००३

अथ तृतीयो ऽध्यायः

मूलम् - अनुक्रमणिका

अभि दश प्रस्कण्वः प्रागाथं तु (तु-का, तत्-अनु.) प्र पुष्टिगुर्यथा श्रुष्टिगुर्यथा आयुरुपममष्टौ मेध्य एतत्ते मातरिश्वा द्वितीयः (द्वितीयः प्रगाथो वैश्वदेवो-का; नो विश्व इति वैश्वदेवः प्रगाथः-अनु.) प्रागाथो वैश्वदेवो भूरि पञ्च कृशः पृषध्रस्य (पृषध्रस्य- का; प्रस्कण्वस्य-अनु.) दानस्तुतिस्तु (तु-का; अनुक्रमण्यां नास्ति) गायत्रं तु तृतीयापञ्चम्यावनुष्टुभौ प्रति पृषध्रः पाङ्क्त्यन्तं (पाङ्क्त्यन्तं सलिङ्गोक्ता देवता-का. अन्त्याग्निसौरी पङ्क्तिः-अनु.) सलिङ्गोक्ता देवता त्वमेका पावमानीः षड् वैश्वदेवमन्त्याद्ये च पावमानीस्तुतिः पञ्चमी त्रिष्टुप् इळैव द्वे बृहद्दिवो यत्र तिस्रः सस्रुपीरेकैहि मम द्वात्रिंशत्प्राजापत्यो हृद्यो वैश्वदेवं तु विवाहार्थाशीस्त्वानुष्टुभं त्वाद्या त्रिष्टुप् तृतीयाविंशीपञ्चविंश्यः पङ्क्तयो दशमी पुरउष्णिग् द्वादशाद्ये आस्तारपङ्क्तिः प्रस्तारपङ्क्तिरेकोनविंशी बृहत्येकोनत्रिंशी त्रिष्टुब्जगतीवोदष्टौ परागदासो ध्रुव एका एको द्वे उदेका यश्चासौ द्वे ब्रह्म दश वामदेव्यो नकुलः सौरी धर्मस्तुतिर्बार्हस्पत्या सावित्र्यष्टिर्घर्मपरा एताः सौर्यश्चान्द्रमस्यश्च शेषा जगत्यः ॥

मूलम् - १

अभि᳓ प्र᳓ वः सुरा᳓धसमि᳓न्द्रमर्च य᳓था विदे᳓ ।
यो᳓ जरितृ᳓भ्यो मघ᳓वा पुरूव᳓सुः सह᳓स्रेणेव शि᳓क्षति ॥ १ ॥
शता᳓नीकेव प्र᳓ जिगाति धृष्णुया᳓ ह᳓न्ति वृत्रा᳓णि दाशु᳓षे ।
गिरे᳓रिव प्र᳓ र᳓सा अस्य पिन्विरे द᳓त्राणि पुरुभो᳓जसः ॥ २ ॥
आ᳓ त्वा सुता᳓स इ᳓न्दवो म᳓दा य᳓ इन्द्र गिर्वणः ।
आ᳓पो न᳓ वज्रिन्न᳓न्वोक्यं३ स᳓रः पृण᳓न्ति शूर रा᳓धसे ॥ ३ ॥
अनेह᳓सं प्रत᳓रणं विव᳓क्षणं म᳓घ्वः स्वा᳓दिष्ठमीं पिब ।
आ᳓ य᳓था मन्दसानः᳓ किरा᳓सि नः प्र᳓ क्षुद्रे᳓व त्म᳓ना धृष᳓त् ॥ ४ ॥
आ᳓ नः स्तो᳓ममु᳓प द्रव᳓द्धियानो᳓ अ᳓श्वो न᳓ सो᳓तृभिः ।
यं᳓ ते स्वधावन्त्स्वद᳓यन्ति धेन᳓व इ᳓न्द्र क᳓ण्वेषु रात᳓यः ॥ ५ ॥
उग्रं᳓ न᳓ वीरं᳓ न᳓मसो᳓प सेदिम वि᳓भूतिम᳓क्षितावसुम् ।
उद्री᳓व वज्रिन्नवतो᳓ न᳓ सिञ्चते क्ष᳓रन्तीन्द्र धीत᳓यः ॥ ६ ॥
य᳓द्ध नूनं᳓ य᳓द्वा यज्ञे᳓ य᳓द्वा पृथिव्या᳓म᳓धि ।
अ᳓तो नो यज्ञ᳓माशु᳓भिर्महेमत उग्र᳓ ऋष्वे᳓भिरा᳓ गहि ॥ ७ ॥
अजिरा᳓सो ह᳓रयो ये᳓ त आश᳓वो वा᳓ता इव प्रसक्षि᳓णः ।
ये᳓भिर᳓पत्यं म᳓नुषः परी᳓यसे ये᳓भिर्वि᳓श्वं स्वर्दृशे᳓ ॥ ८ ॥
एता᳓वतस्त ईमह इ᳓न्द्र सुम्न᳓स्य गो᳓मतः ।
य᳓था प्रा᳓व ए᳓तशं कृ᳓त्व्ये ध᳓ने य᳓था व᳓शं द᳓शव्रजे ॥ ९ ॥
य᳓था क᳓ण्वे मघवन् त्रस᳓दस्यवि य᳓था पक्थे᳓ द᳓शव्रजे ।
य᳓था गो᳓शर्ये अ᳓सनोर्ऋजिश्वनी᳓न्द्र गो᳓मद्धि᳓रण्यवत् ॥ १० ॥

टिप्पनी - १

= ऋसं ८.४९ वालखिल्यम् [१] । शांश्रौ ७.२३.४; १२.९.११; १२.६.१२ भाष्ये ऐब्रा ६.२४ भाष्ये च निर्दिष्टम् । बृहद्दे ६.८४-८६ द्रष्टव्यम् ।
१ = साम १.३.१.५. ३; २.२.१.१३. १; अथर्व २०.५१.१ ।
२. = साम २.२.१.१३.२; अथर्व २०.५१.२ ।
३. य-का; ये-मॅ; → ऋप्रा २.२८ ।
७. ऋष्वेभिः-का; उग्रेभिः-मॅ-मु ।
९.२ = ऋसं ८.५०.९.२.

मूलम् - २

प्र᳓ सु᳓ श्रुतं᳓ सुरा᳓धसम᳓र्चा शक्र᳓मभि᳓ष्टये ।
यः᳓ सुन्वते᳓ स्तुवते᳓ का᳓म्यं व᳓सु सह᳓स्रेणेव मं᳓हते ॥ १ ॥
शता᳓नीका हेत᳓यो अस्य दुष्ट᳓रा इ᳓न्द्रस्य समि᳓षो महीः᳓ ।
शिनि᳓र्न᳓ भुज्मा᳓ मघ᳓वत्सु पिन्वते य᳓दीं सुता᳓ अ᳓मन्दिषुः ॥ २ ॥
य᳓दीं सुता᳓स इ᳓न्दवो ऽभि᳓ प्रिय᳓म᳓मन्दिषुः ।
आ᳓पो न᳓ धायि स᳓वनं म आ᳓ वसो दु᳓घा इवो᳓प दाशु᳓षे ॥ ३ ॥
अनेह᳓सं वो ह᳓वमानमूत᳓ये म᳓घ्वः क्षरन्ति धीत᳓यः ।
आ᳓ त्वा वसो हवमानास इ᳓न्दव उ᳓प स्तोत्रे᳓षु दधिरे ॥ ४ ॥
आ᳓ नः सो᳓मे स्वध्वर᳓ इयानो᳓ अ᳓त्यो न᳓ तोशते ।
यं᳓ ते स्वधावन् स्वध᳓यन्ति गूर्त᳓यः पौरे᳓ च्छन्द᳓यसे ह᳓वम् ॥ ५ ॥
प्र᳓ वीर᳓मुग्रं᳓ विविचिं धनस्पृ᳓तं वि᳓भूतिं रा᳓धसो महः᳓ ।
उद्री᳓व वज्रिन्नवतो᳓ वसुत्वना᳓ सदा᳓ पीपेथ दाशु᳓षे ॥ ६ ॥
य᳓द्ध नूनं᳓ पराव᳓ति य᳓द्वा पृथिव्यां᳓ दिवि᳓ ।
युजान᳓ इन्द्र ह᳓रिभिर्महेमत उग्र᳓ ऋष्वे᳓भिरा᳓ गहि ॥ ७ ॥
रथिरा᳓सो ह᳓रयो ये᳓ ते अस्रि᳓ध ओ᳓जो वा᳓तस्य पि᳓प्रति ।
ये᳓भिर्नि᳓ द᳓स्युं म᳓नुषो निघो᳓षयो ये᳓भिः स्वः परी᳓यसे ॥ ८ ॥
एता᳓वतस्ते वसो विद्या᳓म शूर न᳓व्यमः ।
य᳓था प्रा᳓वो मघवन् मे᳓ध्यातिथिं य᳓था नी᳓पातिथिं ध᳓ने ॥ ९ ॥
य᳓था क᳓ण्वे मघवन् मे᳓धे अध्वरे᳓ दीर्घ᳓नीथे द᳓मूनसि ।
य᳓था गो᳓शर्ये अ᳓सिषासो अद्रिवो म᳓यि गोत्रं᳓ हरिश्रि᳓यम् ॥ १० ॥

टिप्पनी - २

ऋसं ८.५० वालखिल्यम् [२] । शांश्रौ ७.२३.४; १२.९.११ मध्ये निर्दिष्टम् । ऐब्रा ६.२४ सायणभाष्ये द्वितीयमन्त्रस्य निर्देशः ।
२. शतानीका हेतयो अस्य → ऋप्रा २. ५०. शिनिर्न-का; गिरिर्न-मॅ-मु ।
५. स्वधावन् स्वधयन्ति-का; स्वदावन्त्स्वदन्ति-मॅ-मु ।
७. उग्र-का; ऋष्व-मॅ-मु ।
९.२ = ऋसं ८.४९.९.२ ।
१०. दीर्घनीथे दमूनासि → ऋप्रा ५.४८.

