अथ खिलानि
अनुक्रमणिका
ॐ नमो विष्णवे । अथ खिलेषु सूक्तप्रतीकाद्युक्तं प्रयोजनं….. शतर्च्यादीनामधिदैवता लक्षणानि च । छन्दसां चाधिक्यं च । कृतिः प्रकृतिराकृतिर्विकृतिः सङ्कृतिरभिकृतिरुत्कृतितित्यशीत्यक्षरादीनि, (खिल ४.९) चतुरुत्तराण्येव (निवित् पुरोरुचः प्रैषाः कुन्तापा इति चत्वारि यजूंषि) यजूंषि, सङ्ख्यानुवर्तनादितुल्यम् ऋषीणां च तुल्यनाम्नां गोत्रमनादेशे, खिलान्यन्तरं मन्त्रोक्तान्येव सङ्ख्यादीनि सम्भवेत् ॥
सं तृचं शश्वत् षळूना तार्क्ष्यः सुपर्ण आश्विनं वै तत् सप्तम्याग्नेयी परा ऐन्द्री एकादशी वा नवमी लिङ्गोक्ता देवता अष्टम्यादि विराड्रूपाश्चतस्रो (’अष्टम्यां विराड्रूपा चतस्रो’ इति साधु) जगत्य उरोबृहती प्र सप्त ब्राह्म्यो निषदुपनिषदौ द्वितीया जगती षष्ठी विराट्स्थाना ज्योतिष्मन्तं दश भारद्वाजो ज्योतिष्माँ षष्ठ्याद्या लिङ्गोक्तदेवतामानुष्टुम्नवम्यन्त्ये च कृश एकादशाश्विनः कृश आद्याः षड् लिङ्गोक्तदेवता आनुष्टुभमिमानि सप्तापुनर्दोष ऐन्द्रावरुणं जागतमयं षड् रेतागाङ्ग्यो यदा तृचं यामुनिः प्रणेता यं षड् यज्ञवत्सो ऽयं चतुष्कं गौरीवीतिरिदमष्टौ चक्षुषी आश्विनापदोषः षष्ठी जगत्यत्रानुक्तगोत्राः सौपर्णाः ॥
मूलम् - १
स᳓मैक्षिष्योर्ध्व᳓महस आदित्ये᳓न सही᳓यसा ।
अहं᳓ य᳓शस्वि᳓नां य᳓शो वि᳓श्वा रूपा᳓ण्या᳓ ददे ॥ १ ॥
उद्य᳓न्नद्य᳓ वि᳓ नो भज पिता᳓ पुत्रे᳓भ्यो य᳓था ।
दीर्घायुत्व᳓स्य हेशिषे त᳓स्य नो धेहि सूर्य ॥ २ ॥
उद्य᳓न्तं त्वा मित्रमह आरो᳓हन्तं विचक्षण ।
प᳓श्येम शर᳓दः शतं᳓ जी᳓वेम शर᳓दः शत᳓म् ॥ ३ ॥
अभि᳓ त्यं᳓ मेषं᳓ पुरुहूत᳓मृग्मि᳓यम्० ॥ ऋ.सं १.५१.१
ऋसं १.५० अनन्तरं पठनीयम् ।
म१-आउ१-औध ।
टिप्पनी - १
१ = समैक्षिष्योर्ध्वमहस-का; शमैश्चित्सूर्येण-म-आउ; शनैश्चिदद्य सूर्येण-औध. विश्वा रूपाण्या-का; विद्यारूपाण्या-म-आउ; विद्यारूपमुपा-औध ।
२ = तैब्रा ३.७.६.२२;
२.२ = खिल १.५.५.२; धेहि-का; देहि-तैब्रा-म-आउ ।
३.१ = ऋसं १.५०.११; तैब्रा ३.७.६.२२.
३.२ = ऋसं ७.६६.१६; अथर्व १९.६७.१-२; मैसं ४.९.२०; वासं ३६.२४; तैआ ४.४२.५; मागृ १.२२.११.२; हिगृ १.७.१०; पागृ १.११.९; मंपा २.५.१३-१४.
३ = खिल १.५.६; ऋसं १०.३७.७-८ ।
मूलम् - २
श᳓श्वन्ना᳓सत्या युव᳓योर्महित्वं᳓ गा᳓वो अर्चन्ति स᳓दमि᳓त्पुरुक्षू ।
य᳓दूह᳓थुरश्विना भुज्यु᳓म᳓स्तमनारम्भणे᳓ अ᳓ध्वनि तौग्र्य᳓म᳓स्तम् ॥ १ ॥
य᳓द᳓श्वं श्वेतं᳓ द᳓धतो अभिघ्न᳓न्ना᳓सत्या भुज्यू᳓ सुम᳓ताय पेर᳓वे ।
तां᳓ वां र᳓तिं विद᳓थेषु विप्रा रे᳓भन्तो दस्रावगम᳓न्मनस्यु᳓म् ॥ २ ॥
आ᳓ नो विपन्यू स᳓वनं जुषे᳓थामा᳓ वां हंसाः᳓ सुयुजो वह᳓न्तु ।
युवां᳓ स्तो᳓मासो ज᳓नयो न᳓ म᳓र्या उश᳓न्तो दस्रा वृषणा सचन्ते ॥ ३ ॥
आ᳓ नो यातं त्रिवृ᳓ता सोमपे᳓यं र᳓थेन द्युक्षा स᳓वनं म᳓दाय ।
स्तीर्णं᳓ वां बर्हिः᳓ सु᳓षुता म᳓धूनि युक्ता᳓ हो᳓तारो रथिराः᳓ सुह᳓स्ताः ॥ ४ ॥
वा᳓सात्यौ चित्रौ᳓ ज᳓गतो निधा᳓नौ द्या᳓वाभूमी शृणुतं᳓ रोद᳓सी मे ।
ता᳓वाश्वि᳓ना रा᳓सभाश्वा ह᳓वं मे शुभस्पती आ᳓गतं सूर्य᳓या सह᳓ ॥ ५ ॥
प्रे᳓षः सन्तु म᳓धुनो घृत᳓स्य तीव्रं᳓ सो᳓मं नि᳓ वपन्तु शुष्मि᳓णः ।
एवं᳓ त᳓था युवत्य᳓श्विनौ बाहू᳓ ऊ᳓र्जं दुहतु म᳓धुना घृते᳓न ॥ ६ ॥
अ᳓ग्ने मन्दन्तु य᳓तयः स्तो᳓माः प्र᳓ णु᳓ त्यं दिवं᳓ यान्ति घर्म᳓म् ।
च᳓तुर्दशं त्रिदि᳓वं युवानमो᳓जो मिमातु द्र᳓विणं सुमे᳓के ॥ ७ ॥
