द्वितीयो ऽध्यायः
मूलम् - अनुक्रमणिका
ॐ मैका भद्रं पञ्चानुष्टुभो जागर्ष्येका जातवेदस्थं स्वस्त्ययनं द्वे वर्षन्त्वेका हिरण्यवर्णामेकोना श्रीर्भार्गवी श्रीरलक्ष्मीघ्नं श्रय्यमानुष्टुभं वै शक्कर्यन्तं हिंसाग्नेयी चतुर्थी प्रस्तारपङ्क्तिस्त्रिष्टुभौ पञ्चदश्युपरिष्टाद् बृहती श्रीः (‘श्रीपुत्राः’ इति साधु; → बृहद्दे ५.९१.) पुत्राः (‘श्रीपुत्राः’ इति साधु; → बृहद्दे ५.९१.) परे षट् चिक्लीतः पञ्चानन्दकर्दमौ वैश्वदेवं मयि श्लेषः श्लेषो जातवेदस्यं बृहत्यादि सं स्रवन्त्विति संस्रवान् वैश्वदेवं द्वितीयादि त्रिष्टुभौ आ ते सप्त प्रजावान् गर्भार्थाशीस्तुतिः (‘आशीःस्तुतिः’ इति शुद्धं.) प्रजापतिरैन्द्रवायव्यौ चतुर्थी बृहती पञ्चमी प्रस्तारपङ्क्तिरग्निः पञ्च जीवपुत्र आग्निवारुणमतिजगत्यानुष्टुप् (आग्निवारुण० - Macdonell, Bṛhad. Part II, p. 190; आग्निवारुण० – Scheftelowitz) त्रिष्टुबन्तं चक्षुरेकात्मस्तुतिः शंवतीः षट् शान्तिरानुष्टुभं पञ्चम्यादि बृहती जगत्यौ स्वप्नेका यस्योपानुष्टुप् (उप (प्र वद) इत्यस्या ऋषिर्वसिष्ठ इति निरु. ९.७) वालखिल्याः परे ऽष्टौ (‘वालखिल्याः परे ऽष्टौ’ इति वस्तुतस्तृतीयाध्यायं समन्वैति) ।
मूलम् - १
मा᳓ बिभेर्न᳓ मरिष्यसि प᳓रि त्वा पामि सर्व᳓तः ।
घने᳓न हन्मि वृ᳓श्चिकम᳓हिं दण्डे᳓ना᳓गतम् ॥ १ ॥
त्व᳓मग्ने द्यु᳓भिस्त्व᳓माशुशुक्षणिः० ॥ ऋ. सं. २.१.१
प्रथममण्डलान्ते पठनीयम् । ऋसं १.१९१.१० अन्ते पठनीयमिति मु ।
मॅ२-मु-आउ२-अल-जुना-ऋमं-ऋब्र (शान्तिपाठ) - पञ्चामृ - आश्वमंसं - औंध ।
टिप्पनी - १
१. मा बिभेर्न मरिष्यसि = अथर्व ५.३०.८ ।
१.२. = अथर्व १०.४.९. अहिं-का-मु-अथर्व; अहं-मॅ-आउ-अल-ऋमं-ऋब्र-पञ्चामृ ।
मॅ-आउ-अल-ऋमं-ऋब्र-पञ्चामृ-पुस्तकेषु बहवो मन्त्रा अस्मिन्त्सूक्ते ऽधिवत्वेनोपलभ्यन्ते पाठवैषम्येण । श्रमं-पाठो ऽधो दीयते-
मूलम्
आदित्यरथवेगेन विष्णोर्बाहुबलेन च ।
गरुडपक्षनिपातेन भूमिं गच्छ महायशाः ॥ २ ॥
गरुडस्य जातमात्रेण त्रयो लोकाः प्रकम्पिताः ।
प्रकम्पिता मही सर्वा सशैलवनकानना ॥ ३ ॥
गगनं नष्टचन्द्रार्कं ज्योतिषं न प्रकाशते ।
देवता भयभीताश्च मारुतो न प्लवायति मारुतो न प्लवायत्यों नमः ॥ ४ ॥
भो सर्प भद्र भद्रं ते दूरं गच्छ महायशाः ।
जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर ॥ ५ ॥
आस्तीकवचनं श्रुत्वा यः सर्पो न निवर्तते ।
शतधा भिद्यते मूर्ध्नि शिंशवृक्षफलं यथा ॥ ६ ॥
अगस्त्यो माधवश्चैव मुचुकुन्दो महामुनिः ।
कपिलो मुनिरास्तीकः पञ्चैते सुखशायिनः ॥ ७ ॥
नर्मदायै नमः प्रातर्नर्मदायै नमो निशि ।
नमो ऽस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः ॥ ८ ॥
यो जरत्कारुणा जातो जरत्कन्यां महायशाः ।
तस्य सर्पो ऽपि भद्रं ते दूरं गच्छ महायशाः ।
तस्य सर्पस्य सर्पत्वं तस्मै सर्प नमोऽस्तु ते ॥ ९ ॥
टिप्पनी
आउ-पुस्तके १- ६ मन्त्राः । मु-पुस्तके सप्तमो मन्त्रो नास्ति । अल-पञ्चामृ-पुस्तकयोः केवलं १-४ मन्त्राः ।
२. विष्णोर्बाहु०-ऋमं-ऋब्र-पञ्चामृ; विष्णुबाहु0-मॅ-मु-आउ-अल. निपातेन भूमिं; भातेन भूमीं-अल. महायशाः; महाविषः-अल ।
३-४.१ = सुप २.१.२.
३.१. जातमात्रेण-मॅ-मु-आउ-ऋमं-ऋब्र-पञ्चामृ; जातमात्रस्य-अल-सुप; पातमात्रेण - औंध ।
४.१. ज्योतिषं न प्रकाशते; न ज्योतींषि चकासति-सुप ।
४.२. अल-सुप-पाठौ भिन्नौ । अल-देवता भयवित्रस्ता मारुतो नष्टचेतनाः; सुप-देवता भय वित्रस्ता नष्टशेषश्च मारुतः, भयभीताश्च; भयवित्रस्ता-आउ ।
५. भो-का; भोः-इतरेषु. महायशाः; महाविष-आउ-औंध, जनमेजयस्य-ऋमं-मॅ-मु; जन्मेजयस्य-आउ-ऋब्र-पञ्चामृ ।
५-६ = मभा १.५३.२२ (टिप्पणी) ।
७. = मॅ
९. अगस्त्यो माधवः-ऋब्र; अगस्त्यं माधवं-ऋमं-पञ्चामृ; अगस्तिर्माधवः-मॅ. मुचुकुन्दो; मुचकुंदं-पञ्चामृ.
७.२. = तं : श्वफल्कमास्तिकं चैव पंचैतानि स्मरेन्निशि पंचैतानि स्मरेन्निश्यों नमः ।
८. = मॅ १० ।
९. = मॅ ७. जरत्कन्यां; जरत्कार्वां-औंध. सर्पो ऽपि-ऋमं-ऋब्र; सर्पाप-मॅ; सर्पापि-मु; स्मरामि-औंध. दूरं; भूमिं-मॅ. महायशाः; महाविष-औध ।
९.३. (केवलं ऋमं-मध्य एव वर्तते) = खिल २. १४. ८.२.
अधोलिखितः मॅ ८ मन्त्रः ऋमं-पुस्तके नास्ति -
मूलम्
असितिं चार्थसिद्धिं च सुनीतिं चापि यः स्मरेत् ।
दिवा वा यदि वा रात्रौ नास्ति सर्पभयं हरेत् ॥
अधोलिखितं खिलसूक्तं ऋसं २.३२ अनन्तरं पठनीयमिति औंधपुस्तके –
कुहूमहं सुवृतं विद्मनापसमस्मिन्यज्ञे सुहवां जोहवीमि ।
सा नो ददातु श्रवणं पितॄणां तस्यै ते देवि हविषा विधेम ॥ १ ॥
कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषः शृणोतु ।
सं दाशुषे किरतु भूरि वामं रायस्पोषं यजमाने दधातु ॥ २ ॥
अनु नो ऽद्यानुमतिर्यज्ञं देवेषु मन्यताम् ।
अग्निश्च हव्यवाहनो भवतं दाशुषे मयः ॥ ३ ॥
अन्विदनुमते त्वं मन्यासै शं च नस्कृधि ।
ऋग्वे दक्षाय नो हिनु प्र ण आयूंषि तारिषत् ॥ ४ ॥
धाता दधातु नो रयिमीशानो जगतस्पतिः ।
स नः पूर्णेन वावनत् ॥ ५ ॥
धाता ददातु दाशुषे वसूनि प्रजाकामाय मीळ्हुषे दुरोणे ।
तस्मै देवा अमृताः सं व्ययन्तां विश्वे देवासो अदितिः सजोषाः ॥ ६ ॥
धाता ददातु दाशुषे प्राचीं जीवातुमक्षिताम् ।
वयं देवस्य धीमहि सुमतिं वाजिनीवतः ॥ ७ ॥
धाता प्रजानामुत राय ईशे धातेदं विश्वं भुवनं जजान ।
धाता कृष्टीरनिमिवाभि चष्टे धात्र इद्धव्यं घृतवज्जुहोत ॥ ८ ॥
टिप्पनी
एतस्मिन् विषये बृहद्देवतावचनम् (४.८७.८८)- ‘तत्पूर्वे द्वे ऋचौ कुह्वाः कुहूमहमिति स्मृते । तदुत्तरे द्वे ऽनुमतेरनु नो ऽन्विदिति स्मृते । धातुश्चतस्रस्तत्रादौ धाता ददातु नो रयिम् ॥’ एतेनैव क्रमेण तैत्तिरीयसंहितायां (३.३.११) कुहूमहमित्यादिसूक्तगताः सर्वे मन्त्रा उपलभ्यन्ते । प्रथमं .५-८ इति धातृदेवताकाश्चत्वारो मन्त्राः ५, ८, ७, ६ इति क्रमेण वर्तन्ते । अनन्तरं ३, ४ इति अनुमतिदेवताकौ मन्त्रौ तदनन्तरं ऋसं. २.३२.४-५ एतौ राकाया मन्त्रौ वर्तेते । समनन्तरमेव १, २ इति कुहूदेवताकौ मन्त्रौ समागतौ (तैसं ३.३.११.५) । किंत्वयं सार्धश्लोकात्मकों ऽशो बृहद्देवतायाः सर्वेषु लिखितपुस्तकेषु नास्ति । अतः तस्य मूलपाठत्वं शङ्कास्पदम् (Cf. Scheftelowitz, p. 25. A. B. Keith considers the Bṛhaddevatâ verses as original, Comp. JRAS 1907, p. 229.) । काश्मीरखिलग्रन्थ इदं सूक्तं नास्ति । औंधपुस्तकस्थो मन्त्राणां क्रमः तैसं-क्रमाद्भिन्न एव । इर्द सूक्तं ऋसं २.३२ अनन्तरं
मूलम् - २
भद्रं᳓ वद दक्षिणतो᳓ भद्र᳓मुत्तरतो᳓ वद ।
भद्रं᳓ पुर᳓स्तान्नो वद भद्रं᳓ पश्चा᳓त् कपिञ्जल ॥ १ ॥
भद्रं᳓ वद पुत्रै᳓र्भद्रं᳓ वद गृहे᳓षु च ।
भद्र᳓मस्मा᳓कं वद भद्रं᳓ नो अ᳓भयं वद ॥ २ ॥
भद्र᳓मध᳓स्तान्नो वद भद्र᳓मुप᳓रिष्टान्नो वद ।
भद्रं᳓भद्रं᳓ न आ᳓ वद भद्रं᳓ नः सर्वतो᳓ वद ॥ ३ ॥
असपत्नं᳓ पुर᳓स्तान्नः शिवं᳓ दक्षिणत᳓स्कृधि ।
अ᳓भयं स᳓ततं पश्चा᳓द्भद्र᳓मुत्तरतो᳓ गृहे᳓ ॥ ४ ॥
यौव᳓नानि मह᳓यसि जिग्यु᳓षामिव दुन्दुभिः᳓ ।
श᳓कुन्तक प्रदक्षिणं᳓ शत᳓पत्राभि᳓ नो वद ॥ ५ ॥
आवदंस्त्वं शकुने भद्रमा वद० ॥ ऋ. सं. २.४३.३
ऋसं २. ४३. २ अनन्तरं पठनीयम् ।
टिप्पनी - २
मॅ-मु-औध-मते द्वितीयमण्डलान्ते पठनीयम् । मॅ-औध-पुस्तकयोः खिलान्ते ‘आवदंस्त्वम्’ (ऋसं २.४३.३) इति मन्त्रः संपूर्णः पठितः । आश्वमंसं.१ - पुस्तके द्वितीयमण्डलान्ते ‘भद्रं वद दक्षिणतः’ इति मन्त्रं पठित्वानन्तरं ‘अथ परशिष्टम्’ (पदशिष्टं अथवा परिशिष्टं ?) इत्युक्तम् । एतद्ग्रन्थकर्तृमते प्रथमो मन्त्रः ऋसं. २. ४३ मध्ये समाविष्टः खिलसूक्तं च द्वितीयमन्त्रादारब्धम् । आश्वमंसं.२-मध्ये ऽस्य सूक्तस्य चत्वारो मन्त्राः- १, ३.२ + ४.१, ४.२ + ५.१, ५.२, ऋसं. २.४३.३.
