृहे-हिगृ; चाभिश्रीर्या च नो गृहे-आपमं. या; मा-अल. मामिन्द्र सं सृज; मा सं सृजामसि-हिगृ-आपमं; मामिन्द्र संसृज-प्रर ।
५. प्रजातं; प्रयातं-अल-जुना-संकौ. जज्ञे-का-ऋब्र-आउ; दध्रे-अथर्व; यज्ञे-इतरेषु. इदेनदर्हति-का-ऋब्र-आउ-प्रर; इदेनमर्हति-ऋमं-अथर्व-मॅ-मु-जुना-संकौ; त्रिवेदमर्हति-अल. यो-का; ये-अल ।
६. यद् वृत्रहा; यजंपुहा-अल. वर्चस; वर्चस्य-अल ।
७. ०स्तरन्ति-का-वासं-अल; सहन्ते-अथर्व; ०श्चरन्ति-इतरेषु. प्रथमजं; प्रथमं-अल. दाक्षायणा; दाक्षायणं-अथर्व-वासं-प्रर. देवेषु; जावेषु-अथर्व ।
८. यदाबध्नन्-वासं-ऋमं-अथर्व-मॅ-आउ-संकौ; यदाबध्नं-का-ऋब्र-प्रर-मु-अल-जुना. सुमनस्यमानाः-वासं-अथर्व-मॅ-आउ; सुमनस्यमाना-ऋमं-ऋब्र-मु-अल-जुना-प्रर-संकौ. यथासत्; यथासन्-अल; यथासं-आउ, तन्म आ-का-वासं; तत्ते-अथर्व; तन्न आ-मॅ-मु-अल-जुना-ऋब्र-संकौ-प्रर; तदा-आउ. तत्ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय-अथर्व.
९. घृतादुल्लुप्तं-का-अथर्व-मॅ-आउ; धृतादुलुक्तं-प्रर; धृतादुर्लुप्तं-अल-जुना-मु-ऋमं-ऋब्र-प्रर-संकौ. सुवर्णं; सुपर्णं-का-अल. ऋणक्; वृणक्-प्रर. सपत्नान्-का-अथर्व; स्वपत्नाद्-अल; सपत्नाद्-इतरेषु. कृण्वदा; कृण्वमा-अल; कृण्वन्ना-जुना ।
१०. राजसु; राजस-अल. गोप्त्रेषु-का-ऋमं-मु; गोप्तृषु-जुना; गोत्रेषु-इतरेषु । उपरिनिर्दिष्टेषु सर्वेषु पुस्तकेषु वर्तमान एकादशो मन्त्र एवमस्ति -
अग्निर्येन विराजति सूर्यो येन विराजति ।
विराड्येन विराजति तेनास्मान् ब्रह्मणस्पते विराज समिधं कुरु ॥
विराड्येन-मॅ-आउ-अल-जुना-प्रर-संकौ; विराज्येन-ऋमं-ऋब्र-मु. समिधं; समिधा-अल-जुना; समदं-प्रर ।

मूलम् - ७

भू᳓मिर्माता᳓ न᳓भः पिता᳓र्यमा᳓ ते पितामहः᳓ ।
घृता᳓ची ना᳓म वा᳓ असि सा᳓ देवा᳓नाम᳓सि स्व᳓सा ॥ १ ॥
य᳓स्त्वा पि᳓बति जी᳓वति त्रा᳓यसे पु᳓रुषं त्व᳓म् ।
त्रा᳓त्रिणी श᳓श्वतामसि श᳓श्वतां सम्य᳓ञ्चनी ॥ २ ॥
य᳓द्दण्डे᳓न य᳓दि᳓षुणा य᳓द्वा᳓रुर्ह᳓रसा कृत᳓म् ।
त᳓स्य त्व᳓मसि नि᳓ष्कृतिः सा᳓नौ नि᳓ष्कृत्य ओष᳓धीः ॥ ३ ॥
वृक्षं᳓वृक्षं सं᳓ पतसि वृ᳓षायन्तीव कन्य᳓ना ।
ज᳓यन्ती प्रत्यातिष्ठन्तीं संजेया᳓ ना᳓म वा᳓ असि ॥ ४ ॥
भद्रा᳓त् प्लक्षे᳓ नि᳓स्तिष्ठाश्वत्थे᳓ खदिरे᳓ धवे᳓ ।
भद्रा᳓त्पर्णे᳓ न्यग्रो᳓धे सा᳓ मां᳓ रौत्सीदरुन्धती᳓ ॥ ५ ॥
अ᳓श्वस्या᳓सृक्संपतसि त᳓त्पर्ण᳓मभि तिष्ठसि ।
सर᳓त्पतत्यर्णसि सा᳓ मां᳓ रौत्सीदरुन्धती᳓ ॥ ६ ॥
हि᳓रण्यपर्णे सु᳓भगे सो᳓क्ष्मे लो᳓मशवक्षणे᳓ ।
अपा᳓मसि स्व᳓सा ला᳓क्षे वा᳓तो हात्मा᳓ बभूव᳓ ते ॥ ७ ॥
तव त्य᳓ इन्द्र सख्ये᳓षु व᳓ह्नयः० ॥ ऋ. सं. १०. १३८. १

टिप्पनी - ७

ऋसं १०. १३७ अनन्तरं पठनीयम् । तथा चात्र बृहद्देवता (Cf. Bṛhaddevatā, part II, p. 307. This Khila follows आयुष्यं वर्चस्वं and not यां कल्पयन्ति as stated by Macdonell.) (८.५१)- ‘भूमिर्लाक्षं परं सूक्तं तवैन्द्रं सूक्तमुत्तरम्’ । इदं लाक्षादेवताकमिति खिलानुक्रमणी । बृहद्दे १. १२९; २. ८४ अपि द्रष्टव्यम् । अस्य सूक्तस्य सप्तमे मन्त्रे लाक्षा इति पदमागतम् । इदं अथर्व ५. ५ अनेन प्रायः समानम् । क्वचित् मन्त्राणां व्यत्यासः । पैप्प. अथर्व ६.४ अपि द्रष्टव्यम् ॥
१. = अथर्व १. भूमिर्माता-का-बृहद्दे; रात्री माता-अथर्व. → अथर्व १२. १. १२, ६३. घृताची-का; सिलाची-अथर्व ।
२ = अथर्व २ ।
३.-अथर्व
४. इषुणा-का; इष्वा-अथर्व. सानौ निष्कृत्य ओषधीः-का; सेमं निष्कृधि पूरुषं-अथर्व ।
४. = अथर्व
३. सं पतसि वृषायन्तीव कन्यना-का; आ रोहसि वृषण्यन्तीव कन्यला-अथर्व. संजेया-का; स्परणी-अथर्व ।
५. = अथर्व ५ : भद्रात्प्लक्षान्निस्तिष्ठस्यश्वत्थात्खदिराद्धवात् । भद्रान्न्यग्रोधात्पर्णात्सा न एह्यरुन्धति ।
६. अथर्व ९ : अश्वस्यास्नः संपतिता सा वृक्षाँ अभि सिष्यदे । सरा पतत्रिणी भूत्वा सा न एह्यरुन्धति. अर्णसि-का; ‘अर्णसी’ इति स्यादिति शेफ्टेलोवित्झ्महाशयाः ।
७. = अथर्व ७. हिरण्यपर्णे-का हिरण्यवर्णे-अथर्व. सोक्ष्मे-का; शुष्मे-अथर्व.
अधो दीयमानं ‘हिमस्य त्वा’ इत्यादि सूक्तं ऋ १०. १४२ अनन्तरं पठनीयम् । मु-मते तु ‘आ रात्रि पार्थिवं’ इत्यस्यानन्तरं (ऋसं १०. १२७ अनन्तरं) पठितव्यम् । इदं मॅ२८-मु-आउ२१-ऋमं-आश्वमंसं.२-अल-जुना-औंध-पञ्चामृ-पुस्तकेषूपलभ्यते । प्रथममन्त्रस्य प्रथमतृतीयपादौ = अथर्व ६. १०६. ३; वासं १७. ५. तैसं ४. ६. १. १.