ह᳓रिं हिनोमि द᳓यमानो अंशु᳓ पुरुमीळ्ह᳓ ऋषभं᳓ ज᳓यान् ।
ह᳓र्यश्वं ह᳓रितः सप्ता᳓श्वं युक्ता᳓नेमिं त्रिना᳓भिं व᳓रुणं प्रगा᳓थः स्वस्त᳓ये ॥ ८ ॥
सो᳓मो वैष्णवं᳓ महिमा᳓नमोजः सप्त᳓ ऋ᳓षयः सुवी᳓रा न᳓राः प्रीणयन्ति ।
सौधन्वना᳓सः सुह᳓स्ताः श᳓मीभिस्त्वष्ट᳓माङ्गिरस᳓मृभवं स्वस्त᳓ये ॥ ९ ॥
इहै᳓ह वो म᳓घवन्नि᳓ दधामि ध्रुवं᳓ तीव्रं᳓ च तं᳓ हृदिय᳓न्तं बृह᳓स्पतिम् ।
स᳓ते दधामि द्र᳓विणं हवि᳓ष्मते घर्म᳓श्चित्तप्तः᳓ प्रवृ᳓जे व᳓हन्ति ॥ १० ॥
श᳓श्वत्सौपर्णौ᳓ वि᳓षितस्तुकं᳓ वायसं᳓ विश्वभु᳓जः पथिर᳓क्षी नृच᳓क्षसौ ।
इयं᳓ हि᳓ त्वा द᳓यमानं पृ᳓चद्भिर्मां᳓ वायसो᳓ दोषा᳓द्द᳓यमानो अबूबुधत् ॥ ११ ॥
त᳓मेकनेमिं᳓ त्रि᳓वृतं षोळशा᳓रं शता᳓वारं विंशति᳓ प्र᳓त्यराभिः ।
अष्टकैः᳓ षड्भि᳓र्विश्वरू᳓पैकपा᳓शं त्रि᳓मार्गभेदं᳓ द्वि᳓निमित्तै᳓कमो᳓हम् ॥ १२ ॥
स᳓दं स᳓दमेक᳓मेकं तस्थु᳓षः पञ्च᳓त्रिंशाद्दश᳓परम् ।
त्रिं᳓शतं शि᳓वं न᳓वगुह्यं यज्ञ᳓मष्टषष्ठं विदत् ॥ १३ ॥
अ᳓तिष्ठद्व᳓ज्रं वृ᳓षणं सुवी᳓रं दधन्वं᳓ देवाँ᳓ ह᳓रिमिन्द्रकेशम् ।
आयाँ᳓ इ᳓न्द्रः षोळशीं᳓ श᳓र्म यच्छतु षड्वर्मि᳓णमे᳓कं ध्रुव᳓न्ति साक᳓म् ॥ १४ ॥
टिप्पनी - २
एतदादीन्येकादश सौपर्णसूक्तानि । तथा चात्र बृहद्देवता ( ३.११८ - ११९)- “शश्वद्धि वामिति । दशाश्विनानीमानीति इन्द्रावरुणयोः स्तुतिः । सौपर्णेयास्तु याः काश्चिन्निपातस्तुतिषु स्तुताः”(Cf. Bṛhaddevatā, Part II. pp. 112-13.) । ऋग्विधानमपि (१.१०८)- ‘सौपर्णानि पवित्राणि सूक्तान्येकादशाभ्यसेत् । वाञ्छन् पुत्रान् पशून् वित्तं स्वर्गमायुरनन्धताम्’(For the Ṛgvidhāna I have used the edition in Roman characters of Rudolf Meyer (Berlin 1878) as well as the Sanskrit transliteration of the same by Pandit Jagadish Shastri (Lahore, 1940). The transliterator does not seem to have paid proper attention to the Khilas treated in the Ṛgvidhāna. By Sauparṇāni he means RV. I. 74-84 ! See also notes to Khila IV. 11.) ॥
१. → ऋसं १.११६.५ : यदश्विना ऊहथुर्भुज्युमस्तम् ।
२.१. ‘यदश्वं श्वेतं दधतुरहिघ्नन्नासत्या भुज्यू सुमताय पेदवे’ इति शुद्धं स्यात् ।
३.२. सचन्ते; सचेन्ते-का → ऋसं १.११६.६; ११७.९; ११८.९; ११९.१०; १०.३९.१०; ७.७१.५
४. आ नो यातं → ४.४४.५; ८.८.५. रथिराः; रथिनाः इति का-पुस्तकस्थो मुद्रितपाठो ऽशुद्धः स्यात् । खिल १.३.३; १०.३ द्रष्टव्यम्(Cf. A. B. Keith, JRAS 1907, p. 225.) ।
५. = तैआ १.१०.२. वासात्यौ-का-तैआ; → निरु १२.२. शृणुतं रोदसी मे- का; चरथः सं खखायो-तैआ ।
६. प्रेषः (= प्र + इषः); पेर्षः- का. ऊर्जं दुहतु-का → ऋसं ८.७२.१६; १००.१०.
७. मन्दन्तु; मद्दन्तु-का. ओजो मिमातु-का; ‘ओजो मिमाते’ इति भाव्यं → ऋसं ७.८२.६ ।
८. अंशु- का; अंशुं ? → हरिरंशुः-ऋसं ९.९२.१. हरितः- का; हरितं ? युक्तानेमिं-का; युक्तनेमिं ? प्रगाथः इति पदं सर्वथानावश्यकम् ।
९.१. प्रीणयन्ति- का; ‘प्रीणन्ति’ इति मूलपाठः स्यात्.
९.२. → ऋसं ३.६०.३ : इन्द्रस्य सख्यमृभवः समानशुर्मनोर्नपातो अपसो दधन्विरे । सौधन्वनासो अमृतत्वमेरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्ययाः; → ऋसं ७.३५.१२ : शं न ऋभवः सुकृतः सुहस्ताः ।
१०. इहैह - का; इहेह ? घर्मश्चित्तप्तः प्रवृजे = ॠसं ५.३०.१५.