मॅ३-मु-आउ३-ऋमं-ऋब्र-औध-आश्वमंसं-अल-जुना ।
१. = निरु ९.५. कपिञ्जल; कपिंजर-ऋब्र. १.२.५. → कौसू ४६.५४. ।
२.२. अस्माकं; अस्माकं नो-मु-ऋब्र. अभयं वद; अभयं कृधि-ऋब्र ।
३.२. आ वद; आ भर-ऋब्र ।
४.१. असपत्नं; असपत्नः- मु ।
मूलम् - ३
जा᳓गर्षि त्वं᳓ भु᳓वने जातवेदो जा᳓गर्षि य᳓त्र य᳓जते हवि᳓ष्मान् ।
इदं᳓ हविः᳓ श्रद्द᳓धानो जुहोमि ते᳓न पासि गु᳓ह्यं ना᳓म गो᳓नाम् ॥ १ ॥
विदा दिवो विष्यन्नद्रिमुक्थैः० ॥ ऋ. सं. ५.४५.१
ऋसं ५.४४ अनन्तरं पठनीयम् ।
टिप्पनी - ३
मॅ४-आउ४-मु-ऋमं-आश्वमंसं-अल-जुना ।
१.२. तेन पासि गुह्यं नाम गोनाम् = ऋसं ५.३.३.
मॅ५-मु-अल-औध-अनुसारेण ऋसं ५. ४९ अनन्तरमधो लिखितं खिलं पठनीयम् -
मूलम्
सूक्तान्ते तृणान्यग्नावरण्ये वोदके ऽपि वा ।
यत्स्तृणैरध्ययनं तदधीतं स्तृणानि भव ते भव ॥ १ ॥
वापीकूपतडागानां समुद्रं गच्छ स्वाहाग्निं गच्छ स्वाहा ॥ २ ॥
टिप्पनी
पठनीयमिति यदुक्तं तदपि तैसं-पाठेन सम्यक्तया न समवैति । औन्धपुस्तक इदं सूक्तं केवलमभ्यूहमात्रेणैव स्वीकृतमिति तत्पुस्तकसंपादकैरावेदितम् । आवश्रौ १.१०; ४.१२; ६.१४ द्रष्टव्यम् ।
१-२. = अथर्व ७.४७.१,२.
३-४ = अथर्व ७.२०.१,२; → खिल ३.१५.३.५.
६, ७. = अथर्व ७. १७. १, ३, २; → खिल ३.१५.२.
१. सुवृतं; सुभगां-तैसं. पितॄणां; पितॄणां-तैसं तस्यै ते; तस्यास्ते-तैसं ।
२. द्वावेषः- शृणोतु; हविषश्चिकेतु-तेसं. यजमाने; चिकितुषे-तैसं ।
३. भवतं; भवतां-तैसं ।
४. नस्कृधि; नः कृधि-तैसं. तारिषत्; तारिषः- तैसं ।
५. दधातु; ददातु-तैसं ।
७. दाशुषे; नो रयिं-तैसं. वाजिनीवतः; सत्यराधसः ।
८. प्रजानामुत; प्रजाया उत-तैसं. तैसं-मध्ये उत्तरार्धः सर्वथा भिन्नो वर्तते-धाता पुत्रं यजमानाय दाता तस्मा उ हव्यं घृतवद्विधेम ।
अनुभा ५.४९; ऋग्वि २.२२.३ द्रव्यम् ।
१.१. सूक्तान्ते तृणावग्नावरण्ये वोदके पिंग-अल; सूक्तान्ते ऽस्येतृणान्यग्नाविरिणे वोदके ऽपि वा-औंध.
१.२. यस्तृणै०-अल; यदस्तृणैरधीतं तत्तृणानि भवति ध्रुवं-औध ।
२. ‘अग्निं गच्छ स्वाहा’ मु-पुस्तके नास्ति ।
मूलम् - ४
स्वस्त्य᳓यनं ता᳓र्क्ष्यम᳓रिष्टनेमिं मह᳓द्भूतं वायसं᳓ देव᳓तानाम् ।
असुरघ्न᳓मि᳓न्द्रसखं सम᳓त्सु बृह᳓द्य᳓शो ना᳓वमिवा᳓ रुहेम ॥ १ ॥
अंहोमु᳓चमाङ्गिरसं᳓ ग᳓यं च स्वस्त्या᳓त्रेयं᳓ म᳓नसा च ता᳓र्क्ष्यम् ।
प्र᳓यतपाणिः शरणं᳓ प्र᳓ पद्ये स्वस्ति᳓ संबोधे᳓ष्व᳓भयं नो अस्तु ॥ २ ॥
प्र᳓ श्यावाश्व धृष्णुया᳓० ॥ ऋ. सं. ५.५२.१
ऋसं ५.५१ अनन्तरं पठनीयम् ।
टिप्पनी - ४
आश्वगृ ३.११.२ भाष्यमपि द्रष्टव्यम् ।
मॅ६-मु-आउ५-ऋमं-ऋब्र (शान्तिपाठ)-औंध-आश्वमंसं-अल-जुना-सुप १०.५-६ ।
१. स्वस्त्ययनं तार्क्ष्यमरिष्टनमिं; स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः-नृताउ १.१; प्रर (पुण्याह). महद्भूतं; महाद्भुतं-आउ. नावमिवा रुहेम = ऋसं १०.१७८.२ । २.२. नो अस्तु; च नो अस्तु-आउ.
मूलम् - ५
व᳓र्षन्तु ते विभावरि दिवो᳓ अभ्र᳓स्य विद्यु᳓तः ।
रो᳓हन्तु स᳓र्वबीजान्य᳓व ब्रह्मद्वि᳓षो जहि ॥ १ ॥
प्र᳓ सम्रा᳓जे बृह᳓दर्चा गभीर᳓म्० ॥ ऋ. सं. ५.८५.१
ऋसं ५.८४ अनन्तरं पठनीयम् ।
टिप्पनी - ५
मॅ७–आउ६-मु-आश्वमंसं-औध-अल-जुना । पञ्चामृ-पुस्तके ऽयं मन्त्रः श्रीसूक्तस्य चतुर्विंशतितममन्त्रत्वेनागतः ।
१. = ऋसं ५.८४.३ : यत्ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टयः ।
मूलम् - ६
हि᳓रण्यवर्णां᳓ ह᳓रिणीं सुव᳓र्णरजत᳓स्रजाम् ।
चन्द्रां᳓ हिर᳓ण्मयीं लक्ष्मीं᳓ जा᳓तवेदो म᳓मा᳓ वह ॥ १ ॥
तां᳓ म आ᳓ वह जातवेदो लक्ष्मी᳓म᳓नपगामि᳓नीम् ।
य᳓स्यां हिर᳓ण्यं विन्दे᳓यं गा᳓म᳓श्वं पु᳓रुषानहम् ॥ २ ॥
अश्वपूर्वां᳓ रथमध्यां᳓ हस्ति᳓नादप्रमोदि᳓नीम् ।
श्रि᳓यं देवि᳓मु᳓पह्वये श्री᳓र्मा देवी᳓ जुषताम् ॥ ३ ॥
कांस्य᳓स्मि तां᳓ हि᳓रण्यप्रावारामार्द्रां᳓ ज्व᳓लन्तीं तृप्तां᳓ तर्प᳓यन्तीम् ।
पद्मेस्तिथां᳓ पद्म᳓वर्णां ता᳓मिहो᳓प ह्वये श्रि᳓यम् ॥ ४ ॥
चन्द्रां᳓ प्रभासां᳓ यश᳓सा ज्व᳓लन्तीं श्रि᳓यं लोके᳓ देव᳓जुष्टामुदारा᳓म् ।
तां᳓ पद्म᳓नेमिं श᳓रणं प्र᳓ पद्ये अलक्ष्मी᳓र्मे नश्यतां त्वां᳓ वृणोमि ॥ ५ ॥
आदित्य᳓वर्णे त᳓पसो᳓ ऽधि जातो᳓ व᳓नस्प᳓तिस्त᳓व वृक्षो᳓ ऽथ᳓ बिल्वः᳓ ।
त᳓स्य फ᳓लानि त᳓पसा᳓ नुदन्तु माया᳓न्तरा या᳓श्च बाह्या᳓ अलक्ष्मीः᳓ ॥ ६ ॥
उ᳓पैतु मां देवसखः᳓ कीर्ति᳓श्च म᳓णिना सह᳓ ।
प्रादु᳓र्भूतो᳓ ऽस्मि रा᳓ष्ट्रे ऽस्मि᳓न् कीर्तिं᳓ वृद्धिं᳓ ददातु मे ॥ ७ ॥
क्षु᳓त्पिपासा᳓मला ज्येष्ठा᳓मलक्ष्मीं᳓ नाशयाम्य᳓हम् ।
अ᳓भूतिम᳓समृद्धिं च स᳓र्वां नि᳓र्णुद मे गृ᳓हात् ॥ ८ ॥
ग᳓न्धद्वारां᳓ दुरा᳓धर्षां नित्य᳓पुष्टां करीषि᳓णीम् ।
ई᳓श्वरीं स᳓र्वभूतानां ता᳓मिहो᳓प ह्वये श्रि᳓यम् ॥ ९ ॥
म᳓नसः का᳓ममा᳓कूतिं वाचः᳓ सत्य᳓मशीमहि ।
पशू᳓नां रूप᳓म᳓न्नस्य म᳓यि श्रीः᳓ श्रयतां य᳓शः ॥ १० ॥
कर्दमेन᳓ प्रजा भूता᳓ म᳓यि सं᳓ भव क᳓र्दम ।
श्रि᳓यं वास᳓य मे कुले᳓ मात᳓रं पद्ममालि᳓नीम् ॥ ११ ॥
आ᳓प स्रवन्तु स्नि᳓ग्धानि चि᳓क्लीत व᳓स मे गृहे᳓ ।
नि᳓ च देवीं᳓ मात᳓रं श्रियं वास᳓य मे कुले᳓ ॥ १२ ॥
पक्वां᳓ पुष्क᳓रिणीं पुष्टां᳓ पिङ्ग᳓लां पद्ममालि᳓नीम् ।
सूर्यां᳓ हिर᳓ण्मयीं लक्ष्मीं᳓ जा᳓तवेदो म᳓मा᳓ वह ॥ १३ ॥
आर्द्रां᳓ पुष्क᳓रिणीं यष्टीं᳓ सुव᳓र्णां हेममालि᳓नीम् ।
चन्द्रां᳓ हिर᳓ण्मयीं लक्ष्मीं᳓ जा᳓तवेदो म᳓मा᳓ वह ॥ १४ ॥
तां᳓ म आ᳓ वह जातवेदो लक्ष्मी᳓म᳓नपगामि᳓नीम् ।
य᳓स्यां हि᳓रण्यं प्र᳓भूतं गा᳓वो दास्यो᳓ विन्दे᳓यं पु᳓रुषानह᳓म् ॥ १५ ॥
य᳓ आनन्दं᳓ समा᳓विशदुपा᳓धावन् विभा᳓वसुम् ।
श्रि᳓यः स᳓र्वा उपा᳓सिष्व चि᳓क्लीत वस मे गृहे᳓ ॥ १६ ॥
कर्दमेन᳓ प्रजा स्रष्टा᳓ संभू᳓तिं गमयामसि ।
अ᳓दधादु᳓पागाद्ये᳓षां का᳓मान् ससृज्म᳓हे ॥ १७ ॥
जा᳓तवेदः पुनीहि᳓ मा राय᳓स्पो᳓षं च धारय ।
अग्नि᳓र्मा त᳓स्मादे᳓नसो विश्वा᳓न्मुञ्चत्वं᳓हसः ॥ १८ ॥
अ᳓च्छा नो मित्रमहो देव देवा᳓न᳓ग्ने वो᳓चः सुमतिं रो᳓दस्योः ।
वीहि᳓ स्वस्तिं᳓ सुक्षितिं᳓ दिवो᳓ नॄ᳓न् द्विषो᳓ अं᳓हांसि दुरिता᳓ तरेम ता᳓ तरेम त᳓वा᳓वसा तरेम ॥ १९ ॥
टीका
हे जातवेदः । जातानि वेद जातप्रज्ञो वा । जाते जाते विद्यत इति वा । हे अग्ने त्वं हिरण्यवर्णां हिरण्यस्य सुवर्णस्य वर्णः कान्तिस्तद्वद्वर्णां यस्यास्ताम् । हरिणीं हरितवर्णाम् । हरिणीरूपधरां वा । श्रीर्धृत्वा हरिणीरूपमरण्ये संचचार हेति देवीपुराणाच्च । सुवर्णरजतस्रजाम् । सुवर्णस्य पुष्पाणि सुवर्णानि एवं रजतस्य रजतानि तेषां स्रक् माला यस्यास्ताम् । स्रक्साहचर्यात् पुष्पाणीत्यवगम्यते । पुष्पसादृश्यात् पुष्पे फले लुक् । आपं चैव हलन्तानामित्याप् । यद्वा सुवर्णरजतविकृतशृङ्खलाम् । सुष्ठु वर्णो यस्य तत्सुवर्णं यद्रजतं तत्पुष्पस्रजाम् । तद्विकृतशृङ्खलां वा । चन्द्रां चन्द्रवत्प्रकाशमानाम् । तद्रूपेणावस्थितां वा । हिरण्मयीं हिरण्यस्वरूपाम् । हिरण्यविग्रहां वा । लक्ष्मीं लक्षणवतीम् । ‘लक्ष्मीर्लाभाद्वा लक्षणाद्वा’ ( निरु. ४. १०) इत्यादिनिरुक्तात् । एवंरूपां श्रियं मे मह्यं मदर्थमा वह । आह्वय । अग्नेर्देवहोतृत्वादाह्वानं तदधीनमिति भावः । ‘अग्निर्वै देवानां होता’ (ऐ. ब्रा. २. ७) इति श्रुतेः ॥ १ ॥
