००४

विश्वास-प्रस्तुतिः

ततस्तमर्थं हरिवान्विदित्वा प्रियं सखायं स्वनयं दिदृक्षुः ।
अभ्याजगामाशु शचीसहायः प्रीत्यार्चयत्तं विधिनैव राजा ॥ १ ॥

मूलम्

अभ्याजगामाङ्गिरसी च तत्र हृष्टा तयोः सा चरणौ ववन्दे ।
इन्द्रः सखित्वादथ तामुवाच रोमाणि ते सन्ति न सन्ति राज्ञि ॥ २ ॥

सा बालभावादथ तं जगाद उपोप मे शक्र परामृशेति ।
तां पूर्वया सान्त्व्य नृपः प्रहृष्टो अन्वव्रजत्साथ पतिं पतिव्रतां ॥ ३ ॥

अथाग्नेये अग्निमित्युत्तरे यं पञ्चैन्द्राणि प्र तदैन्दव्यृगत्र ।
शं तमिन्द्रापर्वतौ सह स्तुतौ त्विन्द्रं मेन इह यास्कः प्रधानम् ॥ ४ ॥

ऋक्षु स्तुतः पर्वतवद्धि वज्रो द्विवत्स्तुतौ चेन्द्रमाहुः प्रधानम् ।
आ त्वा वायोनव पञ्चेन्द्रवाय्वोर् एका वायोरुत्तरं द्विप्रधानम् ॥ ५ ॥

तत्र पञ्च वरुणमित्रदेवा दिवादिभ्यः कथिताभ्यः परे द्वे ।
द्वे द्वे पदे संस्तुते रोदसी च देवाश्चार्धर्चेन विभक्तमन्यत् ॥ ६ ॥

मैत्रावरुणं सुषुमेति सूक्तं प्रप्र पौष्णं वैश्वदेवं तृतीयम् ।
अस्तु श्रौषड् वैश्वदेवं तृतीयं वैश्वदेवं स्याद्बहुदेवतेषु ॥ ७ ॥

बहुशस्तु वैश्वदेवेषु सन्त्यृचः पादार्धर्चा द्वैपदास्त्रैपदाश्च ।
द्विप्रधाना अपि चैकप्रधाना बहुप्रधाना अपि वैश्वदेवाः ॥८

वैश्वदेवी मैत्रावरुणी द्वितीया तिस्रोऽश्विभ्यां तत ऐन्द्री ततोऽग्नेः ।
मारुत्येका तत ऐन्द्राग्न्यनन्तरा बार्हस्पत्या चोत्तमा स्तौति देवान् ॥ ९ ॥

ऋषीनृषिर्वा स्तौति दध्यङ्ह मेऽस्याम् आत्मानं वा तेषु शंसन्स्वजन्म ।
तस्मादस्यां विप्रवदन्ति केचिद् इन्द्राग्नी तस्यां तु निपातभाजौ ॥ १० ॥

द्वावुचथ्यबृहस्पती ऋषिपुत्रौ बभूवतुः ।
आसीदुचथ्यभार्या तु ममता नाम भार्गवी ॥११ ॥

तां कनीयान्बृहस्पतिर् मैथुनायोपचक्रमे ।
शुक्रस्योत्सर्गकाले तु गर्भस्तं प्रत्यभाषत ॥ १२ ॥

इहास्मि पूर्वसंभूतो न कार्यः शुक्रसंकरः ।
तच्छ्रुक्रप्रतिषेधं तु न ममर्ष बृहस्पतिः ॥ १३ ॥

स व्याजहार तं गर्भं तमस्ते दीर्घमस्त्विति ।
स च दीर्घतमा नाम बभूवर्षिरुचथ्यजः ॥ १४ ॥

स जातोऽभ्यतपद्देवान् अकस्मादन्धतां गतः ।
ददुर्देवास्तु तन्नेत्रे ततोऽनन्धो बभूव सः ॥ १५ ॥

स वेदिषद इत्यस्तोच् चतुर्भिर्जातवेदसम् ।
समिद्ध आप्रियोऽन्त्यैन्द्रो तमित्यग्नेः पराणि षट् ॥ १६ ॥।

स्तुतौ तु मित्रावरुणौ सूक्तैर्मित्रमिति त्रिभिः ।
मित्रं मैत्रीं वदन्येताम् आ धेनवश्च शंसति ॥ १७ ॥

