१- ऋग्वेद ७.५०-६६ के देवता
विश्वास-प्रस्तुतिः
आ मामिति तु सूक्तेन प्रत्यृचं देवता स्तुताः ।
मित्रवरुणावग्निश्च देवा नद्यस्तथैव च ॥ १ ॥
मूलम्

तृचावादित्यदेवत्यौ रोदस्योः प्रेति यस्तृचः ।
वास्तोष्पत्यश्चतस्रस्तु सप्त प्रस्वापिन्यः स्मृताः ॥ २ ॥

परं चत्वारि सूक्तानि मारुतानि क ईमिति ।
तेषां तु पितरं देवं त्र्यम्बकं स्तौत्यृगुत्तमा ॥ ३ ॥

स्तुतौ तु मित्रावरुणौ सूक्तैर्यदिति सप्तभिः ।
अश्विनौ तु परैर्देवाव् अष्टभिः प्रति वामिति ॥ ४ ॥

यदद्यैकोत्सूर्यस्तिस्र उद्वेतीत्यर्धपञ्चमाः ।
सौर्यस्तच्चक्षुरिति तु गीयते चक्षुर्देवता ॥ ५ ॥

आदित्यानां तद्वो अद्य द्वे ऋचौ शौनकोऽब्रवीत् ।
अन्याः सर्वा ऋचः सौर्यो यदद्याद्याः प्रकीर्तिताः ॥ ६ ॥

इमे चेतार इत्याद्याः सत्रे मित्रो मितः स्तुतः ।
अर्यम्णो वरुणस्यापि मित्रस्यैता नव स्मृताः ॥ ७ ॥

यदद्य सूर इत्याद्या दशादित्या ऋचः स्मृताः ।
सविता वादितिर्मित्रो वरुणश्चार्यमा भगः ॥ ८ ॥

स्तुता उदु त्यदित्येतास् तिस्रः सौर्यस्ततः पराः ।
आशीस्तच्चक्षुरित्येताम् आचार्यः शौनकोऽब्रवीत् ॥ ९ ॥

उषास्तु सप्तभिर्व्युषाः सूक्तान्येभ्यः पराणि तु ।
चत्वारीन्द्रावरुणेति इन्द्रावरुणयो स्तुतिः ॥ १० ॥

उदु ज्योतिरिति त्वस्मिन्न् अर्धर्चे मध्यम स्तुतः ।
वरुणस्य गृहान्नात्रौ वसिष्ठः स्वप्न आचरत् ॥ ११ ॥

प्राविवेशाथ तं तत्र श्वा नदन्नभ्यधावत ।
क्रन्दन्तं सारमेयं स धावन्तं दष्टुसुद्यतम् ॥ १२ ॥

यदर्जुनेति च द्वाभ्यां सान्त्वयित्वा व्यसुष्वपत् ।
स तं प्रस्वापयामास जनमन्यं च वारुणम् ॥ १३ ॥

ततस्तु वरुणो राजा स्वैः पाशैः प्रत्यबध्यत ।
स बद्धः पितरं सूक्तैश् चतुर्भिरित उत्तरैः ॥ १४ ॥

अभितुष्टाव धीरेति मुमोचैर्न ततः पिता ।
ध्रुवासु त्वेति चोक्तायां पाशा अस्मात्प्रमोचिरे ॥ १५ ॥

पराणि त्रीणि सक्तानि वायव्यानि प्र वीरया ।
अत्र तास्त्वैन्द्रवायव्या स्तुतौ यासु द्विवत्स्तुतिः ॥ १६ ॥

प्र वीरयोक्ता वायव्या प्राउगीत्यैतरेयके ।
पदस्य व्यत्ययं कृत्वा वायोः प्राधान्यमुच्यते ॥ १७ ॥

ते सत्येन तृचो यावत् तरश्चतुर्ऋचः पुनः ।
उशन्तैका प्र सोता चर्ग द्वयोरेता नव स्मृताः ॥ १८ ॥

एन्द्राग्ने शुचिमित्येते प्रेति सारस्वते परे ।
ऋचा सरस्वान् स इति जनीयन्तश्च तिसृभिः ॥ १९ ॥

राजा वर्षसहस्राय दीक्षिष्यन्नाहुषः पुरा ।
चचारैकरथेनेमां ब्रुवन् सर्वाः समुद्रगाः ॥ २० ॥