मूलम् - ३

य᳓था म᳓नौ सां᳓वरणौ सो᳓ममिन्द्रा᳓पिबः सुत᳓म् ।
नी᳓पातिथौ मघवन् मे᳓ध्यातिथौ पु᳓ष्टिगौ श्रु᳓ष्टिगौ स᳓चा ॥ १ ॥
पार्षद्वाणः᳓ प्र᳓स्कण्वं स᳓मसादयच्छ᳓यानं जि᳓व्रिमु᳓द्धितम् ।
सह᳓स्राण्या᳓सिषासद्ग᳓वामृ᳓षिस्त्वो᳓तो द᳓स्यवे वृ᳓कः ॥ २ ॥
य᳓ उक्थे᳓भिर्न᳓ विन्ध᳓ते चिकि᳓द्य᳓ ऋषिचो᳓दनः ।
इ᳓न्द्रं त᳓म᳓च्छा वद न᳓व्यस्या मत्य᳓विष्यन्तं न᳓ भो᳓जसे ॥ ३ ॥
य᳓स्मा अर्कं᳓ सप्त᳓शीर्षाणमानृचु᳓स्त्रिधा᳓तुमुत्तमे᳓ पदे᳓ ।
स᳓ त्विमा᳓ वि᳓श्वा भु᳓वनानि चिक्रददा᳓दिज्जनिष्ट पौं᳓स्यम् ॥ ४ ॥
यो᳓ नो दाता᳓ व᳓सूनामि᳓न्द्रं तं᳓ हूमहे वय᳓म् ।
विद्मा᳓ ह्यस्य सुमतिं᳓ न᳓वीयसीं गमे᳓म गो᳓मति व्रजे᳓ ॥ ५ ॥
य᳓स्मै त्वं᳓ वसो दाना᳓य शि᳓क्षसि स᳓ राय᳓स्पो᳓षमश्नुते ।
तं᳓ त्वा वयं᳓ मघवन्निन्द्र गिर्वणः सुता᳓वन्तो हवामहे ॥ ६ ॥
कदा᳓ चन᳓ स्तरी᳓रसि ने᳓न्द्र सश्चसि दाशु᳓षे ।
उ᳓पोपे᳓न्नु᳓ मघवन् भू᳓य इ᳓न्नु᳓ ते दा᳓नं देव᳓स्य पृच्यते ॥ ७ ॥
प्र᳓ यो᳓ ननक्षे᳓ अभ्यो᳓जसा क्रि᳓विं वधैः᳓ शु᳓ष्णं निघोष᳓यन् ।
यदे᳓द᳓स्तम्भीत् प्रथ᳓यन्नमूं᳓ दिव᳓मा᳓दि᳓ज्जनिष्ट पा᳓र्थिवः ॥ ८ ॥
य᳓स्यायं᳓ वि᳓श्व आ᳓र्यो दा᳓सः शेवधिपा᳓ अरिः᳓ ।
तिर᳓श्चिदर्ये᳓ रु᳓शमे प᳓वीरवि तु᳓भ्ये᳓त्सो᳓ अज्यते रयिः᳓ ॥ ९ ॥
तुरण्य᳓वो म᳓धुमन्तो घृतश्चु᳓तो वि᳓प्रासो अर्क᳓मानृचुः ।
अस्मे᳓ रयिः᳓ पप्रथे वृ᳓ष्ण्यं श᳓वो ऽस्मे᳓ सुवाना᳓स इ᳓न्दवः ॥ १० ॥

टिप्पनी - ३

= ऋसं ८.५१ वालखिल्यम् [३]
१. सांवरणौ-मॅ मु; सांवरणं-का. (Scheftelowitz defends the Kashmir reading (p. 38), but compare the names in the latter half of the same verse and also the parallel Khila, III. 4. 1.) ।
२. आसिषासत्-का; असिषासत्-मॅ-मु ।
३. अविष्यन्तं-का; अरिष्यन्तं- मॅ-मु ।
१०. मधुमन्तो घृतश्रुतो- का; मधुमन्तं घृतश्चुतं-मॅ-मु.

मूलम् - ४

य᳓था म᳓नौ वि᳓वस्वति सो᳓मं शक्रा᳓पिबः सुत᳓म् ।
य᳓था त्रिते᳓ च्छ᳓न्द इन्द्र जु᳓जोषस्यायौ᳓ मादयसे स᳓चा ॥ १ ॥
पृ᳓षध्रे मे᳓ध्ये मातरिश्वनी᳓न्द्र सुवाने᳓ अ᳓मन्दथाः ।
य᳓था सो᳓मं द᳓शशिप्रे द᳓शोण्ये स्यू᳓मरश्मावृजी᳓नसि ॥ २ ॥
य᳓ उक्था᳓ के᳓वला दधे᳓ यः᳓ सो᳓मं धृषता᳓पिबत् ।
य᳓स्मै वि᳓ष्णुस्त्री᳓णि पदा᳓ विचक्रम᳓ उ᳓प मित्र᳓स्य ध᳓र्मभिः ॥ ३ ॥
य᳓स्य त्व᳓मिन्द्र स्तो᳓मेषु चाक᳓नो वा᳓जे वाजिञ्छतक्रतो ।
तं᳓ त्वा वयं᳓ सुदु᳓घामिव गोदु᳓हे जुहूम᳓सि श्र᳓वःसु च ॥ ४ ॥
यो᳓ नो दाता᳓ स᳓ नः पिता᳓ महाँ᳓ उग्र᳓ ईशानकृ᳓त् ।
अ᳓यामन्नुग्रो᳓ मघ᳓वा पुरूव᳓सुर्गो᳓र᳓श्वस्य प्र᳓ दाति नः ॥ ५ ॥
य᳓स्मै त्वं᳓ वसो दाना᳓य मं᳓हसे स᳓ राय᳓स्पो᳓षमिन्वति ।
वसूय᳓वो व᳓सुपतिं शत᳓क्रतुं स्तो᳓मैरि᳓न्द्रं हवामहे ॥ ६ ॥
कदा᳓ चन᳓ प्र᳓ युच्छस्युभे᳓ नि᳓ पासि ज᳓न्मनी ।
तु᳓रीयादित्य स᳓वनं त इन्द्रिय᳓मा᳓तस्थावमृ᳓तं दिवि᳓ ॥ ७ ॥
य᳓स्मै त्वं᳓ मघवन्निन्द्र गिर्वणः शि᳓क्षो शि᳓क्षति दाशु᳓षे ।
अस्मा᳓कं गि᳓र उत᳓ सुष्टुतिं᳓ वसो कण्वव᳓च्छृणुधी ह᳓वम् ॥ ८ ॥
अ᳓स्तावि म᳓न्म पूर्व्यं᳓ ब्र᳓ह्मे᳓न्द्राय वोचत ।
पूर्वी᳓र्ऋत᳓स्य बृहती᳓रनूषत स्तोतु᳓र्मेधा᳓ असृक्षत ॥ ९ ॥
स᳓मि᳓न्द्रो रा᳓यो बृहती᳓रधूनुत सं᳓ क्षोणी᳓ स᳓मु सू᳓र्यम् ।
सं᳓ शुक्रा᳓सः शु᳓चयः सं᳓ ग᳓वाशिरः सो᳓मा इ᳓न्द्रममन्दिषुः ॥ १० ॥

टिप्पनी - ४

= ऋसं ८.५२ वालखिल्यम् [४] ।
२. दशशिप्रे दशोण्ये ऋप्रा २.७१. ०वृजीनसि-का; ०वृजूनसि-मॅ-मु ।
३. धृषतापिबत्-का; धृषितापिबत्-मॅ-मु ।
४.२ → ऋसं १.४.१ : सुरूपकृत्नुमूतये सुदुघामिव गोदुहे जुहूमसि; → ऋसं ८. १. १० : आ त्वद्य सबर्दुघां हुवे गायत्रवेपसम् इन्द्रं धेनुं सुदुघां. गोदुहे-का → ऋसं १.४.१; गोदुहो-मॅ-मु. श्रवःसु च-का → ऋसं ३.३७.७; श्रवस्यवः-मॅ-मु ।
५. दाति-का; दातु-मॅ-मु ।
६.२ = ऋसं ८.६१.१०.२ ।
७ = वासं ८.३; तैसं १.४.२२. सवनं-का; हवनं-मॅ-मु ।

मूलम् - ५

उपमं᳓ त्वा मघो᳓नां ज्ये᳓ष्ठं च वृषभा᳓णाम् ।
पूर्भि᳓त्तमं मघवन्निन्द्र गोवि᳓दर्मा᳓शानं राय᳓ ईमहे ॥ १ ॥
य᳓ आयु᳓ कु᳓त्समतिथिग्व᳓म᳓र्दयो वावृधानो᳓ दिवे᳓दिवे ।
तं᳓ त्वा वयं᳓ ह᳓र्यश्वं शत᳓क्रतुं वाजय᳓न्तो हवामहे ॥ २ ॥
आ᳓ नो वि᳓श्वेषां र᳓सं म᳓ध्वः सिञ्चन्त्य᳓द्रयः ।
ये᳓ पराव᳓ति सुन्विरे᳓ ज᳓नेष्वा᳓ ये᳓ अर्वाव᳓ती᳓न्दवः ॥ ३ ॥
वि᳓श्वा द्वे᳓षांसि जहि᳓ चा᳓व चा᳓ कृधि वि᳓श्वे सुन्वन्त्वा᳓ व᳓सु ।
शी᳓र्ष्टेषु चित्ते मदिरा᳓सो अंश᳓वो य᳓त्रा सो᳓मस्य तृम्प᳓सि ॥ ४ ॥
इ᳓न्द्र ने᳓दीय ए᳓दिहि मित᳓मेधाभिरूति᳓भिः ।
आ᳓ शंतम शं᳓तमाभिरभि᳓ष्टिभिरा᳓ स्वापे स्वापि᳓भिः ॥ ५ ॥
आजितु᳓रं स᳓त्पतिं विश्व᳓चर्षणिं कृधि᳓ प्रजा᳓स्वा᳓भगम् ।
प्र᳓ सू᳓ तिरा श᳓चीभिर्ये᳓ त उक्थि᳓नः क्र᳓तुं पुनत आनुष᳓क् ॥ ६ ॥
य᳓स्ते सा᳓धिष्ठो᳓ ऽवसे ते᳓ स्याम भ᳓रेषु ते ।
वीति᳓हो᳓त्राभिरुत᳓ देव᳓हूतिभिः ससवां᳓सो विशृण्विरे᳓ ॥ ७ ॥
अहं᳓ हि᳓ ते हरिवो ब्र᳓ह्म वाजयु᳓राजिं᳓ या᳓मि स᳓दोति᳓भिः ।
त्वा᳓मि᳓देव᳓ त᳓म᳓मे स᳓मश्वयु᳓र्गव्यु᳓र᳓ग्रे मतीना᳓म् ॥ ८ ॥

टिप्पनी - ५

= ऋसं ८.५३ वालखिल्यम् [५] ।
३. सिञ्चन्त्य०-का; सिञ्चन्त्व-मॅ-मु ।
४. सुन्वन्त्वा-(→ ऋसं १०.७६.४ : आ नो रयिं सुनोतन)-का; सन्वन्त्वा-मॅ-मु. **शीर्ष्टेषु-का; शीष्टेषु-मॅ-मु ।
६. प्र सू तिरा शचीभिर्ये त उक्थिनः → ऋप्रा ८.४; ३०. ।
७. वीतिहोत्राभिः-का; वयं होत्राभिः-मॅ-मु. विशृण्विरे-का; मनामहे-मॅ-मु ।
८. मतीनां-का; मथीनां-मॅ-मु ।

मूलम् - ६

एत᳓त्त इन्द्र वीर्यं गीर्भि᳓र्गृण᳓न्ति कार᳓वः ।
ते स्तो᳓भन्त ऊ᳓र्जमावन् धृतश्रु᳓तं पप्रा᳓सो नक्षन्धीति᳓भिः ॥ १ ॥
न᳓क्षन्त इ᳓न्द्रम᳓वसे षुकृत्य᳓या ये᳓षां सुते᳓षु म᳓न्दसे ।
य᳓था संवर्ते᳓ अ᳓मदो य᳓था कृश᳓ एवा᳓स्मे᳓ इन्द्र मत्स्व ॥ २ ॥
आ᳓ नो वि᳓श्वे सजो᳓षसो दे᳓वासो ग᳓न्तनो᳓प नः ।
व᳓सवो रुद्रा᳓ अ᳓वसे न आ᳓ गमञ्छृण्व᳓न्तु मरु᳓तो ह᳓वम् ॥ ३ ॥
पूषा᳓ वि᳓ष्णुर्ह᳓वनं मे स᳓रस्वत्य᳓वन्तु सप्त᳓ सि᳓न्धवः ।
आ᳓पो वा᳓तः प᳓र्वतासो व᳓नप᳓तिः शृणो᳓तु पृथिवी᳓ ह᳓वम् ॥ ४ ॥
य᳓दिन्द्र रा᳓धो अ᳓स्ति ते मा᳓घोनं मघ᳓वतम ।
ते᳓न नो बोधि सधमा᳓द्यो वृधे᳓ भ᳓गो दाना᳓य वृत्रहन् ॥ ५ ॥
आ᳓जिपते नृपते त्व᳓मि᳓द्धि᳓ नो वा᳓ज आ᳓ भक्षि सुक्रतो ।
वयं᳓ हो᳓त्राभिरुत᳓ देव᳓हू᳓तिभिः ससवां᳓सो मनामहे ॥ ६ ॥
स᳓न्ति ह्य३र्य᳓ आशि᳓ष इ᳓न्द्र आ᳓युर्ज᳓नानाम् ।
अस्मा᳓न्नक्षस्व मघवन्नु᳓पा᳓वसे धुक्ष᳓स्व पिप्यु᳓षीमि᳓षम् ॥ ७ ॥
वयं᳓ त इन्द्र स्तो᳓मेभिर्विधेम त्व᳓मस्मा᳓कं शतक्रतो ।
म᳓हि स्थूरं᳓ शशयं रा᳓धो अ᳓हूयं प्र᳓स्कण्वाय नि᳓ तोशय ॥ ८ ॥