मूलम्

हिमस्य त्वा जरायुणा शाले परिव्ययामसि ।
उत हूदो हि नो भुवो ऽग्निर्ददातु भेषजम् ।
शीतह्रदो हि नो भुवो ऽग्निर्ददातु भेषजम् ॥ १ ॥
अन्तिकामग्निमजनयद्दुर्वारः शिशुरागमत् ।
अजातपुत्रपक्षाया हृदयं मम दूयते ॥ २ ॥
विपुलं वनं बह्वाकाशं चर जातवेदः कामाय ।
मां च रक्ष पुत्रांश्च शरणमुभौ तव ॥ ३ ॥
पिङ्गाक्ष लोहितग्रीव कृष्णवर्ण नमो ऽस्तु ते ।
अस्मान्नि बर्हरस्योनं सागरस्योर्मयो यथा ॥ ४ ।
इन्द्रः क्षत्रं ददातु वरुणमभि षिञ्चतु ।
शत्रवो निधनं यान्तु जय त्वं ब्रह्मतेजसा ॥ ५ ॥
कपिलजटीं सर्वभक्षं चाग्निं प्रत्यक्षदैवतम् ।
वरुणं च वशाम्यग्रे मम पुत्रांश्च रक्षतु मम पुत्रांश्च रक्षत्वों नमः ॥ ६ ॥
साग्रं वर्षशतं जीव पिब खाद च मोद च ।
दुःखितांश्च द्विजांश्चैव प्रजां च पशु पालय ॥ ७ ॥
यावदादित्यस्तपति यावद्भ्राजति चन्द्रमाः ।
यावद्वायुः प्लवायति तावज्जीव तया सह ॥ ८ ॥
येन केन प्रकारेण को वीनामनु जीवति ।
परेषामुपकारार्थं यज्जीवति स जीवति ।
एतां वैश्वानरीं सर्वदेव नमो ऽस्तु ते ॥ ९ ॥
न चोरभयं न च सर्पभयं न च व्याघ्रभयं न च मृत्युभयम् ।
यस्यापमृत्युर्न च मृत्युः स सर्वं लभते स सर्वं जयते ॥ १० ॥

टिप्पनी

१. हिमस्य; यमस्य-ऋमं. जरायुणा शाले-मु-आउ-अल-जुना-अथर्व-ऋमं; जरायुणाग्ने-तैसं. भुवो; धियो-औंध. शीतह्रदो-मु-अल-जुना; शिशीतह्रदो-ऋमं; शीतह्रदा-अथर्व-आउ. भुवो ऽग्निर्ददातु-ऋमं-आउ-अल-जुना; भियो ऽग्निर्ददातु-मु; भुवो ऽग्निष्कृणोतु-अथर्व; धियो ऽग्निर्ददातु-औध ।
२. अजनयद्दुर्वारः-आउ; अजयद्दुर्वादः-मु; अजनयद्दुर्वादः-मॅ; अजनदूर्वादः-अल-जुना; अजरदूर्वासः-ऋमं. शिशुरागमत्-मॅ-अल-आउ; शिशुलागमत्-ऋमं-मु; शशहागमत्-औध. दूयते-मॅ-मु-आउ; हूयते-जुना-ऋमं; दूयेत-अल ।
३. चर; चरत-ऋमं; तव-मु. वनं; धनं-मु. मां च-आउ-मु-ऋमं; मांश्च-अल. ०मुभौ तव-अल-जुना; ०मभूत्तव ।
४. अस्मान्नि बर्ह रस्योनं-मु; अस्यां निबर्हणः स्योनां-ऋमं; अस्मान्वि वर्जय स्थानं-आउ; अस्माद्वि बर्ह स्योनां-मॅ; अस्मांद्विबर्हज स्योनां-अल-जुना; अस्मान्निबर्हरस्येनां-औंध; अस्माद्वि बर्हरस्येनां ।
५. इन्द्रः-मॅ-आउ-अल-जुना; इन्द्र-ऋमं-मु. वरुणमभि; वरुणस्त्वमभि-अल. शत्रवो; शत्रवस्ते-अल-जुना. यान्तु; यातु-ऋमं. जय त्वं-आउ-जुना; जप त्वं-अल; जयस्त्वं-मॅ-मु-ऋमं ।
६. ०जटीं; ०जटिं-अल. वशाम्यग्रे; वशाह्यग्नि-अल. वशाह्यग्ने-जुना. रक्षतु; रक्षति-अल-जुना. ‘मम पुत्रांश्च रक्षत्वों नमः’ अल-जुना-पुस्तकयोः नास्ति ।
७. दुःखितांश्च-मॅ-आउ; दुःखितान्त-ऋमं; दुःखितां न-मु । अल-जुना मध्ये सप्तमो मन्त्रो नास्ति ।
८. वायुः; वातः-जुना. प्लवायति-जुना; प्रवायति-अल. तया सह-जुना; जया जय-इतरेषु. अष्टममन्त्रानन्तरं अल-आश्वमंसं-पुस्तकयोरेको मन्त्रो ऽधिको ऽस्ति-
एकशफैर्हस्तिनोद्देशेन (०नोर्देशेन-आश्वमंसं) त्वं विपुलेन । पृथिवी एवं भुञ्जत्येकच्छत्रेण दण्डेन ॥ ९. वीनामनु; नेहनाको न-अल; मेहनाको न-जुना; हि नाम न-मु; हि नाम नु-औंध; हीनमनु-आउ; विनामनु. परेषामुपकारार्थं; यदेषामपकाराणां-अल-जुना. वैश्वानरीं सर्वदेव-मॅ-मु; वैश्वानरं सर्वदेव-ऋमं; वैश्वानर सर्वदेव-आउ; वैश्वानरीं सर्वदेवान्-औंध; वैश्वानरं सर्वदेवं । मु-पुस्तके ‘एतां वैश्वानरीं’ इत्यादिभागो दशममन्त्रानन्तरमागतः । अयं अल-जुना पुस्तकयोर्नास्ति ।
१०. स सर्वं लभते स सर्वं जयते-मॅ-मु; सर्वं लभते सर्वं जयते-ऋमं. दशमो मन्त्रः आउ-अल-पुस्तकयोर्नास्ति । दशममन्त्रानन्तरं आश्वमंसं-पुस्तके ऋसं १०. १४२. ८ इत्ययं मन्त्रो दत्तो ऽस्ति ।

मूलम् - ८

मे᳓धां म᳓ह्यम᳓ङ्गिरसो मे᳓धां सप्त᳓र्षयो ददुः ।
मे᳓धामि᳓न्द्रश्चाग्नि᳓श्च मे᳓धां धाता᳓ ददातु मे ॥ १ ॥
मे᳓धां मे व᳓रुणो राजा᳓ मे᳓धां देवी᳓ स᳓रस्वती ।
मे᳓धां मे अश्वि᳓नौ देवा᳓वा᳓ धत्तां पु᳓ष्करस्रजा ॥ २ ॥
या᳓ मे᳓धाप्सर᳓स्सु गन्धर्वे᳓षु च य᳓न्म᳓नः ।
दै᳓वी या᳓ मा᳓नुषी मे᳓धा सा᳓ मामा᳓ विशतादिह᳓ ॥ ३ ॥
य᳓न्मे ऽनू᳓क्तं त᳓द्रमतां श᳓केयं य᳓दनुब्रुवे᳓ ।
नि᳓शामितं नि᳓ शामये मयि᳓ श्रुत᳓म् ।
सह᳓ व्रतेन भूयासं ब्र᳓ह्मणा सं᳓ गमेमहि ॥ ४ ॥
श᳓रीरं मे विचक्षण वा᳓ङ्मे म᳓धुमद्दुहे ।
अ᳓वृधमह᳓मसौ᳓ सू᳓र्यो ब्र᳓ह्मण आणीः᳓ स्थ ।
श्रुतं᳓ मे मा᳓ प्र᳓ हासीः ॥ ५ ॥
मे᳓धां देवीं᳓ म᳓नसा रे᳓जमानां गन्धर्व᳓जुष्टां प्र᳓ति नो जुषस्व ।
म᳓ह्यं मे᳓धां वद म᳓ह्यं श्रि᳓यं वद मे᳓धावी᳓ भूयासमजि᳓राचरिष्णुः᳓ ॥ ६ ॥
स᳓दसस्प᳓तिम᳓द्भुतं प्रिय᳓मि᳓न्द्रस्य का᳓म्यम् ।
सनिं᳓ मे᳓धामयासिषम् ॥ ७ ॥
मेधा᳓व्यहं᳓ सुम᳓नाः सुप्र᳓तीकः श्रद्धा᳓मनाः सत्य᳓मतिः सशे᳓वः ।
महायशा᳓ धारयि᳓ष्णुः प्रवक्ता᳓ भूया᳓समस्येश्वर᳓या प्रयोगे᳓ ॥ ८ ॥
यां᳓ मे᳓धां देवगणाः᳓ पित᳓रश्चो᳓पासते ।
तया मा᳓मद्य᳓ मेधया᳓ग्ने मेधावि᳓नं कुरु ॥ ९ ॥