यक्ष्ये वहत भागान्मे द्वन्द्वशो वाथवैकशः ।
प्रत्यूचुस्तं नृपं नद्यः स्वल्पवीर्याः कथं वयम् ॥ २१ ॥

वहेम भागात्सर्वांस्ते सत्रे वार्यसहस्रिके ।
सरस्वतीं प्रपद्यस्व सा ते वक्ष्यति नाहुष ॥ २२ ॥

तथेत्युक्त्वा जगामाशु आपगां स सरस्वतीम् ।
सा चैनं प्रतिजग्राह दुदुहे च पयो घृतम् ॥ २३ ॥

एतदत्यद्भुतं कर्म सरस्वत्या नृपं प्रति ।
वारुणिः कीर्तयामास प्रथमस्य द्वितीयया ॥ २४ ॥

यज्ञे बार्हस्पत्यमैन्द्रं वैष्णवे तु परे ततः ।
उरुमैन्द्र्यश्च तिस्रः स्युः पार्जन्ये तिस्र उत्तरे ॥ २५ ॥

स्तौतीन्द्रं प्रथमा त्वत्र द्वितीयाद्या बृहस्पतिम् ।
यज्ञ आद्येन्द्रमेवास्तौद् अन्त्या त्विन्द्राबृहस्पती ॥२६॥

तृतीया नवमी चैव स्तौतीन्द्राब्रह्मणस्पति ।
संवत्सरं तु मण्डूकान् ऐन्द्रासोमं परं तु यत् ॥ २७ ॥

ऋषिर्ददर्श राक्षोघ्नं पुत्रशोकपरिप्लुतः ।
हते पुत्रशते तस्मिन् सौदासैर्दुःखितस्तदा ॥ २८ ॥

ये पाकशंसमृक्सौम्या आग्नेयी तत् उत्तरा ।
एकादशी वैश्वदेवी सौम्यस्तस्याः परो द्वृचः ॥ २९ ॥

यदि वाहमृगाग्नेयी ऐन्द्री यो मेति तु स्मृता ।
ग्राव्णी प्र या जिगातोति वि तिष्ठध्वं तु मारुती ॥३०॥

दिवि चैव पृथिव्यां च तथा पालनमात्मनः ।
उलूकयातुं जह्येतान् नानारूपान्निशाचरान् ॥३२॥

पञ्चदश्यां तु सूक्तस्य अष्टम्यां चैव वारुणिः ।
दुःखशोकपरीतात्मा शपते विलपन्निव ॥ ३३ ॥

हते पुत्रशते तस्मिन् वसिष्ठो दुःखितस्तदा ।
रक्षोभूतेन शापात्तु सुदासेनेति वै श्रुतिः ॥ ३४॥

कण्वश्चैव प्रगाथश्च घोरपुत्रौ बभूवतुः ।
गुरुणा तावनुज्ञाताव् ऊषतुः सहितौ वने ॥ ३५ ॥

वसतोस्तु तयोस्तत्र कण्वपत्न्या शिरः स्वपत् ।
कृत्वा कनीयान्कण्वस्य उत्सङ्गे नान्वबुध्यत ॥ ३६ ॥

शप्तुकामस्तु तं कण्वः क्रुद्धः पापाभिशङ्कया ।
बोधयामास पादेन दिधक्षन्निव तेजसा ॥ ३७ ॥

विदित्वा तस्य तं भावं प्रगाथः प्राञ्जलि स्थितः ।
मातृत्वे च पितृत्वे च वरयामास तावुभौ ॥ ३८ ॥

स घौरो वाथ काण्वो वा वंशजैर्बहुभिः सह ।
ददर्शान्यैश्च सहित ऋषिर्मण्डलमष्टमम् ॥ ३९ ॥

माचिदैन्द्राणि चत्वारि अन्वस्य स्थूरमित्यृचि ।
तुष्टावाङ्गिरसी नारी वसन्ती शाश्वती पतिम् ॥ ४० ॥

स्त्रियं सन्तं पुमांसं तम् आसङ्गं कृतवानृषिः ।
स्वस्य दानं स्तुहीत्यृग्भिश् चतुर्भिः परिकीर्तितम् ॥४१॥

पौष्णौ प्रेति प्रगाथौ द्वौ मन्यते शाकटायनः ।
ऐन्द्रमेवाथ पूर्वं तु गालवः पौष्णमुत्तरम् ॥ ४३ ॥