टिप्पनी - ६

= ऋसं ८.५४ वालखिल्यम् [ ६ ] । → बृहद्दे ६.८४ ।
१. पप्रासो-का; पौरासो-मॅ-मु ।
२. षुकृत्यया-का; सुकृत्यया-मॅ-मु ।
६. भक्षि-का; वक्षि-मॅ-मु. वयं-का; वीती-मॅ-मु. देवहूतिभिः-का; देववीतिभिः-मॅ-मु. मनामहे-का; वि शृण्विरे-मॅ-मु ।

मूलम् - ७

भू᳓रीदि᳓न्द्रस्य वीर्यं३ व्य᳓ख्यमभ्या᳓जति ।
रा᳓धस्ते दस्यवे वृक ॥ १ ॥
शतं᳓ श्वेता᳓स उक्ष᳓णो दिवि᳓ ता᳓रो न᳓ रोचन्ते ।
मह्ना᳓ दि᳓वं न᳓ तस्तभुः ॥ २ ॥
शतं᳓ वेणू᳓ञ्छतं᳓ शु᳓नः शतं᳓ च᳓र्माणि म्लाता᳓नि ।
शतं᳓ मे बल्बजस्तुका᳓ अ᳓रुषीणां च᳓तुःशतम् ॥ ३ ॥
सुदेवाः᳓ स्थ काण्वायना᳓ व᳓योवयो विचर᳓न्तः ।
अ᳓श्वासो न᳓ चङ्क्षमंत ॥ ४ ॥
आ᳓दि᳓त्साप्त᳓स्य चर्किरन्ना᳓नूनं च म᳓हि श्र᳓वः ।
श्या᳓वीरतिध्वस᳓न् पथ᳓श्च᳓क्षुषा चन᳓ सन्न᳓शे ॥ ५ ॥

टिप्पनी - ७

= ऋसं ८.५५ वालखिल्यम् [७] ।
१. अभ्याजति-का; अभ्यायति-मॅ-मु ।
४. सुदेवाः स्थ काण्वायना → ऋप्रा ८.२० काण्वायना-मॅ-मु; कण्वायना-का. चङ्क्षमत-का; चङ्क्रमत-मॅ-मु ।
५. आनूनं च-का; आनूनस्य-मॅ-मु ।

मूलम् - ८

प्र᳓ति ते दस्यवे वृक रा᳓धो अदर्श्य᳓ह्रयम् ।
द्यौ᳓र्न᳓ प्रथिना᳓ श᳓वः ॥ १ ॥
द᳓श म᳓ह्यं पूत᳓क्रतुः सह᳓स्रा द᳓स्यवे वृ᳓कः ।
नि᳓त्याद्रायो᳓ अ᳓मंहत ॥ २ ॥
शतं᳓ मे गर्दभा᳓नां शत᳓मू᳓र्णावतीनाम् ।
शतं᳓ दासाँ᳓ अ᳓धि स्रजः ॥ ३ ॥
त᳓त्रो अ᳓पि प्रा᳓णीयत पूत᳓क्रतायी व्यक्ता ।
अ᳓श्वानामि᳓न्न᳓ यूथ्यम् ॥ ४ ॥
अ᳓चेत्यग्नि᳓श्चि᳓कितिर्हव्यवा᳓ट् स᳓ सुम᳓द्रथः ।
अग्निः᳓ शुक्रे᳓ण शोचि᳓षा बृह᳓त्सू᳓र्यो अरोचत दिवि᳓ सू᳓र्यो अरोचत ॥ ५ ॥
अ᳓ग्न आ᳓ याह्यग्नि᳓भिः० ॥ ऋ. सं. ८.६०.१

टिप्पनी - ८

= ऋसं ८.५६ वालखिल्यम् [८] । एतान्यष्टौ सूक्तानि (खिल ३. १-८ = ऋसं ८.४९- (५६) ‘अ आ याह्यग्निभिः’ (ऋसं ८.६०) इति सूक्तात्पूर्वं पठनीयानि । एतानि वृहद्दे ६.८४-८६ अत्र निर्दिष्टानि ।
१.२. = ऋसं १. ८.५ ।
२. पूतक्रतुः-का; पूतक्रतः-मॅ; पौतक्रतः-मु-जुना ।
३. अधि-का; अति-मॅ-मु ।
४. पूतक्रतायी-का; पूतक्रतायै-मॅ-मु. यूथ्यं-का; यूथ्यां मॅ-मु ।
५.१. = साम १.५.२.२.१. चिकितिः-का-साम; चिकितुः-मॅ-मु.
५.१. बृहत्सूर्यो-का-खिल ४.९.७; बृहत्सूरो-मॅ-मु ।

मूलम् - ९

त्वं᳓ द्रप्सं᳓ ध᳓नुषा यु᳓ध्यमानमुपा᳓तिष्ठो म᳓घवन्नंशुमत्याः ।
प्र᳓ शू᳓र आ᳓पः स᳓निता ध᳓नानीन्द्र ता᳓नि ते पुरुकृत् स᳓हांसि ॥ १ ॥
त्वं ह त्य᳓त्सप्त᳓भ्यो जा᳓यमानः० ॥ ऋ. सं. ८. ९६. १६

टिप्पनी - ९

ऋसं ८.९६.१५ अनन्तरं पठनीयम् ।
सनिता धनानि = ऋसं. १.१००,९; ९.९०.३.

मूलम् - १०

पावमानीः᳓ स्वस्त्य᳓यनीः सुदु᳓घा हि᳓ घृतश्चु᳓तः ।
ऋ᳓षिभिः सं᳓भृतो र᳓सो ब्राह्मणे᳓ष्वमृ᳓तं हित᳓म् ॥ १ ॥
पावमानी᳓र्दिशन्तु न इम᳓ल्लोक᳓म᳓थो अमु᳓म् ।
का᳓मान्स᳓मर्धयन्तु नो देवै᳓र्देवीः᳓ समा᳓हृताः ॥ २ ॥
ये᳓न देवाः᳓ पवि᳓त्रेणात्मा᳓नं पुन᳓ते स᳓दा ।
ते᳓न सह᳓स्रधारेण पावमान्यः᳓ पुनन्तु मा ॥ ३ ॥
प्राजापत्यं᳓ पवि᳓त्रं शतो᳓द्यामं हिरण्म᳓यम् ।
ते᳓न ब्रह्मवि᳓दो वयं᳓ पूतं᳓ ब्र᳓ह्म पुनीमहे ॥ ४ ॥
इ᳓न्द्रः सुनीती᳓ सह᳓ मा पुनातु सोमः᳓ स्वस्त्या᳓ व᳓रुणः समी᳓च्या ।
यमो᳓ रा᳓जा प्रमृणा᳓भिः पुनातु मा जात᳓वेदा मोर्ज᳓यन्त्या पुनातु ॥ ५ ॥
पावमानीः᳓ स्वस्त्य᳓यनीर्या᳓भिर्गच्छति नान्दन᳓म् ।
पु᳓ण्यांश्च भक्षा᳓न् भक्षयत्यमृतत्वं᳓ च गच्छति ॥ ६ ॥
प्र᳓ देव᳓मच्छा म᳓धुमन्त० ॥ ऋ. सं. ९. ६८. १

टिप्पनी - १०

ऋसं ९.६७ अनन्तरं पठनीयम् ।
ऋब्र-मॅ१७-मु-अल-जुना-आउ१३ -ऋब्र-पुस्तकेष्विदं विंशर्चम् । आद्याः पञ्चर्चो मॅ-मु-आउ-ऋब्र (पवमान) - पुस्तकेष्वादितो वर्तन्ते । षष्ठी मॅ-मु-आउ-अल-पुस्तकेषु पञ्चदशी । हिरण्यकेशित्रिकालसंध्यायां धर्मसिन्धौ चेदं षडृचम् । आउ-पुस्तके तृतीयचतुर्थमन्त्रयोर्व्यत्यासः । औंधपुस्तक इदमेकविंशर्चम् । १-५ = तैब्रा १.४.८. ५-६. १-३.
६ = साम २.५ २.८. ३-६.
३ = निरु ५.६; बौधसू २.१७.३४.
१. → ऋसं ९.६७.३१.१, ३२.१ : ऋषिभिः संभृतं रसम् ।
२. दिशन्तु; दधन्तु-साम. कामान् समर्धयन्तु; कामाः स्पर्धयन्तु-अल. देवैर्देवीः; देवीर्देवैः-का-साम-धसिं-तैब्रा; देवैर्देवी-अल. समाहृताः-का-साम; समाहिताः-ऋब्र-मॅ-मु-जुना-आउ; समाहिता-अल; समाभृताः-तैब्रा-ऋब्र-धसिं ।
३. पावमान्यः पुनन्तु मा-तैब्रा-आउ-धसिं; पवमानः पुनातु मा-अल-जुना; पावमानीः पुनन्तु नः-साम; पावमान्यः पुनन्तु मां-मॅ-मु-ऋब्र ।
४. हिरण्मयं-तैब्रा-ऋब्र-मॅ-मु-धसिं; हिरण्ययं-आउ; हिरज्ञयं-अल. पुनीमहे- तैब्रा-ऋब्र-धसिं-मॅ-मु-आउ; पुनातु मा-अल-जुना ।
५. सुनीती-का; पुनीही-मु; पुनीती-ऋब्र-औंध. मा; आउ-पुस्तके ‘मा’ नास्ति. मोर्जयन्त्या-तैब्रा-मॅ-धसिं; मूर्जयन्त्या-मु-ऋब्र. पञ्चमो मन्त्रः अल-जुना-पुस्तकयोर्दशमः स चैवमस्ति- ‘इन्द्रः सुदीतिं सुहवा पुनातु सोमः स्वस्त्या वरुणः सुनीत्या । यमो राजा प्रमृणाभिः पुनातु मा जातवेदा मूर्जयन्त्या पुनातु’ । अल-पुस्तके क्वचिदशुद्धम् ।
६. स्वस्त्ययनीर्याभिः; स्वस्त्ययनीस्ताभिः-साम । शिष्टानां चतुर्दशमन्त्राणां पाठवैविध्यं पौर्वापर्यभेदश्च ।
१६ = बृहद्दे ६.१४५;
१७ = बृहद्दे ६.१४१;
१९ = ऋग्वि ३.३.२;
२० = ऋग्वि ४.२५.१ = बृहद्दे ६.१४४. अल-जुना-पुस्तकपाठो ऽधो दीयते । तत्र मन्त्राणां क्रमस्त्वेवम् :- अल १-९ = मॅ-मु-आउ ७.१५ (आउ-पुस्तकक्रमेण); अल १० = मॅ-मु-आउ ५; अल ११-१४ = मॅ-मु-आउ १-४; अल १५-१६ = मॅ-मु-आउ १६-१७; अल १७ = मॅ-मु-आउ६; अल १८ = मॅ-मु-आउ १९; अल १९ = मॅ-मु-आउ २०; अल २० = मॅ-मु-आउ १८. ऋब्र-आश्वमंसं.१-पुस्तकयोः क्रमः मॅक्समुल्लरपाठानुसारी, किंतु द्वादशो मन्त्रः ऋब्र-आश्वमंसं.२-पुस्तकयोश्चतुर्दशत्वेनागच्छति । १७.२-१८.१ आश्वमंसं.१ मध्ये नास्ति ।

