०२ काशीकर-पाठः

विश्वास-टिप्पनी

क्वचित् स्वरः सन्देहास्पदम्। उदात्त एव दर्शितः।

मानसतरङ्गिणीकृत्-परिचयः

The learned shrI Ravlekar gave me this original R^igvedic form. Based on his oral tradition and the kashmIra-paTha of the khila text we have restored this text of the shrI sUkta (pdf):

हि᳓रण्यवर्णां ह᳓रिणीं सुव᳓र्णरजत᳓स्रजाम्+++(स्वरः??)+++।
चन्द्रां᳓ हिर᳓ण्मयीं लक्ष्मीं᳓ जा᳓तवेदो म᳓मा᳓वह॥

तां᳓ म आ᳓ वह जातवेदो लक्ष्मी᳓म् अ᳓नपगामि᳓नीम्।
य᳓स्यां हि᳓रण्यं विन्दे᳓यं गा᳓म् अ᳓श्वं पु᳓रुषान् अह᳓म्॥२॥

अश्वपूर्वां᳓ रथमध्यां᳓ हस्ति᳓नादप्रमोदि᳓नीम्+++(स्वरः??)+++।
श्रि᳓यं देवी᳓म् उ᳓प ह्वये श्री᳓र् मा देवी᳓+++(र्)+++ जुषताम्॥२.६.३॥

कांस्य᳓स्मि तां हि᳓रण्यप्रावाराम् आर्द्रा᳓ञ् ज्व᳓लन्तीं तृप्तां᳓ तर्प᳓यन्तीम्।
पद्मेस्थितां᳓ पद्म᳓वर्णां ता᳓म् इहो᳓प ह्वये श्रि᳓यम्॥२.६.४॥

चन्द्रां᳓ प्रभासा᳓य्ँ यश᳓सा+++(स्वरः??)+++ ज्व᳓लन्तीं
श्रि᳓यल्ँ लोके᳓ देव᳓जुष्टाम् उदारा᳓म्।
ता᳓म् पद्म᳓नेमिं श᳓रणं प्र᳓पद्ये
अलक्ष्मी᳓र् मे नश्यतां त्वां᳓ वृणोमि॥२.६.५॥

आदित्य᳓वर्णे त᳓पसो᳓धि जातो᳓
व᳓नस्प᳓तिस् त᳓व वृक्षो᳓ऽथ᳓ बिल्वः᳓ ।
त᳓स्य फ᳓लानि त᳓पसा᳓ नुदन्तु
माया᳓न्तरा या᳓श् च बाह्या᳓ अलक्ष्मीः᳓॥२.६.६॥

उ᳓पैतु मान् देवसखᳲ᳓
कीर्ति᳓श् च म᳓णिना सह᳓।
प्रादु᳓र् भूतो᳓ ऽस्मि रा᳓ष्ट्रे ऽस्मि᳓न्
कीर्तिं᳓ वृद्धिं᳓ ददातु मे॥२.६.७॥

क्षु᳓त् पिपासा᳓मला+++(ं)+++ ज्येष्ठा᳓म् अलक्ष्मी᳓न् नाशयाम्य् अ᳓हम्।
अ᳓भूतिम् अ᳓समृद्धिं च स᳓र्वान् नि᳓र्णुद मे गृ᳓हात्॥२.६.८॥

ग᳓न्धद्वारां᳓ दुरा᳓धर्षां नित्य᳓पुष्टां करीषि᳓णीम्।
ई᳓श्वरीं स᳓र्वभूतानान् ता᳓म् इहो᳓प ह्वये श्रि᳓यम्॥२.६.९॥

म᳓नसᳲ का᳓मम् आ᳓कूतिव्ँ वाच᳓स् सत्य᳓म् अशीमहि ।
पशू᳓नां रूप᳓म् अ᳓न्नस्य म᳓यि श्री᳓श् श्रयताय्ँ य᳓शः॥२.६.१०॥

कर्दमेन᳓प्रजा भूता᳓
म᳓यि स᳓म्भव क᳓र्दम ।
श्रि᳓यव्ँ वास᳓य मे कुले᳓
मात᳓रं पद्ममालि᳓नीम्॥२.६.११॥

आ᳓प स्रवन्तु स्नि᳓ग्धानि
चि᳓क्लीता व᳓स मे गृहे᳓।
नि᳓ च देवी᳓म् मात᳓रं
श्रि᳓यव्ँ वास᳓य मे कुले᳓॥२.६.१२॥

पक्वां᳓ पुष्क᳓रिणीं पुष्टां᳓
पिङ्ग᳓लां पद्ममालि᳓नीम्।
सूर्यां᳓ हिर᳓ण्मयीं लक्ष्मीं᳓
जा᳓तवेदो म᳓मा᳓वह॥२.६.१३॥

आर्द्रां᳓ पुष्क᳓रिणीं यष्टीं᳓
सुव᳓र्णां हेममालि᳓नीम्।
चन्द्रां᳓ हिर᳓ण्मयील्ँ लक्ष्मीं᳓
जा᳓तवेदो म᳓मा᳓वह॥२.६.१४॥

ता᳓म् म आ᳓वह जातवेदो
लक्ष्मी᳓म् अ᳓नपगामि᳓नीम्।
य᳓स्यां हि᳓रण्यं प्र᳓भूतं गा᳓वो
दास्यो᳓ विन्दे᳓यं पु᳓रुषान् अह᳓म्॥२.६.१५॥

य आनन्दं समा᳓विशद्
उपा᳓धावन् विभा᳓वसुम्।
श्रि᳓यस् स᳓र्वा उपा᳓सिष्व
चि᳓क्लीत वस मे गृहे᳓॥२.६.१६॥

कर्दमेन᳓प्रजा स्रष्टा᳓
सम्भू᳓तिं गमयामसि ।
अ᳓दधाद् उ᳓पागाद् ये᳓षां
का᳓मां ससृज्म᳓हे॥२.६.१७॥

जा᳓तवेदᳲ पुनीहि᳓ मा
राय᳓स्पो᳓षं च धारय ।
अग्नि᳓र् मा त᳓स्माद् ए᳓नसो
विश्वा᳓न् मुञ्चत्व् अं᳓हसः॥२.६.१८॥

अ᳓च्छा नो मित्रमहो देव
देवा᳓न् अ᳓ग्ने वो᳓चः सुमतिं रो᳓दस्योः।
वीहि᳓ स्वस्तिं᳓ सुक्षितिं᳓ दिवो᳓ नॄ᳓न् द्वोषो᳓ अं᳓हांसि दुरिता᳓ तरेम
ता᳓ तरेम त᳓वा᳓वसा तरेम॥