यः पावमानीः

+++([सायणो ऽत्र कौथुमभाष्ये। सोमः।])+++

यः पा॑वमा॒नीर्+++(=पवमान-ऋचः)+++ अ॒ध्येत्य्
ऋषि॑भिः॒ सम्भृ॑तं॒ रस॑म् ।
सर्वं॒ स पू॒तम॑श्नाति
स्व॑दि॒तम् मात॒रिश्व॑ना ॥

पावमा॒नीर्यो अ॒ध्येत्य्
ऋषि॑भिः॒ सम्भृ॑तं॒ रस॑म् ।
तस्मै॒ सर॑स्वती दुहे
क्षी॒रं स॒र्पिर्मधू॑द॒कम् ॥

RvKh_3,10.1a अत्र
सामवेदे कौथुमसंहितायाम् ४ ५ २ ०८ ०३

पावमा॒नीः स्वस्त्य॑यनीः
सुदुघा हि घृतश्चुतः ।
ऋषिभिः संभृतो रसो
ब्राह्मणेष्वमृतं हितम्॥

पावमानी॒र्दधन्तु न
इमं लोकमथो अमुम्।
कामान्त् समर्धयन्तु नो
देवीर्देवैः समाहृताः। ।

येन देवाः पवित्रेणा +आत्मानं पुनते सदा।
तेन सहस्रधारेण
पावमा॒नीः पुनन्तु नः॥

पावमा॒नीः स्वस्त्ययनीस्
ताभिर्गच्छति नान्दनम् ।
पुण्यांश्च भक्षान् भक्षयत्य्
अमृतत्वं च गच्छति॥

विस्तारः (द्रष्टुं नोद्यम्)

तैत्तिरीयब्राह्मणे ऽत्र