ऐन्द्राणामिह सूक्तानाम् उत्तमस्योत्तमे तृचे ।
दानं राज्ञः कुरुङ्गस्य स्थूरं राय इति स्तुतम् ॥ ४४ ॥

दूरादित्याश्विने सूक्ते सप्तत्रिंशत्तमी यथा ।
इत्यर्धर्चो द्वृचश्चान्त्यः कशोर्दानस्तुतिः स्मृता ॥ ४५ ॥

महानैन्द्रं प्रत्नवत्याम् अग्निं वैश्वानरं स्तुतम् ।
मन्यते शाकपूणिस्तु भार्म्यश्वश्चैव मुद्गलः ॥ ४६ ॥

तृचे तु शतमित्यस्मिन् दानं तैरिन्दिरं स्मृतम् ।
परं नु मारुतं प्रेति आ नस्त्रीण्याश्विनानि च ॥ ४७ ॥

त्वमाग्नेयं य इन्द्रेति षळैन्द्राण्युत्तमस्य तु ।
उपोत्तमायामर्धर्चे देवो वास्तोष्पति स्तुतः ॥ ४८ ॥

इदमादिन्यदेवत्यं तिसृभिस्त्वदिति स्तुता ।
षष्ठ्या चतुर्थ्या सप्तम्या उतेत्याचिन्यगष्टमी ॥ ४९ ॥

स्तुताः शमिति पच्छस्तु अग्निसूर्यानिलास्त्रयः ।
वरुणार्यममित्राणां प्रगाथो यमिति स्तुतिः ॥ ५० ॥

आग्नेये स्तुती राजर्षेस् त्रसदस्योरदादिति ।
पञ्चाशतं वधूनां च गवां तिस्त्रश्च सप्ततीः ॥ ५१ ॥

अश्वोष्ट्राणां तथैवासौ वासांसि विविधानि च ।
रत्नानि वृषभं श्यावं तासामग्नेसरं पतिम् ॥ ५२ ॥

कृत्वा दारानृषिर्गच्छन्न् इन्द्रायैतच्छशंस च ।
वयं सूक्तेन शक्रं च प्रीतस्तेन शचीपतिः ॥ ५३ ॥

ऋषे वरं वृणीष्वेति प्रह्वस्तमृषिरब्रवीत् ।
काकुत्स्थकन्याः पञ्चाशद् युगपद्रमये प्रभो ॥ ५४ ॥

कामतो बहुरूपत्वं यौवनं चाक्षयां रतिम् ।
शङ्खनिधिं पद्मनिधि मद्गृहेष्वनपायिनम् ॥ ५५ ॥

प्रासादान् विश्वकर्मासौ सौवर्णांस्त्वत्प्रसादतः ।
कुर्वीत पुष्पवाटीं च पृथक्तासां सुरद्रुमैः ॥ ५६ ॥

मा भूत्सपत्नीस्पर्धासां सर्वमस्त्विति चाब्रवीत् ।
आ गन्त मारुतं सूक्तं वयमित्यैन्द्रमुत्तरम् ॥ ५७ ॥

कण्वस्य सोभरेश्चैव यजतो वंशजैः सह ।
कुरुक्षेत्रे यवाञ्जक्षुर् हवींषि विविधानि च ॥ ५८ ॥

आखवः सोऽभितुष्टाव इन्द्रं चित्रं सरस्वतीम् ।
इन्द्रो वेत्यनयर्चा स दानशक्तिं प्रकाशयन् ॥ ५९ ॥

आखुराजोऽभिमानाच्च प्रहर्षितमनाः स्वयम् ।
संस्तुतो देवयच्चित्र ऋषये तु गवां ददौ ॥ ६० ॥

अयुतानां सहस्रं वै निजग्राह स्तुवन्नृषिः ।
ऋषिं चोवाच हृष्टात्मा नाहमर्हाम्यृषे स्तुतिम् ॥ ६१ ॥

तिर्यग्योनौ समुत्पन्नो देवता स्तोतुमर्हसि ।
तमन्त्ययापुनश्चास्तौद् ओ त्यं सूक्तेन चाश्विनौ ॥६२॥

ईळिष्वेत्येतदाग्नेयं सखायश्चैन्द्रमुत्तरम् ।
यथा वरो सुषाम्या इत्य् उत्तमस्त्वौषसस्तृचः ॥ ६३ ॥