हे जातवेदः अग्ने त्वमनपगामिनीमपगमनरहिताम् । अनपायिनीमित्यर्थः । तां वक्ष्यमाणलक्षणां लक्ष्मीं मे मह्यमा वह । आह्वय । यस्यां श्रीदेव्यामावाहितायां सत्यां हिरण्यं सुवर्णं गां धेनुमश्वं वाजिनं पुरुषान् पुत्रपौत्रमित्रदासभूतानहं विन्देयं प्राप्नुयाम् ॥ २ ॥
अश्वपूर्वाम् अश्वाः पूर्वे पुरोगा यस्यास्ताम् । अथवाश्वपूर्णामश्वैः पूर्णाम् । परिपूर्णामिति केचित् । रथमध्यां रथा मध्ये यस्यास्ताम् । हस्तिनादप्रबोधिनीम् । हस्तिनां गजानां नादेन बृंहितेन गजपुष्करतूर्यनादेन वा प्रबोधिनीं प्रकर्षेण ज्ञापयित्रीम् । देवीं देवनशीलाम् । द्योतनशीलां वा । श्रियं श्रयणीयाम् | सेनारूपां वा । उप ह्वये समीपं प्रत्याह्वये । एतादृशी देवी श्रीर्मा मां जुषतां सेवताम् ॥ ३ ॥
कां वाङ्मनसयोरगोचरां दुर्निरूपस्वरूपामित्यर्थः । ब्रह्मरूपां वा । को ह वै नाम प्रजापतिरिति श्रुत्यन्तरात् । क इति ब्रह्मणो नामेति पुराणाच्च । सोस्मिताम् । आ ईषदुद्गतं स्मितं हास्यं तद्युक्ताम् । उपान्त्यलोपश्छान्दसः । हिरण्यप्राकारां हिरण्यस्य सुवर्णस्य प्राकार आवरणं यस्यास्ताम् । हिरण्यप्रकृष्ट आकार आकृतिर्यस्यास्तामिति वा । आर्द्रां क्लिन्नां क्षीरोदधेरुत्पन्नत्वात् । रुद्ररूपां वा । रुद्रशब्दो ऽत्रामूर्धन्यस्वरादिः । आर्द्रया रुद्र इत्यादौ तथा दर्शनात् । अन्यद्बाहुलकम् । ज्वलन्ती प्रकाशमानाम् । तृप्तां प्रीतामपि च तर्पयन्ती भक्तान् मनोरथैरिति शेषः । पद्मेस्थितां कमले निषण्णामासीनाम् । पद्मवर्णां कमलवर्णाम् । तामिति प्रसिद्धां श्रियमिहोप ह्वये समीपं प्रत्याह्वये ॥ ४ ॥
अत्र प्र पद्य इत्यस्यानन्तरमहंशब्दप्रक्षेपः प्रामादिकः । चन्द्रां चन्द्रवत् प्रकाशमानां प्रभासाम् । प्रकृष्टा भाः कान्तिर्यस्यास्ताम् । आपं चैवेत्याप् । यशसा कीर्त्या ज्वलन्तीं प्रकाशमानाम् । लोके स्वर्लोके देवजुष्टां देवैरिन्द्राद्यैर्जुष्टां सेविताम् । प्रीतां वा । उदारां वदान्यां प्रगल्भां वा । पद्मिनीं पद्मलतारूपाम् । पद्माकारां वा । ईमिति निपातो ऽनर्थकः । ‘मिताक्षरेष्वनर्थकाः कमीमिदु’ (निरु. १.९) इति यास्कवचनात् । ईकारवाच्यां वा । तां श्रियं लोक इह लोके शरणं रक्षित्रीं प्र पद्ये प्रपन्नो ऽस्मि । अहमिति शेषः । अतो हे श्रीः मे ममालक्ष्मीरश्रीर्नश्यतां नाशं प्राप्नोतु । एतादृशीं त्वां वृणोमि । शरणत्वेन स्वीकुर्वे ॥ ५ ॥
वृक्षो ऽत्यन्तःपादमपि पूर्वरूपं बाहुलकात् । आदित्यवर्णे । आदित्यस्य सूर्यस्य वर्ण इव वर्णो यस्यास्तस्याः संबोधनम् । हे श्रीः तव तपसः नियमाद्धेतोर्वनस्पतिः । ‘अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः’ (मनु. १.४७) इति मानवस्मरणात् । बिल्वः विल्वनामको वृक्षो द्रुमो ऽधिजातः प्रादुर्भूतः । त्वत्करादिति शेषः । ‘कात्यायन्याः शमी जाता बिल्वो लक्ष्म्याः करे ऽभवत्’ इति वामनपुराणात् । अथानन्तरं तस्य बिल्वस्य फलानि पक्वशलाटुकानि तपसा त्वत्तपसा । त्वदनुग्रहेणेत्यर्थः । अन्तरा अन्तरिन्द्रियसंबन्धिनी माया अज्ञानं तत्कार्याणि च बाह्या बहिरिन्द्रियसंबन्धिन्यो यास्ता अलक्ष्मीरश्रियो नुदन्तु अपनुदन्तु । निवारयन्त्वित्यर्थः ॥ ६ ॥
हे श्रीः देवसखः देवो महादेवस्तस्य सखा कुबेरः । कीर्तिः कीर्त्यभिमानिनी दक्षकन्या देवता । कुबेरकोशशाली वा । सा च मणिना चिन्तामणिना मणिभद्रेण कोशाध्यक्षेण वा सह सार्धमुपैतु उपगच्छतु । अहमस्मिन् राष्ट्रे जनपदे प्रादुर्भूतो ऽस्मि । उत्पन्नो ऽस्मि । स आगत्य कीर्तिं यशः कोशं वा ऋद्धिं सर्ववस्तुसमृद्धिं मे मह्यं ददातु यच्छतु ॥ ७ ॥
क्षुत्पिपासामलामशनतृष्णामलिनात्मिकां ज्येष्ठां वृद्धाम् । श्रियः प्रागुत्पन्नामित्यर्थः । अलक्ष्मीमश्रियमहं नाशयामि नाशं प्रापयामि । हे श्रीः त्वमभूतिमसंपत्तिं तथा सर्वामसमृद्धिं च अनभिवृद्धिमपि मे मम गृहात् निर्णुद निवारय ॥ ८ ॥
गंधद्वाराम् । गंधो घ्राणग्राह्यो गुणो द्वारं लक्षणं यस्यास्ताम् । दुराधर्षां केनापि धर्षयितुमशक्यां नित्यपुष्टां नित्यं सदा सस्यादिभिः पुत्रां समृद्धां करीषिणीं करीषः शुष्कगोमयादिस्तद्वतीम् । गवाश्वादिबहुपशुसमृद्धामिति यावत् । सर्वभूतानां सर्वप्राणिनामीश्वरीमधिष्ठात्रीम् । आधारभूतां वा । तां भूरूपां श्रियमिह लोक उप ह्वये उपाह्वये समीपं प्रत्याह्वये ॥ ९ ॥
हे श्रीः मनसः कामं मनोरथम् । आकूतिं संकल्पं च । वाचः वागिन्द्रियस्य सत्यं याथार्थ्यम् । पशूनां गवादीनां रूपं क्षीरादि । अन्नस्य अदनीयस्य यवव्रीह्यादे रूपं भक्ष्यादिचतुर्विधं चाशीमहि लभेमहि । श्रीः संपत् यशः कीर्तिश्च मयि श्रयताम् । आश्रयताम् ॥ १० ॥
कर्दमेन कर्दमाख्येन पुत्रेण प्रजा प्रकृष्टं जा अपत्यं यस्याः सा । सुपुत्रेत्यर्थः । ‘जामपत्यम्’ (निरु. ३.६) इति यास्कवचनात् । भूता अभवत् । अतः हे कर्दम श्रीपुत्र त्वं मयि मदीयगृहे सं भव संवस । पद्ममालिनीं कमलमालाधारिणीं मातरं तव जननीं श्रियं मे मम कुले वंशे वासय निवासय ॥ ११ ॥
आपः अबभिमानिन्यो देवताः । स्निग्धानि स्नेहयुक्तानि कार्याणि सृजन्तु उत्पादयन्तु । अपां स्नेहगुणवत्त्वादिति भावः । हे चिक्लीत चिक्लीताख्य श्रीपुत्र मे मम गृहे गेहे वस निवस । च अपि च देवीं मातरं श्रियं मे मम कुले वंशे नि वासय संवासय ॥ १२ ॥
आर्द्रामार्द्राङ्गां पुष्करिणीमभिषेकोद्युक्तदिग्गजशुण्डाग्राम् । पुष्करशब्दो गजशुण्डाग्रवाचकः । पद्ममालिनीं पद्मवतीम् । पद्मलतारूपां वा । पुष्टिं पुष्ट्यभिमानिनीं पुष्टिरूपां वा । ‘पुष्टिरूपेण संस्थिता’ इति मार्कण्डेयवचनात् । पिङ्गलां पिङ्गलवर्णाम् । पद्ममालिनीमित्यादि सिद्धमन्यत् ॥ १३ ॥
आर्द्रामार्द्राङ्गाम् । यःकरिणीं यष्टिकरां वेत्रहस्तामित्यर्थः । टिलोपश्छान्दसः । दण्डकारिणीं वा । दण्डकरां वा । यष्टिं दण्डरूपाम् । सुवर्णां शोभनवर्णां हेममालिनीं हेमविकृतमणिशृङ्खलादिमालावतीं सूर्यां सूर्यवत् प्रकाशमानाम् । तद्रूपां वा । सिद्धमन्यत् ॥ १४ ॥
इयं द्वितीयया व्याख्याता । प्रभूतं भूयिष्ठम् । गावः गाः । दास्यः परिचारिकाः । उभयत्र शसर्थे जस् । इयान् विशेषः ॥ १५ ॥ इति श्रीसूक्तमाध्यं समाप्तम् ॥
