खि.खि.१ १ सूक्तान्ते कृणान्य् अग्नाव् अरण्ये वोदकेऽपिवा । खि.खि.१ १ यत् स्तृणैर् अध्ययनम् तद् अधीतम् स्तृणानि भव ते भव ॥ खि.खि.१ २ वापी कूप तडागानाम् समुद्रम् गच्छ स्वाहाग्निम् गच्छ स्वाहा ॥(प् १६९)
खि.खि.२ १ विश्वेश्वर विरूपाक्ष विश्व रूप सदाशिव । खि.खि.२ १ शरणम् भव भूतेश करुणा कर शङ्कर । खि.खि.२ २ हर शम्भो महा देव विश्वेशामर वल्लभ । खि.खि.२ २ शिव शङ्कर सर्वात्मन् नील कन्थ नमो अस्तु ते । खि.खि.२ ३ मृत्युम् जयाय रुद्राय नील कन्थाय शम्भवे । खि.खि.२ ३ अमृतेशाय शर्वाय श्री महादेवाय ते नमः । खि.खि.२ ४ एतानि शिव नामानि यः पठेन् नियतः सकृत् । खि.खि.२ ४ नास्ति मृत्यु भयम् तस्य पाप रोगादि किञ्चन ।
खि.खि.३ १ यज्ञेशाच्युत गोविन्द माधवानन्त केशव । खि.खि.३ १ कृष्ण विष्णो हृषीकेश वासुदेव नमो अस्तु ते । खि.खि.३ २ कृष्णाय गोपिनाथाय चक्रिणे सुरवैरिणे । खि.खि.३ २ अमृतेशाय गोपाय गोविन्दाय नमो नमः । खि.खि.३ ३ एतान्य् अनन्तनामानि मण्डलान्ते सदा पठेत् ।(प् १७०)
खि.खि.४ १ यत् स्तृणैर् अध्ययनम् तद् अधीतम् स्तृणानि भव ते भव । खि.खि.४ १ वापी कूप तडागानाम् समुद्रम् गच्छ स्वाहा । खि.खि.४ २ सूक्तान्ते तृणान्य् अग्नौ ।
खि.खि.५ १ सितासिते सरिते यत्र सङ्गते तत्राप्लुतासो दिवम् उत्पतन्ति । खि.खि.५ १ ये वै तन्वान् विसृजन्ति धीरास् ते जनासो अमृतत्वम् भजन्ते ॥
खि.खि.६ १ हविर्हिर् एके स्वर् इतः सचन्ते सुन्वन्तैके सवनेषु सोमान् । खि.खि.६ १ शचीर् मदन्तोत दक्षिणाभिर् नेज् जिह्मायन्त्यो नरकम् पताम ॥
खि.खि.७ १ हिमस्य त्वा जरायुणा शाले परि व्ययामसि । खि.खि.७ १ उत ह्रदो हि नो भुवो अग्निर् ददातु भेषजम् । खि.खि.७ १ शीत ह्रदो हि नो भुवो अग्निर् ददातु भेषजम् । खि.खि.७ २ अन्तिकाम् अग्निम् अजनयद् दुर्वारः शिशुर् आगमत् । खि.खि.७ २ अजात पुत्र पक्षाया हृदयम् मम दूयते । खि.खि.७ ३ विपुलम् वनम् बह्व् आकाशम् चर जातवेदः कामाय । खि.खि.७ ३ माम् च रक्ष पुत्रांश् च शरणम् अभूत् तव । खि.खि.७ ४ पिङ्गाक्ष लोहित ग्रीव कृष्ण वर्ण नमो अस्तु ते । खि.खि.७ ४ अस्मान् निबर्ह रस्योनम् सागरस्योर्मयो यथा । खि.खि.७ ५ इन्द्रः क्षत्रम् ददातु वरुणम् अभिषिञ्चतु । खि.खि.७ ५ शत्रवो निधनम् यान्तु जयस् त्वम् ब्रह्म तेजसा । खि.खि.७ ६ कल्प जटीम् सर्व भक्षम् चाग्निम् प्रत्यक्ष दैवतम् । खि.खि.७ ६ वरुणम् च वशाम्य् अग्रे मम पुत्रांश् च रक्षतु मम पुत्रांश् च रक्षत्व् ओम् नमः । खि.खि.७ ७ साग्रम् वर्ष शतम् जीव पिब खाद च मोद च । खि.खि.७ ७ दुह्खितांश् च द्विजांश् चैव प्रजाम् च पशु पालय । खि.खि.७ ८ यावद् आदित्यस् तपति यावद् भ्राजति चन्द्रमाः । खि.खि.७ ८ यावद् वायुः प्लवायति तावज् जीव जया जय । खि.खि.७ ९ येन केन प्रकारेण को वीनाम् अनुजीवति । खि.खि.७ ९ परेषाम् उपकारार्थम् यज् जीवति स जीवति । खि.खि.७ ९ एताम् वैश्वानरीम् सर्व देव नमो अस्तु ते । खि.खि.७ १० न चोर भयम् न च सर्प भयम् न च व्याघ्र भयम् न च मृत्यु भयम् । खि.खि.७ १० यस्यापमृत्युर् न च मृत्युः स सर्वम् लभते स सर्वम् जयते ॥