अष्टौ तु सहितास्त्वेता देवता बिभिदुर्बलम् ।
उषाश्चेन्द्रश्च सोमश्च अग्निः सूर्यो बृहस्पतिः ॥ ६४ ॥

अङ्गिराः सरमा चैव ता वामित्युत्तरस्य तु ।
आदौ मैत्रावरुण्यस्तु नव द्वादश तूत्तराः ॥ ६५ ॥

वैश्वदेव्यो वरू राजा यच्चादादृषये वसु ।
कीर्तितं तत्तृचे त्वस्मिन्न् ऋज्रमुक्षण्यायने ॥ ६६ ॥

अश्विनौ ददतुः प्रीतौ तदिहोक्तं सुषामणि ।
आश्विनं तु युवोर्युक्ष्व वायव्या उत्तरास्तु याः ॥ ६७ ॥

यं सवर्णा मनुर्नाम लेभे पुत्रं विवस्वतः ।
वैश्वदेवानि पञ्चैतान्य् अग्निरुक्थे जगाद सः ॥ ५८ ॥

बभ्रुरेक इति त्वेता लिङ्गतो द्विपदा दश ।
स्तूयन्ते देवता ह्यासु कर्मभिः स्वैः पृथक्पृथक् ॥ ६९ ॥

स्तुताः कर्मगुणैः स्वैः स्वैर् देवता यत्र तत्र तु ।
पृथक्कर्मस्तुतिर्नाम वैश्वदेवं तदेव तु ॥ ७० ॥

तासां बभ्रुरिति त्वाद्या सौम्याग्नेयी त्वृगुत्तरा ।
त्वाष्ट्री चैन्द्री च रौद्री च पौष्णी वैष्णव्यृगाश्विनी ॥७१ ॥

नवमी मैत्रावरुणी ऋग्दशम्यत्रिसंस्तवः ।
यजमानप्रसङ्गाच्च य इज्यात्र प्रकीर्तिता ॥७२॥

यो जयति द्वृचे शक्रो यजतां पतिरीळितः ।
तस्य द्युमान् द्वृचे यज्वा चतसृष्वपि मक्ष्विति ॥७३॥

यज्वनोरेव दंपत्योः पञ्च या दंपती ऋचः ।
आ शर्माशीरैतु पौष्ण्यौ परे मित्रोऽर्यमा यथा ॥७४॥

वरुणश्च स्तुतास्त्वत्र आदित्या अग्निमग्नये ।
सूक्तानि प्र कृतानीति त्रीण्यैन्द्राणि पराण्यतः ॥७५॥।

अध इत्यत्र कन्या तं स्त्रीलिङ्गेनेन्द्रमब्रवीत् ।
स हि तां कामयामास दानवीं पाकशासनः ॥७६॥

ज्येष्ठां स्वसारं व्यंसस्य तस्यैव युवकाम्यया ।
अग्निनेत्याश्विनं सूक्तम् ऐन्द्रसूक्ते परे ततः ॥७७॥

ऐन्द्राग्नं परमाग्नेयम् ऐन्द्राग्नं वारुणे परे ।
उत्तरे वारुणे त्वन्त्य आ वामित्वाश्विनस्तृचः ॥७८॥

सूक्ते इमे समाग्नेये ताभ्यामैन्द्रे ततः परे ।
वशायाश्व्यात यत्प्रादात् कानीनस्तु पृथुश्रवाः ॥७९॥

तदत्र संस्तुतं दानम् आ स इत्येवमादिभिः ।
आ नः प्रगाथौ वायव्यौ सूक्तस्योपोत्तमा च या ॥८०॥

मित्रार्यमाणौ मरुतः सुनीथो घ द्वृचे स्तुताः ।
द्विचत्वारिंशकात्प्रीतस् त्रिशोकाय पुरंदरः ॥ ८१ ॥

गिरिं निकृत्य वज्रेण गा दशवसुरैर्हृताः ।
यः तृन्तदिति चैतस्याम् ऋषिस्तु स्वयमब्रवीत्॥ ८२॥

पराण्यष्टौ तु सूक्तानि ऋषीणां तिग्मतेजसाम् ।
ऐन्द्राण्यत्र तु षड्विंशः प्रगाथो बहुदैवतः ॥ ८४ ॥

ऋगन्त्याग्नेरचेत्यग्निः सूर्यमन्त्यं पदं जगौ ।
प्रस्कण्वश्च पृषध्रस्य प्रादाद्यद्वसु किंचन ॥ ८५ ॥