टिप्पनी - ८

एतदुत्तरं च ऋसं १०.१५१ अनन्तरं पठनीयम् । तथा चात्र बृहद्देवता (८.५८)- ‘आग्नेयं श्रद्धया श्राद्धं मेधासूक्तमतः परम् । आग्नेयमा सूरेतु’ इति । ऋग्विधानमपि (४. ७१-७२)- ‘श्रद्धासूक्तं जपेन्नित्यं श्रद्धाकामः समाहितः । सर्वत्र लभते श्रद्धां मेधासूक्तं तथैव च’ इति । पुनरप्यन्यत्र (ऋग्वि ४. ९६-९७)- ‘पुरा स्तनप्रदानात्तं श्रद्धासूक्तेन पाययेत् । मेधासूक्तेन चैवैनं पिष्टं व्रीहिमयं चरुम् । मधुमिश्रं जातरूपं मेधावी तेन जायते’ इति । ऋमं-मॅ२९-आउ२२-ऋब्र-अल-जुना-मु-आश्वमंसं-प्रर-औंधपुस्तकेष्विदं संपूर्णमुपलभ्यते ।
१. = आपमं २. ४. ५; अन्त्ये १.२. = वासं ३२. १५. मेधां; मेधा-मु. सप्तर्षयो-का-ऋब्र-आपमं; सप्त ऋषयो-इतरेषु. अग्निश्च; वायुश्च-वासं-अन्त्ये. दधातु-का-अल; ददातु-इतरेषु. **मे-का-ऋब्र-अल-आउ-अन्त्ये; ते-इतरेषु ।
२. = तैआ १०. ४०; आपमं २. १२. २; आश्वगृ १. १५. २; पागृ २. ४. ८; मंब्रा १. ५. ९; हिगृ १. ६. ४; ८. ४; गोगृ २. ७. २१; मंदी; मामंपा. → वैसू ३२. १५; मनाउ १६. ५. मे-का-ऋब्र-वासं-तैआ-पागृ-हिगृ; ते-इतरेषु. वरुणो राजा-का-ऋमं-ऋब्र-अल-आउ-मु-प्रर-मॅ; देवः सविता-वासं-आश्वगृ-पागृ-आपमं; इन्द्रो ददातु-तैआ-हिगृ. मे-का-वासं-तैआ-हिगृ-मामंपा-आउ-अल; ते-इतरेषु. धत्तां-मॅ-मु-अल-जुना-तैआ-आश्वगृ-पागृ-ऋब्र-प्रर-आउ-आपमं; धत्तं का. पुष्करस्रजा-का-प्रर-ऋमं-मॅ-मु-अल; पुष्करस्रजौ-इतरेषु ।
३. = तैआ १०. ४१; आपमं २. ४. ६; हिगृ १. ८. ४; → मनाउ १६.६. मेधाप्सरस्सु-का-ऋमं; मेधा अप्सरस्सु-प्रर; मेधाप्सरासु-इतरेषु. तैआ-आपमं-हिगृमध्ये ‘अप्सरासु च या मेधा’ इति पाठः. यन्मनः-का-तैआ-प्रर-मॅ-मु-आउ-ऋमं-हिगृ; यन्मम-अल; यद्यशः-आपमं. दैवी या मानुषी मेधा-का; दैवी मेधा मनुष्यजा-हिगृ. मामा-का-आपमं-मु-आउ; माया-ऋमं-मॅ-प्रर-अल-जुना; मेधा-आउ ‘मां मेधा सुरभिर्जुषताम्’ इति तैआ-हिगृ-पुस्तकयोरन्तिमः पादः. इह-का-आपमं; इमां-मु-अल-जुना-म-ऋब्र-प्रर; उ मां-आउ ।
४. मे ऽनूक्तं-का; मेनोक्तं-इतरेषु. तद्रमतां-का-प्रर-मॅ-आउ; तद्रवतां-मु-जुना; प्रद्रवतां-अल. शकेयं यदनुब्रुवे-का; शके अन्यदनुब्रुवे-अल-जुना. निशामितं-का; निशामतं-ऋमं-प्रर-मॅ-मु-ऋब्र-अल-जुना; निशामनं-आउ. शामये-का; शामयि-ऋमं-प्रर-मु; शामहै-मॅ-ऋब्र-आउ-अल-जुना. मयि-का; महि-अल-जुना. श्रुतं-का; व्रतं-इतरेषु. व्रतेन भूयासं ब्रह्मणा-का; व्रतेषु भूयासं ब्रह्मणा-ऋमं-ऋब्र-प्रर; प्रियेण भूयासं ब्रह्मणा-मु-आउ-अल-जुना; ब्रह्मणा-मॅ ।
५.१ = तैआ ७. ४. १ विचक्षण; विचक्षणं-ऋमं-ऋब्र-अल-जुना-आउ-प्रर; विचर्षण-तैआ. मधुमद्दुहे-का; मधुमद्दुहां-मॅ-ऋमं-मु-आउ-प्रर; मधुमत्तमा-तैआ-पागृ; मधुमद्दुहा-ऋब्र; मधुमद्रुहा-अल-जुना. अवृधं-का; अवृद्धं-मॅ-आउ-ऋब्र-ऋमं-मु-प्रर-अल-जुना. ब्रह्मण आणीः-का; ब्रह्मण आणी-प्रर; ब्रह्मणानी-इतरेषु. स्थ-का-मॅ-आउ; स्थः-ऋमं-मु-अल-जुना-ऋब्र-प्रर. हासीः-का-प्रर-मॅ-मु-आउ; हासीत्-जुना-अल. → वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितं आविरावीर्य एधि वेदस्य म आणी स्थ श्रुतं मे मा प्र हासीरनेनाधीतेन-ऐआ. ।
६. देवीं; देवी-का. मनसा; समनसां-मु. → वाग्देवी मनसा-शांगृ १. २४. अजिराचरिष्णुः-का; अजिराजरिष्णुः-अल-जुना. अजराजरिष्णुः-प्रर-मॅ-ऋमं-आउ; अजराजरिष्णु-ऋब्र-मु ।
७. = तैआ १०. १; वासं ३२. १३; ऋसं १. १८. ६.
८. = ९ मॅ-मु-आउ-प्रर-ऋमं-ऋब्र-अल-जुना-औंध. मेधाव्यहं सुमनाः-ऋमं-जुना-आउ-मॅ-ऋब्र-प्रर; मेधाव्यं सुमनः-मु; मेधाव्यहं समनाः-अल. श्रद्धामनाः-मॅ-मु-आउ-जुना-ऋमं-ऋब्र-प्रर; श्रद्धामयाः-अल. सत्यमतिः-का-मॅ-मु-ऋमं-प्रर; सत्यमनाः-आउ; सत्यमुपः-अल-जुना. धारयिष्णुः; धारयिष्णु-मु. प्रवक्ताः; प्रयुक्ता-ऋमं-प्रर; प्रविक्ता-अल-जुना. → तद्वक्तारमवतु-ऐआ. अस्येश्वरया-का; अस्ये स्वधया-मु-ऋब्र; अस्यै स्वधया-ऋमं; अर्ये स्वधया-मॅ-अल-जुना; अस्य स्वधया-आउ; अये स्वधया-प्रर; अस्मै शरया-औंध ।
९. = इतरपुस्तकेष्वष्टमी. → वासं ३२. १४.
९.२. = अथर्व ६. १०८. ४. चोपासते; चोप आसते-प्रर. तया मामद्य मेधयाग्ने; तथा मा मेधया मे-ऋमं-ऋब्र-मु. कुरु; कृणु-अथर्व.
मु-औंधपुस्तकयोर्दशमो मन्त्र एवमस्ति –