अदितिं वाथवाप्यग्निं तथा रूपं हि दृश्यते ।
अग्निं मेनेऽदितिं त्वेव कुत्से चेह च शौनकः ॥१८ ॥

ऋषिरत्र प्रसङ्गाद्वा दर्शनाद्वानुकीर्तयेत् ।
बिष्णोर्नु कमिति त्रीणि वैष्णवानि पराण्यतः ॥ १९॥

प्र वश्च तिसृभिर्ऋग्भिर् इन्द्राविष्णु सह स्तुतौ ।
गृहाणि वा वैष्णवानि ता वामित्यृचि काङ्क्षति ॥२०॥

जीर्णं तु दीर्घतमसं खिन्नास्तत्परिचारिणः ।
दासा बद्ध्वा नदीतोये दृष्टिहीनमवादधुः ॥ २१ ॥

तत्रैकस्त्रैतनो नाम शस्त्रेणैनमपाहनत् ।
शिरश्चांसावुरश्चैव स्वयमेव न्यकृन्तत ॥ २२ ॥

हत्वा दीर्घतमास्तं तु पापेन महता वृतम ।
आत्माङ्गान्यनुदच्चैव तत्रोदोन्मोह्नितो भृशम् ॥ २३ ॥

अङ्गदेशसमीपे तु तं नद्यः समुदक्षिपन् ।
अङ्गराजगृहे युक्ताम् उशिजं पुत्रकाम्यया ॥ २४ ॥

राज्ञा च प्रहितां दासीं भक्तां मत्वा महातपाः ।
जनयामास चोत्थाय कक्षीवत्प्रमुखानृषीन् ॥ २५ ॥

तुष्टाव चैव सूक्ताभ्याम् अबोधीत्यश्विनावृषिः ।
प्रेति द्यावापृथिव्यौ तु पराभ्यामेतदुत्तरम् ॥ २६ ॥

किमार्भवं परे मा नो मेध्यस्याश्वस्य संस्तवः ।
ईर्मान्तास इति त्वस्यां नीयमानं प्रशंसति ॥ २७ ॥

स्वयूथ्यास्तस्य चैवात्र बहवः संस्तुता हयाः ।
नियुक्ताश्चानियुक्ताश्च प्रसङ्गादनुकीर्तिताः ॥ २८ ॥

संज्ञप्तवदसंज्ञप्तं भविष्यं चाह भूतवत् ।
तस्य मांसस्य सूनस्य चरूणां हविषस्तथा ॥ २९ ॥

वासोऽधिवाससोश्चात्र यद्विशस्यं च कीर्तितम् ।
गात्रस्य शूलस्थूणानां स्वधितेश्च प्रकीर्तनम् ॥ ३० ॥

छागस्य कीर्तनं चात्र इन्द्रापूष्णोः सह स्तुतिः ।
सूक्तं यदस्यवामीयं वैश्वदेवं तदुच्यते ॥ ३१ ॥

प्रवादा विधिधास्तत्र देवानां चात्र कीर्तनम् ।
सूक्तेऽस्यर्चि परोक्षोक्ता वक्ष्यामि भ्रातरस्त्रयः ॥ ३२ ॥

अग्निस्तु वामः पलितो वायुर्भ्राता तु मध्यमः ।
घृतपृष्ठस्तृतीयोऽत्र सप्त वै रश्मय स्तुताः ॥ ३३ ॥

परास्तु कथयन्त्यग्निं यथा वर्षति पाति च ।
अहोरात्रान्दिनान्मासान् ऋतूंश्च परिवर्तिनः ॥ ३४ ॥

पञ्चधा च त्रिधा चैव षोढा द्वादशधैव च ।
संवत्सरं चक्रवच्च पराभिः कीर्तयत्यृषिः ॥ ३५ ॥

क्षेत्रज्ञानं च धेनुं च गौरीं वाचं सरस्वतीम् ।
धर्मं पूर्वयुगीयं च साध्यान्देवगणांस्तथा ॥ ३६ ॥

विविधानि च कर्माणि अग्निवायुविवस्वताम् ।
विभूतिमग्नेर्वायोश्च जगति स्थास्नुजङ्गमे ॥ ३७ ॥