११.२. इयं ‘इ’ धातो रूपं; → इयाम्-ऋसं ७.८६.४. पृचद्भिः- का; पृञ्चद्भिः पृदद्भिः इति वा स्यात् । अबूबुधत्; अबुबुधत्-का; → खिल ५.११.१.
१२. = श्रेउ १.४. पोळशारं शतावारं*- का; षोडशान्तं शतार्धारं श्वेउ → मभाआदि. १.३.६४: एकां नाभिं सप्तशता अराः ।
१३.१. सदमेकमेकं; सदमेकमकं का. दश०-का; ‘दशं’ इत्यपि संभवेत् । १४.१. दधन्वं देवाँ → ऋसं ८.१९.१.
१४.२. → वासं २६.१०; तैसं १.४.४१ : महाँ इन्द्रो वज्रबाहुः षोडशी शर्म यच्छतु ।
मूलम् - ३
प्र᳓ धा᳓रा यन्तु म᳓धुनो घृत᳓स्य यद᳓विन्दतं सू᳓री उस्रि᳓यायाम् ।
मित्रा᳓व᳓रुणौ भु᳓वनस्य कारू᳓ ता᳓ मे अश्विना जुषतां सव᳓ना ॥ १ ॥
सुखं᳓ र᳓थं शत᳓यावानमाशुं᳓ प्रातर्या᳓वाणं सुष᳓दं हिरण्य᳓यम् ।
आ᳓ तिष्ठद्य᳓त्र दुहिता᳓ विव᳓स्वतस्त᳓मेवा᳓र्वा᳓ञ्चम᳓वसे करामहे ॥ २ ॥
ये᳓ वाम᳓श्वासो रथिरा᳓ विपश्चि᳓तो वा᳓तध्राजिषः सुयु᳓जो घृतश्चु᳓तः ।
ये᳓भिर्याथ उ᳓प सूर्यां᳓ वरेयं᳓ ते᳓भिर्नो दस्रा वर्धतं सम᳓त्सु ॥ ३ ॥
य᳓द्वां रे᳓तो अश्विना पोषयित्नु᳓ य᳓द्रा᳓सभो वध्रिमत्यैः᳓ सुदानू ।
य᳓स्माज्जज्ञे᳓ देव᳓कामः सुद᳓क्षस्त᳓दस्यै दत्तं भिषजावभिद्यु᳓ ॥ ४ ॥
य᳓न्नास᳓त्या भेषजं᳓ चित्र᳓भानू ये᳓नावथुस्तोक᳓कामामु नु᳓ घोषा᳓म् ।
त᳓दस्यै दत्तं त्रिषु᳓ पुंसु वध्वै᳓ ये᳓ना᳓विन्दतु न᳓यं सा सुह᳓स्त्यम् ॥ ५ ॥
व᳓षड् वां द᳓स्रावस्मिन्सुते᳓ ना᳓सत्या हो᳓ता कृणोतु वेधाः᳓ ।
सि᳓स्रतां ना᳓र्यृत᳓प्रजाता वि᳓ प᳓र्वाणि जिहतां सू᳓तवा᳓ उ ॥ ६ ॥
एवा᳓ निष᳓च्चोपनिष᳓च्च वि᳓प्रा युवां᳓ रे᳓भत्यौ सयु᳓जा सुप᳓र्ण्यौ ।
ब्र᳓ह्माण्यक्रतुर्विद᳓थेषु श᳓क्रा धत्तं᳓ त᳓योस्त᳓नयं तोक᳓म᳓ग्र्यम् ॥ ७ ॥
टिप्पनी - ३
इदं सूक्तम् आश्वगृ ३.१२.१४ मध्ये निर्दिष्टम्; ऐब्रा ६.२५.७; ८.१०.४ सायणभाष्ये:- ‘प्र धारा यन्तु मधुन इति सौपर्णसूक्तम्’ ।
२.२ → ऋसं १०.३८.४ : अर्वाञ्चमिन्द्रमवसे करामहे ।
३.१. वातध्राजिषः → तैआ १.११.७: वातघ्राजिगति.
३.२. याथ उप सूर्यां वरेयं → ऋसं १०.८५.१५ = अथर्व १४.१.१५ : अयातं… वरेयं सूर्यामुप ।
६.१. = अथर्व १.११.१.१ : वषट् ते पूषन्नस्मिन्त्सूतावर्यमा होता कृणोतु वेधाः ।
६.२. = अथर्व १.११.१.२ ।
मूलम् - ४
ज्यो᳓तिष्मन्तं केतुम᳓न्तं त्रिचक्रं᳓ सुखं᳓ र᳓थं सुष᳓दं भू᳓रिमायम् ।
चित्रा᳓मघा य᳓स्य यो᳓गे ऽधिजज्ञे तं᳓ वां हुवे᳓ अ᳓ति रिक्तं पि᳓बध्यै ॥ १ ॥
युवं᳓ देवा᳓ क्र᳓तुना पूर्व्ये᳓ण युक्ता᳓ र᳓थेन तविषं᳓ यजत्रा ।
आ᳓ गच्छतं नासत्या श᳓चीभिरिदं᳓ तृती᳓यं स᳓वनं पि᳓बाथः ॥ २ ॥
युवां᳓ देवा᳓स्त्र᳓य एकादशा᳓सः सत्या᳓ सत्य᳓स्य दधिरे पुर᳓स्तात् ।
अस्मा᳓कं यज्ञं᳓ स᳓वनं जुषाणा᳓ पातं᳓ सो᳓ममश्विना दी᳓द्यग्नी ॥ ३ ॥
पना᳓य्यं त᳓दश्विनाकृतं᳓ वां वृषभो᳓ दिवो᳓ र᳓जसः पृथिव्याः᳓ ।
सह᳓स्रं शं᳓सा उत᳓ ये᳓ ग᳓विष्ठौ स᳓र्वाँ इ᳓त्ताँ᳓ उ᳓प यातं पि᳓बध्यै ॥ ४ ॥
अयं᳓ वां भागो᳓ नि᳓हितो य᳓जत्रेमा᳓ गि᳓रो नासत्यो᳓प यातम् ।
पि᳓बतं सो᳓मं म᳓धुमन्तमश्विना प्र᳓ दाश्वां᳓समवतं श᳓चीभिः ॥ ५ ॥
ज्यो᳓तिष्मन्तं सुप्र᳓तीकम᳓जस्रेण भानु᳓ना दीद्य᳓ग्नी ।
शिवं᳓ प्रजा᳓नां कृणुष्व मा᳓ हिंसीः पु᳓रुषं ज᳓गत् ॥ ६ ॥
धाता᳓ रातिः᳓ सविते᳓दं᳓ जुषन्तां त्व᳓ष्टा य᳓द्दू᳓तो अ᳓भवद्विव᳓स्वतः ।
सं᳓ वामश्वि᳓भ्यामुष᳓सा सजू᳓स्त᳓मूर्वं᳓ ग᳓व्यं म᳓हि गृणान᳓ इन्द्र ॥ ७ ॥
भर᳓द्वाजस्य सुन्व᳓तो यविष्ठा᳓ याह्यग्ने म᳓धुमत्तमः सुतः᳓ ।
सोम᳓स्य मा तवसो᳓ दी᳓ध्यानो अ᳓च्छा को᳓शं जन᳓यित्वा᳓वतो भुवत् ॥ ८ ॥
अग्निः᳓ पृथु᳓र्ब्र᳓ह्मणस्प᳓तिः सो᳓मो देवे᳓ष्वा᳓ यमत् ।
इ᳓न्द्रस्या᳓धिपत्य मे बृ᳓हस्पते ह᳓वींषि ते ॥ ९ ॥
रुचं᳓ ब्रा᳓ह्म्यं जन᳓यन्तो देवा᳓ अग्रे᳓ य᳓द᳓ब्रुवन् ।
य᳓स्त्वेदं᳓ ब्राह्मणो᳓ विद्या᳓त᳓स्य देवा᳓ असन्व᳓शे ॥ १० ॥
टिप्पनी - १
१. = ऋसं ८.५८.३ (वालखिल्य १०.३).