एतत् श्रीसूक्तं तदनुसारीणि पञ्च सूक्तानि च पञ्चममण्डलान्ते पठनीयानीति का-पुस्तकादवगम्यते । बृहद्दे ५.९१ अपि द्रष्टव्यम् (Cf. Bṛhaddevatâ, part II, p. 189.) । आश्वमंसं-अनुसारेणेदं ऋसं ६.१.१ अन्ते पठनीयम् । बहुभिर्भाष्यैर्युतमिदं बहुत्र मुद्रितं प्रायः पञ्चदशर्चम् । एतासां पञ्चदशानामृत्रां प्राचीनत्वं ऋग्वि २.९३ (= मॅ-पुस्तके श्रीसूक्ते षोडशो मन्त्रः) इत्यनेन ज्ञायते । शान्तिमयूख-शान्तिकमलाकर-प्रयोगरत्नाह्निकचन्द्रिका-संस्कारकौस्तुभ-ब्रह्मकर्मसमुच्चयादय इतरे ऽपि ग्रन्था अस्य सूक्तस्य पञ्चदशर्चत्वं दर्शयन्ति ।
आह्निकसूत्रावल्यां पञ्चदश मन्त्राः षोडशश्च ऋग्वि २.१८ । मॅ-पुस्तके यद्यपि श्रीसूक्ते २९ मन्त्रास्तथापि भाष्यं १५ मन्त्राणामेव । ऋमं-पुस्तके २८ मन्त्राः, ऋब्र-आचं-मु-पुस्तकेषु २७ मन्त्राः, क्रिप्रसं-आउ-जुना-पुस्तकेषु २३ एव । पञ्चामृ-पुस्तके ३० मन्त्राः येषु १-२२ = मॅ१-२२; २४ = खिल २.५; २५ = ऋमं २७; शिष्टाः ६ विभिन्ना अबद्धाश्च । का-पुस्तके आदितः १५ मन्त्रा इतरपुस्तकस्थमन्त्रैः समानाः, शिष्टाश्चत्वारो विभिन्ना अज्ञातचराश्च (With regard to the antiquity of the Kashmir recension, Scheftelowitz says that since according to the Khila-anukramaṇî the last six verses (14-19) deal with sons of Śri as is referred to by Bṛhaddevatā V.19, it is clear that this recension preceded the Bṛhaddevatā (Apokryphen des Ṛgveda p. 75). The verse in the Bṛhaddevatā runs thus:
श्रीसूक्तमाशीर्वादस्तु श्रीपुत्राणां पराणि षट् ।
तत्स्याद्वालक्ष्म्यपनुदमग्निस्तत्र निपातभाक् ॥
The second pâda of this verse Scheftelowitz translates thus: “die sechs letzten Verse sind den Sohnen der Śrî geweiht”. This translation does not seem to be correct. Macdonell (Bṛhaddevatā, part II, pp. 188-9) translates the same quite differently: “The following six are connected with fortune and sons”. To this Macdonell adds the following note: “This must refer to the six Khilas which follow the Śrisūkta in Kashmir MS, of the Khilas ……”. This interpretation is confirmed by the next verse (92) which advises a special application of three of these six hymns, सं स्रवन्तु being charms for the prosperity of cattle (Śrî), आ ते गर्भो and अग्निरेतु for the attainment of sons (Putra) (प्रजावज्जीवपुत्रौ वा गर्भकर्मणि संस्तुतौ । नानारूपाः पयस्विन्यः संस्रवन्तीति संस्तुताः). पराणि षट् means “the following six” (hymns), not “the last six” (verses). परे षट् in the खिलानुक्रमणी means the same. Compare वालखिल्याः परे ऽष्टौ (Fnd of 2nd Adhyāya, खिलानुक्रमणी). The last six verses of Śrisūkta in the Kashmir recension have no special connection with the sons of Śrî. This passage in the Bṛhaddevatā, therefore, cannot serve the purpose of establishing the priority of the Kashmir recension to the Bṛhaddevatā.) । अल-पुस्तक एतत्सूक्तं नास्ति ।
मनु ३.२३२ भाष्ये, अग्निपुराणे (४१. ८), हेमाद्रौ (१.७३१.१५), प्रयोगरत्ने, संस्कारकौस्तुभे (मूलशान्तिः) चेदं सूक्तं निर्दिष्टम् । ३, ५, ६, ७, १०, ११ मन्त्राणां प्रतीकानि ऋग्वि २.१८-१९ मध्ये निर्दिष्टानि । ३ = मागृ २.१३.६; ७.२ = मागृ २.१३.६; ८ = तैआ १०.६६; ९ = तैआ १०.१; मागृ २.१३.६; मनाउ ४.८; मामंसं; अन्त्ये; शांम; प्रर; १० = वासं ३९.४; तैब्रा २.४.६.६; १८.२ = तैसं ३.१.४.३; मंब्रा २.२.११; शांश्रौ ४. १७.१२; → आश्वश्रौ २. ७; १९ = ऋसं ६.२.११; १४.६.
टिप्पनी - ६
१. स्रजां; स्रजं-आउ. ममा-ऋमं-आउ-जुना-प्रर-पञ्चामृ-आसू; म आ-मॅ- मु-आचं-ऋब्र-क्रिप्रसं ।
२. लक्ष्मीमनप०; ०लक्ष्मीमलप०-आसू-प्रर-जुना. गामश्वं; गामश्वान्-आउ ।
३. अश्वपूर्वां-मॅ-मु-आचं-क्रिप्रसं; अश्वपूर्णां-ऋग्वि-आउ-जुना-पर-ऋमं-आसू-मागृ. प्रमोदिनीं-आउ-जुना-मागृ-आसू-पञ्चामृ-प्रर; प्रबोधिनी-ऋमं-मॅ-ऋब्र-आचं-मु-क्रिप्रसं. देवी; देवीः-प्रर-आचं-पञ्चामृ ।
४. कांस्यस्मि तां-का; कांसोस्मितां-मॅ-मु-ऋमं-आचं-पञ्चामृ-आसू-ऋब्र-क्रिप्रसं-आउ-जुना-प्रर. ०प्रावारां-का; ०प्राकारां-मॅ-मु-आउ-जुना ।
५. पद्मनेमिं-आउ-जुना-प्रर; पद्मनेमीं-ऋमं-आसू; पद्मिनीमीं-मॅ-मु-ऋब्र-क्रिप्रसं-आचं-पञ्चामृ. प्र-मॅ-मु-आउ-आचं-क्रिप्रसं; अहं प्र-ऋमं-ऋब्र-आसू-पञ्चामृ-प्रर. अलक्ष्मी०-ऋमं-मु-आउ-जुना-आसू-पञ्चामृ; ऽलक्ष्मी-ऋब्र-आचं-प्रर-मॅ. वृणोमि-ऋमं-मॅ-मु-आउ-जुना-आसू-क्रिप्रसं; वृणे-ऋब्र-मु-पञ्चामृ-आचं ।
६ तस्य; यस्य-आसू. मायान्तरा-ऋमं-ऋब्र-आसू-आचं-पञ्चामृ-क्रिप्रसं-जुना-प्रर; या अन्तरा-मॅ-आउ; ममान्तरा-मु ।
७. स्मि राष्ट्रे-मॅ-आउ-जुना-आचं-पञ्चामृ; सुराष्ट्रे-ऋमं-ऋब्र-मु-क्रिप्रसं-प्रर-आसू. कीर्तिं वृद्धिं ददातु-आउ-जुना-प्रर-आसू-क्रिप्रसं; कीर्तिमृद्धिं ददातु-मॅ-मु-ऋमं- ऋब्र-आचं; श्रीः श्रद्धां दधातु-मागृ ।
८. ०मला ज्येष्ठामलक्ष्मीं-का-मु; ०मलां ज्येष्ठामलक्ष्मीं-मॅ-ऋब्र-आचं ०मलां ज्येष्ठामलक्ष्मीर्-क्रिप्रसं; ०मला ज्येष्ठा अलक्ष्मीर्-ऋमं-आउ-जुना-प्रर-आसू-पञ्चामृ; ०मलं ज्येष्ठा मलक्ष्मीर्°-तैआ. गृहात्; पाप्मानं-तैआ ।
१०. ०माकृतिं; ०माकूतं-मु. अन्नस्य; अन्नं च-क्रिप्रसं अन्यस्य-प्रर । ११. भव-ऋमं-मॅ- मु-ऋब्र-आचं; भ्रम-आउ-जुना-प्रर-आसू-पञ्चामृ-क्रिप्रसं **कुले; गृहे-आउ-क्रिप्रसं-जुना ।
१२. स्रवन्तु-का; सृजन्तु-ऋमं-मॅ-मु-आउ-जुना-क्रिप्रसं; स्रजन्तु-ऋब्र-आसू-आचं-पञ्चमृ-प्रर ।
१३. पक्वां-का; आर्द्रां-इतरेषु. पुष्टां-का; पुष्टिं-ऋमं-मॅ-मु-आचं-प्रर; पुष्टीं-जुना-क्रिप्रसं-पञ्चामृ; यष्टिं-ऋब्र; यष्टीं-आउ. पिङ्गलां पद्ममालिनीं; सुवर्णां हेममालिनीं-ऋब्र-आउ-जुना-आसू-पञ्चामृ. सूर्यां-ऋब्र-प्रर-आसू-जुना-पञ्चामृ; चन्द्रां-इतरेषु. ममा-आउ-जुना-प्रर-आसू-पञ्चामृ; म आ-ऋमं-ऋब्र-मॅ-मु-आचं-क्रिप्रसं. ऋमं-आउ-क्रिप्रसं-पुस्तकेषु त्रयोदशचतुर्दशमन्त्रयोर्व्यत्यासः ।
१४. पुष्करिणीं-आउ-जुना; यःकरिणीं-मॅ-मु-ऋमं-ऋब्र-आसू-पञ्चामृ-आचं; यष्करिणीं-क्रिप्रसं-प्रर. यष्टीं; यष्टिं-मॅ-मु-प्रर-आचं; पुष्टीं-आउ-जुना; पुष्टिं-ऋब्र. सुवर्णां हेममालिनीं; पिंगलां पद्ममालिनीं-आउ-जुना-ऋब्र-प्रर-आसू-पञ्चामृ. १४.२ = १.२. चन्द्रां-ऋब्र-प्रर-जुना-पञ्चामृ-आसू; सूर्या-इतरेषु. ममा-आउ-जुना-प्रर-आसू- पञ्चामृ; म आ-ॠमं- मॅ-मु-ऋब्र-आचं-क्रिप्रसं. १५.१ = २.१. १५.२ = २.२. प्रभूतं; प्रभूतिं-ऋमं-प्रर-आचं-आसू. विन्देयं-का; अश्वान् विन्देयं-इतरेषु. खिलानुक्रमण्यनुसारेणेयमुपरिष्टाद्बृहती (८ + ८ + ८ + १२ अक्षराणि) अतः का-पुस्तके ‘अश्वान्’ नास्ति । इतरपुस्तकानुसारेणेयं प्रस्तारपङ्क्तिः । १६.२. चिक्लीत वस मे गृहे = १२.१ । १७.१ = ११.१. १७.२. येषां; यस्मै ? १८.१. जातवेदः पुनीहि मा = ऋसं ९.६७.२७.