हरणं रश्मिभिर्वारो विसर्गं पुनरेव च ।
कर्मानुकीर्तनं चात्र पर्जन्याग्निविवस्वताम् ॥ ३८ ॥

मातापुत्रौ तु वाक्प्राणौ माता वागितरः सुतः ।
सरस्वन्तमिति प्राणो वाचं प्राहुः सरस्वतीम् ॥ ३९ ॥

शरीरमिन्द्रियैर्युक्तं क्षेत्रमित्यभिधीयते ।
वेद तत्प्राण एवैकस् तस्मात्क्षेत्रज्ञ उच्यते ॥ ४० ॥

मेधे शकस्तस्य धूमः सलिलं वास एव वा ।
सोम उक्षा भवन्त्यस्य पावकाश्च त्रयोऽधिपाः ॥ ४१ ॥

गौरीरन्तं वैश्वदेवम् उपरि स्यात्पृथक्स्तुतिः ।
इन्द्रं मित्रमिमे सौर्यौ सौरी वान्त्या सरस्वते ॥४२॥

सूक्तमल्पस्तवं त्वेतज् ज्ञानमेव प्रशंसति ।
प्रवादबहुलत्वाच्च ततः सलिलमुच्यते ॥ ४३ ॥

मारुतैन्द्रस्तु संवादः कयेति परमः स्मृतः ।
मरुतामयुजस्त्वैन्द्रयो युग्माः सर्वाः सहान्त्यया ॥ ४४॥

एकादशी प्रथमा च मारुतस्तृच उत्तरः ।
तृचस्यैव तु तत्रोक्तं कर्तृत्वमितरस्य तु ॥ ४५॥

इतिहासः पुरावृत्त ऋषिभिः परिकीर्त्यते ।
समागच्छन्मरुद्भिस्तु चरन्व्योम्नि शतक्रतुः ॥ ४६॥

दृष्टवा तुष्टाव तानिन्द्रस् ते चेन्द्रमृषयोऽब्रुवन् ।
तेषामगस्त्यः संवादं तपसा वेद तत्त्वतः ॥ ४७॥

स तानभिजगामाशु निरुप्यैन्द्रं हविस्तदा ।
मरुतश्चाभितुष्टाव सूक्तैस्तन्न्विति च त्रिभिः ॥४८॥।

महश्चिदिति चैवेन्द्रं सहस्रमिति चैतया ।
निरुप्तं तद्धविश्चैन्द्रं मरुद्भ्यो दातुमिच्छति ॥ ४९॥

विज्ञायावेक्ष्य तद्भावम् इन्द्रो नेति तमब्रवीत् ।
न श्वो नाद्यतनं ह्यस्ति वेद कस्तद्यदद्भुतम् ॥५० ॥

कस्यचित्त्वर्थसंचारे चित्तमेव विनश्यति ।
किं न इत्यब्रवीदिन्द्रम् अगस्त्यो भ्रातरस्तव ॥ ५१ ॥

मरुद्भिः संप्रकल्पस्व वधीर्मा नः शतकतो ।
किं नो भ्रातरिति त्वस्याम् इन्द्रो मान्ययुपालभत् ॥५२॥

अगस्त्यस्त्वरमित्यस्यां क्षुब्धमिन्द्रं प्रशामयत् ।
प्रादात्संवननं कृत्वा तेभ्य एव च तद्धविः ॥५३ ॥

सुते चकार सोमेऽथ तानिन्द्रः सोमपीथिनः ।
तस्माद्विद्यान्निपातेन सेन्द्रेषु मरुत स्तुतान् ॥ ५४ ॥

प्रीतात्मा पुनरेवर्षिस् तांस्तुष्टाव पृथक्पृथक् ।
मरुतः प्रति सूक्ताभ्याम् इन्द्रं षड्भिः परस्तु सः ॥ ५५ ॥

स्तुतश्चतसृभिश्चेन्द्र स्तुतास इति तैः सह ।
मरुद्भिः सह यत्रेन्द्रो मरुत्वांस्तत्र सोऽभवत् ॥ ५६॥।

ऋतौ स्नाताम् ऋषिर् भार्यां
लोपमुद्रां यशस्विनीम् ।
उपजल्पितुम् आरेभे
रहःसंयोगकाम्यया ॥ ५७॥