२ - ५. = ऋसं ८.५७.१ - ४ (वालखिल्य ९).
४. = अथर्व २०.१४३.९; आश्वश्रौ ९.११.
१.१. भूरिमायं - का; भूरिवारं - ऋसं. ।
३. सत्या - का; सत्याः- ऋसं. दधिरे - का; ददृशे - ऋसं ।
४.२. गविष्ठौ - का; गविष्टौ - ऋसं-अथर्व. यातं - का; याता - ऋसं ।
५.२. ०मश्विना - का; ०मस्मे - ऋसं ।
६.१ = तैसं ४.१.३.१; ५.१.४.१; मैसं २.७.२ : ज्योतिष्मन्तं त्वाग्ने सुप्रतीकमजस्रेण भानुना दीद्यानम्.
६.२ → मैसं २.७.२; तैसं ४.१.३.१; ५.१.४.१ : शिवं प्रजाभ्यो ऽहिंसन्तम्. मा हिंसीः = अथर्व १८.४.३०; → मनाउ २.१० : मा नो हिंसीर्जातवेदो गामश्वं पुरुषं जगत् ।
७. → वासं ८.१७; तैसं १.४.४४; अथर्व ३.८.२; मैसं १.३.३८; कासं ४.१२; १३.९; ऋसं १.५८.१ : धाता रातिः सवितेदं जुषन्तां प्रजापतिर्निधिपा देवो अग्निः । त्वष्टा यद्दूतो अभवद्विवस्वतः, अश्विभ्यामुषसा सजूः = १.४४.१४. ऊर्वं गव्यं महि गुणान इन्द्र = ऋसं ६. १७.१ ।
८. मधुमत्तमः सुतः = ऋसं ९.१०५.३. सोमस्य मा तवसो = ऋ ३.१.१; मैसं ४.११.२; कासं २.१५. दीध्यानो; दीध्याना - का. अच्छा कोशं = ऋसं ९.१०७.१२ ।
९. अग्निः पृथुर्ब्रह्मणस्पतिः = अग्निः पृथुर्धर्मणस्पतिः - वासं १०.२९. सोमो देवेष्वा यमत् = ऋ ९.४४.५०
१०. = वासं ३१.२१; तैआ ३.१३.२. ब्राह्यं - का; ब्राह्मं – वासं - तैआ. यदब्रुवन् - का; तदब्रुवन्- वासं तैआ. यस्त्वेदं - का; यस्त्वैवं - वासं - तेआ ।
मूलम् - ५
कृश᳓स्त्वं᳓ भुवनस्पते पा᳓ति देवा᳓नाम᳓द्भुतः ।
अ᳓श्विना पात᳓मस्मयू᳓ ना᳓सत्या तिरो᳓अह्न्यम् ॥ १ ॥
त्वं᳓ तं᳓ सुपर्णा आ᳓भर दिव᳓स्पुत्रा᳓ नि᳓ षेदिरे ।
अग्निः᳓ प्रजा᳓नामभवज्जा᳓तवेदो वि᳓चर्षणे ॥ २ ॥
अग्नि᳓र्हो᳓ता विभू᳓ व᳓सुर्देवा᳓नामुत्तमं᳓ य᳓शः ।
पु᳓नरग्निः᳓ प्रजा᳓पतिर्वैश्वानरो᳓ हिरण्य᳓यः ॥ ३ ॥
अग्नि᳓स्त्राता᳓ शिवो᳓ भवद्वरूथ्यो विश्व᳓देव्योः ।
द्र᳓विणं पाहि विश्व᳓तः सोमपा᳓ अभयंकरः᳓ ॥ ४ ॥
अ᳓ग्ने नि᳓जहि म᳓र्माण्यराती᳓ना च म᳓र्मणाम् ।
दीर्घायुत्व᳓स्य हेशिषे त᳓स्य नो धेहि सूर्य ॥ ५ ॥
उद्य᳓न्तं त्वा मित्रमह आरोह᳓न्तं विचक्षण ।
प᳓श्येम शर᳓दः शतं᳓ जी᳓वेम शर᳓दः शत᳓म् ॥ ६ ॥
कृशं᳓ च्य᳓वानमृ᳓षिमन्ध᳓मश्विना जुजुर्वा᳓सं कृणुथः क᳓र्वरेभिः ।
अक्षण्व᳓न्तं स्थूलव᳓पुष्कमुग्रा᳓ पु᳓नर्यु᳓वानं प᳓तिमित्कनी᳓नाम् ॥ ७ ॥
यो᳓ वां सो᳓मैर्हवि᳓षा यो᳓ घृते᳓न वे᳓देन यो᳓ म᳓नसा वाश᳓ शक्रा ।
स᳓ धत्ते र᳓त्नं द्युम᳓दि᳓न्द्रवन्तं पुरुस्पृ᳓हं पृतनाज्यं᳓ सुवी᳓रम् ॥ ८ ॥
प्र᳓ वां नरा सप्त᳓वध्रिर्मनीषा᳓ गि᳓रं हिन्व᳓त्प्र᳓तिवाभ्यामिदा᳓नीम् ।
वृक्षा᳓ समुद्ध᳓मुश᳓ना यु᳓वानम᳓थ तं᳓ कृणुत मा वि᳓रप्शिनम् ॥ ९ ॥
अ᳓जोहवीत्सप्त᳓वध्रिः सुह᳓स्तो द्रु᳓णि बद्धो᳓ ऽर्य᳓समानः ककु᳓द्मान् ।
अ᳓रूरुजतं युव᳓म᳓स्य वृक्ष᳓म᳓द्रिं न᳓ वज्री सुवृषाय᳓माणः ॥ १० ॥
एवा᳓ कृश᳓श्चकमान᳓मना…….: सुह᳓वा राति᳓सूरः ।
ब्र᳓ह्मचक्रे युव᳓योर्व᳓र्धनानि ध᳓त्तं त᳓स्मै स᳓दम᳓रातिदब्धि᳓म् ॥ ११ ॥
टिप्पनी - ५
१. भुवनस्पते - का; →भुवनस्य पते - ऋसं ९.३१.६; प्रायः ‘भुवनपते’ इति प्रयोगः → वासं २.२; तैसं २.६.६.३.; तैब्रा ३.७.६.१; शांश्रौ ४.२० १; आश्वश्रौ १.४. पातमस्मयू ऋसं १.१३५.५. नासत्या तिरोअह्न्यं - ऋसं ३.५८.७.