१६-१९ मन्त्राः केवलं का-पुस्तक एव । इतरपुस्तकेषु वर्तमानाः पञ्चदशोत्तरा मन्त्रा अत्रोद्ध्रियन्ते । ऋमं-मॅ- पुस्तकयोर्मन्त्राणां पौर्वापर्य विभिन्नम् । ऋमं-पुस्तकस्थः पाठः क्रमश्चात्र दीयते । ऋब्र२० = आचं २० = ऋमं १९; ऋब्र १९ = आचं १९ = ऋमं २७; आचं २१-२४ = ऋमं २०-२३; आचं = २७ = ऋमं २४. ऋमं २८ आचं-मध्ये नास्ति. आउ-क्रिप्रसं २२ = ऋमं १६; आउ-क्रिप्रसं २१ = ऋमं १७; आउ-क्रिप्रसं १६ = ऋमं १८; आउ-क्रिप्रसं १९ = ऋमं २१. ऋमं २३, २५-२८ मन्त्राः आउ-क्रिप्रसं-मध्ये न सन्ति. मॅ २८ = ऋमं २४; मॅ २४-२७ = ऋमं २५-२८ मॅ २९ मन्त्रः केवलं औध-पुस्तके दत्तः । ऋब्र-मु २७ = ऋमं २४; मु १७ = ऋमं २७. ऋमं २८ मु-ऋ-ऋब्र-आचं-पुस्तकेषु नास्ति. आश्वमंसं.१ मॅ-पुस्तकमनुसरति; २६ मन्त्रः १७ मन्त्रात्पूर्वमागच्छतीति तु विशेषः आश्वमंसं.२-पुस्तके मॅ-पुस्तकस्थाः १-२३,२६,२८ मन्त्राः । एते सर्वे ऽधिका मन्त्रा अर्वाचीना इति २२.२ मन्त्रात् स्पष्टं ज्ञायते ।
मूलम्
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १६ ॥
पद्मानने पद्मऊरू पद्माक्षी पद्मसंभवे ।
तन्मे भजसि पद्माक्षी येन सौख्यं लभाम्यहम् ॥ १७ ॥
अश्वदायै गोदायै धनदायै महाधने ।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥ १८ ॥
पुत्रपौत्रं धनं धान्यं हस्त्यश्वादिगवे रथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु मे ॥ १९ ॥
धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो बृहस्पतिर्वरुणं धनमृत्सृजे ॥ २० ॥
वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥ २१ ॥
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् ॥ २२ ॥
सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ २३ ॥
श्रीवर्चस्वमायुष्यमारोग्यमाविधाच्छुभमानं महीयते ।
धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥ २४ ॥
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥ २५ ॥
महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥ २६ ॥
पद्मानने पद्मिनि पद्मपत्रे पद्मप्रिये पद्मदलायताक्षि ।
विश्वप्रिये विश्वमनोनुकूले स्वत्पादपद्मं हृदि सं नि धत्स्व ॥ २७ ॥
आनन्दः कर्दमः श्रीतश्चिक्लीत इव विश्रितः ।
ऋषयः श्रियः पुत्राश्च श्रीदेवी देवदेवता ॥ २८ ॥
टिप्पनी
१६. यः; स-ऋग्वि. सूक्तं-ऋमं-मु-आचं-क्रिप्रसं; श्रियः-ऋग्वि-आसू-पञ्चामृ-ऋब्र-मॅ-आउ-जुना ।
१७. पद्मानने; पद्मासने पद्मऊरू-ऋमं-ऋब्र-आउ-जुना-मु-आचं; पद्मऊरू- मॅ; पद्मरूपे-क्रिप्रसं. पद्माक्षी-ऋमं-ऋब्र-जुना-मु-आचं; पद्माक्षि-मॅ-आउ-क्रिप्रसं. तन्मे; यन्मां-पञ्चामृ; त्वं मां. भजसि; भजस्व. पद्माक्षी-ऋमं-जुना-आचं; पद्माक्षि-मॅ-आउ-मु-ऋब्र-क्रिप्रसं-पञ्चामृ ।
१८. अश्वदायै गोदायै धनदायै-ऋमं-ऋब्र-आचं; अश्वदायी गोदायी धनदायी- मॅ-जुना; अश्वदायी गोदायी धनदायि-मु-आउ; अश्वदायि गोदायि धनदायि-क्रिप्रसं-पञ्चामृ. जुषतां; लभतां-ऋब्र. देवि-मॅ-मु-ऋब्र-क्रिप्रसं-आचं-पञ्चामृ; देवी-आउ; देवीं-ऋमं-जुना. सर्वकामांश्च देहि मे; सर्वकामार्थसिद्धये-पञ्चामृ ।
१९. पुत्रपौत्रं-ऋमं-जुना पुत्रपौत्र-मॅ-मु-आउ-ऋब्र-क्रिप्रसं-पञ्चामृ-आचं. ०श्वादिगवे रथं-ऋमं-मॅ-मु-ऋब्र-पञ्चामृ-आचं; ०श्वाश्वतरै रथैः-आउ-जुना-क्रिप्रसं; ०श्वाश्वतरीरथं-औंध; ०श्वाजाविगोरथं. भवसि-ऋमं-जुना-क्रिप्रसं; भवसी-मॅ-मु-आउ-ऋब्र-आचं; भजसि-पञ्चमृ; भवतु. मे; मॅ-आउ-पञ्चामृ-जुना ।
२० वरुणं-मॅ-मु-ऋमं-ऋब्र-जुना-पञ्चामृ-आचं; वरुणो-आउ-क्रिप्रसं. उत्सृजे-ऋमं; अश्नुते-मॅ-पञ्चामृः उच्यते- क्रिप्रसं-जुना; अस्तु मे-मु; अस्तु ते-ऋब्र-आचं; अश्विना-आउ ।
२१. सोमिनो मह्यं; सोमिनः सोमं-क्रिप्रसं; सोमिनो मिहं-जुना. सोमिनः सोमिनि ।
२२. भक्तानां श्रीसूक्तं जपेत्; भक्त्या श्रीसूक्तजापिनां-औध. जपेत्; जपेत् सदा ।
२३. ०शुकगन्ध०-मु-ऋब्र-औध-आचं; ०शुभगन्ध०-इतरेषु. ०माल्यशोभे-ऋब्र-औध; माल्यशुभे-मु. ०भूतिकरि; भूतिकरी-मु ।
२४. श्री०; श्रीर्०-क्रिप्रसं. ०वर्चस्वं-ऋमं-मॅ-मु-जुना-क्रिप्रसं-आचं; ०वर्चस्यं-इतरेषु. ०विधाच्छुभमानं-ऋमं; ०विधाच्छोभमानं-मु-ऋब्र-आचं; ०विधात्पवमानं-मॅ-आउ-जुना-क्रिप्रसं; ०युधात्पवमानं पञ्चामृ. धान्यं धनं; धनं धान्यं-मु. बहुपुत्र०; पुत्र०-आउ; पशुपुत्र०-जुना ।
२५. लक्ष्मीं प्रियसखीं-ऋमं-ऋब्र-आचं; लक्ष्मी प्रियसखी-मु; विष्णोः प्रियसखीं-मॅ. देवीं; भूमिं-औध ।
२६. महालक्ष्मी-ऋमं-मॅ-ऋब्र-आचं; महादेव्यै-मु. विष्णुपत्नी-ऋमं-मॅ-ऋब्र-आचं; विष्णुपत्न्यै-मु ।
२७. पद्मिनि; पद्मवि-ऋब्र-आचं; पद्मनि-मु. पद्मप्रिये; पद्मालये. विश्वमनो०; विष्णुमनो०-औंध. हृदि; मयि-मु-ऋब्र ।
२८. श्रीत०-ऋमं; श्रीद०. विश्रितः-ऋमं; विश्रुतः- मॅ; (इति) विश्रुताः-औध. श्रियः पुत्राश्च-ऋमं; श्रियपुत्राश्च-मॅ. देवी देवदेवता-ऋमं; देवीर्देवताः श्रिया-मॅ; श्रीदेवीर्देवता मताः-औध.
मूलम्
ऋमं-पुस्तके ऽविद्यमानो मॅ २९ मन्त्र एवमस्ति-
ऋणरोगादि दारिद्र्यं पापक्षुदपमृत्यवः ।
भयः शोकमनस्तापा नश्यन्तु मम सर्वदा ॥
औधपुस्तके-ऋणरोगादिदारिद्र्य०…. भयशोक०……………
पञ्चामृ-पुस्तके केषुचिल्लिखितपुस्तकेषु च २३-३० मन्त्राः सर्वथा विभिन्ना अतो ऽत्र लिख्यन्ते-
चन्द्राभां लक्ष्मीमीशानां सूर्याभां श्रियमीश्वरीम् ।
चन्द्रसूर्याग्निवर्णाभां महालक्ष्मीमुपास्महे ॥ २३ ॥
वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि ॥ २४ ॥
पद्मप्रिये पद्मिनि पद्महस्ते पद्मानने पद्मदलायताक्षि ।
विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि सं नि धत्स्व ॥ २५ ॥
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरावर्तनाभिस्तनभरनमिता शुभ्रवस्त्रोत्तरीया ॥ लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भै-
र्नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥ २६ ॥
लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं
दासीभूतसमस्तदेववनितां त्रैलोक्यदीपाङ्कुराम् ।
श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां
त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् (Scheftelowitz does not give this verse and counts verse 26 as two (26 and 27) verses.) ॥ २७ ॥
सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीः सरस्वती ।
श्रीर्लक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥ २८ ॥
वराङ्कुशापाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
बालार्ककोटिप्रतिभां त्रिनेत्रां भजे ऽहमाद्यां जगदीश्वरीं ताम् ॥ २९ ॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यंबके गौरि नारायणि नमो ऽस्तु ते ॥ ३० ॥
टिप्पनी
२३. श्रियमीश्वरीं; श्रियमैश्वरीं. ०वर्णाभां; संकाशां; सर्वाभां. महालक्ष्मी०; श्रीमहालक्ष्मी०; श्रियं लक्ष्मी० ।
२४. = खिल २.५ ।
२५. = ऋमं २७ ।
२६. ०नमिता; ०णमिता ।
२८. प्रसन्ना मम सर्वदा; प्रसन्नवरदा भव ।
२९. वराङ्कुशा०; वराङ्कुशौ. ०मभीतिमुद्रां; ०मुपैतिमुद्रां. ०प्रतिभां; ०प्रतिमां. भजे ऽहमाद्यां; भजे हिमाद्यां; भजे ऽहमम्बां.
मॅ-पुस्तके श्रीसूक्तानन्तरं पठनीयं सूक्तद्वयं (मॅ ९, मॅ १०) दत्तं तद्यथा-
मूलम् - ७
विश्वेश्वर विरूपाक्ष विश्वरूप सदाशिव ।
शरणं भव भूतेश करुणाकर शंकर ॥ १ ॥
हर शंभो महादेव विश्वेशामरवल्लभ ।
शिव शंकर सर्वात्मन् नीलकण्ठ नमो ऽस्तु ते ॥ २ ॥
मृत्युंजयाय रुद्राय नीलकण्ठाय शंभवे ।
अमृतेशाय शर्वाय श्रीमहादेवाय ते नमः ॥ ३ ॥
एतानि शिवनामानि यः पठेन्नियतः सकृत् ।
नास्ति मृत्युभयं तस्य पापरोगादि किंचन ॥ ४ ॥
तथा च-
यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
कृष्ण विष्णो हृषीकेश वासुदेव नमो ऽस्तु ते ॥ १ ॥
कृष्णाय गोपिनाथाय चक्रिणे मुरवैरिणे ।
अमृतेशाय गोपाय गोविन्दाय नमो नमः ॥ २ ॥
एतान्यनन्तनामानि मण्डलान्ते (सदा) पठेत् ॥ ३ ॥
मूलम् - ७
चि᳓क्लीतो य᳓स्य ना॓म त᳓द्दि᳓वा न᳓क्तं च सुक्रतो ।
अस्मा᳓न् दीदास यु᳓ज्याय जीव᳓से जातवेदः पुन᳓न्तु मां देवजनाः᳓ ॥ १ ॥
पुन᳓न्तु म᳓नसा धि᳓यः पुन᳓न्तु वि᳓श्वा भूता᳓नि ।
जा᳓तवेदो य᳓द᳓स्तुतम् ॥ २ ॥
वि᳓श्वे देवाः पुनीत᳓ मा जा᳓तवेदः पुनीहि᳓ मा ।
स᳓म्भूता अस्मा᳓कं वीरा᳓ ध्रुवा᳓ ध्रुवे᳓षु तिष्ठति ॥ ३ ॥
ध्रुवा᳓ द्यौ᳓र्ध्रुवा᳓ पृथिवी᳓ ध्रुवा᳓ ध्रुवे᳓षु तिष्ठति ।
अ᳓ग्ने अ᳓च्छा य᳓द᳓स्तुतं राय᳓स्पो᳓षं च धारय ॥ ४ ॥
अ᳓च्छा नो मित्रमहो देव देवा᳓न᳓ग्ने वोचः सुमतिं᳓ रो᳓दस्योः ।
वीहि᳓ स्वस्तिं᳓ सुक्षितिं᳓ दिवो᳓ नॄ᳓न् द्विषो᳓ अं᳓हांसि दुरिता᳓ तरेम ता᳓ तरेम त᳓वा᳓वसा तरेम ॥ ५ ॥
टिप्पनी - ७
१.२-२.१ = ऋसं ९.६७. २७.१, तैब्रा. १.४.८.१; २.६.३.४; वासं १९.३९ ।
२. = मंदी (पृष्ठं १७ मन्त्रः २१) ।
३.१. = ऋसं ९.६७.२७.२ ।
४.१. = ऋसं १०.१७३.४; अथर्व ६.८८.१; तैब्रा २.४.२.८; खागृ १.४.४; गोगृ २.३.१२; मंब्रा १.३.७. रायस्पोषं च धारय = खिल २.६.१८.