मूलम्

ऋतौ स्नातामृषिर्भार्यां लोपमुद्रां यशस्विनीम् ।
उपजल्पितुमारेभे रहःसंयोगकाम्यया ॥ ५७॥

विश्वास-प्रस्तुतिः

द्वाभ्यां सा त्व् अब्रवीद् ऋग्भ्यां
पूर्वीर् इति चिकीर्षितम्
रिरंसुस् ताम् अथागस्त्य
उत्तराभ्याम् अतोषयत् ॥५८॥

मूलम्

द्वाभ्यां सा त्वब्रवीदृग्भ्यां पूर्वीरिति चिकीर्षितम् ।
रिरंसुस्तामथागस्त्य उत्तराभ्यामतोषयत् ॥५८॥

विश्वास-प्रस्तुतिः

विदित्वा तपसा सर्वं
तयोर् भावं रिरंसतोः
“श्रुत्वैनः कृतवान् अस्मि”
ब्रह्मचार्य् उत्तमे जगौ ॥५९॥

मूलम्

विदित्वा तपसा सर्वं तयोर्भावं रिरंसतोः ।
श्रुत्वैनः कृतवानस्मि ब्रह्मचार्युत्तमे जगौ ॥५९॥

विश्वास-प्रस्तुतिः

प्रशास्य तं परिष्वज्य
गुरू मूर्ध्न्य् अवजघ्रतुः
स्मित्वैनम् आहतुश् चोभाव्
“अनागा असि पुत्रक” ॥६०॥

मूलम्

प्रशास्य तं परिष्वज्य गुरू मूर्ध्न्यवजघ्रतुः ।
स्मित्वैनमाहतुश्चोभाव् अनागा असि पुत्रक ॥६०॥

विश्वास-प्रस्तुतिः

युवो रजांसीति ततः
सूक्तैः पञ्चभिर् अश्विनौ ।
अगस्त्य एव तुष्टाव
कतरेति परेण तु ॥ ६१ ॥

मूलम्

युवो रजांसीति ततः सूक्तैः पञ्चभिरश्विनौ ।
अगस्त्य एव तुष्टाव कतरेति परेण तु ॥ ६१ ॥

विश्वास-प्रस्तुतिः

द्यावापृथिव्यौ सूक्तेन आ नो विश्वान्दिवौकसः ।
पितुमन्नं समिद्धाप्र्यो अग्निमग्ने नयेति च ॥६२॥

बृहस्पतेरनर्वाणं कङ्कतोपनिषत्परम् ।
अपां तृणानां सूर्यस्य केचिदेतां स्तुतिं विदुः ॥६३ ॥

ददर्श तदगस्त्यो वा विषघ्नं विषशङ्कया ।
अदृष्टाख्यो नष्टरूपः सूक्तस्यानयोऽत्र तु द्वृचः ॥ ६४॥

अस्तौद्गृत्समदोऽग्निं च जातवेदस्यमाप्रियः ।
यज्ञेनाथ समिद्धोऽग्निर् अतोऽग्निं सप्तभिर्हुवे । ।६५॥

संयुज्य तपसात्मानम् ऐन्द्रं बिभ्रन्महद्वपुः ।
अदृश्यत मुहूर्तेन दिवि च व्योम्नि चेह च ॥ ६६॥

तमिन्द्रमिति मत्वा तु दैत्यौ भीमपराक्रमौ ।
धुनिश्च चुमुरिश्चोभौ सायुधावभिपेततुः ॥ ६७ ॥

विदित्वा स तयोर्भावम् ऋषिः पापं चिकीर्षतोः ।
यो जात इति सूक्तेन कर्माण्यैन्द्राण्यकीर्तयत् ॥ ६८ ॥

उक्तेषु कर्मस्वैन्द्रेषु भीस्तावाशु विवेश ह ।
इदमन्तरमित्युक्त्वा ताविन्द्रस्तु निबर्हयत् ॥ ६९ ॥

निहत्य तौ गृत्समदम् ऋषिं शक्रोऽभ्यभाषत ।
यथेष्टं मां सखे पश्य प्रियत्वं आगतोऽसि मे ॥ ७० ॥

वरं गृहाण मत्तस्त्वम् अक्षयं चास्तु ते तपः ।
प्रह्वस्तं प्रत्युवाचर्षिर् अस्माकं वदतां वर ॥ ७१ ॥