२. दिवस्पुत्रा = ४.२.१५ जातवेदो विचर्षणे = ऋसं १.७८.१; ६.१६.२९; ३६; ८.४३.२.
३.१. विभू (?) - का; → ऋसं १०.९१.१ : होता विभूः ।
४.१. ऋसं ५.२४.१ : अग्ने त्वं…. त्राता शिवो भव वरूथ्यः. विश्वदेव्योः- का; ‘विश्वदेव्यः’ इति शुद्धम् ।
५.१. मर्माणि - का; वर्माणि ? → ऋसं ६.७५.१८ : मर्माणि ते वर्मणा छादयामि. ५.२-६. = खिल १.१.२.२-३; → ऋसं १०.३७.७-८ ।
७. → ऋसं १०.३९.३.२-४.१ : अन्धस्य चिन्नासत्या कृशस्य चिद्युवामिदाहुर्भिषजा रुतस्य चित् । युवं च्यवानं सनयं यथा रथं पुनर्युवानं चरथाय तक्षथुः; → ऋसं १.११७.१३ : युवं च्यवानमश्विना जरन्तं पुनर्युवानं चक्रथुः; शचीभिः; → तांब्रा १४.६.१०. ऋषिमन्धमश्विना = खिल १.१२.७. पतिमित्कनीनां → ऋसं १.११६.१० : इत्पतिमकृणुतं कनीनाम् ।
८. वाश - का; वाशे (= वा + आशे) ? ।
९.१. = ऋसं ८.७३.९. वृक्षा- का; वृक्षे ? समुद्ध - का; संबद्धं ? → ऋसं ६.७८.६ ।
१०.१. सुहस्तो; सुहस्त - का.
१०.२. → ऋसं ५.७८.५; ६. सुवृषायमाणः → ऋसं १.३२.३ ।
११.२. ब्रह्मचक्रे = श्वेउ १.६.
मूलम् - ६
इमा᳓नि वां भागधे᳓यानि सिस्रत इ᳓न्द्रावरुणा प्र᳓ महे᳓ सुते᳓षु वाम् ।
यज्ञे᳓ यज्ञे हि᳓ स᳓वना भुरण्य᳓थो य᳓त्सुन्वते᳓ य᳓जमानाय शि᳓क्षथः ॥ १ ॥
निष्षि᳓ध्वरीरो᳓षधीरा᳓प आ᳓भ्यामि᳓न्द्रावरुणा महिमा᳓नमाशत ।
या᳓ तस्थ᳓तू र᳓जसस्पारे᳓ अ᳓ध्वनो य᳓योः श᳓त्रुर्न᳓किरा᳓देव ओ᳓हते ॥ २ ॥
सत्यं᳓ त᳓दिन्द्रावरुणा घृतश्चु᳓तं म᳓ध्व ऊर्मिं᳓ दुहते सप्त᳓ वा᳓णीः ।
ता᳓भिर्दाश्वां᳓समवतं शुभस्पती यो᳓ वाम᳓दब्धो अभि᳓ पा᳓ति चि᳓त्तिभिः ॥ ३ ॥
घृतप्रु᳓षः सौ᳓म्या जीर᳓दानवः सप्त᳓ स्व᳓सारः स᳓दन ऋत᳓स्य ।
या᳓ ह वामिन्द्रावरुणा घृतश्चु᳓ता ता᳓भिर्द᳓क्षं य᳓जमानाय शिक्षतम् ॥ ४ ॥
अ᳓वोचाम महते᳓ सौ᳓भगाय सत्यं᳓ त्वेषा᳓भ्यां महिमा᳓नमिन्द्रिय᳓म् ।
अस्मा᳓न्स्विन्द्रावरुणा घृतश्चु᳓ता त्रि᳓भिः सप्ते᳓भिरवतं शुभस्पती ॥ ५ ॥
इ᳓न्द्रावरुणा य᳓दृषि᳓भ्यो मनीषा᳓ वाचो᳓ मतिं᳓ श्रुत᳓म᳓धत्तम᳓ग्रे ।
ता᳓नि च्छ᳓दांस्यसृजन्त धी᳓रा यज्ञं᳓ तन्वाना᳓स्त᳓पसाभ्य᳓पश्यन् ॥ ६ ॥
इ᳓न्द्रावरुणा सौमनस᳓म᳓दृप्तं राय᳓स्पो᳓षं य᳓जमानेषु धत्तम् ।
प्रजां᳓ पुष्टिं᳓ रयि᳓मस्मा᳓सु धत्तं दीर्घायुत्वा᳓य प्र᳓ तिरतं न आ᳓युः ॥ ७ ॥
टिप्पनी - ६
ऋसं ८.५९ (वालखिल्य ११); ऐब्रा ६.२५ (सायणभाष्यं); शांश्रौ ९.२०.१४ (भाष्यं); बृहद्दे ३.११९ एतेभ्यो ज्ञायते यदिदं सौपर्णं सूक्तमिति । आश्वश्रौ. ८.२; शांश्रौ १२.११.१७ अत्रापि निर्दिष्टम् ।