मूलम्

नाशयित्री पलाशस्थारुषसौ पथिकामसु ।
अथोत तस्य यक्ष्माणां पापरोगनाशिनी ॥

टिप्पनी

औंधपुस्तके उत्तरार्धो भिन्नः- अथो ततस्य यक्ष्माणमपापा रोगनाशिनी. औंधपुस्तके पुनरेकादशो मन्त्रो दत्तो ऽस्ति स यथा-

मूलम्

ब्रह्मवृक्ष पलाश त्वं श्रद्धां मेधां च देहि मे ।
वृक्षाधिप नमस्ते ऽस्तु अत्र एवं संनिधौ भव ॥

मूलम् - ९

आ सू᳓रेतु पराव᳓तो ऽग्नि᳓र्गृहप᳓तिः सुप्र᳓तीको विभा᳓वसुः ।
अग्नि᳓र्ज्यो᳓तिर्निचा᳓य्यः पृथिव्या᳓म᳓ध्या᳓भर ।
य᳓माग᳓त्य वाज्य᳓ध्वानं स᳓र्वा मृ᳓धो वि᳓ धूनुते ।
आक्र᳓म्या वाजिन् पृथिवी᳓मग्नि᳓मिच्छ रुचा᳓ त्व᳓म् ।
से᳓नां जिगाति सुष्टुतिं᳓ सुदी᳓धितिर्विभा᳓वसुम् ॥ १ ॥
ध्रुव᳓मग्नि᳓र्नो दूतो᳓ रोद᳓सी हव्यवा᳓ड् देवाँ᳓ आ᳓ वक्षदध्वरे᳓ ।
वि᳓प्रो दूतः᳓ प᳓रिष्कृतो य᳓ज्ञश्च यज्ञि᳓यः कविः᳓ ।
अप्नवानव᳓दौर्वव᳓द्भृगुव᳓ज्जमदग्निवत्
………………………………………॥ २ ॥
यदि ते मात्रा …… हव्यवा᳓ळग्नि᳓र्नो दूतो᳓ रोद᳓सी
उतो᳓त्तरे᳓ण दुहिता᳓ जुहो᳓ता म᳓धुमत्तममग्न᳓ये जात᳓वेदसे ।
प्रजां᳓ मे य᳓च्छ द्विपदं चतु᳓ष्पदमग्नि᳓महिंसन्तमङ्गिर᳓स्वत् ।
उ᳓दस्थादूर्ध्व᳓ ईयते द्युम᳓न्तो दी᳓द्यतो बृह᳓च्छुक्राः᳓ शो᳓चन्तो अर्च᳓यः ॥ ३ ॥
म᳓हिषी वो अग्नि᳓र्धूम᳓केतुरुषर्बुधो᳓ वैश्वानर᳓ उष᳓साम᳓ग्रमख्यद᳓त्यक्रमीद्द्रविणोदा᳓ वाज्य᳓र्वा᳓कः सु᳓ लोकं᳓ सु᳓कृतः पृथिव्या᳓म्
त᳓तः खने᳓म सुप्र᳓तीकमग्निं᳓ वैश्वान᳓रं स्वो᳓ रु᳓हाणा अ᳓धि
ना᳓के अस्मि᳓न्न᳓धा पोष᳓स्व पो᳓षेण पु᳓नर्नो नष्ट᳓मा᳓ कृधि पु᳓नर्नो रयि᳓मा᳓ कृधि ॥ ४ ॥
न᳓ वै देवा᳓न् पी᳓वरो सं᳓यतात्मा रो᳓रूयमाणः ककु᳓भामचोद᳓ते᳓ ऽग्ने उ᳓ म᳓न्य
त्व᳓मग्ने व्रतमृ᳓च्छु᳓चिर᳓ग्ने देवाँ᳓ इहा᳓ वहो᳓प यज्ञं᳓ हवि᳓श्च नः ।
व्रता᳓नि बिभ्रद्व्रतपा᳓ अ᳓दब्धो य᳓जा नो देवाँ᳓ अज᳓रः सुवी᳓रः ।
द᳓धद्र᳓त्नानि सुमृ᳓ळीको अ᳓ग्ने गोपाय नो जीव᳓से जातवेदः ॥ ५ ॥
देवो᳓ अग्निः᳓ स्वि᳓ष्टकृत् सुद्र᳓विणा मन्द्रः᳓ कविः᳓ सत्य᳓मन्मायजी᳓
हो᳓ता होतुर्होतुरा᳓यजीयान᳓ग्ने यान् देवा᳓न᳓याड् याँ᳓ अ᳓पिप्रेर्ये᳓
ते होत्रे᳓ अ᳓मत्सत तां᳓ ससनु᳓षीं हो᳓त्रां देवंगमां᳓ दिवि᳓
देवे᳓षु यज्ञ᳓मे᳓रयेमं᳓ स्वि᳓ष्टकृच्चाग्निर्हो᳓ता᳓भूद्व᳓सुव᳓ने वसुधे᳓यस्य नमोवाके᳓ वीहि ॥ ६ ॥
स᳓र्वं व᳓हन्तु दुष्कृत᳓मग्निं᳓ गीर्भि᳓र्हवामहे ।
अग्निः᳓ शुक्रे᳓ण शोचि᳓षा बृह᳓त्सू᳓र्यो अरोचत दिवि᳓ सू᳓र्यो अ᳓रोचत ।
घृतै᳓र्हव्ये᳓भिरा᳓हुतं द्युम᳓त्सू᳓र्यो न᳓ रोचन् ते ऽग्नौ᳓ ह᳓व्यानि धत्त᳓नाग्नौ᳓ ब्र᳓ह्माणि के᳓वला᳓ग्ने बृह᳓न्तमध्वरे᳓ ।
सश्च᳓तो दाशु᳓षो गृह᳓मेवा᳓ त्वा᳓मग्ने स᳓होभिर्गीर्भि᳓र्वत्सो᳓ अवीवृधत् ॥ ७ ॥
शास᳓ इत्था᳓ महाँ᳓ असि० ॥ १०. १५२. १