मूलम् -८
म᳓यि श्लेषो᳓ मा वधीः प्र᳓ सम्रा᳓जं च सुक्रतो ।
अस्मा᳓न् पृणीष्व यु᳓ज्याय जीव᳓से जा᳓तवेदः पुनीहि᳓ मा ॥ १ ॥
म᳓र्तो यो᳓ नो दि᳓दासत्य᳓धिरस्था न᳓ नीनशत् ।
द᳓विध्वतो विभा᳓वसो जागा᳓रमुत᳓ ते धि᳓यम् ॥ २ ॥
अनमीवा᳓ भवन्त्वघ्न्या सु᳓ सं गर्भो वि᳓ मोचतु ।
अरातीय᳓न्ति ये᳓ के᳓चित्सू᳓रयश्चाभि मज्म᳓ना ॥ ३ ॥
राय᳓स्पो᳓षं वि᳓ धारय जा᳓तवेदः पुनीहि᳓ मा ।
उस्रा᳓ भवन्तु नो म᳓यो बह्वी᳓र्गोष्ठे᳓ घृता᳓च्यः ॥ ४ ॥
अ᳓च्छा नो मित्रमहो देव देवा᳓न᳓ग्ने वोचः सुमतिं᳓ रो᳓दस्योः ।
वीहि᳓ स्वस्तिं᳓ सुक्षितिं᳓ दिवो᳓ नॄ᳓न् द्विषो᳓ अं᳓हांसि दुरिता᳓ तरेम ता᳓ तरेम त᳓वा᳓वसा तरेम ॥ ५ ॥
टिप्पनी - ८
१.२. = खिल २.७.१.२ ।
२. अधिरस्था; अधरस्था ?
४.१. → खिल २.६.१८.१. बह्वीर्गोष्ठे घृताच्यः → खिल ४.१२.१.२ ।
५. = खिल २.७.५; ६.१९; ऋसं ६.२.११; १४.६.
मूलम् - ९
सं᳓ स्रवन्तु मरु᳓तः स᳓म᳓श्वाः स᳓मु पू᳓रुषाः ।
सं᳓ धान्य᳓स्य या᳓ स्फातिः᳓ संस्रा᳓व्येण हवि᳓षा जुहोमि ॥ १ ॥
ए᳓ह᳓ यन्ति पश᳓वो ये᳓ प᳓रेयुर्वायु᳓र्ये᳓षां स᳓हचारं᳓ जुजो᳓ष ।
त्व᳓ष्टा ये᳓षां रूपधे᳓यानि वे᳓दास्मिं᳓स्ताँ᳓ल्लोके᳓ सविता᳓भि᳓ रक्षतु ॥ २ ॥
इमं᳓ गोष्ठं᳓ पश᳓वः सं᳓ स्रवन्तु बृ᳓हस्प᳓तिरा᳓ नयतु प्रजान᳓न् ।
सिनीवाली᳓ नयत्य᳓ग्र एषामा᳓ जग्मु᳓षो ऽनुमते नि᳓ यच्छ ॥ ३ ॥
सं᳓ सिञ्चामि ग᳓वां क्षीरं᳓ स᳓मा᳓ज्येन ब᳓लं र᳓सम् ।
सं᳓सिक्ता अस्मा᳓कं वीरा᳓ ध्रुवा᳓ गा᳓वः सन्तु गो᳓पतौ ॥ ४ ॥
आ᳓ हरामि ग᳓वां क्षीर᳓मा᳓ हरामि धान्यं३ र᳓सम् ।
आ᳓हृता अस्मा᳓कं वीरा᳓ आ᳓ प᳓त्नीरिद᳓म᳓स्तकम् ॥ ५ ॥
एतत् अथर्व २.२६ अनेन समानम् ।
टिप्पनी - ९
१ = अथर्व ३; २ = अथर्व १; ३ = अथर्व २ एवं मन्त्राणां पौर्वापर्यभेदः । ‘नानारूपाः पयस्विन्यः सं स्रवन्तीति संस्तुताः’ इति बृहद्दे (५.९२) । कौशिकसूत्रं (१९.१४ ) द्रष्टव्यम् ।
१. सं स्रवन्तु-का; सं सं स्रवन्तु-अथर्व; सं स्रवन्ति-वृहद्दे. मरुतः-का; पशवः-अथर्व ।
२. यन्ति-का; यन्तु-अथर्व. वेदास्मिंस्ताँल्लोके-का; वेदास्मिन् तान् गोष्ठे-अथर्व. सविताभि रक्षतु-का; सविता नि यच्छतु-अथर्व ।
३. नयत्यग्र-का; नयत्याग्रं-अथर्व. ऽनुमते-का; अनुमते-अथर्व ।
४. गावः सन्तु-का; गावो मयि-अथर्व ।
५. हरामि धान्यं ३-का; हार्षं धान्यं१-अथर्व ।
मूलम् - १०
आ᳓ ते ग᳓र्भो यो᳓निमेतु पु᳓मान् बा᳓ण इवेषुधि᳓म् ।
आ᳓ वीरो᳓ अ᳓त्र जायतां पुत्र᳓स्ते द᳓शमास्यः ॥ १ ॥
करो᳓मि ते प्राजापत्य᳓मा᳓ ग᳓र्भो यो᳓निमेतु ते ।
अ᳓नूनः पूर्णो᳓ जायताम᳓नन्धो᳓ ऽश्रोणो ऽपिशाचधीतः᳓ ॥ २ ॥
पु᳓मांस्ते पुत्रो᳓ जायतां पु᳓मान᳓नु जायताम् ।
या᳓नि भद्रा᳓णि बी᳓जान्यृषभा᳓ जन᳓यन्ति नः ॥ ३ ॥
ता᳓नि भद्रा᳓णि बी᳓जान्यृषभा᳓ जन᳓यन्तु ते ।
तै᳓स्त्वं᳓ पुत्रं᳓ जनयेः स᳓ जायतां वीर᳓तमः स्वा᳓नाम् ॥ ४ ॥
यो᳓ व᳓शायां ग᳓र्भो यो᳓ ऽपि वेहती᳓न्द्रस्तं᳓ नि᳓ दधे व᳓नस्प᳓तौ ।
तै᳓स्त्वं᳓ पुत्रा᳓न् विन्दस्व सा᳓ प्रसू᳓र्धे᳓नुका भव ॥ ५ ॥
सं᳓ वो म᳓नांसि जानतां सं᳓ ना᳓भिः सं᳓ त᳓तो ऽसत् ।
सं᳓ त्वा का᳓मस्य यो᳓क्त्रेण युञ्जान्य᳓विमोचनाय ॥ ६ ॥
का᳓मः स᳓मृध्यतां म᳓ह्यम᳓पराजितमेव᳓ मे ।
यं᳓ का᳓मं काम᳓ये देव तं᳓ मे वायो स᳓मर्धय ॥ ७ ॥
टिप्पनी - १०
इदं सूक्तं प्रजावत आर्षमिति खिलानुक्रमण्यामुक्तम् । ‘अग्निरेतु’ इत्यग्रे वर्तमानेन जीवपुत्राख्यसूक्तेन सहेदं गर्भकर्मणि विनियुक्तम् । ‘प्रजावज्जीवपुत्रौ वा गर्भकर्मणि संस्तुतौ’ इति बृहद्दे (५.९२) । आश्वगृ १.१३.६ द्रष्टव्यम् । एते प्रजावज्जीवपुत्राख्ये सूक्ते अनवलोभने विनियुक्ते इति प्रर-ऋब्र-मतम् । एतत्सूक्तं ऋमं-प्रर-संकौ-ऋब्र-आपमं (१.१२.९)-पुस्तकेषु ४.२, ५.१, ६ मन्त्रान् वर्जयित्वोद्धृतम् ।
१. = अथर्व ३.२३.२; हिगृ १.२५.१; शांगृ १.१९.६. आ ते गर्भो योनिमेतु-ऋमं-आपमं-हिगृ; आ ते योनिं गर्भ एतु-अथर्व-शांगृ; आ ते गर्भो योनिमैतु-ऋब्र-प्रर-संकौ. अत्र-शांगृ-हिगृ; ऽत्र-अथर्व; ऋमं-ऋब्र-संकौ-प्रर-आपमं-पुस्तकेषु ‘अत्र’ नास्ति ।
२. = हिगृ. १.२५.१; २.१. = अथर्व ३.२३.५.१. प्राजापत्यमा, प्राजापत्येषा-संकौ. एतु-ऋमं-अथर्व-आपमं-हिगृ; ऐतु-ऋब्र-प्रर-संकौ, अनन्धो ऽश्रोणो ऽपिशाचधीतः-का; अनन्धोश्लोणोपिशाचधीरः-हिगु; अश्लोणोपिशाचधीतः-ऋमं-ऋब्र-आपमं-संकौ-प्रर ।
३.१. = अथर्व ३.२३.३.१; शांगृ १.१९.६.३.२. = शांगृ १.१९.६; अथर्व ३.२३.४.१. पुमांस्ते पुत्रो जायतां-का; पुमांस्ते पुत्रो नारि तं-ऋमं-आपमं-संकौ-ऋब्र-प्रर. पुमांसं पुत्रं जनय तं-अथर्व-शांगृ. यानि-का-अथर्व-आपमं-संकौ-शांगृ; तानि-ऋमं-ऋब्र-प्रर. ऋषभा; पुरुषा-शांगृ. जनयन्ति नः-का-आपमं-शांगृ; जनयन्ति च-अथर्व; जनयन्तु नौ-ऋमं-प्रर-संकौ; जनयन्ति नौ-औंध; जनयन्तु ते-ऋब्र ।
४. = हिगृ १.२५.१. तानि-का-आपमं; यानि-ऋमं-ऋब्र-संकौ-प्रर-हिगृ. जनयन्तु ते-का; जनयन्तु नः-ऋमं-हिगृ; जनयन्ति नः-ऋब्र-प्रर-संकौ; जनयन्तु नौ-आपमं. तैस्त्वं पुत्रान् जनयेः-का; तैस्त्वं गर्भिणी भव-हिगृ
५. = हिगृ १.२५.१. ५.२ = अथर्व ३.२३.४.२; शांगृ १.१९.६. यो ऽपि-का; यश्च-हिगृ. पुत्रान्; पुत्रं-अथर्व. हिगृ-शांगृ-मध्ये ५.२-पाठो विभिन्नः । हिगृ-तेन त्वं गर्भिणी भव सा प्रासूर्धेनुगा भव. शांगृ-तेभिष्ट्वं पुत्रं जनय सुप्रसूर्धेनुका भव ।
६.१. सं वो मनांसि = ऋ १०.१९१.२; अथर्व ६.६४.१.६.२ = हिगृ १.२४.४. ।
७. कामः समृध्यतां-का-ऋमं-प्रर-संकौ; कामप्रमृध्यतां-आपमं. तं मे-ऋमं-आपमं-संकौ; तन्मे-प्रर.