१.२. हि - का; ह - ऋसं ।
२. निष्षिध्वरीरोषधीराप = ऋसं ३.५५.२२. आभ्यामि० - का; आस्तामि० - ऋसं. महिमानमाशत = ऋसं १.८५.२. तस्थतू रजसस्पारे - का; सिस्रतू रजसः पारे - ऋसं ।
३.१. घृतश्चुतं - का; कृशस्य वां - ऋसं ।
४.२. दक्षं - का; धत्तं - ऋसं ।
५.२. घृतश्चुता त्रिभिः सप्तेभि० - का; घृतश्चुतस्त्रिभिः साप्तेभि० - ऋसं ।
६. मनीषा - का; मनीषां - ऋसं. ०मधत्तमग्रे – का; ०मदत्तमग्रे – ऋसं. तानि च्छन्दांस्य० - का; यानि स्थानान्य० - ऋसं. ०पश्यन् - का; ०पश्य - ऋसं ।
७.२. रयिमस्मासु - का; भूतिमस्मासु - ऋसं ।
मूलम् - ७
अयं᳓ सो᳓मः सुश᳓मी अ᳓द्रिबुध्नः प᳓रिष्कृतो मति᳓भिरुक्थशस्तः᳓ ।
गो᳓भिः श्रीतो᳓ मत्सरः᳓ सा᳓मगीतो मक्षू᳓ प᳓र्वाते प᳓रि वां सुशिप्रा ॥ १ ॥
अ᳓स्य पा᳓जसः पिबतं सुत᳓स्य वा᳓रेष्ठा᳓व्याः प᳓रिपूतय वृ᳓ष्णः ।
ता᳓वश्विना जठ᳓रमा᳓ पृणेथाम᳓था म᳓नो वसुधे᳓याय धत्तम् ॥ २ ॥
ए᳓ह᳓ यातं तन्वा ३ शा᳓शदाना म᳓धूनि नश्चकमानो᳓ नु᳓ मेधा ।
वि᳓ स्वा᳓ मन्द्रा᳓ पुरुरे᳓जमाना युवाय᳓ती ह᳓वते वां मनीषा᳓ ॥ ३ ॥
सुखं᳓ नासत्या र᳓थमंशुम᳓न्तं स्योनं᳓ सुव᳓ह्निम᳓धि तिष्ठतं यु᳓वम् ।
यं᳓ वां व᳓हन्ति हरि᳓तो व᳓हिष्ठा शत᳓म᳓श्वा य᳓दि वा सप्त᳓ देवा᳓ ॥ ४ ॥
यं᳓ वे᳓नं ता᳓गच्छतं मानव᳓स्य शार्यात᳓स्य सदनं᳓ शस्य᳓माना ।
अ᳓बीभयुः सधमा᳓दं चकान᳓श्च्य᳓वनो देवा᳓न्युव᳓योः स᳓ एषः᳓ ॥ ५ ॥
आ᳓ नो अश्विना त्रिवृ᳓ता र᳓थेनार्वा᳓ञ्चं रयिं᳓ वहतं सुवी᳓रम् ।
शृण्व᳓न्ता वाम᳓वसे जोहवीमि वृधे᳓ च नो भवतं वा᳓जसातौ ॥ ६ ॥
टिप्पनी - ७
१.२. गोभिः श्रीतो = ऋसं ८.८२.५ ।
२.२. जठरमा पृणेथां = ऋसं ६.६९.७. **अथा मनो वसुधेयाय = अथर्व ३.४.४ : अधा० ।
३.१. तन्वा ३ शाशदाना = ऋसं. १.१२४.६ ।
४. = अथर्व १३.२.७ ।
५.१. → ऋसं १.११२.१६; शब्रा ४.१.५.२; ऐब्रा ४.३२ ।
६. = ऋसं १.३४.१२.
मूलम् - ८
यदा᳓ युञ्जाथे मघ᳓वानमाशुं᳓ पुरुस्पृ᳓हं पृतनाज्यं᳓ सुवी᳓रम् ।
स्व᳓श्वं दस्रा र᳓थमा᳓ हवे᳓षु त᳓दा युती᳓र्येति र᳓सं तनू᳓नाम् ॥ १ ॥
भ᳓न्दिष्ठा इमे᳓ कव᳓यश्चरन्ति भ᳓रेषु न᳓ ग्र᳓थिता तुर्व᳓शासः ।
वा᳓चं हिन्वानाः᳓ पुरुपे᳓शसं वा हवि᳓ष्मती स᳓वने मन्दय᳓ध्यै ॥ २ ॥
श्रुतं᳓ ह᳓वं तर्पयतं मखस्युं᳓ का᳓ममेषामा᳓ वहथो ह᳓वींषि ।
अ᳓ध स्तोतॄ᳓न् य᳓जमानं च पात᳓मूतिभिर्नृपती᳓ या᳓ अभी᳓के ॥ ३ ॥
टिप्पनी - ८
१. पुरुस्पृहं पृतनाज्यं सुवीरं = खिल १.५.८.२. रसं तनूनां = ऋसं ७.१०४.१० ।
२. ग्रथिता - का; प्रथिताः ?