तनूनामस्तु चारिष्टिर् वाक् चास्तु हृदयंगमा ।
सुवीरा रयिमन्तश्च वयं त्वामिन्द्र धीमहे ॥ ७२ ॥

इन्द्र त्वां च विजानीमो वयं जन्मनि जन्मनि ।
त्वद्गतञ्चैष मे भावो पापागस्त्वं रथीतरः ॥ ७३ ॥

निरुक्तं तदिदं वार्यम् इन्द्र श्रेष्ठान्यृचान्त्यया ।
वव्रे वरमिदं सर्वं तदाकर्ण्य शचीपतिः ॥ ७४ ॥

तथेत्युक्त्वा तुराषाट् तु पाणौ जग्राह दक्षिणे।
ऋषिश्चास्य सखित्वेन पाणिना पाणिमस्पृशत् ॥७५ ॥

सहितौ जग्मतुश्चैवं महेन्द्रसदनं प्रति ।
तत्रैनमार्हयत्प्रीत्या स्वयमेव पुरंदरः ॥७६ ॥

कर्मणा विधिदृष्टेन तमृषिं चाभ्यपूजयत् ।
सखित्वाच्च पुनश्चैनम् उवाच हरिवाहनः ॥ ७७ ॥

गृणन्मादयसे यस्मात् त्वमस्मानृषिसत्तम ।
तस्माद्गृत्समदो नाम शौनहोत्रो भविष्यसि ॥७८ ॥

ततो द्वादशभिः सूक्तैस् तुष्टावेन्द्रं श्रुधीत्यृषिः ।
ददर्श संस्तुवन्नेव तत्र स ब्रह्मणस्पतिम् ॥७९ ॥

बृहस्पतिं तु तुष्टाव दृष्टलिङ्गाभिरेव च ।
स तमप्यभितुष्टाव चतुर्भिरित उत्तरैः ॥ ८० ॥

गणानां विश्वमित्यस्यां सहेन्द्राब्राह्मणस्पती ।
बृहस्पतिं प्रसङ्गाद्वा ब्रह्मणस्पतिमेव च ॥ ८१ ॥

तुष्टाव कर्मणैकेन प्रभावस्यान्तरं द्वयोः ।
मित्रावरुणदक्षांशातुविजातभगार्यम्णाम् । ।८२॥

आदित्यानामिमाः सूक्तम् इदं वारुणमुच्यते ।
वारुणी यो म इत्याद्या दुःस्वप्नाद्यप्रणाशिनी ॥८३ ॥

धृतव्रता वैश्वदेवम् शतमैन्द्रं परं तु यत् ।
प्र हि क्रतुमिति त्वस्याम् इन्द्रासोमौ सह स्तुतौ ॥८४॥

सरस्वती त्वमित्यस्मिन्न् अर्धर्चं मध्यमा तु वाक् ।
बृहस्पतिस्तुतिर्यो नस् तं व ऋङ् मरुतां स्तुतिः ॥८५॥

अस्माकं वैश्वदेवं स्याद् आदावस्येति चास्य ऋक् ।
द्यावापृथिव्योस्त्वाष्ट्र्यौ वा अथवैन्द्र्यौ परे ततः ॥८६ ॥

द्वे द्वै राकासिनोवाल्योः षड् गुङ्ग्वाद्यास्तथान्त्यया । तत्पूर्वं द्वे ऋचौ कुह्वाः कुहूमहमिति स्मृते ॥८७
विश्वास-प्रस्तुतिः

तदुत्तरे द्वेऽनुमतैर अनु नोऽन्विदिति स्मृते ।
धातुश्चतस्रस्तत्रादो धाता ददातु नो रयिम् ॥ ८८ ॥

रौद्रं मारुतं तु प्ररम् आ ते धारावरा इति ।
वामतस्तु मृगं दृष्ट्वा बिभ्यदेत्य ऋषिः स्वयम् ॥ ८९ ॥

स्तुहि श्रुतमिति त्वस्यां तमेवास्तौत्प्रसादयन् ।
अपां नपादुपेत्यत्र स्तुतः सूक्ते ततः परे ॥ ९० ॥