मूलम् - ११
अग्नि᳓रेतु प्रथमो᳓ देव᳓तानां सो᳓ ऽस्याः प्रजां᳓ मुञ्चतु मृत्युपाशा᳓त् ।
त᳓दयं᳓ रा᳓जा व᳓रुणो ऽनुमन्यतां य᳓थेयं᳓ स्त्री᳓ पौ᳓त्रमघं᳓ न᳓ रोदात् ॥ १ ॥
इमा᳓मग्नि᳓स्त्रायतां गा᳓र्हपत्यः प्रजा᳓मस्यै तिरतु दीर्घ᳓मा᳓युः ।
अ᳓शून्योप᳓स्था जी᳓वतामस्तु माता᳓ पौ᳓त्रमानन्द᳓मभि᳓ वि᳓ बुध्यतामिय᳓म् ॥ २ ॥
मा᳓ ते गृहे᳓ निशि᳓ घोर᳓ उत्था᳓दन्य᳓त्र त्व᳓द्रुदत्यः᳓ सं᳓ विशन्तु ।
मा᳓ त्वं᳓ विकेश्यु᳓र आ᳓ वधिष्ठा जीव᳓पुत्रा पतिलोके᳓ वि᳓ राज प्रजां᳓ प᳓श्यन्ती सुमनस्य᳓माना ॥ ३ ॥
अप्रजस्यं᳓ पौत्रमर्त्यं᳓ पाप्मा᳓नमुत᳓ वाघ᳓म् ।
प्रजा᳓मिवोन्मुच्यस्व द्विष᳓द्भ्यः प्र᳓ति मुञ्चामि पा᳓शान् ॥ ४ ॥
देव᳓कृतं ब्रा᳓ह्मणं कल्प᳓मानं ते᳓न हन्मि योनिष᳓दः पिशाचा᳓न् ।
क्रव्या᳓दो मृत्यू᳓न᳓धरान् पातयामि दीर्घ᳓मा᳓युस्त᳓व जी᳓वन्तु पुत्राः᳓ ॥ ५ ॥
त्वं᳓ ह्यग्ने प्रथमो᳓ मनो᳓ता ॥ ऋ. सं. ६.१.१
६-११ खिलसूक्तानि पञ्चममण्डलान्ते पठनीयानि ।
टिप्पनी - ११
इदं सूक्तं जीवपुत्रस्यार्षमित्यनुक्रमण्यामुक्तम् । ऋमं-ऋब्र-प्रर-संकौ-पुस्तकेषु ‘अथ जीवपुत्राख्यं सूक्तम्’ इत्युक्त्वेदं समुद्धृतम् । हिगृ-मध्ये एको मन्त्रो ऽन्ते ऽधिकः । इदं षण्मन्त्रात्मकमिति गोगृ २.१.२४; खागृ १.३.११ (: अग्निरेतु प्रथम इति षड्भिश्च पाणिग्रहणे) । मंब्रा १.१.१०; आपमं १.४.७ मध्ये केवलं पूर्वे चत्वारो मन्त्राः, तथा च आपमं-पुस्तके तृतीयचतुर्थयोर्मध्य एको मन्त्रो ऽधिकः । प्रथमद्वितीयौ मन्त्रौ पागृ १.५.११; मंदी ५४-५५ मध्ये उपलभ्येते । ’अग्निरैत्विति सूक्तेन जुहुयादाज्यमन्वहम्’ इति ऋग्वि २.११० । बृहद्दे ५.९२ द्रष्टव्यम् ।
१. एतु-खिलानु-मंब्रा-खागृ-का; ऐतु-इतरेषु. १.१ = अथर्व ४.१४. ५ : अग्ने प्रेहि प्रथमो देवतानाम्. देवतानां; देवताभ्यः-मंब्रा. सो ऽस्याः; सो ऽस्यै-ऋब्र-पागृ-संकौ-प्रर-औध ।
२. तिरतु दीर्घमायुः-का; नयतु दीर्घमायुः-ऋमं-ऋब्र-संकौ-पागृ-हिगृ-प्रर-आपमं-मंदी; जरदष्टिं कृणोतु-मंब्रा. जीवतामस्तु-कः, जीवतु-ऋब्र. अभि वि-का-मंब्रा-मंदी-पागृ; अभि प्र-हिगृ-प्रर-ऋब्र-संकौ-आपमं ।
३. गृहे निशि घोर-का; गृहे निशि घोष-ऋमं-प्रर-हिगृ-संकौ-ऋब्र-आपमं; गृहेषु निशि घोष-मंब्रा. उत्थाद्; उत्पाद्-प्रर. रुदत्यः-का-ऋब्र-हिगृ-संकौ-आपमं-मंब्रा; रुदन्त्यः-ऋमं-प्रर. विकेश्युर-का-ऋमं-हिगृ-आपमं; बिकेश्युर-प्रर-संकौ; विकेश्युरव-ऋब्र; रुदत्युर-मंब्रा. जीवपुत्रा-का; जीवपत्नी-इतरेषु. प्रजां पश्यन्ती सुमनस्यमाना-का; पश्यन्ती प्रजां सुमनस्यमाना-ऋमं-ऋब्र-प्रर-संकौ; पश्यन्ती प्रजां सुमनस्यमानां-आपमं-मंब्रा; प्रजां पश्यन्ती सुमनस्यमानां-हिगृ ।
४. अप्रजस्य पौत्रमर्त्यं-मंब्रा; अप्रजस्तां पौत्रमृत्युं-ऋमं-प्रर-संकौ-हिगृ-आपमं; अप्रजास्त्वां पुत्रं मृत्युं-ऋब्र. वाघं; वा अघं-मंब्रा; वाद्यं-संकौ. प्रजामिवोन्मुच्यस्व-का; शीर्ष्णः स्रजमिवोन्मुच्य-ऋब्र-मंब्रा-हिगृ-ऋमं-संकौ-प्रर-आपमं. पाशान्-का; पाशं-ऋमं-ऋब्र-संकौ- प्रर-आपमं-मंब्रा-हिगृ ।
५. पातयामि-का-ऋमं-प्रर-संकौ; पादयामि-हिगृ ।
मूलम् - १२
च᳓क्षुश्च श्रो᳓त्रं च म᳓नश्च वा᳓क्च प्राणापा᳓नौ दे᳓ह इदं᳓ श᳓रीरम् ।
द्वौ᳓ प्रत्य᳓ञ्चावनुलोमौ᳓ विस᳓र्गावे᳓दं᳓ तं᳓ मन्ये द᳓शयन्त्रमु᳓त्सम् ॥ १ ॥
य᳓ आ᳓नयत्पराव᳓तः० ॥ ऋ. सं. ६. ४५. १
ऋसं ६.४४ अनन्तरं पठनीयम् ।
टिप्पनी - १२
बृहद्दे ५.१०८ एतदेव दर्शयति । इदमेकर्चं सूक्तं सायणाचार्यैः ऋसं ६.४४.२४ व्याख्याने समुद्धृतम् । मॅ (११)-मु-आउ (८)-जुना-औध-पुस्तकेष्विदं तृचं सूक्तम् । अल-पुस्तक इदं द्वृचम् ।
१.१. → तैब्रा २.५.६.५ : प्राणापानौ चक्षुः श्रोत्रं वाचं मनसि संभृताम्; तैउ १.७.१ : चक्षुः श्रोत्रं मनो वाक् त्वक्. १.२. दशयन्त्रमुत्सम् = ऋसं ६.४४.२४. ०वेदं-का; ०वेतं-मॅ-मु-आउ-औध-जुना । उत्तरे ऋचौ-
मूलम्
पुरश्च पृष्ठश्न करौ च बाहू जङ्घे चोरू उदरं शिरश्च ।
रोमाणि मांसं रुधिरास्थिमज्जमेतच्छरीरं जलबुद्बुदोपमम् ॥ २ ॥
भ्रुवौ ललाटे च तथा च कर्णौ हनू कपोलौ छुबुकस्तथा च ।
ओष्ठौ च दन्ताश्च तथैव जिह्वा मे तच्छरीरं मुखरत्नकोशम् ॥ ३ ॥
टिप्पनी
२. **पुरश्च**; उरश्च; जुना-आउ; नखश्च-औध. **पृष्ठश्च पृष्टिश्च**-मु. **रोमाणि**; लोमानि-जुना. ३. **छुबुकः**; चिबुकः-जुना. **मे तच्छरीरं**; एतत्सुशुभ्रं-आउ; एतच्छरीरं-जुना. ऋसं ६.४८ अन्ते पठनीयमेकं खिलसूक्तं मॅ-औंध-जुना-पुस्तकेषु विद्यते ।मूलम्
मॅ-पुस्तके
यत्स्तृणैरध्ययनं तदधीतं स्तृणानि भवते भव ।
वापीकूपतडागानां समुद्रं गच्छ स्वाहा ॥ १ ॥
सूक्तान्ते स्तृणान्यग्नौ ॥ २ ॥
मूलम्
औंध-पुस्तके
सूक्तान्ते ऽस्येत्तृणान्यग्नाविरिणे वोदके ऽपि वा ।
यदस्तृणैरधीतं तत् तृणानि भवति ध्रुवम् ॥ १ ॥
वापीकूपतडागानां समुद्रं गच्छ स्वाहा [अग्निं गच्छ स्वाहा] ॥ २ ॥
मूलम्
जुनागड-पुस्तके
यस्तृणैरध्ययनं स्तृणानि तृणते तृण ।
समुद्रं गच्छ स्वाहा भूमिं गच्छ स्वाहा ॥
खिल २.३ टिप्पणी द्रष्टव्या ।
मूलम् - १३
शं᳓वतीः पार᳓यन्त्येते᳓दं᳓ पृच्छस्व व᳓चो य᳓था ।
अभ्या᳓रं तं᳓ समा᳓केतं य᳓ एवे᳓द᳓मिति ब्र᳓वत् ॥ १ ॥
जाया᳓केतं प᳓रिस्रुतं भा᳓रती ब्रह्मवा᳓दिनी ।
संजानाना᳓ मही᳓ जाता᳓ य᳓ एवे᳓द᳓मिति ब्र᳓वत् ॥ २ ॥
इ᳓न्द्रस्तं᳓ किं विभुं᳓ प्रभुं᳓ भानु᳓ना यं᳓ जु᳓जोषति ।
ते᳓न सू᳓र्यमरोचयद्ये᳓नेमे᳓ रो᳓दसी उभे᳓ ॥ ३ ॥
जुष᳓स्वाग्ने अङ्गिरः काण्वं᳓ मे᳓ध्यातिथिम् ।
मा᳓ त्वा सो᳓मस्य ब᳓र्बृहत् सुत᳓स्य म᳓धुमत्तमः ॥ ४ ॥
त्व᳓मग्ने अङ्गिरस्तम शोचस्व देववी᳓तमः ।
आ᳓ शंतम शं᳓तमाभिरभि᳓ष्टिभिः शान्तिं᳓ स्वस्ति᳓मकुर्वत ॥ ५ ॥
शं᳓ नः कनिक्रदद्देवः᳓ पर्ज᳓न्यो अभि᳓ वर्षत्वो᳓षधयः सं᳓ प्रवर्धन्तम् ।
शं᳓ नो द्या᳓वापृथिवी᳓ शं᳓ प्रजा᳓भ्यः शं᳓ नो अस्तु द्विप᳓दे शं᳓ च᳓तुष्पदे ॥ ६ ॥
शं᳓ न इन्द्राग्नी᳓ भवताम᳓वोभिः० ॥ ऋ. सं. ७.३५.१
ऋसं ७.३४ अनन्तरमिदं पठनीयम् ।
टिप्पनी - १३
आश्वमंसं.२-मतमपि तथैव । मॅ-मु-औंध-अनुसारेणेदं ऋसं ७.३५ अनन्तरं पठनीयम् ।
मॅ१३-मु-आउ९-ऋमं-अल-जुना- ऋब्र (शान्ति)-अल । ऋग्विधाने ऽपि (२.१३९)- ’शेवतीः शं न इन्द्राग्नी इत्येते सततं जपेत् । न रक्षोभ्यो न भूतेभ्यो व्याधिभ्यो वा भयं भवेत्’ इति ॥
१. एतेदं पृच्छस्व वचो यथा-का; तं पृञ्चन्ति वचो यथा-आउ-जुना; एतं छंति वचो युजा-अल; एते तं पृच्छन्ति वचो युजा-मॅ-मु. अभ्यारं तं समाकेतं-का; अभ्यायन्तं समायन्तं-आउ; अभ्यारेतं यमाकेतं-अल; अभ्यानंतं यमाकेतं-जुना; अभ्यारं तं यमाकेतुं-ऋमं-ऋब्र-मॅ-मु. ब्रवत्; ब्रुवत्-अल; ब्रुवन्-मु-ऋब्र ।
२. जायाकेतं-का-जुना; जायाकेतुं-आउ; भासाकेतुं-ऋमं-मु-मॅ-ऋब्र. परिस्रुतं-ऋमं-मु; पुरुस्पृहं-मॅ-आउ-जुना. भारती ब्रह्मवादिनी-का; भारतीर्ब्रह्मवर्धनीः-ऋमं-ऋब्र-मॅ-मु; भारतीं ब्रह्मवर्धनीं-आउ; भारती ब्रह्मवर्धनी-जुना. जाता-का; माता-ऋमं-ऋब्र-मॅ-मु-आउ-जुना. ब्रवत्; ब्रुवन्-ऋब्र ।