मूलम्

यन्मे गर्भे वसतः पापमुग्रं यज्जायमानस्य च किं चिदन्यत् ।
जातस्य च यच्चापि च वर्धतो मे तत्पावमानीभिरहं पुनामि ॥ १ ॥
मातापित्रोर्यन्न कृतं वचो मे यत्स्थावरं जङ्गममाबभूव ।
विश्वस्य यत्प्रहृषितं वचो मे तत्पावमानीभिरहं पुनामि ॥ २ ॥ क्रयविक्रयाद्योनिदोषाद्भक्षाद्भोज्यात्प्रतिग्रहात् ।
असंभोजनाच्चापि नृशंसं तत्पावमानीभिरहं पुनामि ॥ ३ ॥
गोघ्नात्तस्करत्वात्स्त्रीवधाद्यच्च किल्बिषम् ।
पापकं च चरणेभ्यस्तत्पावमानीभिरहं पुनामि ॥ ४ ॥
ब्रह्मवधात्सुरापानात्सुवर्णस्तेयाद्वृषलीमिथुनसंगमात् ।
गुरोर्दाराभिगमनाच्च तत्पावमानीभिरहं पुनामि ॥ ५ ॥
बालघ्नान्मातृपितृवधाद्भूमितस्करात्सर्ववर्णगमनमिथुनसंगमात् ।
पापेभ्यश्च प्रतिग्रहात्सद्यः प्रहरन्ति सर्वदुष्कृतं तत्पावमानीभिरहं पुनामि ॥ ६ ॥
अमन्त्रमन्नं यत्किंचिद्धूयते च हुताशने ।
संवत्सरकृतं पापं तत्पावमानीभिरहं पुनामि ॥ ७ ॥
दुर्यष्टं दुरधीतं पापं यच्चाज्ञानतोकृतम् ।
अयाजिताश्चासंयाज्यास्तत्पावमानीभिरहं पुनामि ॥ ८ ॥
ऋतस्य योनयो ऽमृतस्य धाम सर्वा देवेभ्यः पुण्यगन्धाः ।
ता न आपः प्रवहन्तु पापं श्रद्धा गच्छामि सुकृतामु लोकं तत्पावमानीभिरहं पुनामि ॥ ९ ॥

टिप्पनी

१० = का ५
११-१४ = का १-४
१५ = का ६

मूलम्

पावमानीं पितॄन्देवान् ध्यायेद्यश्च सरस्वतीम् ।
पितॄंस्तस्योप तिष्ठेत क्षीरं सर्पिर्मधूदकम् ॥ १६ ॥
ऋषयस्तु तपस्तेपुः सर्वे स्वर्गजिगीषवः ।
तपसस्तपसो ऽग्र्यं तु पावमानीर्ऋचो जपेत् ॥ १७ ॥
पावमानं परं ब्रह्म ये पठन्ति मनीषिणः ।
सप्तजन्म भवेद्विप्रो धनाढ्यो वेदपारगः ॥ १८ ॥
दशोत्तराण्यृचां चैतत्पावमानीः शतानि षट् ।
एतज्जुह्वञ्जपंश्चैव घोरं मृत्युभयं जयेत् ॥ १९ ॥
पावमानं परं ब्रह्म शुक्रं ज्योतिः सनातनम् ।
ऋषींस्तस्योप तिष्ठेत क्षीरं सर्पिर्मधूदकम् ॥ २० ॥

टिप्पनी

२. यत्-अल-जुना; तत्-मॅ-मु-ऋब्र-आउ ।
५. सुवर्ण०-अल-जुना; स्वर्ण-ऋब्र-मॅ-मु-आउ. वृषलीमिथुन०-अल; वृषलिमिथुन०-जुना; वृषलीगमनमैथुन-मॅ-आउ; वृषलिगमनमैथुन०-मु-ऋब्र. दाराभि०-मॅ-अल-जुना-आउ; दाराधि०-मु; दाराद्धि०-ऋब्र ।
६. ०मिथुन०-अल-जुना; ०मैथुन०-मॅ-मु-आउ-ऋब्र. ०संगमात्; ०संभवात्-आउ. प्रहरन्ति-अल-जुना; प्रहरति-मॅ-मु-आउ-ऋब्र ।
८. ०ज्ञानतोकृतं-अल-जुना; ०ज्ञानतः कृतं-आउ ।
९. सर्वा-अल-जुना; विश्वा-मॅ-मु-आउ-जुना-ऋब्र. पुण्यगन्धाः-मॅ-मु-आउ-ऋब्र-जुना; पुण्यगन्धा-अल. श्रद्धा-अल; शुद्धा-मॅ-मु-आउ-जुना-ऋब्र. गच्छामि-जुना-अल; यचामि आउ । १६. पावमानीं पितॄन्-मु; पावमानीं पितॄं-अल; पावमानीः पितॄन्-ऋब्र; पावमानं पितॄन्-बृहद्दे-मॅ-आउ-जुना. ध्यायेद्यश्च-मु-बृहद्दे-मॅ-आउ; ध्यायेभ्यश्च-अल-जुना-ऋब्र. पितॄंस्तस्योप०-ऋब्र-अल-जुना-मु-बृहद्दे; ऋषींस्तस्योप०-मॅ-आउ. तिष्ठेत-अल-जुना; वर्तेत-बृहद्दे-औध; वर्ते तत्-ऋब्र-मॅ-मु आउ ।
१७. ऋषयस्तु-अल-जुना; अथ ते वै-बृहद्दे. तेषु:-मॅ-मु-आउ; तेपे-अल-जुना० स्वर्गजिगीषवः; सर्वजिगीषमाः-अल; सर्वजिगीषिताः-जुना. तपसस्तपसो ऽग्र्यं तु-अल-जुना; ततस्ते तपसोग्रेग-बृहद्दे; तपन्तस्तपसो ऽग्रेण-औध. जपेत्-अल-जुना; ऽब्रवीत्-मॅ-मु आउ-ऋब्र; ऽब्रुवत्-बृहद्दे-औंध ।
१८. सप्तजन्म-अल-जुना-ऋब्र-आउ-मु; सप्तजन्मा-मॅ. वेदपारगः-अल-जुना-आउ; वेदपारगाः-ऋब्र-मॅ- मु ।
१९. ऋचां चैतत्-अल; ऋचां श्चैतत्-जुना; ऋचाश्चैव ऋग्वि-ऋब्र-मु-आउ, ऋचश्चैव-मॅ. जपंश्चैव-अल-ऋग्वि; जपांश्चैव-जुना; जपेन्मन्त्रं-मॅ-मुं-आउ-ऋब्र. घोरं; घोर-मु. जयेत्-जुना-अल-ऋग्वि; हरेत्-ऋब्र-मॅ- मु-आउ ।
२०. पावमानं-जुना-अल; पावमान्यः-बृहद्दे. शुक्रं ज्योतिः-ऋब्र-मॅ-मु-आउ-जुना-बृहद्दे; शुक्रज्योतिः-अल. ऋषींस्-मु-जुना-ऋब्र; पितॄंश्च-मॅ; पितॄंस्-आउ; ऋषींश्च अल. तिष्ठेत-अल; तिष्ठे तत्-मॅ-मु-ऋब्र-आउ. २०.२ बृहद्देवतायां विभिन्नः ।

मूलम्

औंधपुस्तके विंशतिमन्त्रानन्तरमेको मन्त्रो ऽधिकः स यथा-
एतत्पुण्यं पापहरं रोगमृत्युभयापहम् ।
पठतां शृण्वतां चैव ददाति परमां गतिम् ॥

मूलम् - ११

इ᳓ळैव वाम᳓नु वस्तां घृते᳓न य᳓स्याः पदे᳓ पुन᳓ते देवय᳓न्तः ।
घृत᳓पदी श᳓क्वरी सो᳓मपृष्ठो᳓प यज्ञ᳓मस्थित वैश्वदेवी᳓ ॥ १ ॥
वैश्वदेवी᳓ पुनती᳓ देव्यागाद्यस्यामिमा बह्व्यस्तन्वो वीत᳓पृष्ठाः ।
त᳓या म᳓दन्तः सधमा᳓ध्येषु वयं᳓ स्याम प᳓तयो रयीणा᳓म् ॥ २ ॥
प्र तु द्रव प᳓रिको᳓शं नि षीद० ॥ ऋ. सं. ९ .८७. १

टिप्पनी - ११

ऋसं ९.८६ अनन्तरं पठनीयम् ।
मॅ १८- औंध ।
१. = अथर्व ७.२७. इळैव वां-मॅ; इडैवास्माँ-अथर्व. घृतेन-मॅ; व्रतेन-अथर्व । २.१ तन्वो वीतपृष्ठाः = अथर्व ६.६२.२.१. २.२ = अथर्व ६.६२. २.२. मदन्तः-का-मॅ; गृणन्तः-अथर्व. सधमाध्येषु-का; सधमादेषु-मॅ-अथर्व ।

मूलम् - १२

य᳓त्र लो᳓क्यास्तनुत्य᳓जाः श्रद्ध᳓या त᳓पसा जिताः᳓ ।
ते᳓जश्च य᳓त्र ब्र᳓ह्म च त᳓त्र मा᳓ममृ᳓तं कृधी᳓न्द्रायेन्दो प᳓रि स्रव ॥ १ ॥
य᳓त्र दे᳓वा महात्म᳓नः से᳓न्द्राः समरु᳓द्गणाः ।
ब्रह्मा᳓ च य᳓त्र वि᳓ष्णुश्च त᳓त्र मा᳓ममृ᳓तं कृधी᳓न्द्रायेन्दो प᳓रि स्रव ॥ २ ॥
य᳓त्र त᳓त्परमं᳓ पदं᳓ वि᳓ष्णोर्लोके᳓ महीय᳓ते ।
देवैः᳓ सुकृ᳓तकर्मभिस्त᳓त्र मा᳓ममृ᳓तं कृधी᳓न्द्रायेन्दो प᳓रि स्रव ॥ ३ ॥
य᳓त्रानन्दाश्च मो᳓दाश्च० ॥ ऋ. सं. ९. ११३. ११