३.१. तर्पयतं… काममेषां = ऋसं १.५४.९ : तर्पय काममेषाम् ।
मूलम् - ९
यं᳓ ग᳓च्छथः सुतपा देव᳓वन्तं हवि᳓ष्कृतं वृ᳓षणा रात᳓हव्यम् ।
स᳓ पुष्यत्य᳓न्नं शत᳓माविरुक्थ्य ३ म᳓ना पि᳓बन् प्र᳓यतमादयित्नु᳓ ॥ १ ॥
या᳓ दं᳓सांसि जरिता᳓ दुष्ट᳓रा वां या᳓ शं᳓सन्ति जरिता᳓रः सुते᳓षु ।
या᳓नीह᳓ पुष्यन्तु विधा᳓ ज᳓नेषु यै᳓रश्नु᳓थो विद᳓थे सोमपे᳓यम् ॥ २ ॥
य᳓दुश᳓न्ता वृषणा या᳓ दधीचे᳓ शि᳓रो भिषजा सम᳓धत्तमर्वा᳓क् ।
त᳓द्वां मती᳓ म᳓धुना तं᳓ यु᳓वाना व᳓षट्कृतम् भसथो मन्दसाना᳓ ॥ ३ ॥
मा᳓ वोच आ᳓थर्वण य᳓द् ब्र᳓वीमि म᳓धु ते ऽन्यै᳓र्वीरत᳓रैरचित्त᳓म् ।
य᳓दन्व᳓शासन् मघ᳓वा दधीचं᳓ त᳓द्वामवक्षच्छि᳓रसा हय᳓स्य ॥ ४ ॥
य᳓दा ग᳓च्छाद्वीळितो᳓ व᳓ज्रबाहुर्धत्ते᳓ पितृ᳓भ्या म᳓धु नो दधीचा᳓ ।
आ᳓ तिरे᳓ग्नं दुश्शुते᳓ मा᳓ व᳓देति यदा᳓ व᳓दत्सा यु᳓वयोः सुकीर्तिः᳓ ॥ ५ ॥
या᳓भिः श᳓चीभिर्वृषणा दधीचं᳓ या᳓भिस्तु᳓रं कावषेयं᳓ मख᳓स्य ।
या᳓भिर्धि᳓यं जि᳓न्वथाके᳓ नि᳓पाना ता᳓भिर्नो ऽवतं विद᳓थे गभीरा᳓ ॥ ६ ॥
टिप्पनी - ९
२. यैरश्नुथो; येरश्नथो – का ।
३.१. दधीचे शिरो = ऋसं १.११७.२२ : दधीचे ऽश्वयं शिरः → ऋसं १.११६.१२; शब्रा १४.१.१.१८-२५ ।
४.२. → ऋसं १.११६.१२.२ : यन्मध्वाथर्वणो नामश्वस्य शीर्ष्णा प्र यदीमुवाच; → ऋसं १.११७.२२ ।
५. पितृभ्यां - का; पितृभ्यो ? दुश्शुते मा वदेति - का; दुःश्रुता मा वदाति ? ६. याभिः शचीभिर्वृषणा = ऋसं १.११२.८. तुरं कावषेयं → शब्रा ९.५.२.१५; १०.६.५.९; ऐब्रा ४.२७; ७.३४; ८.२१; बृउ ६.५.४ ।
मूलम् - १०
अयं᳓ सो᳓मो देवया᳓ वां सुमेधा᳓ हृदिस्पृ᳓ग् याति धि᳓षणां मियानः᳓ ।
स्वा᳓धिष्ठो हव्या᳓न्म᳓धुनो घृता᳓द्वा नू᳓त्नो वां स्तो᳓मो अश्विनाह᳓मेभि ॥ १ ॥
प्र᳓ वां म᳓ही मन्दते देव᳓कामा᳓ ययै᳓रयासो वयु᳓नानि विश्वा ।
ता᳓वश्विना पुरुभु᳓जा सुशस्ती᳓ ऋषिहि᳓ता मंहतं विश्व᳓धेनाम् ॥ २ ॥
यो᳓ वां गोमा᳓न᳓श्ववान् सूनृ᳓तावान् पुरुश्चन्द्र᳓ स्पार्हा᳓ स्पार्हयिष्णुः᳓ ।
यं᳓ जो᳓हवीमि रथिरो᳓ ग᳓विष्ठौ त᳓मह्वे र᳓थमा᳓ विश्व᳓रूपम् ॥ ३ ॥
सुवृ᳓द्र᳓थो वां वृषणा सुव᳓ह्निः पुरुस्पृ᳓हो वसुवि᳓द्यो᳓ व᳓योधाः᳓ ।
ये᳓न वा᳓जान् वहतं स्पार्ह᳓वीरानु᳓रुश्रि᳓यः शुरु᳓धो ऽश्वां᳓श्च माध्वी ॥ ४ ॥
टिप्पनी - १०
२.१. ययैरयासो - का; ययेरयासो ? वयुनानि विश्वा = ऋसं ६.१५.१०;
७५.१४ ।
४.१. सुवृद्रथो = ऋसं १.१८३.२.
मूलम् - ११
इदं᳓ देवा भागधे᳓यं पुराणं᳓ य᳓दा᳓शिरे हृषिता᳓ यज्ञि᳓यासः ।
एष᳓ स्य घर्मः᳓ प᳓रिपूत ऋग्भि᳓स्तं᳓ ब᳓प्सथो रथिरा᳓ विद्र᳓वन्ता ॥ १ ॥
वृक्णं᳓ शि᳓रो वृषणा य᳓न्मख᳓स्य शि᳓रो भिषजा सम᳓धत्तमर्वा᳓क् ।
त᳓द्वां न᳓रः सरि᳓रं चा᳓रु चित्रं᳓ स᳓दा गृणन्ति कव᳓यः सुते᳓षु ॥ २ ॥
ये᳓न देवा᳓ अ᳓घ्नत सं᳓ र᳓पांसि ये᳓ना᳓सहन्त पृत᳓ना अदेवीः᳓ ।
ये᳓ना᳓भवन्नमृ᳓ताः सोमधा᳓नं त᳓मर्पयतं शिर᳓सा हय᳓स्य ॥ ३ ॥
पुरा᳓ विशीर्ष्णा᳓ विद᳓थेन देवा᳓ ना᳓वाशिषोरुन्धत ना᳓पि ना᳓कम् ।
ईजाना᳓ बह्वीरु᳓ स᳓मा यदा᳓स्य शि᳓रो दत्तं स᳓मधा᳓न्वारुहन् स्वः ॥ ४ ॥
य᳓द्वां माता᳓ उ᳓प आ᳓तिष्ठदुग्रं सुवृ᳓द्र᳓थानव्यथेयं᳓ सर᳓ण्यूः ।
त᳓त्र वां माध्वी मध्वा᳓हितं सुनीथं᳓ प्रत्न᳓मश्विना मयोभु᳓ ॥ ५ ॥
युवं᳓ स्त्रिभि᳓श्चितयथो᳓ ऽपि ना᳓कं युवं᳓ प᳓यांसि श᳓क्वरीषु धत्तम् ।