ऋचं यास्कस्तृचं त्वेतं मन्यते वैश्वदेवतम् ।
आदित्यदैवतं सूक्तं त्यान्न्वित्यत्र परं तु यत् ॥ ८७ ॥

धीवराः सहसा मीनान् दृष्ट्वा सारस्वते जले ।
जालं प्रक्षिप्य तान्बद्ध्वोद् अक्षिपन्सलिलात्स्थलम् ॥८८॥

शरीरपातभीतास्ते तुष्टुवुश्चादितेः सुतान् ।
मुमुचुस्तांस्ततस्ते च प्रसन्नास्तान् समुदिरे ॥ ८९ ॥

धीवराः क्षुद्भयं मा वो भूत् स्वर्गं प्राप्त्यथेति च ।
उतेति माता तत्रैषां तृचेनाभिष्टुतादितिः ॥ ९० ॥

मातृत्वादभिसंबन्धात् स्तूयेतैषां स्तुतौ स्तुतौ ।
ऐन्द्राण्या त्वा रथं त्रीणि स्तौत्यृतूनुप मेति षट् ॥ ९१ ॥

कक्षीश्वमेधयोरत्र पञ्च दानस्तुतिः पराः ।
अपादिन्द्रस्य चाग्नेश्च विश्वेषां चैव संस्तवः ॥ ९२ ॥

द्वृचस्य प्रथमोऽर्धर्चः शेषो वरुणदैवतः ।
त्वमाग्नेयेऽथवा सूक्तम् उत्तरं हविषां स्तुतिः ॥ ९३ ॥

पयः पश्वोषधीनां च तथारूपं हि दृश्यते ।
उदित्याश्विनमाग्नेये परे सूक्ते विशोविशः ॥ ९४ ॥

ऋग्भ्यामहमिति द्वाभ्यां स्तौत्यात्मानमृषिः स्वयम् ।
आत्मानमात्मना स्तुत्वा स्तौति दानं श्रुतर्वणः ॥९५॥

आत्मादानाभिसंबन्धात् परुष्णीं च महानदीम् ।
परया परुष्णीमिन्द्रं त्रिभिः सूक्तैरिमं न्विति ॥९६॥

अयं कृत्नुरिदं सौम्यं त्रोण्यैन्द्राणि पराण्यतः ।
नहीति तेषां प्रथमे वैश्वदेव्यृगवीवृधत् ॥ ९७ ॥

देवानामिति देवानां प्रेष्टमाग्नेयमुत्तरम् ।
त्रीण्याश्विनात्या म इति ऐन्द्राणि तमितीति च ॥९८ ॥

२१-अपाला की कथा
विश्वास-प्रस्तुतिः
अपालात्रिसुता त्वासीत् कन्या त्वग्दोषिणी पुरा ।
तामिन्द्रश्चकमे दृष्ट्वा विजने पितुराश्रमे ॥९९॥

तपसा बुबुधे सा तु सर्वमिन्द्रकीर्षितम् ।
उदकुम्भं समादाय अपामर्धे जगाम सा ॥ १०० ॥

सा सुषाव मुखे सोमं सुत्वेन्द्रं चाजुहाव तम् ।
असौ य एषीत्यनया पपाविन्द्रश्च तन्मुखात् ॥ १०२ ॥

अपूपांश्चैव सक्तूंऽश्च भक्षयित्वा स तद्गृहात् ।
ऋग्भिस्तुष्टाव सा चैनं जगादैनं तृचेन तु ॥ १०३ ॥

सुलोमामनवद्याङ्गीं कुरु मां शक्र सुत्वचम् ।
तस्यास्तद्वचनं श्रुत्वा प्रीतस्तेन पुरन्दरः ॥ १०४ ॥

तस्यास्त्वगपहता या पूर्वा सा शल्यकोऽभवत् ।
उत्तरा त्वभवद्गोधा कृकलासस्त्वगुत्तमा ॥ १०६ ॥

इतिहासमिदं सूक्तम् आहतुर्यास्कभागुरी ।
कन्येति शौनकस्त्वैन्द्रं पान्तमित्युत्तरे च ये ॥ १०७ ॥

जघ्नुः पीत्वा च दैत्यानां समरे नवतीर्नव ।
तदेतदप्यवेत्यस्मिंस् तृचे सर्वं निगद्यते ॥ ११५ ॥