टिप्पनी - १२

ऋसं ९.११३.१० अनन्तरं पठनीयम् । मॅ-मु-औंध-पुस्तकेष्विदं नवममण्डलान्ते पठनीयम् । आउ-आश्वमंसं.१-पुस्तकयोरिदं ऋसं ९.११३ अनन्तरं पठनीयम् ।
मॅ १९-मु-आउ १४-औंध-ऋमं-आश्वमंसं-अल-जुना ।
ऋसं-आश्वमंसं.१-पुस्तकयोश्चतुर्मन्त्रात्मकमिदं सूक्तम् । आश्वमंसं.२-पुस्तके मण्डलान्ते ऽस्य सूक्तस्य केवलमन्त्या ऋगस्ति । मॅ-मु-आउ-अल-जुना-पुस्तकेष्वेतत्पञ्चर्चम् । १-२ = मॅ-मु-आउ ३-४; ३ = मॅ-मु-आउ १ । औधपुस्तके षडृचम् । मॅ-मु-आउ अनुसारेण पञ्च, ऋमं-पुस्तके या चतुर्थी सा चात्र षष्ठी ।
१. लोक्याः-का; लोकाः क्रमं मॅ-मु-भाउ-जुना. तनुत्यजाः-का-आउ; तनूत्यजाः-ऋमं-मॅ-मु-जुना. ब्रह्म ब्रह्मा-ऋमं-जुना; ‘तत्र माममृतं कृधीन्द्रायेन्द्रो परि स्रव’ इत्यंशो ऋसं ९.११३ सूक्ते प्रतिमन्त्रं समानः ।
२. महात्मनः-का; महात्मानः- इतरेषु. सेन्द्राः स०-का; सेन्द्राश्च-मॅ-मु-आउ; ०श्चेंद्राश्च-जुना । ऋमं-आश्वमंसं.१-पुस्तकयोश्चतुर्थो (औधपुस्तके षष्ठो) मन्त्रो ऽधो दीयते-

मूलम्

यत्र तद्विष्णुर्महीयते नराणां च नराधिपम् ।
यत्र शङ्खचक्रगदाधरः स्मरणं मुक्तिश्च तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥
इति परिशिष्टम् ॥

टिप्पनी

तद्विष्णु०; विष्णु॰-आश्वमंसं च नराधिपं नराधिपतिं-आश्वमंसं. ०गदाधरः; ०गदा०-आश्वमंसं; ०गदाधर०-औध. मॅ-मु-आउ-औध-पुस्तकस्थौ द्वितीयपञ्चममन्त्रौ-

मूलम्

यत्र तत्परमाव्यं भूतानामधिपतिः ।
भावभावी च यो गीश्च तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥
यत्र गङ्गा च यमुना यत्र प्राची सरस्वती ।
यत्र सोमेश्वरो देवस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥

टिप्पनी

एतौ मन्त्रौ ऋमं-पुस्तके ऽप्यन्यत्रोपलभ्येते ‘यत्र तत्परमं पदम्’ इत्यनेन सह । एतौ अल-जुना-पुस्तकयोश्चतुर्थपञ्चमौ । परमाव्यं; परमाप्यं-औध. ०मधिपतिः; ०मधिपतिं ऋमं-आउ-जुना-औंध; ०मधिपति-आउ. भावभावी; भावभागी-ऋमं च यो गीश्च; वयो गीश्च-आउ; च योगीश्च-औंध; च योगी च-ऋमं. यमुना; यमुना च-मु-जुना ।

मूलम् - १३

सस्रु᳓षीस्त᳓दप᳓सो दि᳓वा न᳓क्तं च सस्रुषीः ।
व᳓रेण्यक्रतुरह᳓मा᳓ देवी᳓र᳓वसे हुवे ॥ १ ॥
ओ᳓ चित्स᳓खायं सख्या᳓ ववृत्याम्० ॥ ऋ. सं. १०. १०. १

टिप्पनी - १३

ऋसं १०.९ अनन्तरं पठनीयम् ।
अथर्व ६.२३.१; वैसू ४.१४; कौसू ७.१४; मॅ २०-आउ १५-आश्वमंसं-आचं-संभा-औंध-अल-जुना । ०क्रतु०-का-अथर्व; ०क्रतू०-मॅ-आउ-जुना-आचं-संभा. ०रवसे-मॅ-आउ-जुना-उद्गीथ-आचं-संभा; ०रवसा०-का. आ देवीरवसे हुवे; अपो देवीरूप ह्वये-अथर्व । ऋग्वेदसंहिताया दशमे मण्डले उद्गीथभाष्यमंशत उपलब्धमस्ति । ऋसं १०.४६.५ सायणभाष्ये उद्धृतादुद्गीथवचनादेते उद्गीथाचार्याः सायणपूर्वकालीना इति व्यक्तं प्रतीयते । ऋसं १०.९ भाष्यारम्भे इदं सूक्तं ’खैलिक्या सह दशर्चम्’ इत्युक्त्वा ‘सस्रुषीः’ इत्यादिको मन्त्रस्तैरुद्धृत्य व्याख्यातः। तद्व्याख्यानं शोधयित्वात्रोद्ध्रियते- ‘अब्देवत्या खैलिक्येषा । सस्रुषीः स्रवणशीला निम्नानुसारिण्यः तदपसः तदेव स्रवणशीलत्वं निम्नानुसारित्वमपः कर्म यासां ताः । दिवा नक्तं च अहनि रात्रौ च सस्रुषीः । वरेण्यक्रतुः स्नानपानपावनादिवरणीयकर्मा अहं देवीरपः आ हुवे आह्वयामि अवसे आत्मनो रक्षणार्थं तर्पणार्थं वा’।
सप्तमाष्टके ऽष्टाविंशतिवर्गानन्तरं (दशमे मण्डले अष्टादशसूक्तानन्तरं) षष्ठो ऽध्यायः समाप्तः । तथा च- ‘भद्रं नो’ इति दशर्चं विंशं सूक्तमिति सर्वानुक्रमणीतो ऽपि लभ्यते । उद्गीथकृते ऋग्वेदभाष्ये तावत् ‘भद्रं नो’ इत्येकर्चं विंशं सूक्तं विद्यते तदनन्तरं च सप्तमाष्टके षष्ठो ऽध्यायः (= चतुष्पञ्चाशो ऽध्यायः) समाप्तः ‘अग्निमीळे भुजाम्’ इति द्वितीयेन मन्त्रेण चाग्रिममेकविंशं सूक्तं प्रारभ्यते । तच्च ‘जुषद्धव्या’ इति पञ्चम (चतुर्थ) मन्त्रानन्तरं त्रुटितम् । अनन्तरं ‘कुह श्रुत इन्द्रः’ इति द्वाविंशं सूतमागतम् । उद्गीथभाष्यगतो ऽयं गणनाभेदः किंमूल इत्यन्वेषणीयम् ।

मूलम् - १४

ए᳓हीन्द्र वसुम᳓ता र᳓थेन साकं᳓ सो᳓ममपिबन्म᳓दाय ।
हृत्सु᳓ पीत्वा᳓ म᳓न्दसानो मरु᳓द्भिः स्तीर्णं᳓ याहि वृत्रह᳓त्याय वज्री᳓ ॥ १ ॥
इ᳓न्द्र सो᳓ममिमं᳓ पिब० ॥ ऋ. सं. १०. २४. १

टिप्पनी - १४

ऋसं १०.२३ अनन्तरं पठनीयम् । हृत्सु पीत्वा → ऋसं ८.४८.१२ : हृत्सु पीतो. मॅ२१-मु-आउ१६-अल-जुना-आश्वमंसं-औंध-क्रमं-पुस्तकेषु ऋसं १०.७५.५ अनन्तरं पठनीयमेकर्चं परिशिष्टं दत्तमस्ति तद्यथा-

मूलम्

सितासिते सरिते यत्र संगथे तत्राप्लुतासो दिवमुत्पतन्ति ।
ये वै तन्वं १ वि सृजन्ति धीरास्ते जनासो अमृतत्वं भजन्ते ॥ १ ॥

टिप्पनी

संगथे-मॅ-मु-औंध-क्रमं-आउ; संगते-मॅक्समुल्लरमहाशयानां केषुचिल्लिखितपुस्तकेषु ।

मूलम् - १५

म᳓म व्रते᳓ हृ᳓दयं ते दधामि म᳓म चित्त᳓म᳓नु चित्तं᳓ ते अस्तु ।
म᳓म वाच᳓मेकव्रता᳓ जुषस्व बृहस्प᳓तिस्त्वा नि᳓ युनक्तु म᳓ह्यम् ॥ १ ॥
धाता᳓ त्वा म᳓ह्यमददन्म᳓ह्यं धाता᳓ दधातु त्वा ।
प्र᳓ धाता᳓ त्वा म᳓ह्यं प्रा᳓ यच्छन्म᳓ह्यं त्वानु᳓मतिर्ददौ ॥ २ ॥
अनु᳓मते᳓ ऽनु मन्यस्व स्वा᳓नुमते᳓ ऽनु मन्यस्व ।
म᳓ह्यमेनं स᳓मा कुरु वा᳓चा च᳓क्षुषा म᳓नसा म᳓यि सं᳓यतम् ॥ ३ ॥
आ᳓ हरयत्ते हृ᳓दयं त᳓दस्तु हृ᳓दयं म᳓म ।
अ᳓थो य᳓न्म᳓म हृ᳓दयं त᳓दस्तु हृ᳓दयं त᳓व ॥ ४ ॥
हृ᳓दयेन हृ᳓दयं प्राणे᳓न प्राण᳓मगृभम् ।
गृभ्णा᳓मि च᳓क्षुषा च᳓क्षुर्गृभ्णा᳓मि म᳓नसा म᳓नः ॥ ५ ॥
आ᳓कूतं चित्तं᳓ च᳓क्षुः श्रो᳓त्रम᳓थो ब᳓लम् ।
श्रि᳓यं यां᳓ देवा᳓ जग्मुस्त᳓या बध्नामि ते म᳓नः ॥ ६ ॥
अ᳓न्नमयेन मणिना प्राण᳓सूत्रेण पृ᳓श्निना ।
बध्ना᳓मि स᳓त्यग्रन्थि᳓ना हृ᳓दयं च म᳓नश्च ते ॥ ७ ॥
आव᳓र्तनं निव᳓र्तनं म᳓या संव᳓ननं त᳓व ।
इन्द्राग्नी᳓ अश्वि᳓नोभा᳓ त्व᳓ष्टा धाता᳓ च चक्र᳓तुः ॥ ८ ॥
ये᳓न चित्ते᳓न व᳓दसि ये᳓न त्वान्यो᳓ ऽभि दा᳓सति ।
स᳓र्वं त᳓दग्न आ᳓ भर म᳓ह्यं दासा᳓य रा᳓ध्यः ॥ ९ ॥
अ᳓नुवनं सु᳓वनमु᳓द्वनं व᳓नम् ।
घर्म᳓स्य पश्य रूपा᳓णि ते᳓न बध्नामि ते म᳓नः ॥ १० ॥
सं᳓ मा विशन्तु पश᳓वः सं᳓ मा विशन्त्वोष᳓धीः ।
सं᳓ मा विशन्तु रा᳓जानो य᳓थाहं᳓ कामये त᳓था ॥ ११ ॥
अन्तरं᳓ च ने᳓दीयश्च म᳓नो देवा᳓ उपा᳓सते ।
अनन्तरो᳓ ऽहं᳓ तु᳓भ्यं भूयासं हृ᳓दयं मे भूयासमनन्तर᳓म् ॥ १२ ॥
सभा᳓ समासावितु᳓श्चावतामुभे᳓ प्रजा᳓पतेर्दुहितारौ स᳓चेतसौ ।
सं᳓गथे᳓षु प᳓दे चारु न᳓मो वैश्वानरा᳓य अधि ॥ १३ ॥
[…] य प᳓देन त आ᳓ ते प्राणा᳓न् समा᳓ ददे ।
अ᳓थो एत᳓त्समा᳓ददे य᳓दन्ये᳓षु॒ ज᳓नेषु च ॥ १४ ॥
अहं᳓ ते च᳓क्षुषा च᳓क्षुरहं᳓ ते म᳓नसा म᳓नः ।
अहं᳓ गन्ध᳓र्वरूपेण स᳓न आ᳓ वर्तयामि ते ॥ १५ ॥
हत᳓चित्तो हत᳓म᳓नो हतो᳓ अन्ये᳓षु॒ ते म᳓नः ।
सर्वे᳓षु कृ᳓ष्णकेशेषु हतो᳓ अन्ये᳓षु ते म᳓नः ॥ १६ ॥
स᳓र्वासु शु᳓द्धदन्तीषु हतो᳓ अन्या᳓सु॒ ते म᳓नः ।
मां᳓ चैव᳓ पश्य सू᳓र्यं च मा तृ᳓तीयं क᳓दा चन᳓ ॥ १७ ॥
स्मृति᳓रसि कामसंज᳓ननी म᳓यि ते का᳓मो अस्तु ।
य᳓त्ते म᳓नो व᳓रेण्यं लोके᳓षु ब᳓हुधा कृत᳓म् ॥ १८ ॥
समुद्र᳓मिव सरि᳓तः स᳓र्वं त्वा᳓नुवर्तयामसि ।
आ᳓ दीपयामि ते हृ᳓दयमग्ना᳓ मे ऽव᳓ प्र᳓ दीपयामसि ॥ १९ ॥
एष᳓ ते हृ᳓दये ऽङ्गारो᳓ दीप्त᳓स्ते अस्मि द᳓ह्यसे ।
मया᳓ ते द᳓ह्यमानस्याग्नि᳓र्दांसे᳓न तृप्यतु भू᳓मिर्दांसे᳓न तृप्यतु ॥ २० ॥
चि᳓त्तं च ते म᳓नश्च ते म᳓यि धाता᳓ नि᳓ यच्छतु ।
म᳓यि ते चि᳓त्तमा᳓यत्तं म᳓नस्ते म᳓यि सम᳓श्नुते ॥ २१ ॥
आ᳓वृतास्ते म᳓या प्रा
……………………… ॥ २२ ॥
……………………… ॥ २३ ॥
……………………… ॥ २४ ॥
……………………… ॥ २५ ॥
नष्टं᳓ ते कृपमन्यस्मिन्म᳓यि ते रमतां म᳓नः । अनु [….] म᳓नः ॥ २६ ॥
च᳓क्षुः श्रो᳓त्रं चा᳓धीतं च स᳓र्वं ते अह᳓मा᳓ ददे ।
हृ᳓द्य ऋ᳓षिरजायत दे [……] ॥ २७ ॥
त᳓देवैष्वदधुर्हृदयेष्व᳓र्थदर्शिनम् ।
स᳓र्वज्ञं स᳓र्वदर्शिनं स᳓ नः क᳓र्माणि साध᳓य ॥ २८ ॥
ये᳓ […] स्तव जातवेदः प्र᳓विष्टा अग्नि᳓र्दुर्हृ᳓दयस्य क᳓र्म ।
ते᳓षामहं᳓ भागधे᳓यं जुहोमि तां मा देवाः᳓ स᳓र्वैः कामैस्तर्पयन्ताम् ॥ २९ ॥
भृ᳓गूणाम᳓ङ्गिरसां त᳓पसो गृण᳓ संय᳓तम् ।
कुशिका᳓भ्य᳓वराणां च म᳓न आ᳓ वर्तयामि ते ॥ ३० ॥
य᳓त्ते म᳓नो व᳓रेण्यं लोके᳓षु ब᳓हुधा कृत᳓म् ।
त᳓त्त आ᳓ वर्तयामस्यध्रि᳓श्चाह᳓श्च ब्राह्मणः᳓ ॥ ३१ ॥
य᳓त्क᳓क्षीवान् संव᳓ननं पुत्रो᳓ अ᳓ङ्गिरसाम᳓वत् ।
तेन᳓ नो ऽद्य वि᳓श्वे देवाः᳓ सं᳓ प्रियां᳓ स᳓मवीवनन् ॥ ३२ ॥