३. इन्द्रः; इन्द्रं-अल. किं; कर्-आउ. भानुना यं-अल; भानुनेयं-ऋमं-ऋब्र-मॅ-मु-आउ; भानुमेयं-जुना. जुजोषति-का; सरस्वती-मॅ-आउ-जुना; सरस्वतीं-ऋमं-ऋब्र-मु-अल. **तेन-का; येन-ऋमं-ऋब्र-मॅ-मु-आउ-अल-जुना ।
४ बर्बृहत्सुतस्य; बर्बृहन्सुतासो-आउ; बर्बृहत्सुतासो-अल. मधुमत्तमः; मधुमत्तमाः-आउ ।
५. त्वं-ऋमं-मॅ-मु-आउ; त्वां-का-अल. अङ्गिरस्तम-अल-जुना; अङ्गिरस्तमः-आउ; अङ्गिरः-ऋमं-मॅ-मु. शंतमाभिरभिष्टिभिः; शंतमाभिष्टिभिः-अल. शान्तिः शान्तिः-मु; शान्ति-अल ।
६. वर्षत्वोषधयः सं प्रवर्धन्तां-का वर्षत्वोषधयः प्रति धीयन्तां-आउ; अवर्षत्योषधयः प्रतिधीयतां-अल; अभिवर्षत्वोषधयः प्रतिधीयतां-जुना; वर्षतु-ऋमं-मॅ-मु. शं नो अस्तु द्विपदे शं चतुष्पदे = खिल ५.१.५.२. नो अस्तु-का; न एधि-मॅ-मु ।
जुनागडलिखितपुस्तक इदं नवर्च सूक्तम् । तृतीयमन्त्रानन्तरं लिखिता अधिका मन्त्रा अधो दीयन्ते-
मूलम्
शं वो भूमिः शं व आपः शं वो भवन्तु मरुतः स्वर्काः ।
शं वः प्रजाभ्यः शमयन्तु पापं शं वः पर्जन्यो अभि वर्षतु ॥
शं व इन्द्रः शंताता शं वो भवन्तृषसो विभातीः ।
शं वो वसवो रुद्रा आदित्याः सदन्तु शं वो मित्रावरुणावश्विना शम् ॥
शं वो विष्णुः प्रजया संरराणो ऽनु स्वधां कृणुहि लोके अस्मिन् ।
शं वो भवतु भुवनस्य यस्पतिः शं वो भव द्विपदे शं चतुष्पदे ॥
मूलम् - १४
स्व᳓प्नः स्वप्ना᳓धिक᳓रणे स᳓र्वं नि᳓ ष्वापया ज᳓नम् ।
आ᳓ सू᳓र्यमन्या᳓न् स्वाप᳓याव्युषं᳓ जागृया᳓मह᳓म् ॥ १ ॥
क᳓ ईं व्य᳓क्ता न᳓रः स᳓नीळा० ॥ ऋ. सं. ७. ५६. १
ऋसं ७.५५ अनन्तरं पठनीयम् ।
टिप्पनी - १४
अयं मन्त्रः अथर्व ४.५.७ अनेन समानः । मॅ-पुस्तक एतदेकादशर्चं, पञ्चामृ-पुस्तके दशर्चम् । ऋब्र (शान्तिपाठः)-आश्वमंसं-जुना-पुस्तकेष्वष्टौ, ऋमं-आउ-मु-पुस्तकेषु नव मन्त्राः । आउ-पुस्तकस्थः षष्टो मन्त्रो मॅ-पुस्तके नास्ति । मु १-८ = ऋमं-पञ्चामृ १-८; मु ९ = पञ्चामृ ९ = मॅ १०; ऋमं ९ = आउ ६; पञ्चामृ १० = मॅ ९; आउ ७ = मॅ ८; आउ ८ = मॅ ६; आउ ९ = मॅ ७. अल-पुस्तके ८-९ मन्त्रौ न स्तः । जुना-पुस्तके तृतीयो मन्त्रो नास्ति ।
१. स्वप्नाधिकरणे; स्वप्नाभिकरणेन-अथर्व. जनं-अथर्व-मॅ-मु-आउ; जरां-पञ्चामृ; जिनं-ऋमं-ऋब्र. आ सूर्यं; ओत्सूर्यं-अथर्व → मैसं ४.२.१: आ तु सूर्यस्योदेतोर्जागृयात्. अन्यान्-का-आउ; अन्यान्त्-ऋमं-मॅ-मु-अथर्व; अन्यत्-पञ्चामृ. स्वापयाव्युषं-अथर्व; खापयद्व्युषं-जुना-आउ; खापयद्व्यूळ्हं-ऋमं-ऋब्र-मॅ-मु-पञ्चामृ. जागृयाम्यहं-का; जागृयादहं-ऋमं-मॅ-पञ्चामृ; जाग्रियादहं-ऋब्र-मु-आउ; जाग्र्यादहं-जुना; जागृतान्-अथर्व.
शिष्टानां मन्त्राणां ऋमं-पुस्तकानुसारेण पाठो दीयते-
मूलम्
अजगरो नाम सर्पः सर्पिरविषो महान् ।
तस्मिन् हि सर्पः सुधितस्तेन त्वा स्वापयामसि ॥ २ ॥
सर्पः सर्पो अजगरः सर्पिरविषो महान् ।
तस्य सर्पात्सिन्धवस्तस्य गाधमशीमहि ॥ ३ ॥
काळिको नाम सर्पो नवनागसहस्रबळः ।
यमुनह्रदे ह सो जातो यो नारायणवाहनः ॥ ४ ॥
यदि काळिकदूतस्य यदि काः काळिकाद्भयम् ।
जन्मभूमिमतिक्रान्तो निर्विषो याति काळिकः ॥ ५ ॥
आ याहीन्द्र पथिभिरीळितेभिर्यज्ञमिमं नो भागधेयं जुषस्व ।
तृप्तां जुहुर्मातुळस्येव योषा भागस्ते पैतृष्वसेयी वपामिव ॥ ६ ॥
यशस्करं बलवन्तं प्रभुत्वं तमेव राजाधिपतिर्बभूव ।
संकीर्णनागाश्वपतिर्नराणां सुमङ्गल्यं सततं दीर्घमायुः ॥ ७ ॥
कर्कोटको नाम सर्पो यो दृष्टीविष उच्यते ।
तस्य सर्पस्य सर्पत्वं तस्मै सर्प नमो ऽस्तु ते ॥ ८ ॥
अति काळिकरौद्रस्य विष्णुः सौम्येन भाविना ।
यमुननदी काळिकं ते विष्णुस्तोत्रमनु स्मरम् ॥ ९ ॥
टिप्पनी
२. तस्मिन् हि ऋमं-मु-पञ्चामृ-ऋब्र-मॅ; तस्मिन्नु-आउ-जुना ।
३. तस्य-ऋमं-मु-पञ्चामृ; यस्य-मॅ-आउ. सर्पात्-ऋमं-मु; शुष्कान्-मॅ-आउ-पञ्चामृ. गाधमशीमहि = ऋसं ५.४७.७ ।
४. नाम; नाग-पञ्चामृ. ०बळः; ०फणः-पञ्चामृ. ह सो; ऽसौ-आउ ।
५. भयं-मॅ-आउ-पञ्चामृ; भयात्-ऋमं-ऋब्र-मु. जन्मभूमिमतिक्रान्तो-ऋमं-ऋब्र-मॅ-मु; जन्मभूमिपरिक्रान्तो-आउ-पञ्चामृ; जन्मभूमिरतिक्रांतो-जुना ।
६. = निरु १४.३१. तृप्तां-ऋमं-ऋब्र-पञ्चामृ-मॅ-मु-निरु; तृप्ता-आउ जुहुः-मॅ-आउ-निरु; जहुः-ऋमं-ऋब्र-मॅ-पञ्चामृ-जुना. ०नागाश्वपति… सततं; ०नागाश्वपतिं नराणां सुपर्णं तं विदतं-जुना ।
८.२. = खिल २.१.९.३ ।
९. विष्णुः सौम्येन-आउ; विष्णु सौम्येन-ऋमं. भाविना-आउ-जुना; भामिनि-ऋमं. ते-ऋमं; तेन-आउ; स्मरं-आउ; स्मरन्-ऋमं; स्वरं-जुना । मॅ-पुस्तके ९-११ मन्त्रा एवम्-
मूलम्
ये ऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु ।
तेषामप्सु सदस्कृतं तेभ्यः सर्पेभ्यो नमः ॥ ९ ॥
नमो अस्तु सर्पेभ्यो ये के च पृथिवीमनु ।
ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥ १० ॥
उग्रायुधाः प्रमतिनः प्रवीरा मायाविनो बलिनो मिच्छमानाः ।
ये देवा असुरान् पराभवन् तांस्त्वं वज्रेण मघवन्नि वारय ॥ ११ ॥
टिप्पनी
९-१०. = तैसं ४.२.८.३ (व्यत्यासेन).
९. दिवो; दिवि-पञ्चामृ; तेषां-मु; येषां-तैसं-पञ्चामृ. सदस्कृतं-मॅ; सदःकृतं-तैसं-पञ्चामृ ।
१०. = वासं १३.६; कासं १६.१५; मैसं २.७.१५; हिगृ २.१६.७; मागृ २.७.३; ११.१०; १६.३; माश्रौ ६.१.७; आसू; मंदी; शांम; मामंसं. अस्तु-मॅ; स्तु-इतरेषु ।
११. देवा असुरान्-देवानसुराः-औध. औधपुस्तक एते त्रयो ऽपि मन्त्राः सन्ति तथापि नवमदशमयोर्मध्ये ऽधो लिखितो मन्त्रो ऽधिकः-
मूलम्
या इषवो यातुधानानां ये वा वनस्पतीननु ।
ये वावटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥
मूलम् - १५
य᳓स्य व्रत᳓मुपति᳓ष्ठन्त आ᳓पो य᳓स्य व्रते᳓ पश᳓वो य᳓न्ति स᳓र्वे ।
य᳓स्य व्रते᳓ पु᳓ष्टिपतिर्नि᳓विष्टस्तं᳓ स᳓रस्वन्तम᳓वसे जोहवीमि ।
यज्ञे᳓ दिवो᳓ नृष᳓दने पृथिव्याः᳓० ॥ ऋ. सं. ७. ९७. १
ऋसं ७.९६ अनन्तरं पठनीयम् ।
टिप्पनी - १५
बृहद्दे ६.१९ तदेव दर्शयति । इदं दर्शपूर्णमासयोर्विनियोज्यमिति वैसू ८.२; काम्यपशुयागे याज्यात्वेन विनियोज्यमिति शांश्रौ ६.११.८; आश्वश्रौ ३.८ ।
तैसं ३.१.११.३; मैसं ४.१०.१; अथर्व ७.४०.१; मॅ१५ आउ११-आश्वमंसं.१-औंध-जुना-अल एतेषु सर्वषु ‘यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रतमुपतिष्ठन्त आपः’ इति प्रथमार्धः । जोहवीमि-का; हवामहे-अथर्व; हुवेम-इतरेषु ।
मूलम् - १६
उप प्र वद मण्डूकि वर्षमा वद तादुरि ।
मध्ये ह्रदस्य प्लवस्व निगृह्य चतुरः पदः ॥ १ ॥
इन्द्रासोमा तपतं रक्ष उब्जतम्० ॥ ऋ. सं. ७. १०४. १
इत्यृग्वेदे खिले द्वितीयो ऽध्यायः ॥
ऋसं ७.१०३ अनन्तरं पठनीयम् ।
टिप्पनी - १६
अथर्व ४.१५.१४; निरु. ९.७; ऋमं-मॅ१६-आउ१२-मु-आश्वमंसं-औंध-अल-जुना । उप प्र वद-का-अथर्व; उपप्लवद-ऋमं-मॅ-मु-आउ; उपप्लवत-औंध. प्लवस्व-का-जुना-अथर्व-निरु-मॅ-आउ; प्लवस्य-ऋमं-मु. निगृह्य का-ऋमं-मु-मॅ; विगृह्य-अथर्व-निरु-आउ-जुना. पदः-का-अथर्व-निरु-मॅ-आउ-जुना; परः-ऋमं-मु ।