इन्द्रं च मरुतश्चैव तथैव च बृहस्पतिम् ।
तृचस्य देवता ह्येता इन्द्रमेवाह शौनकः ॥ ११६ ॥

विविधानि च कर्माणि दानमैन्द्रं च शंसति ।
मनोजवास्तु सौपर्णी समुद्रं वज्रसंस्तवः ॥ १२०॥

वाचं सर्वगतां देवीं स्तौति यद्वागिति द्वृचे ।
त्रील्लोकानभितप्येमान् वृत्रस्तस्थौ स्वया त्विषा ॥१२१ ॥

तं नाशकद्धन्तुमिन्द्रो विष्णुमभ्येत्य सोऽब्रवीत् ।
वृत्रं हनिष्ये तिष्ठस्व विक्रम्याद्य ममान्तिके ॥१२२॥

उद्यतस्यैव वज्रस्य द्यौर्ददातु ममान्तरम् ।
तथेति विष्णुस्तच्चक्रे द्यौश्चास्य विवरं ददौ ॥ १२३ ॥

तदेतदखिलं प्रोक्तं सखे विष्णविति त्वृचि ।
मैत्रावरुण्यः सूक्ताद्याश् चतस्रस्त्वृधगित्यृचः ॥ १२४॥

प्रेति मित्राय पादाश्च अर्यम्णो वरुणस्य च ।
त्रयश्चतुर्थः सर्वेषाम् आदित्यानामिति स्तुतिः ॥१२५॥

परा त्वादित्यदेवत्या आ म इत्यश्विनो द्वृचः ।
वायव्ये सौर्ये उषस्या प्रभां वा चन्द्रसूर्ययोः ॥१२६॥

पावमानी प्रजा हेति मातेत्यृग्भ्यां तु गौ स्तुता ।
त्वमग्ने बृहदाग्नेये परेऽग्निस्त्वृचि संस्तुतः ॥ १२७ ॥

मरुद्भिः सह रुद्रैश्च आग्ने याहीति मध्यमः ।
प्रजा हेत्यपि वार्धर्चे प्रथमेऽग्निरिहोच्यते ॥ १२८ ॥

पादे तृतीय आदित्यस् तुरीये मध्यम स्तुतः ।
रुहस्ये ब्राह्मणेऽप्येवं व्याख्यतं ह्यैतरेयके ॥ १२९ ॥

पवमान स्तुतः सोमो नवमे त्विह मण्डले ।
पवमानवदाप्र्यस्तु समिद्ध इति संस्तुताः ॥ १३० ॥

आग्नेय्यौ द्वे ऋचावत्र यत्त इत्युत्तरे ततः ।
उभाभ्यामिति सावित्री आग्निसावित्र्यृगुत्तरा ॥ १३२ ॥

पुनन्तु मां वैश्वदेवी आग्नेयी त्वृगुप प्रियम् ।
उत्तरे च व इत्येते स्वाध्यायाध्येतृ संस्तवः ॥ १३३ ॥

सूक्ते निरुक्ते स्रक्वेऽग्नी रक्षोहा धर्मसंस्तवः ।
सूर्यःवच्चात्मवच्चापि पवित्रमिति चोच्यते ॥ १३४ ॥

आर्भवस्तु भवेत्पाद ऋभुर्धीर इति स्मृतः ।
निपातैस्तु त्रिभिः पादैस् त्रयो देवा इहोदिताः ॥१३५॥

ब्रह्मा देवानां तिस्रोक्तास् त्रिभिस्त्वेतैर्द्वृचैर्द्वृचैः ।
सूर्यवच्चात्मवच्चापि स्तूयते सोम एव वा ॥ १३६॥

अनावृष्ट्यां तु वर्तन्त्यां पप्रच्छर्षीञ्छचीपतिः ।
काले दुर्गे महत्यस्मिन् कर्मणा केन जीवथ ॥ १३७ ॥

शकटं शाकिनी गावः कृषिरस्यन्दनं वनम् ।
समुद्रः पर्वतो राजा एवं जीवामहे वयम् ॥ १३८ ॥

स्तुवन्नेव शशंसास्य ऋषिराङ्गिरसः शिशुः ।
नानानीयेन सूक्तेन ऋषीणामेव संनिधौ ॥ १३९ ॥

तानिन्द्रस्त्वाह सर्वांस्तु तपध्वं सुमहत्तपः ।
न ह्यृते तपसः शक्यम् इदं कृछ्रं व्यपोहितुम् ॥ १४० ॥