टिप्पनी - १५

इदमुत्तरं च ऋसं १०.८४ अनन्तरं पठनीयम् । खिलानुक्रमण्यनुसारेणेदं हृद्यसूक्तम् । ‘सुहृद्भूत्वासुहृद्यस्य देयं संवननं स्मृतम् । एकैकमभिरूपं तु हृद्यसूक्ताद्यतः पुनः’ इति ऋग्वि ३.२१. २-३ । बृहद्दे ७.११७ अपि द्रष्टव्यम् (Comp. Bṛhaddevatā, part II, p. 281 ) ।
१ = पागृ १.८.८; २.२.१६; मागृ १.१०.१३; २२.१०; आश्वगृ १.२१.७; शांगृ २.४.१; मंब्रा १.२.१५; → मंदी; ऋमं; संकौ (उपनयन); हिगृ १.५.११.
१. → अथर्व ६.९४.२. हृदयं ते-का-ऋमं-शांगृ-संकौ; ते हृदयं इतरेषु. दधामि-का–शांगृ-आश्वगृ-पागृ-संकौ-ऋमं मंदी; दधातु-मागृ-मंब्रा. एकव्रता-का; एकव्रतो-ऋमं-संकौ; एकमना-इतरेषु. बृहस्पतिः-का-ऋमं-मंब्रा-शांगृ-संकौ; प्रजापतिः-मागृ-पागृ-आश्वगृ-मंदी ।
३. अनुमते ऽनु मन्यस्व → गोगृ १.३.२; खागृ १.२.१८; आपगृ १.२.३; हिगृ १.२.९.
४. → मंब्रा १.३.९ : यदेतद्धृदयं तव तदस्तु हृदयं मम । यदिदं हृदयं मम तदस्तु हृदयं तव ।
७. = मंब्रा १.३.८; गोगृ २.३.२१. अन्नमयेन-का; अन्नप्राशेन-मंब्रा-गोगृ. हृदयं च मनश्च-का; मनश्च हृदयं च-मंब्रा ।
८. → तैसं ३.३.१०. १: आ वर्तन वर्तय नि निवर्तन वर्तयेन्द्र ।
९. अग्न; अत्र ?
१३.१. = अथर्व ७.१२.१ : सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ संविदाने ।
१८.२. = ३१.१.
२०. दांसेन (Cf. A. B. Keith, JRAS 1907, p. 225); दांसेन न-का ।
२९.२ = बृउ ६.३.१. तेषां; तेभ्यो-बृउ. तां मा देवाः; ते मा तृप्ताः-बृउ. तर्पयन्तां; तर्पयन्तु-बृउ ।
३०.१. गृण-का; उग्रेण ? → बृहद्दे ६.१४१ : तपसोग्रेण; खिल ३.१०.१७ : तपसो ऽग्र्यं ।
३२. = खिल ५.१.३; संकौ (कन्यादान) ।

मूलम् - १६

उत्तु᳓दैनं गृह᳓पते ज्ञाते᳓भ्यः शयना᳓द᳓धि ।
ग्रीवा᳓ गृहीत्वो᳓त्तिष्ठ पाद᳓तो न विवेशय ॥ १ ॥
उ᳓त्खा᳓दुदन्तु मरु᳓त उ᳓त्समुद्र᳓म᳓तो द᳓धि ।
क्र᳓त्वाय᳓मग्नि᳓र्दहतु क्र᳓त्वा तपतु सू᳓र्यः ॥ २ ॥
कामशय्या᳓र्थे ऽभितप्तां᳓ य᳓था स्त्रि᳓यं शोषयसि ।
एवं᳓ शोष᳓य नो ऽरा᳓तीर्दि᳓वा नक्तं दशस्यतम् ॥ ३ ॥
इमां᳓ मे मित्रा᳓व᳓रुणौ कृधि᳓ चित्ते᳓न व्यस्यताम् ।
दत्वा᳓ पीत्वा᳓ग्रतः कृत्वा᳓ य᳓थास्यां᳓ देवशो व᳓शे ॥ ४ ॥
प᳓रान्कृणुष्व दासा᳓न् दे᳓वीव᳓शानन्ववा᳓यिनः ।
अधिष्ठा᳓य पदा᳓ मूर्ध्नि सान्व᳓याञ्छश्वतीः᳓ समाः ॥ ५ ॥
ऋतु᳓भिष्ट्वार्तवे᳓भिरा᳓युषा सह᳓ व᳓र्चसा ।
संवत्सर᳓स्य ते᳓जसा ते᳓न मा सह᳓ शुन्धत ॥ ६ ॥
अने᳓न ब्र᳓ह्मणाग्ने त्व᳓मयं᳓ चेन्द्रो न᳓ ईळितः ।
सम्रा᳓जं चा᳓धिपत्यं च स्वानां कृणु तमु᳓त्तमम् ॥ ७ ॥
अ᳓ग्ने नि᳓ जहि सं᳓हितानिषू᳓न् मर्मणि म᳓र्मणि ।
खादि᳓रं हृदि शङ्कू᳓न्नो द्विष᳓तो न विवे᳓शय ॥ ८ ॥
सत्येनोत्तभिता भू᳓मिः० ॥ ऋ. सं. १०. ८५. १

टिप्पनी - १६

ऋसं १०.८४ अनन्तरं पठनीयम् । इदं परागदासस्यार्षमिति खिलानुक्रमणी । ऋग्वि ३.११२-११४; बृहद्दे (Comp. Bṛhaddevatā, part II, p. 281) ७.११८ मध्ये पराकदास इत्यस्यर्षेर्नाम [बृहद्दे- ‘पराकदास आग्नेयं यदुदित्यष्टकं परम् । मैत्रावरुण्यृक्तत्रास्ति चतुर्थ्यैन्द्राग्न्युपोत्तमा’ ॥ ऋग्वि- ‘पराकदासस्य विधिं हृद्येनोक्तं विदुर्बुधाः । स्त्रीणां संवननं चैतत्पुंसामपि विधीयते ॥ द्वेष्यं तु ज्ञातिनामेव जयश्चैव सदा युधि । खादिरं कारयेच्छङ्कुं हृदि तं संनिवेशयेत् । कृत्वा प्रतिकृतिं पूर्वं पांसुभिर्वाथवा तुषैः । इषुमप्यनुमन्त्र्यैव संग्रामं संप्रकल्पयेत्’ ॥] अस्य सूक्तस्य पञ्चममन्त्रस्य प्रथमपादादृषेर्नामेदं संपन्नं दृश्यते । चतुर्थो मन्त्रो मित्रावरुणौ स्तौति सप्तमश्चेन्द्रमिति यत् बृहद्देवतायामुक्तं तत्सत्यमेव ।
१. शयनात् → अथर्व ३.२५.१ : उत्तुदस्त्वोत्तुदतु मा धृथाः शयने स्वे ।
२. समुद्रं; समुद्रां-का ।
६. = अथर्व ५.२८.१३; हिगृ. १.११.२. ˚ष्ट्वार्तवैरायुषा सह वर्चसा-का; ˚ष्ट्वार्तवैरायुषे वर्चसे त्वा-अथर्व-हिगृ (हिगृ-मध्ये ‘त्वा’ नास्ति) . तेजस्त-का; धायसा-हिगृ. तेन मा सह शुन्धत = ऋसं १०.१७.१४; तेन संहनु कृण्भसि-अथर्व; तेन सन्ननुगृह्णासि-हिगृ ।
८. खादिंरं → ऋग्वि. ३.२१: खादिरं कारयेच्छङ्कुं हृदि तं संनिवेशयेत् ।
५. शश्वतीः समाः; शाश्वतीः समाः-का (Cf. A.B.Keith, JRAS 1907, pp.225) ।