टिप्पनी - ९

ऋसं १०. १५१ अनन्तरं पठनीयम् । एतस्मिन्नर्थे बृहद्देवता (Cf. Bṛhaddevatā part II. p. 309.) (८. ५९) द्रष्टव्या । इदं सुभेषजस्थार्षम् । अस्मिन् विषये ऋक्प्रातिशाख्यं (Regarding the ignorance of this hymn on the part of Uvaṭa, the commentator of Ṛk-prâtiśâkhya, Cf. Scheftelowitz, p. 125.) (१६. ८८-९०)- ‘उत्तरास्तु सुभेषजे । कृतिः प्रकृतिराकृतिर्विकृतिः संकृतिस्तथा । षष्ठी चाभिकृतिर्नाम सप्तम्युत्कृतिरुच्यते ॥ अशीतिश्चतुरशीतिरष्टाशीतिर्द्विनवतिः । षण्णवतिः शतं पूर्णमुत्तमा तु चतुःशतम्’ ॥ गोपथब्राह्मणे (५. २३) सौभेषजं छन्दो निर्दिष्टम् ।
१. = मैसं २. ७. १; वासं ११. ११ : अग्निं (अग्नेः-वासं) ज्योतिर्निचाय्य पृथिव्या अध्याभरत्; तेसं ४. १. १. ४ : तया ज्योतिरजस्रमिदमग्निं खात्वी न आ भरा. आगत्य वाज्य० ……. रुचा त्वं = वासं ११. १८; मैसं २. ७. २; कासं १६. २; १९. ३; तैसं ४. १. २. ३; ५. १२. ६.
२. कियाश्चिद्भागः का-पुस्तके त्रुटितः । ‘जमदग्निवत्’ इत्यस्यानन्तरं ‘च्यवनवत्’ इति स्यात् यत एते पञ्चर्षयः प्रायेण सममुल्लिख्यन्ते; → आपश्रौ २४. ५. १२; आश्वश्रौ १२. १०.
४. उषसामग्रमख्यत् = ऋसं ४. १३. १. शिष्टं वासं ११. २२; तैसं ४. १. २. ४; ५. १. ३. १; मैसं २. ७. २; कासं. १६. २ एतैः समानम्. अत्यक्रमीत्-का; उदक्रमीत्-इतरेषु. अर्वाकः सु०-वासं-मैसं; अर्वाकः स०-तैसं. सुकृतः पृथिव्यां-का; सुकृतं पृथिव्याः-इतरेषु. अस्मिन्-का; उत्तमं-वासं; उत्तमे-तैसं ।
५. ककुभामचोदते = ऋसं ५. ४४. २. उ मन्य; तमन्य इति शेफ्टेलोवित्झमहाशया अभ्यूहन्ति. त्वमग्ने व्रत० …… जीवसे जातवेदः** = मैसं ४. ११. ४; तैब्रा २. ४. १. ११; ऐब्रा ७. ८; शांश्रौ ३. ५. ९; आपश्रौ ९. ४. १४; आश्वश्रौ ३. १२; शांगृ २. १३. व्रतानि-का-आश्वश्रौ-शांश्रौ-ऐब्रा; व्रता नु-तैब्रा-मैसं-आपश्रौ. अदब्धो-का-मैसं-आश्वश्रौ; अदाभ्यो-इतरेषु. यजा नो; भवा नो-शांश्रौ. देवाँ-का-तैब्रा-ऐब्रा-शांश्रौ-आपश्रौ-आश्वश्रौ; देवो-मैसं; दूतो-शांगृ. सुमृळीको-का-मैसं-आश्वश्रौ-शांश्रौ; सुविदानो-इतरेषु ।
६. खिल ५. ७. ३१ अत्रायं मन्त्रः पुनरागतः ।
७. अग्निः शुक्रेण … … अरोचत = खिल ८. ५. २. गीर्भिर्वत्सो अवीवृधत् = ऋसं ८. ८. १५. औंधपुस्तकानुसारेण ऋसं १०. १६१ अनन्तरमधो दीयमानमेकर्चं सूक्तं पठनीयम् । तत्पुस्तकसंपादकैरिदं केवलमभ्यूहमात्रेण स्वीकृतमित्यावेदितम् ।
ऊर्ध्वरेखा प्र दहन्ते विष्णुरिममिन्द्राग्नी अमृतं जुषेथाम् ।
मह्यं दधाना उप दीर्घमायुरस्मे धत्तं पुरुभुजा पुरंधिः ॥

मूलम् - १०

वेन᳓स्त᳓त्पश्यद्भु᳓वनस्य विद्वा᳓न् य᳓त्र वि᳓श्वं भु᳓वत्ये᳓कनी᳓ळम् ।
इदं᳓ धेनु᳓रदुहज्जा᳓यमाना स्वर्वि᳓दमभ्यनूपत व्राः᳓ ॥ १ ॥
प्र᳓ त᳓द्वोचेदमृ᳓तं नु᳓ विद्वा᳓न् गन्धर्वो᳓ ना᳓म नि᳓हितं गु᳓हा य᳓त् ।
त्री᳓णि पदा᳓नि नि᳓हिता गु᳓हास्य य᳓स्ता᳓नि वे᳓द स᳓ पितु᳓ष्पिता᳓सत् ॥ २ ॥
सतो᳓ ब᳓न्धुर्जनिता᳓ स᳓ विधाता᳓ धा᳓मानि वेद भु᳓वनानि वि᳓श्वा ।
य᳓त्र देवा᳓ अमृ᳓तमानशाना᳓स्तृती᳓ये धा᳓मन्न᳓भ्यै᳓रयन्त ॥ ३ ॥
अक्षी᳓भ्यां ते ना᳓सिकाभ्यां० ॥ ऋ. सं. १०. १६३. १

टिप्पनी - १०

ऋसं १०. १६२ अनन्तरं पठनीयम् । अत्र बृहद्देवता (८. ६६)- ‘वैन्यं तु वेनस्तत्पश्यदक्षीभ्याम्’ इति । वाजपेये ऽतिरिक्तोक्थे इदं विनियुक्तं (→ शांश्रौ १५. ३) । विज्ञानकर्मणीदं विनियोज्यमिति कौसू ३७. ३ । एतत्सूक्तं अथर्व २. १. १, ३. १ + ५. २ अत्रोपलभ्यते । पैप्प. अथर्व २. ६ अत्रापीदं पाठभेदेनोपलभ्यते । वासं ३२. ८-१०; तैआ १०. १. ३; मनाउ २. ३; अन्त्ये अत्रापीदं दृश्यते ।
१. भुवनस्य विद्वान्-का; विश्वा भुवनानि विद्वान्-तैआ; परमं गुहा यत्-अथर्व; निहितं गुहा सद्-वासं. भुवत्येक०-का-अन्त्ये; भवत्येक०-इतरेषु. ०नीळं-का-वासं-अन्त्ये-तैआ; ०रूपं-अथर्व. वासं-तैआ-अन्त्ये-पुस्तकेषूत्तरार्धः सर्वथा भिन्नः. ०धेनुः-का; पृश्निः-अथर्व. जायमाना-का; जायमानाः-अथर्व. स्वर्विदं-का; स्वर्विदो-अथर्व ।
२. अमृतं नु; अमृतस्य अथर्व. नाम-का-तैआ (→ १०. ४५. २ : विद्मा ते नाम परमं गुहा यत्); धाम-इतरेषु. निहितं-का-तैआ; विभृतं-वासं. गुहा यत्-का-अथर्व; गुहा सत्-वासं-अन्त्ये; गुहासु तैआ ।
३. सतो-का; स नो-वासं-अथर्व-अन्त्ये-तैआ. बन्धुर्जनिता स विधाता-का-वासं-तैआ-अन्त्ये; पिता जनिता स उत बन्धुः-अथर्व. तृतीये धामन्-का वासं-अन्त्ये; तृतीये धामानि-तैआ; समाने योनौ-अथर्व. अभ्यै०-का-तैआ; अध्यै०-इतरेषु ।