अथ ते वै तपस्तेपुः सर्वे स्वर्गजिगीषवः ।
ततस्ते तपसोग्रेण पावमानीर्ऋचोऽब्रुवन् ॥ १४१ ॥

अनसूयुरधीयानः शुश्रूषुस्तपसान्वितः ।
दश पूर्वापरान् वंश्यान् पुनात्यात्मानमेव च ॥ १४२ ॥

पावमानं पितॄन्देवान् ध्यायेद्यश्च सरस्वतीम् ।
पितॄंस्तस्योपवर्तेत क्षीरं सर्पिर्मधूदकम् ॥ १४५ ॥

एतत्सूक्तशतं सौम्यं मण्डलं सचतुर्दशम् ।
पावमानमिति ख्यातम् अनुवाकास्तु सप्त वै ॥ १४६ ॥

सप्ताग्नेयानि सूक्तानि ददर्शाथ डति त्रितः ।
प्र केतुनेति त्वाष्ट्रस्तु त्रिशिराः सूक्तमुत्तरम् ॥ १४७ ॥

ऋचस्त्वस्य षळाग्नेय्यस् तृचस्त्वस्येति यः परः ।
तेनेन्द्रमभितुष्टाव स्वप्रान्त इति नः श्रुतिः ॥ १४८ ॥

अभवत्स हि देवानां पुरोधाः प्रियकाम्यया ।
असुराणां स्वसुः पुत्रस् त्रिशिरा विश्वरूपधृक् ॥१४९॥

तमृषिं प्रहितं त्विन्द्रो देवेषु बुबुधेऽसुरैः ।
सोऽस्य वज्रेण तान्याशु शिरांसि त्रीण्यथाछिदत्॥ १५०॥

तस्य यत्सोमपानं तु मुखं सोऽभूत्कपिञ्जलः ।
कलविङ्कः सुरापाणम् अन्नादं तित्तिरिस्त्वभूत् ॥१५१॥

तं वागभ्यवदद्ब्राह्मी ब्रह्महासि शतक्रतो ।
प्रपन्नं हतवान्यस्माद् विश्वरूपं पराङ्मुखम् ॥ १५२ ॥

तमभ्यसिञ्चत्सूक्तेन ऋषिराप इति स्वयम् ।
सिन्धुद्वीपोऽपनुत्त्यर्थं तस्याश्लीलस्य पाप्मनः ॥ १५३॥

मैथुनार्थमभीप्सन्तीं प्रत्याचष्टे यमी यमः ।
तदो चिदिति संवादो विवस्वत्सुतयोस्तयोः ॥ १५४ ॥

वृषाग्नेये हविर्धाने युजे वामत्र संस्तुते ।
परेयिवांसमित्यत्र स्तूयते मध्यमो यमः ॥ १५५ ॥

अथर्वाणोऽथ भृगवोऽङ्गिरसः पितरः सह ।
षष्ट्यां देवगणास्तत्र संस्तूयन्ते द्युभक्तयः ॥ १५६ ॥

पितृभिश्चाङ्गिरोभिश्च संस्तुतो दृश्यते यमः ।
मन्त्रेषु बहुशः पादे विवस्वन्तं पिता हि सः ॥ १५७॥

संस्कार्यप्रेतसंयुक्तैः पितृभि स्तूयते यमः ।
प्रेहि प्रेहिति तिसृषु प्रेताशिष उदाहृताः ॥ १५८ ॥

पितॄणां हि पतिर्देवो यमस्तस्मात्स सूक्तभाक् ।
अति द्रव तृचे श्वानौ परं पित्र्यमुदीरताम् ॥ १५९॥

पितृदेवासुराणां च अभवन्नग्नयस्त्रयः ।
हव्यकव्यवहौ चोभौ सहरक्षाश्च नाम यः ॥ १६० ॥

तत्र मैनमिति त्वेतत् कव्यवाहनसंस्तुतिः ।
इतराणि तु दैवस्य स्तुतिर्नास्यासुरस्य च ॥ १६१ ॥

अभवन्मिथुनं त्वष्टुः सरण्यूस्त्रिशिराः सह ।
स वै सरण्यूं प्रायच्छत् स्वयमेव विवस्वते ॥ १६२ ॥

॥ इति वृहद्देवतायां षष्ठोऽध्यायः ॥