मूलम् - १७

ध्रु᳓वैधि पो᳓ष्या म᳓यि म᳓ह्यं त्वादाद्बृ᳓हस्प᳓तिः ।
म᳓या प᳓त्या प्रजा᳓वती सं᳓ जीव शर᳓दः शत᳓म् ॥ १ ॥
वि᳓ हि᳓ सो᳓तोर᳓सृक्षत० ॥ ऋ. सं. १०. ८६. १

टिप्पनी - १७

ऋसं १०.८५ अनन्तरं पठनीयम् । अथर्व १४. १. ५२; शांगृ १. १७; पागृ १. ८. १९; आपमं १. ८. ९; ऋमं-मंदी-विप-मॅ२२-मु-आउ१७-आश्वमंसं-अल. ऋमं-मॅ-मु-आउ-अल-जुना-आश्वमंसं-पुस्तकेष्वस्मान्मन्त्रात्पूर्वं पञ्च मन्त्रा अधिकाः । बृहद्दे ७. १३७ अनुसारेणायं मन्त्रः ऋसं १०. ८५ सूक्तस्यान्तिमः [→ ‘आ नः (= ऋसं १०. ८५. ४३) प्रजापते इमां (= ऋसं १०. ८५. ४५) ऐन्द्री चान्त्या बृहस्पतिः’ ।] । स च बृहस्पतिं स्तौति (Comp. Bṛhaddevatâ part II, p.287) ।
ध्रुवैधि; ममेयमस्तु-अथर्व. मयि; अथर्ववेदे नास्ति. पोष्या-अथर्व-आपमं-ऋमं-विप-मॅ-मु-आउ; पोष्ये-पागृ-मंदी. प्रजावती; प्रजावति-अथर्व ।
ऋमं-मॅ-मु-आउ-आश्वमंसं-पुस्तकेषु वर्तमानाः पञ्च मन्त्रा अधो दीयन्ते-

मूलम्

अविधवा भव वर्षाणि शतं साग्रं तु सुव्रता ।
तेजस्वी च यशस्वी च धर्मपत्नी पतिव्रता ॥ १ ॥
जनयद्बहुपुत्राणि मा च दुःखं लभेत्क्वचित् ।
भर्ता ते सोमपा नित्यं भवेद्धर्मपरायणः ॥ २ ॥
अष्टपुत्रा भव त्वं च सुभगा च पतिव्रता ।
भर्तुश्चैव पितुर्भ्रातुर्हृदयानन्दिनी सदा ॥ ३ ॥
इन्द्रस्य तु यथेन्द्राणी श्रीधरस्य यथा श्रिया ।
शंकरस्य यथा गौरी तद्भर्तुरपि भर्तरि ॥ ४ ॥
अत्रेर्यथानुसूया स्याद्वसिष्ठस्याप्यरुन्धती ।
कौशिकस्य यथा सती तथा त्वमपि भर्तरि ॥ ५ ॥

टिप्पनी

लभेत्; लभेः-ऋमं ।

मूलम् - १८

एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु प्रभूतः ।
एकैवोषाः सर्वमिदं वि भात्येकैवा इदं वि बभूव सर्वम् ॥ १ ॥
यमृत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति ।
यो अनूचानो ब्राह्मणो युक्त आस्ते का स्वित्तत्र यजमानस्य संवित् ॥ २ ॥
यावन्मात्रमुषसो न प्रतीकम्० ॥ ऋ. सं. १०. ८८. १९

टिप्पनी - १८

ऋसं १०. ८८. १८ अनन्तरं पठनीयम् । शांश्रौ १६. १३. १८ अपि तदेव दर्शयति । ऋसं १०. ८८. १८ भाष्ये ’अत्रोत्तराणि वालखिल्यसंहितायां दर्शितानि’ इत्युक्त्वा ’एक एवाग्निः’ इति मन्त्र उद्धृतः सायणाचार्यैः स्वकीय ऋग्वेदभाष्ये । शाङ्खायनशाखायां दशमं वालखिल्यसूक्तमपठित्वा ’एक एवाग्निः’ ’यमृत्विजो’ इति तत्स्थं मन्त्रद्वयं ’यावन्मात्रम्’ इत्यस्मात्पूर्वं खिलत्वेन पठन्तीति चरणव्यूहभाष्ये लिखितम् । एवं जुनागडलिखितपुस्तके ’यमृत्विजो’ इत्यादि वालखिल्यं नास्ति ’एक एवाग्निः’ ’यमृत्विजो’ इति मन्त्रौ च ’यावन्मात्रम्’ इत्यस्मात्पूर्वं लिखितौ ।
१. = वालखिल्य १०. २ (ऋसं ८. ५८. २). प्रभूतः-मॅ-मु-आउ-जुना; प्रभूत-का. एकैवा-का-जुना; एकं वा-मॅ-मु-आउ ।
२. = वालखिल्य १०. १ (ऋसं ८. ५८. १). आस्ते-का; आसीत्-मॅ-मु-आउ ।

मूलम् - १९

उ᳓दपप्ताम वसते᳓र्व॓यो यथा᳓ रिणन्त्वा भृगवो म᳓न्यमानाः ।
पु᳓रूरवः पु᳓नर᳓स्तं प᳓रेह्या मे म᳓नो देवजना᳓ अ᳓यान्त्स्युः ॥ १ ॥
प्र᳓ ते महे᳓ विद᳓थे शंसिषं ह᳓री० ॥ ऋ. सं. १०. ९६. १

टिप्पनी - १९

ऋसं १०. ९५ अनन्तरं पठनीयम् । जुनागडलिखितपुस्तक इदमुपलभ्यते ।
१.१ = ऋसं १. १२४. १२; ६. ६४. ६: उत्ते वयश्चिद्वसतेरपप्तन्. १.२ = ऋसं १०.९५. २. उदपप्ताम-जुना; उदपप्तम- का. रिणन्त्वा-का; रणंत्वा-जुना. परेह्या मे-जुना; परेहि यामे-का. अयान्त्स्युः-जुना; अयात्स्वः-का ।

मूलम् - २०

[यच्च᳓ कृ॒तं] य᳓द᳓कृतं य᳓दे᳓नश्चकृमा᳓ वय᳓म् ।
ओ᳓षधयस्त᳓स्मात्पान्तु दुरिता᳓दे᳓नसस्प᳓रि ॥ १ ॥
बृ᳓हस्पते प्र᳓ति मे देव᳓तामिहि० ॥ ऋ. सं. १०. ९८. १

टिप्पनी - २० ऋसं १०. ९७ अनन्तरं पठनीयम् । जुनागडलिखितपुस्तक इदमुपलभ्यते । **यश्च कृतं**-जुनागडलिखितपुस्तके । च्च᳓ इति स्वरितं कृ॒ इत्यनुदात्तं च । का-पुस्तके ऽत्र त्रुटिर्वर्तते । 'यद्' इति खिलानुक्रमणीतः आद्यं पदमुद्धृत्य 'अचित्तम्' इति शेफ्टेलोवित्झ्महाशयैरभ्यूहितमासीत् (=यदचित्तं) । **यदेनश्चकृमा वयं** = वासं ३. ४५; लाश्रौ २०. १२. १२ ।
मूलम् - २१

असौ᳓ या᳓ से᳓ना मरुतः प᳓रेषामभ्यै᳓ति न ओ᳓जसा स्प᳓र्धमाना ।
तां᳓ गूहत त᳓मसा᳓पव्रतेन य᳓थामी᳓षामन्यो᳓ अन्यं᳓ न᳓ जा᳓नात् ॥ १ ॥
अन्धा᳓ अमि᳓त्रा भवताशीर्षा᳓णो ऽह᳓य इव ।
ते᳓षां वो अग्नि᳓दग्धानामि᳓न्द्रो हन्तु व᳓रंवरम् ॥ २ ॥

टिप्पनी - २१

इदमुत्तरं च ऋसं १०. १०३ अनन्तरं पठनीयम् (Cf. Bṛhaddevatā, Part II, p. 297) ।
१. = साम २. ९. ३. ४. ३; अथर्व ३. २. ६; वासं १७. ४७; आसू; मंदी ।
२. = साम २. ९. ३. ८. २; अथर्व ६. ६७. २. इदमृग्द्वयं मॅ २३-मु-आउ १८-अल-जुना-ऋब्र (शान्तिपाठः)-औंध-ऋमं-आश्वमंसं-पुस्तकेषूपलभ्यते ।
१.१. अभ्यैति न ओजसा-का-वासं-ऋमं-मॅ-मु-आउ-जुना-आसू-मंदी-ऋब्र; अभ्येति न ओजसा-साम; अस्मानैत्यभ्योजसा-अथर्व .१.२. = ऋसं ५. ४०. ६ : गूळ्हं सूर्यं तमसापव्रतेन. गूहत-का; विध्यत-अथर्व. यथामीषां-का-मॅ-आउ-जुना; यथामीषा-ऋमं-ऋब्र-मु; यथामी-वासं-आसू-मंदी; यथैतेषां-साम; यथैषां-अथर्व. जानात्-का-साम-अथर्व-ऋमं-मॅ-मु-आउ-जुना; जानन्-वासं-आसू-मंदी.
२. = ऋसं १०. १०३. १२.२. अन्धा अमिषा भवता; मूढा अमित्राश्चरता-अथर्व. ०शीर्षाणो ऽहय-का-साम; ०शीर्षाणा अहय-ऋमं-मॅ-मु-आउ-जुना-ऋब्र; ०शीर्षाण इवाहयः-अथर्व. अग्निदग्धानां-का-जुना; अग्निमूढानां-अथर्व; अग्निदग्धानामग्निमूळ्हानां-ऋमं-मॅ-मु-आउ-ऋब्र; अग्निनुन्नानां-साम. वरंवरं; वरंवनम्-ऋब्र ।