तुभ्यमित्यार्तवे सूक्तं सावित्रादाश्विनं परम् ।
सोमः पूषादितिश्चैव सोमपौष्णेऽन्त्यया स्तुताः ॥ ९१ ॥

वायव्ये चैन्द्रवायवी पञ्चाथ प्राउगास्तृचाः ।
विश्वास-प्रस्तुतिः

प्रेत्यृक्स्तौति हविर्धाने अग्निस्तत्र निपातभाक् ।
द्यावापृथिव्यौ द्यावेति हविर्धाने ततः परे ॥ ९२ ॥

स्तुतिं तु पुनरेवेच्छन्न् इन्द्रो भूत्वा कपिञ्जलः ।
ऋषेर्जिगमिषोराशां ववाशास्थाय दक्षिणाम् ॥९३ ॥

स तमार्षेण संप्रेक्ष्य चक्षुषा पक्षिरूपिणम् ।
पराभ्यामभितुष्टाव सूक्ताभ्यां तु कनिक्रदत् ॥ ९४ ॥

प्रशास्य गां यस्तपसाभ्यगच्छद् ब्रह्मर्षितामेकशतं च पुत्रान् ।
स गथिपुत्रस्तु जगाद सूक्तं सोमस्य मेत्याग्नेयं यत्परे च ॥ ९५ ॥

वैश्वानरीये समित्समिदाप्र्यो द्वे आग्नेये उत्तरे त्वत्र सूक्ते ।
द्यावापृथिव्या उषसो निपाता आपोऽथ देवाः पितरश्च मित्रः ॥९६ ॥

आग्नेयेषु दृश्यन्ते स्तुतास्तु वैश्वानरो वरुणो जातवेदाः ।
स्तुयेतैका यत्र यत्रास्तुतिर्वा निपात्यर्थांश्चोपमार्थांश्च विद्यात् ॥९७ ॥

राजर्षयो गृत्समदा वसिष्ठा भरद्वाजाः कुशिका गोतमाश्च ।
विश्वेऽश्विनावङ्गिरसोऽत्रयोऽदितिर् भोजाः कण्वा भृगवो रोदसी दिशः ॥९८ ॥

सावित्रसौभ्याश्विनमारुतेषु ऐन्द्राग्नेये रौद्रसौर्यौषसेषु ।
आदावन्ते सक्तमध्ये स्तुतास्तु न व्याघ्नन्ति देवताः सूक्तभाजः ॥ ९९ ॥

अग्नेः सप्तदशोऽध्याय ऊर्ध्वं ऊ षु ण ऊतये ।
एते काण्व्यावृचौ यौप्याव् अञ्जन्ति पञ्च च ॥१०० ॥

शेषा बहुभ्यो यूपेभ्यो वैश्वदेवी त्वृगष्टमी ।
अस्यान्त्या व्रश्चना योक्ता षष्ठमैन्द्राग्नमुच्यते ॥१०१ ॥

अग्निमुषसं वैश्वदेवो दधिक्रामिति चैतया ।
आग्नेन्द्री त्वग्न इन्द्रश्चर्क् परो वैश्वानरस्तृचः ॥ १०२ ॥

प्र यन्तु मारुतञ्चान्त्या शतधारं गुरुस्तवः ।
प्र वो वाजा ऋतून्स्तौति ऋत्विज स्तौति मन्थत ॥ १०३ ॥

पुरोष्यास इति त्वस्यां धिष्ण्यानग्नीन्प्रशंसति ।
ज्ञेयाश्चैव तु होतारम् ते दैव्याश्चैव तत्र तु ॥ १०४ ॥

त्रयोविंशतिरैन्द्राणि इच्छन्तीति पराण्यतः ।
सूक्ते प्रेति तु नद्यश्च विश्वामित्रः समूदिरे ॥ १०५॥

पुरोहितः सन्निज्यार्थं सुदासा सह यन्नृषिः ।
विपाट्छुतुद्रयोः संभेदं शमित्येते उवाच ह ॥ १०६ ॥

प्रवादास्तत्र दृश्यन्ते द्विवद्बहुवदेकवत् ।
अच्छेत्यर्धर्चे पच्छो वा नदीष्वप्येकवन्नि ते ॥ १०७ ॥