मूलम् - ११

ये᳓नेदं᳓ भूतं᳓ भु᳓वनं भविष्य᳓त् प᳓रिगृहीतममृ᳓तेन स᳓र्वम् ।
ये᳓न यज्ञ᳓स्ताय᳓ते सप्त᳓ हो᳓ता त᳓न्मे म᳓नः शिव᳓संकल्पमस्तु ॥ १ ॥
ये᳓न क᳓र्माण्यप᳓सो मनीषि᳓णो यज्ञे᳓ कृण्व᳓न्ति विद᳓थेषु धी᳓राः ।
य᳓दपूर्वं᳓ यक्ष᳓मन्तः᳓ प्रजा᳓नां त᳓न्मे म᳓नः शिव᳓संकल्पमस्तु ॥ २ ॥
य᳓त्प्रज्ञा᳓नमुत᳓ चे᳓तो धृ᳓तिश्च य᳓ज्ज्यो᳓तिरन्त᳓रमृ᳓तं प्रजा᳓सु ।
य᳓स्मान्न᳓ ऋते᳓ किं᳓ चन᳓ क᳓र्म क्रिय᳓ते त᳓न्मे म᳓नः शिव᳓संकल्पमस्तु ॥ ३ ॥
य᳓ज्जा᳓ग्रतो दूर᳓मुदै᳓ति दै᳓वं त᳓दु सुप्त᳓स्य त᳓थैवै᳓ति ।
दूरंगमं᳓ ज्यो᳓तिषां ज्यो᳓तिरे᳓कं त᳓न्मे म᳓नः शिव᳓संकल्पमस्तु ॥ ४ ॥
य᳓स्मिन्नृ᳓चः सा᳓म य᳓जूंषि य᳓स्मिन् प्र᳓तिष्ठिता रथनाभा᳓विवाराः᳓ ।
य᳓स्मिंश्चित्तं᳓ स᳓र्वमो᳓तं प्रजा᳓नां त᳓न्मे म᳓नः शिव᳓संकल्पमस्तु ॥ ५ ॥
सुषारथि᳓र᳓श्वानिव य᳓न्मनुष्या᳓न्नेनीय᳓ते ऽभी᳓शुभिर्वाजि᳓न इव ।
हृत्प्र᳓तिष्ठं य᳓दजिरं᳓ ज᳓विष्ठं त᳓न्मे म᳓नः शिव᳓संकल्पमस्तु ॥ ६ ॥
य᳓द᳓त्र षष्ठं᳓ त्रिश᳓तं शरीरं᳓ यज्ञ᳓स्य गु᳓ह्यं न᳓वना᳓भमा᳓द्यम् ।
द᳓श पञ्च᳓ त्रिश᳓तं य᳓त्परं᳓ च त᳓न्मे म᳓नः शिव᳓संकल्पमस्तु ॥ ७ ॥
ये᳓ पञ्चपञ्चा᳓ दशतं᳓ शतं᳓ च सह᳓स्रं च नियु᳓तं न्य᳓र्बुदं च ।
ते᳓ यज्ञचित्ते᳓ष्टकात्तं᳓ श᳓रीरं त᳓न्मे म᳓नः शिव᳓संकल्पमस्तु ॥ ८ ॥
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।
[तस्य॒ योनिं॒ परि᳓पश्यन्ति॒] धी᳓रास्त᳓न्मे म᳓नः शिव᳓संकल्पमस्तु ॥ ९ ॥
ये᳓न क᳓र्माणि प्र᳓चरन्ति धी᳓रा वि᳓प्रा वाचा᳓ म᳓नसा कर्मणा च ।
यस्यान्वि᳓तम᳓नु सं᳓ य᳓न्ति प्राणि᳓नस्त᳓न्मे म᳓नः शिव᳓संकल्पमस्तु ॥ १० ॥
ये᳓ म᳓नो हृ᳓दयं ये᳓ च देवा᳓ ये᳓ अन्त᳓रिक्षे बहुधा᳓ च᳓रन्ति ।
ये᳓ श्रोत्रं᳓ चक्षु᳓षी सं᳓चरन्ति त᳓न्मे म᳓नः शिव᳓संकल्पमस्तु ॥ ११ ॥
ये᳓न द्यौ᳓रुग्रा᳓ पृथिवी᳓ चान्त᳓रिक्षं ये᳓ प᳓र्वताः प्रदि᳓शो दि᳓शश्च ।
ये᳓नेदं᳓ ज᳓गद्व्या᳓प्तं प्रजा᳓नां त᳓न्मे म᳓नः शिव᳓संकल्पमस्तु ॥ १२ ॥
ये᳓नेदं᳓ स᳓र्वं ज᳓गतो बभूवु᳓र्ये᳓ देवा᳓ अ᳓पि महतो᳓ जात᳓वेदाः ।
त᳓दिवा᳓ग्निस्त᳓पसो ज्योति᳓रे᳓कं त᳓न्मे म᳓नः शिव᳓संकल्पमस्तु ॥ १३ ॥
तु᳓भ्येद᳓मिन्द्र प᳓रि षिच्यते म᳓धु० ॥ ऋ. सं. १०. १६७. १