युवं᳓ वीरु᳓द्भिः सृज᳓तं महीमं᳓ युवं᳓ स᳓र्तवे सृजतं वि᳓ सि᳓न्धून् ॥ ६ ॥
युवं᳓ माध्वी म᳓धुभिः सारघे᳓भिर्युवं᳓ भेषजा᳓ स्थो भिषजा सुपाणी᳓ ।
युवं᳓ र᳓थेभी रथिरै᳓ स्थ उग्रा सुमङ्गला᳓वमीवचा᳓तनेभिः ॥ ७ ॥
त᳓न्मे दत्तं च᳓क्षुरक्ष्णो᳓र्विच᳓क्षे प᳓श्यामो ये᳓न स्व᳓रिमा᳓ दि᳓शश्च ।
ये᳓नाभि᳓ख्याय वि ध᳓वाम शक्रं दुर्ह᳓णाद्वामश्विना शू᳓रसातौ ॥ ८ ॥
टिप्पनी - ११
२.१. → ऋसं १०.१७१.२; खिल १.९.३.१ ।
३.२. शिरसा हयस्य = खिल १.९.४.२ ।
४.१. → शब्रा १४.१.१.१८; १४.२.१.११; ४.१.५.१३-१८; ऋसं १.११६.१२. बह्वीरु समा = ऋसं १०.१२४.४ ।
५.१. सरण्यूः = ऋसं १०.१७.२, अथर्व १८.२.३३ ।
६.२. सर्तवे सृजतं वि सिन्धून् → ऋसं १.३२.१२; २.१२.१२ ।
मूलम् - १२
आ᳓श्विना वहतं पीव᳓रीः स्वधा᳓श्वावतीर्दास᳓पत्नीरि᳓रावतीः ।
युवो᳓र्दाना᳓सो दिवि᳓ नादितेयो᳓ युवोः᳓ प᳓यांसि रुरुचिरे सु᳓शुक्रा ॥ १ ॥
य᳓द्रेभं᳓ दस्रा विनि᳓गूळ्हमप्सु᳓ युवाय᳓न्तं वाजय᳓न्तमृबी᳓सात् ।
उ᳓न्निन्यथुरश्विना᳓ व᳓ध्रिमाशुं᳓ त᳓द्वां व्रतं᳓ मह᳓यन्त्युक्थशासः᳓ ॥ २ ॥
या᳓ वां नु᳓ स᳓रिरे या᳓ पृथिव्यां᳓ या᳓ वीरु᳓त्सु ग्राव᳓सु या᳓न्त᳓रिक्षे ।
या᳓ वीरे᳓षु सूरि᳓षु या᳓पि ना᳓के ता᳓भिर्नः श᳓र्म यच्छतं युवाना ॥ ३ ॥
यो᳓ वां भरि᳓त्रा स्तुवतो᳓ मघा᳓नि प्र᳓यन्त्री᳓णि द्विषतो᳓ बर्ह᳓णानि ।
त्रा᳓त्रीणि श᳓श्वतां सा᳓त᳓पन्ति ता᳓भिर्नः श᳓र्म यच्छतं युवाना ॥ ४ ॥
यो᳓ वां त्रिचक्रः᳓ सुपविः᳓ सुश᳓प्तिस्त्रिवन्धुरः᳓ केतुमा᳓न् वा᳓तरंहाः ।
यो᳓गे य᳓स्य वि त᳓नोत्यभीशुं᳓ विभा᳓वरीः सदथो य᳓न्मयोभु᳓ ॥ ५ ॥
युव᳓मूहथुर्विमदा᳓य जायां᳓ युवं᳓ व᳓शां शय᳓वे धेनु᳓मक्रताम् ।
युव᳓मा᳓युषा तारयतं प्र᳓ ब᳓न्धनमत्रि᳓ममुक्तं युव᳓मंहसो वि᳓ ॥ ६ ॥
ह᳓वन्तं मेषा᳓न् वृक्ये᳓ शिवा᳓यै पिता᳓ च᳓कार ऋ᳓षिमन्ध᳓मश्विना ।
त᳓स्मिन्नृज्रा᳓श्वे च᳓क्षुषी अ᳓धत्तमावि᳓ष्कृणुतं पुन᳓र᳓स्य लोक᳓म् ॥ ७ ॥
य᳓द्वां च᳓क्षुर्दिवि᳓ य᳓त्सुप᳓र्णो ये᳓न पश्यथो भु᳓वनान्यमर्त्याः ।
त᳓न्मे दत्तं च᳓क्षुषी देव᳓बन्धू नम᳓स्यां विन्देथ पुरुधा᳓ चकाना᳓म् ॥ ८ ॥
उपप्रयन्तो अध्वरम्० ॥ ऋ. सं. १. ७४.१
टिप्पनी - १२
इत्यृग्वेदे खिले प्रथमो ऽध्यायः ।
‘उपप्रयन्तो अध्वरम्’ (ऋसं १.७४.१) इति सूक्तान्तेन ज्ञायते यद्द्वितीयादिद्वादशपर्यन्तान्येकादश सौपर्णसूक्तानि ऋसं १.७३ अन्ते पठितव्यानीति ।
१.१. वहतं पीवरीः = ऋसं ८.५.२०. नादितेयो - का; नादितेया ?
२.१. = ऋसं १०.३९.९ युवं ह रेभं वृषणा गुहा हितमुदैरयतं…… । युवमृबीसमुत तप्तमत्रय ओमन्वन्तं चक्रथुः. रेभं → ऋसं १.११६.२४; ११७.४; ११८.६ ।
३. ताभिः - का; तेभिः ?
४. यो - का; या ? त्रात्रीणि शश्वतां = खिल ४.७.२.२ ।
६. युवमूहथुर्विमदाय जायां = ऋसं १.११७.२० : युवं शचीभिर्विमदाय जायां न्यूहथुः. शयवे धेनुं = ऋसं १०.३९.१३; = ऋसं १.११८.८. आयुषा तारयतं प्र बन्धनं = ऋसं १.११९.६ : प्र दीर्घेण वन्दनस्तार्यायुषा. अत्रिममुक्तं युवमंहसो = ऋसं १.११७.३ : अंहसः….. अत्रिं मुञ्चयो ।
७. पिता चकार ऋषिमन्धं = ऋसं १. ११६.१६ : मेषान् वृक्ये……पितान्धं चकार; मेषान् वृक्ये ऋसं १.११७.१७. ऋज्राश्वे चक्षुषी = ऋसं १.११७.१७.२ ।
८. सुपर्णो - का; सुपर्णौ ? अमर्त्याः - का; अमर्त्या ? विन्देथ - का; विन्देथे ?