मूलम् - २२

ब्र᳓ह्म जज्ञा᳓नं प्रथमं᳓ पुर᳓स्ताद्वि᳓ सीमतः᳓ सुरु᳓चो वेन᳓ आवः ।
स᳓ बुध्न्या उपमा᳓ अस्य विष्ठाः᳓ सत᳓श्च यो᳓निम᳓सतश्च वि᳓ वः ॥ १ ॥
इयं᳓ पित्रे᳓ रा᳓ष्ट्र्येत्य᳓ग्रे प्रथमा᳓य जनु᳓षे भू᳓मनेष्ठाः᳓ ।
त᳓स्मा एतं᳓ सुरु᳓चं ह्वार᳓मह्यं घर्मं᳓ श्रीणन्ति प्रथमा᳓य धासेः᳓ ॥ २ ॥
महा᳓न्मही᳓ अ᳓स्तभायद्वि᳓जातो द्यां᳓ पिता᳓ स᳓द्म पा᳓र्थिवं च र᳓जः ।
स᳓ बुध्न्या᳓दाष्ट जनु᳓षाभ्यु३ग्रं᳓ बृ᳓हस्प᳓तिर्देव᳓ता त᳓स्य सम्रा᳓ट् ॥ ३ ॥
अभि᳓ त्यं᳓ देवं᳓ सविता᳓रमोण्योः कवि᳓क्रतुम᳓र्चामि सत्य᳓सवं रत्नधा᳓मभि᳓प्रियं᳓ मतिं᳓ कवि᳓म् ।
ऊर्ध्वा᳓ य᳓स्याम᳓तिर्भा अ᳓दिद्युतत्स᳓वीमनि हि᳓रण्यपाणिरमिमीत सुक्र᳓तुः कृपा᳓ स्वः ॥ ४ ॥
ता᳓ सू᳓र्याचन्द्रम᳓सा गातुवि᳓त्तमा मह᳓त्ते᳓जो व᳓सुमद्भ्रा᳓जतो दिवि᳓ ।
सा᳓मात्म᳓ना च᳓रतः सामचारि᳓णा य᳓योर्व्रतं᳓ न वसे᳓ जा᳓तु देव᳓योः ॥ ५ ॥
उभा᳓व᳓न्तौ प᳓रि यात अ᳓र्म्या दिवो᳓ न᳓ रश्मींस्तनुतो᳓ व्यर्णवे᳓ ।
उभा᳓ भुवन्ती᳓ भु᳓वना कवि᳓क्रतू सू᳓र्या न᳓ चन्द्रा᳓ चरतो हता᳓मती ॥ ६ ॥
प᳓ती द्युम᳓द्विश्ववि᳓दा उभा᳓ दिवः᳓ सू᳓र्या उभा᳓ चन्द्र᳓मसा विचक्षणा᳓ ।
विश्व᳓वारा वरिवोभा᳓ व᳓रेण्या ता᳓ नो ऽवतं मतिम᳓न्ता भ᳓हिव्रता ॥ ७ ॥
वि᳓श्वव᳓परी प्रत᳓रणा तरन्ता᳓ सुवर्वि᳓दा दृश᳓ये भू᳓रिरश्मी ।
सू᳓र्या हि᳓ चन्द्रा᳓ व᳓सु त्वेप᳓दर्शता मनस्वि᳓नो भा᳓नु चरतो᳓ नु सं᳓ दि᳓वम् ॥ ८ ॥
अस्य᳓ श्र᳓वो नद्यः सप्त᳓ बि᳓भ्रति द्या᳓वाक्षा᳓मा पृथिवी᳓ दर्शतं᳓ व᳓पुः ।
अस्मे᳓ सूर्याचन्द्रम᳓साभिच᳓क्षे श्रद्धे᳓ क᳓मिन्द्र चरतो वितर्तुर᳓म् ॥ ९ ॥ पूर्वापरं᳓ चरतो माय᳓यैतौ᳓ शि᳓शू क्री᳓ळन्तौ प᳓रि यातो अध्वर᳓म् ।
वि᳓श्वान्यन्यो᳓ भु᳓वनाभिच᳓ष्ट ऋतूँ᳓रन्यो᳓ विद᳓धज्जायते पु᳓नः ॥ १० ॥
अ᳓सावि सो᳓मः पुरुहूत तु᳓भ्यम्० ॥ ऋ. सं. १०. १०४. १

टिप्पनी - २२

इत्यृग्वेदे खिले तृतीयो ऽध्यायः ॥
ऋसं ११. १०३ अनन्तरं पठनीयम् । खिलानुक्रमणीमतेनेदं वामदेव्यस्य नकुलस्यार्षम् । निरुक्तटीकाकारो दुर्गाचार्यो ऽपि ‘वि सीमतः सुरुचो वेन आवः’ (निरु १. ७) ‘ऊर्ध्वा यस्यामतिर्भा अदिद्युत्सवीमन्नि’ (निरु ६.१२ ) इति मन्त्रौ नकुलस्य वामदेव्यस्य सूक्तादुद्धृताविति ब्रवीति । नकुलसूक्तस्य चतुर्थे मन्त्रे द्वितीयः पादो ऽष्टादशाक्षर इति ऋक्प्रातिशाख्ये (१७.४५) निर्दिष्टम्- ‘एकादशैव च्छन्दसि पादा ये षोळशाक्षराः । सर्वे त्रिकद्रुकीयासु नाकुले ऽष्टादशाक्षरः’ ॥ तथा चात्र बृहद्देवता (Comp. Bṛhaddevatā part II, pp 296 ff.) (८. १४-१६.१)- ‘चतुर्थी बार्हस्पत्या स्यान्नाकुले च महानिति । द्वृचस्तु मारुतः प्रेतेत्यैन्द्री वा ब्रह्म यत्परम् ॥ तत्रानिरुक्तसूक्तादागृगेका सूर्यमर्चति । घर्मपराश्चतस्रस्तु सवितारमभीति या ॥ सूक्तशेषस्य षळृचः सूर्याचन्द्रमसौ सह’ ।
‘असौ या सेना’ इति मरुद्देवताकं द्वृचं सूक्तं ऋसं १०.१०३ अनन्तरं पठनीयमिति ‘द्वृचस्तु मारुतः’ इत्यनेन सिद्धम् । तेनैव सह ‘ब्रह्म जज्ञानम्’ इति सूक्तं पठनीयमिति यत् बृहद्देवतायामुक्तं तदपि खिलानुक्रमण्या संगच्छते । अस्य नकुलसूक्तस्य देवताज्ञापनविषये बृहद्देवतायाः खिलानुक्रमप्याश्च प्रायः समानत्वं दृश्यते । ‘…… सौरी घर्मस्तुतिर्बार्हस्पत्या सावित्र्यष्टिर्घर्मपरा एताः सौर्यश्चान्द्रमस्यश्च शेषा जगत्यः’ इति खिलानुक्रमणी । अस्य प्रथमानुक्तदेवताका ऋक् सूर्यं स्तौति (‘तत्रानिरुक्तसूक्तादावृगेका सूर्यमर्चति’) । अथर्ववेदानुक्रमण्यां (४. १. १) निरुक्ते (१.७) चेयमृगादित्यं स्तौतीत्येवोक्तम् । ‘ब्रह्म जज्ञानमित्यस्य नकुल ऋषिः ब्रह्मा देवता’ इति तु संकौ । द्वितीया ‘इयं पित्रे’ इत्याद्या घर्मस्तुतिपरेति खिलानुक्रमणीवचनम् । घर्मशब्दस्य साक्षान्निर्देशो ऽपि तस्यामृच्युपलभ्यते । बृहद्देवतापाठे ऽस्या ऋचो देवता नोक्ता दृश्यते । ‘घर्मपराः’ इत्यस्य स्थाने ‘घर्मं परा’ इति बृहद्देवताया एकस्मिन् लिखितपुस्तक उपलभ्यमानः पाठः खिलानुक्रमणीवचनेन समन्वियात् । परा (= द्वितीया) घर्म स्तौतीति तस्यार्थो भवेत् । तृतीया ‘महान्’ इति बृहस्पतिं स्तौति (‘नाकुले च महानिति’) । ‘अभि त्यम्’ इति चतुर्थी सवितृदेवताका (‘सवितारमभीति या’) । एताश्चतस्र ऋचः प्रवर्ग्ये विनियुक्ताः (‘घर्मपराश्चतस्रस्तु) ऐब्रा १. १९; आश्वश्रौ ४. ६; शांश्रौ ५. ९ । शिष्टाः षडृचः सूर्याचन्द्रमसौ स्तुवन्ति (Cf. also Oldenberg, Hymnen des Ṛgveda I, 363 ff.) (‘सूक्तशेषस्य पळृचः सूर्याचन्द्रमसौ सह’) ।
१-४ = आश्वश्रौ ४. ६; ऐब्रा १. १९.१, २, ४ = शांश्रौ ५. ९. १-३ = अथर्व ४. १. १, २, ५. ५-१० = तैब्रा २. ८. ९. १, २
१. → मैसं २.७.१५; कासं १६. १५; २०.५; ३८. १४; कपिसं २५.५; ३२. ७; तैसं ४. २. ८. २; ५. २. ७. १; वासं १३. ३; साम १.४ १. ३. ९; सामविब्रा १. ६. ४. ८; तैब्रा २. ८. ८.८; ३. १२. १. १; शांब्रा ८. ४; तैआ १. १३. ३; कौसू ९. १; १५. २; १८. २५; १९. १; २५. १५; ३८. २३; ५१. ७; ७९. ११; १३९. १०; बौधसू २. १८. ७; वैसू १४. १; शांश्रौ १५. ३. ६; १८. १. २; आचं; मंदी; पञ्चामृ; ऋब्र (यज्ञोपवीत); प्रर; ऋमं; संकौ; शांक; मामंसं; शांम; धपंशां; धसिं ।
२. → शांश्रौ १५.३.६ भाष्यं; वैसू १४. १ ।
३. → तैसं २. ३. १४.६.
४. → साम १. ५. २. ३. ८; मैसं १. २. ५ कासं २. ६; २४. ५; कपिसं १. १९; ३७. ६; तैसं १. २. ६. १; ६. १. ९. ४; वासं ४. २५; अथर्व ७. १४. १-२, कौसू २४. ३; शब्रा १३. ५. १. ११; शांब्रा २३. ८; २७. २; ऋप्रा १७. ४४; वैसू १३. ७; धपंशां; ऋब्र ।
९. = ऋसं १. १०२. २ ।
१०. = ऋसं १०. ८५. १८; मैसं ४. १२. २; तैब्रा २. ७. १२. २; अथर्व ७. ८१. १; १३. २. ११; १४. १.२३.
१.१. = अथर्व १९. २२. २१ : भूतानां ब्रह्मा प्रथमो ह जज्ञे ।
२. पित्रे-का-आश्वश्रौ-शांश्रौ-ऐब्रा; पित्र्या-अथर्व-वैसू. एत्यग्रे-का-ऐब्रा-आश्वश्रौ-शांश्रौ; एत्वग्रे-अथर्व. भूमनेष्ठाः-आश्वश्रौ-शांश्रौ; भुवनेष्ठाः-अथर्व. श्रीणन्ति-का-आश्वश्रौ-शांश्रौ; श्रीणन्तु-अथर्व. प्रथमाय-का-अथर्व; प्रथमस्य-आश्वश्रौ-शांश्रौ. धासे-का-आश्वश्रौ-शांश्रौ; धास्यवे-अथर्व ।
३. अस्तभायत्-ऐब्रा-तैसं-आश्वश्रौ; अस्कभायत्-अथर्व. पिता; तैसं-मध्ये नास्ति. बुध्न्यात्-का-अथर्व; बुध्नात्-तैसं-आश्वश्रौ. आष्ट-का; आष्ट्र-अथर्व. जनुषाभ्युग्रं-का-आश्वश्रौ; जनुषाभ्यग्रं-तैसं; जनुषो ऽभ्यग्रं-अथर्व. तस्य-का; यस्य-तैसं ।
४. ओण्योः; ऊण्योः-तैसं. कविं; तैसं-ऋसं-मैसं-अथर्वपुस्तकेषु नास्ति. कृपा; कृपात्-अथर्व ।
५. गातुवित्तमा-का; विश्वभृत्तमा-तैब्रा. भ्राजतो-का; राजतो-तैब्रा. सामात्मना-का; सामात्माना-तैब्रा. वसे-का; मणे-तैब्रा ।
९. वितर्तुरं-का-ऋसं; विचर्तुरं-तैब्रा ।
१०. अध्वरं-का; ऽर्णवं-अथर्व. विश्वान्यन्यो-का; विश्वान्यो-अथर्व. भुवनाभिचष्ट-का-ऋसं; भुवनाभिचष्टे-तैब्रा; भुवना विचष्ट-अथर्व-मैसं. जायते पुनः-का; जायसे नवः-अथर्व ।
मॅ(२४)-मु-अल-जुना-औधपुस्तकेषु ऋसं १०.१०६ अनन्तरमधो दीयमानमेकर्चं सूक्तं पठनीयम्-

मूलम्

हविर्भिरेके स्वरितः सचन्ते सुन्वन्त एके सवनेषु सोमान् ।
शचीर्मदन्त उत दक्षिणाभिर्नेज्जिह्मायन्त्यो नरकं पताम ॥

टिप्पनी

निरु १. ११ मध्ये इदमुद्धृतम् । नरकं; नरके-औध ।