टिप्पनी - ११

ऋसं १०. १६६ अनन्तरं पठनीयम् । बृहद्देवतापि (Cf. Bṛhaddevatā part II, p. 312.) (८. ६९)- ‘ऋषभं मा (१०. १६६) सपत्नघ्नं येनेदमिति मानसम्’ इति । ऋग्विधानं (४. १०४-१०५) च- ‘येनेदमिति (The editior of Lahore edition of Rgvidhāna which is a transliteration of Meyer’s edition gives the text as येने (? तुभ्ये) दमिति, while Meyer has rightly printed merely येनेदमिति. The transliterator did so because he related the verse to RV. X. 167 which begins with तुभ्येदम्, not knowing the Khila येनेदम्. See also footnote to Khila I. 2.) वै नित्यं जपेत नियतव्रतः । समाधिं मनसस्तेन विन्दते नैव मुह्यति’ इति । इदं शिवसंकल्पसूक्तमिति खिलानुक्रमणी । ‘खिलानि श्रीसूक्तशिवसंकल्पादीनि श्राद्धे ब्राह्मणान् श्रावयेत्’ इति मेधातिथिः (मनु ३. २३२) । शिवसंकल्पसूक्तं पापहरमिति मनुः (११. २५१) । तथा चाग्निपुराणे- ‘शिवसंकल्पजापेन समाधिं मनसो लभेत्’ (२६०. ७४) ‘येनेदमिति वै जप्त्वा समाधिं विन्दते परम्’ (२५९. ९३) ।
१-६ = वासं ३४. १-६; ऋमं; आसू; ऋब्र; अन्त्ये; प्रर (गर्भाधान); आश्वमंसं. का-वासं-पुस्तकयोः प्रथमचतुर्थमन्त्रयोर्व्यत्यासः । का-औंधपुस्तकयोस्तृतीयचतुर्थमन्त्रयोर्व्यत्यासः सप्तमो मन्त्रश्च औंधपुस्तके नास्ति ।
२. यक्ष; यक्ष्म०.
४. तथैवैति-का; तथैवेति-औंध. ज्योतिरेकं = ऋसं १. ९३. ४ ।
६. जविष्ठं-का; यविष्ठं-ऋब्र-जुना-प्रर-औंध । आश्वमंसं-पुस्तके षण्णां मन्त्राणामनन्तरं ऋसं ७. ५६. १२ ऋक् लिखितास्ति ।
७. नवनाभमाद्यं-का; नवनावमाद्यं-म्यु । गुह्यं-म्यु; ‘गु’ इत्यक्षरं का-पुस्तके नष्टम् ।
८. पञ्चपञ्चा दशतं-का; पञ्च पञ्चाशतः-औध. **न्यर्बुदं-का; चार्बुदं-औध. **०ष्टकात्तं-का; ०ष्टकाटं-औंध. ‘ष्टकास्तच्छरीरं’ इति शुद्धमिति शेफ्टेलोवित्झमहाशयाः ।
९.१. = वासं ३१. १८; तैआ ३. १२. ७; ३. १९. १; श्वेउ ३. ८. ९.२ = वासं ३१. १९. तमसः परस्तात्-का; तमसस्तु पारे-तैआ. तस्य योनिं परिपश्यन्ति-म्यु-औंध; का-पुस्तक एतत्त्रुटितम् ।
१०. प्रचरन्ति-का; प्रतिरन्ति-प्रर-म्यु. विप्रा-का-औंध; यतो-प्रर-म्यु. कर्मणा च-का; कर्मणा वा-औध; तानि हन्ति-प्रर-म्यु. यस्यान्वितमनु-म्युः; यस्यां त्वितमनु-प्रर; संविदमनु-का; यत्स्वां दिशमनु-औध.
११. ये-का; ये मे-औंध. अन्तरिक्षे बहुधा चरन्ति-का; अन्तरिक्षं बहुधा कल्पयन्ति-औंध; दिव्या आपो यः सूर्यरश्मिः-म्यु. श्रोत्रं-का; श्रोत्रं च-औंध. संचरन्ति-का-औंध; संचरन्तं-म्यु ।
१२. → ऋसं १०. १२१. ५; वासं ३२. ६. ये-का; यः-जुना; येन-औंध. यत्पर्वताः पृथिवी चान्तरिक्षं यत्पर्वताः प्रदिशो दिशश्च इति म्यु-पुस्तके मन्त्रस्य पूर्वार्धः । येनेदं-का; येनेदं सर्वं-औंध. जगद्व्याप्तं-औध; जगत्याप्तं-का. प्रजानां-का; प्रजानत् औध.
१३. बभूवुर्ये देवा अपि-का; बभूव तदेवापि-म्यु; बभूव यद्देवा अपि-औंध, तदिवाग्निस्-का; तदेवाग्निं-जुना; यदेवाग्र्यं-औंध. ज्योतिरेकं = ऋसं १. ९३. ४. जातवेदाः; जातवेदः इति स्यादिति शेफ्टेलोवित्झ्महाशयाः ।
लण्डननगरे ब्रिटिश म्युझिअम्मध्ये ऋग्वेदसंहिताया एकं लिखितपुस्तकं (क्रमाङ्कः Add. 5351) अस्ति । तत्र १०. १६६ सुक्तानन्तरं अष्टाविंशतिमन्त्रात्मिका शिवसंकल्पोपनिषद् लिखितास्ति । शेफ्टेलोवित्झ्महाशयैः सा टिप्पण्या जर्मनभाषान्तरेण च सह प्रकाशितास्ति (ZDMG 1921, Band. 75. pp. 201-12.) । तत्र १३ मन्त्रानन्तरं वर्तमाना मन्त्रा अत्र दीयन्ते । अस्य लिखितपुस्तकस्य ‘म्यु’ इति संज्ञा कृता । उपरि दत्तास्त्रयोदश मन्त्रा अस्मिन् लिखितपुस्तके ऽपि वर्तन्ते । तेषां पाठभेदा उपरि ‘म्यु’ इति संज्ञया दत्ताः । तथापि का-पुस्तकक्रमात् म्यु-पुस्तकस्थः क्रमो भिन्नः स यथा-का १, २ = म्यु १, २; का ३ = म्यु ५; का ४ = म्यु ७; का ५ = म्यु ४; का ६ = म्यु ६; का ७ = म्यु १२; का ८ = म्यु १०; का ९ = म्यु १३; का १० = म्यु ३; का ११=म्यु ११; का १२ = म्यु ९; का १३ म्यु ८. इण्डिया ऑफिस-मध्ये वर्तमाने अन्यस्मिन् ऋग्वेदसंहितालिखितपुस्तके ऽपि (क्रमाङ्कः २१३१) इदं शिवसंकल्पसूक्तमुपलभ्यते तत्त म्यु-पाठेन समानमेव । जुनागड-नवानगर-पुस्तकद्वये ऽपि शिवसंकल्पसूक्तं लिखितमस्ति तत्र मन्त्रसंख्या मन्त्रक्रमश्च म्यु-पुस्तकानुसार्येव । यत्र जुनागड-पुस्तकं न निर्दिष्टं तत्र तत्स्वः पाठो म्यु-समान एवेति मन्तव्यम् । औंधपुस्तके २६ मन्त्रात्मकं शिवसंकल्पसूक्तं मुद्रितमस्ति । तत्रस्थाः १३ मन्त्रपर्यन्तं वर्तमानाः पाठभेदा उपरि दत्ता एव । औंध- पुस्तकस्थो मन्त्राणां क्रमो ऽपि का-पुस्तकाद्भिन्नः । अतः सो ऽत्र प्रदर्श्यते-का १, २ = औंध १, २; का ३ = औंध ४; का ४ = औंध ३; का ५, ६ = औंध ५, ६; का ७ औंधमध्ये नास्ति; का ८ = औंध ७; का ९ = औंध ८; का १० = औंध ९; का ११ = औंध १०. औधपुस्तके एकादशो मन्त्रः सर्वथा भिन्नो वर्तते स यथा-
यस्येदं धीराः पुनन्ति कवयो ब्रह्माणमेतं व्यावृणत इन्दुम् ।
स्थावरं जङ्गमं च द्यौराकाशं तन्मे मनः शिवसंकल्पमस्तु ॥ ११ ॥
का १२ = औंध १२; का १३ = औंध १६ । म्यु-पुस्तकस्था अधिका मन्त्रा अधुनोद्ध्रियन्ते-
अचिन्त्यं चाप्रमेयं च व्यक्ताव्यक्तपरं च यत् ।
सूक्ष्मात्सूक्ष्मतरं ज्ञानं तन्मे मनः शिवसंकल्पमस्तु ॥ १४ ॥
अस्ति विनाशयित्वा सर्वमिदं नास्ति पुनस्तथैव दृष्टं ध्रुवम् ।
अस्ति नास्ति हितं मध्यमं पदं तन्मे मनः शिवसंकल्पमस्तु ॥ १५ ॥
अस्ति नास्ति विपरीतो प्रवादो ऽस्ति नास्ति सर्वं वा इदं गुह्यम् ।
अस्ति नास्ति परात्परो यत्परं तन्मे मनः शिवसंकल्पमस्तु ॥ १६ ॥
परात्परतरं यच्च तत्पराच्चैव यत्परम् ।
तत्परात्परतो ऽज्ञेयं तन्मे मनः शिवसंकल्पमस्तु ॥ १७ ॥
परात्परतरो ब्रह्मा तत्परात्परतो हरिः ।
तत्परात्परतो ह्येष तन्मे मनः शिवसंकल्पमस्तु ॥ १८ ॥
गोभिर्जुष्टो धनेन ह्यायुषा च बलेन च ।
प्रजया पशुभिः पुष्कलाद्यं तन्मे मनः शिवसंकल्पमस्तु ॥ १९ ॥
प्रयतः प्रणवो नित्यं प्ररमं पुरुषोत्तमम् ।
ओंकारं परमात्मानं तन्मे मनः शिवसंकल्पमस्तु ॥ २० ॥
यो वै वेदादिषु गायत्री सर्वव्यापिमहेश्वरात् ।
तद्विरुक्तं तथाद्वैश्यं तन्मे मनः शिवसंकल्पमस्तु ॥ २१ ॥
यो वै वेद महादेवं परमं पुरुषोत्तमम् ।
यः सर्वं यस्य चित्सर्वं तन्मे मनः शिवसंकल्पमस्तु ॥ २२ ॥
यो ऽसौ सर्वेषु वेदेषु पठते ह्यज ईश्वरः ।
अकायो निर्गुणो ऽध्यात्मा तन्मे मनः शिवसंकल्पमस्तु ॥ २३ ॥
कैलासशिखरे रम्ये शंकरस्य शुभे गृहे ।
देवतास्तत्र मोदन्ति तन्मे मनः शिवसंकल्पमस्तु ॥ २४ ॥
कैलासशिखराभासा हिमवद्गिरिसंस्थिताः ।
नीलकण्ठं त्रिनेत्रं च तन्मे मनः शिवसंकल्पमस्तु ॥ २५ ॥
आब्रह्मस्तम्बपर्यन्तं त्रैलोक्यं सचराचरम् ।
उत्पातितं जगद्व्याप्तं तन्मे मनः शिवसंकल्पमस्तु ॥ २६ ॥
य इमं शिवसंकल्पं सदा ध्यायन्ति ब्राह्मणाः ।
ते परं मोक्षं गमिष्यन्ति तन्मे मनः शिवसंकल्पमस्तु ॥ २७ ॥
त्र्यम्बकं यजामहे सुगन्धि पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् तन्मे मनः शिवसंकल्पमस्तु ॥ २८ ॥
औंध-पुस्तकस्थः मन्त्रक्रमो म्यु-पुस्तकाद्भिन्नः अतः सो ऽत्र प्रदर्श्यते-म्यु १४ = औंध १३; म्यु १५ = औंध २५; म्यु १६ = औंध २६; म्यु १७ औंधमध्ये नास्ति; म्यु १८ = औंध २३; म्यु १९ = औंध १७, म्यु २० = औंध २१, २०; म्यु २१ = औंध १९; म्यु २२ = औंध २०, २१; म्यु २३ = औंध १८; म्यु २४ = औंध १४; म्यु २५, २६ औंधमध्ये न स्तः; म्यु २७ = औंध २४; म्यु २८ औंध मध्ये नास्ति । तथा च औंधपुस्तकस्थौ द्वौ मन्त्रौ म्यु-पुस्तके न स्तः तौ यथा-
आदित्यवर्णं तपसा ज्वलन्तं यत्पश्यसि गुहासु जायमानः ।
शिवरूपं शिवमुदितं शिवालयं तन्मे मनः शिवसंकल्पमस्तु ॥ १५ ॥
ओंकारं चतुर्भुजं लोकनाथं नारायणम् ।
सर्वस्थितं सर्वगतं सर्वव्याप्तं तन्मे मनः शिवसंकल्पमस्तु ॥ २२ ॥
औंधपुस्तकस्थाः पाठभेदा अधुना प्रदर्श्यन्ते-
१४. अचिन्त्यं-म्यु; अव्यक्तं-औंध. च यत्-म्यु; शिवं-औंध.
१५. विनाशयित्वा-म्यु; नास्ति शयित्वा-औंध. तथैव-जुना-औंध; तथैवा-म्यु.
१६. प्रवादो-औंध; प्रवाहो-म्यु. सर्वं वा इदं गुह्यं-म्यु; गुह्यं वा इदं सर्वं-औंध.
१७. यच्च-जुना; यस्य-म्यु. यत्परं-जुना; तत्परं-म्यु. परतो-म्यु; परतरो-जुना.
१८. परात्परतरो-म्यु; तत्परात्परतो-औंध. ब्रह्मा-औंध; ब्रह्म-म्यु. तत्परात्परतो ह्येष-म्यु; परात्परतरं ज्ञानं-औंध.
१९. पुष्कलाद्यं-म्यु; पुष्करार्धं-औंध.
२१. वै-म्यु; औंधपुस्तके नास्ति. सर्वव्यापिमहेश्वरात्-म्यु; सर्वव्यापी महेश्वरः-औंध. तद्विरुक्तं तथाद्वैश्यं-जुना; यद्विरुक्तं तथाद्व्यैश्यं-म्यु; तदुक्तं च यदा ज्ञेयं-औंध.
२३. पठते ह्यज-म्यु; पठ्यते ऽनद-औंध. अकायो निर्गुणो ऽध्यात्मा-जुना; अकायो निगुर्णो ध्यात्वा-म्यु; अकार्यो निर्व्रणो ह्यात्मा-औध्र.
२४. शुभे गृहे देवतास्तत्र मोदन्ति-जुना; शुभे गृहे देवतास्तत्र मोद्यंति-म्यु; गृहालयं देवतास्तत्प्रमोदन्ते-औंध.
२५. हिमवद्विरि०; हि भवद्गिरि०-म्यु.
२७. इमं-म्यु; इदं-औंध. सदा ध्यायन्ति-म्यु; सदाधीयन्ति-औंध. परं मोक्षं गमिष्यन्ति-जुना; परमोक्षं गमिष्यन्ति-म्यु; परं मोक्षमाप्स्यन्ति-औंध.
२८ = ऋसं ७. ५९. १२.

मूलम् - १२

या᳓सामू᳓धश्च᳓तुर्बिलं म᳓धोः पूर्णं᳓ घृत᳓स्य च ।
ता᳓ नः सन्तु प᳓यस्वतीर्ब᳓ह्वीर्गोष्ठे᳓ घृता᳓च्यः ॥ १ ॥
उपमै᳓तु मयोभु᳓व ऊ᳓र्जं चौ᳓जश्च बि᳓भ्रतीः ।
दु᳓हाना अक्षितं᳓ प᳓यो म᳓यि गोष्ठे᳓ निवर्तध्वं य᳓था भ᳓वान्युत्तमः᳓ ॥ २ ॥
बिभ्राड्बृह᳓त्पिबतु सोम्यं᳓ म᳓धु० ॥ ऋ. सं. १०. १७०. १

टिप्पनी - १२

ऋसं १०. १६९ अनन्तरं पठनीयम् । आश्वगृ २. १०. ६ मध्ये एतौ मन्त्रावुद्धृतौ ।
१ = आपश्रौ ७. १७. १; शांगृ ३. ९. ३. बह्वीः-का-आश्वगृ-शांगृ; अस्मिन्-आपश्रौ. घृताच्यः-का-आश्वगृ-शांगृ; वयोवृधः-आपश्रौ ।
२. मयोभुव-जुना-आश्वगृ; मयोभुवं-का. बिभ्रतीः-जुना-आश्वगृ; → शांगृ; ३. ७ : ऊर्जं बिभ्रतः; पिप्रताः-का. अक्षितं-जुना-आश्वगृ; अक्षितिं-का. मयि-जुना-आश्वगृ; मम-का. गोष्ठे-जुना-आश्वगृ; गोत्रे-का. निवर्तध्वं-जुना; निविशध्वं-का-आश्वगृ. भवान्युत्तमः-जुना; भवाम्युत्तमः-का-आश्वगृ ।

मूलम् - १३

ने᳓जमेष प᳓रा पत सु᳓पुत्रः पु᳓नरा᳓ पत ।
अस्यै᳓ मे पुत्र᳓कामायै ग᳓र्भमा᳓ धेहि यः᳓ पु᳓मान् ॥ १ ॥
य᳓थेयं᳓ पृथिवी᳓ म᳓ह्युत्ताना᳓ ग᳓र्भमा᳓ दधे ।
एवं᳓ तं᳓ ग᳓र्भमा᳓ धेहि दशमे᳓ मासि᳓ सू᳓तवे ॥ २ ॥
वि᳓ष्णोः श्रै᳓ष्ठ्येन रूपे᳓णास्यां᳓ ना᳓र्यां गवीन्या᳓म् ।
पु᳓मांसं पुत्र᳓मा᳓ धेहि दशमे᳓ मासि᳓ सू᳓तवे ॥ ३ ॥
म᳓हि त्रीणा᳓म᳓वो ऽस्तु० ॥ ऋ. सं. १०. १८५. १

टिप्पनी - १३

ऋसं १०. १८४ अनन्तरं पठितव्यम् । बृहद्देवतापि (Cf. Bṛhaddevatā part II, pp 316-17.) (८. ८२-८३)- ‘यद्विष्णुरिति (= १०. १८४. १) सूक्तं तु वैश्वदेवं प्रचक्षते । तस्मिन्स्वदारगर्भार्थमृषिराशास्त आशिषः । परं तु नेजमेषेति गर्भार्थं वा तदुच्यते’ इति । ऋग्वि ४. ११९; आर्षानु १०. ९६ अपि द्रष्टव्यम् । मागृ २. १८. ४; आश्वगृ १. १४. ३; शांगृ १. २२; आपमं १. १२. ७, ४, ६; संकौ; प्रर; ऋब्र; आश्वमंसं ; धसिं; मॅ ३०; आउ २३; अल; जुना; मु; औंध एतेष्विदमुपलभ्यते ।
१.२ = बृहद्दे ८. ८४. गर्भमा-का-आपमं-बृहद्दे-ऋमं-मॅ-मु-आउ; पुनरा-मागृ ।
२.१ = अथर्व ५. २५. २.१. उत्ताना-ऋमं-मॅ-मु-आउ; मह्यमुत्ताना-मागृ; भूतानां-अथर्व; तिष्ठन्ती-आपमं.
२.२. तं-का; त्वं-आपमं. धेहि; धत्स्व-आपमं ।
३ = अथर्व ५. २५. १०, १३. श्रैष्ठ्येन-का; श्रेष्ठेन-इतरेषु. नार्यां-का-आपमं-ऋमं-मॅ-मु-आउ; नार्या-अथर्व-मागृ. पुत्रं-का-अथर्व-मागृ; पुत्रान्-ऋमं-ऋब्र-प्रर-मॅ-मु-आउ; गर्भं-आपमं → ऋसं १०. १८४. ३ : तं ते गर्भं हवामहे दशमे मासि सूतवे; आश्वगृ १. ७. ३ : पुमांस एव मे पुत्रा जायेरन् ।

मूलम् - १४

अ᳓नीकवन्तमूत᳓ये ऽग्निं᳓ गीर्भि᳓र्हवामहे ।
स᳓ नः पर्षद᳓ति द्वि᳓पः ॥ १ ॥
प्र᳓ नूनं᳓ जात᳓वेदसं० ॥ ऋ. सं. १०. १८८. १

टिप्पनी - १४

इत्यृग्वेदे खिले चतुर्थो ऽध्यायः ॥
ऋसं १०. १८७ अनन्तरं पठनीयम् । ऋसं १०. १८८ अनन्तरं पठितव्यमिति मु-पुस्तके । साकमेधे अस्य विनियोगः । आश्वश्रौ २. १८; आश्वमंसं.२; मॅ३१; आउ २४; अल; जुना; मु एतेष्विदमुपलभ्यते ।
‘स नः पर्षदति द्विषः’ इति ऋसं १०. १८७ सूक्ते प्रतिमन्त्रमन्तिमः पादः ।