आद्ये द्वृचे द्विवत्सार्धे विश्वामित्रवचः श्रुतेः ।
एताभिर्ऋग्भिर्वा नद्य ऋषि बहुवदूचिरे ॥ १०८ ॥

षष्ट्याष्टम्या चतुर्थ्या च दशम्या चेतरा ऋषेः ।
सप्तम्यामृचि षष्ठ्यां च यौ देवौ परिकीर्तितौ ॥ १०९ ॥

निपातिनौ तु तौ ज्ञेयौ ऐन्द्रापार्वत्यृगुत्तमे ।
करोति पुत्रिकां नाम यथा दुहितरं तथा ॥११० ॥

तस्यां सिञ्चति रेतो वा तच्छासदिति कीर्तितम् ।
रिक्थस्य दुहितुर्दानं नेत्यृचि प्रतिषिध्यते ॥ १११ ॥

तस्याश्चाह यवीयांसं भ्रातरं ज्येष्ठवत्सुतम् ।
सुदासश्च महायज्ञे शक्तिना गाथिसूनवे ॥ ११२ ॥

निगृहीतं बलाच्चेतः सोऽवसीदद्विचेतनः ।
तस्मै ब्राह्मीं तु सौरीं वा नाम्ना वाचं ससर्परीम् ॥११३ ॥

सूर्यक्षयादिहाहृत्य ददुस्ते जमदग्नयः ।
कुशिकानां ततः सा वाग् अमतिं तामपाहनत् ॥ ११४ ॥

उपेति चास्यां च कुशिकान् विश्वामित्रोऽनुबोधयत् । लब्ध्वा वाचं च हृष्टात्मा तानृषीन्प्रत्यपूजयत् ॥११५
विश्वास-प्रस्तुतिः

ससर्परीरिति द्वाभ्याम् ऋग्भ्यां वाचं स्तुवन्स्वयम् ।
स्थिरावित्यनसोऽङ्गान्यनडुहश्च गृहान्व्रजन् ॥ ११६ ॥

ततश्च स्वशरीरेण गृहान्गच्छन्परीददे ।
पराश्चतस्रो यास्त्वत्र वसिष्ठद्वेषिण्यः स्मृताः ॥११७ ॥

विश्वामित्रेण ताः प्रोक्ता अभिशापा इति स्मृताः ।
द्विषद्द्वेषास्तु ता प्रोक्ता विद्याश्चैवाभिचारिकाः ॥ ११८ ॥

वसिष्ठास्ता न शृण्वन्ति तदाचार्यकसंमतम् । कीर्तनाच्छ्रवणाद्वापि महादोषश्च जायते ॥ ११ ९॥
विश्वास-प्रस्तुतिः

शतधा भिद्यते मूर्धा कीर्तितेन श्रुतेन वा ।
तेषां बालाः प्रमीयन्ते तस्मात्तास्तु न कीर्तयेत् ॥ १२० ॥

विश्वांश्च देवांस्तुष्टाव चतुर्भिरिममित्यृषिः ।
अस्तौद्विश्वात्मना सर्वान् मन्यमानः परं पदम् ॥१२१ ॥

देवानामसुरत्वं तद् एकं महदितीरयन् ।
अश्विनौ मित्र ऋभवो धेनुर्मित्र इहेह वः ॥ १२२॥

वैश्वदेवीति विज्ञेया मैत्री मित्राय पञ्च तु ।
ऐन्द्रार्भवस्तृचस्त्वत्र आर्भवे सूक्त उत्तमः ॥ १२३ ॥

पूर्वे द्वृचे निपातीन्द्र उषो वाजेन पञ्चमात् ।
विश्वास-प्रस्तुतिः

औषसादुत्तरास्त्वन्त्ये षट् पृथग्देवतास्तृचाः ।
ऐन्द्रावरुणः प्रथमो बार्हस्पत्यस्तथापरः ॥ १२४ ॥

पौष्णसावित्रसौम्याश्च मैत्रावरुण उत्तमः ।
तुष्टाव जमदग्निश्च तेन देवावृतावृधौ ॥ १२५ ॥

देवर्षिपितृपूजार्थं पापाचान्त्रचाणि यच्छुनः ।
यस्य वै श्येनरूपेण आहरद्वृत्रहा मधु ॥ १२६ ॥

सोऽग्निं तु पञ्चदशभिर् इन्द्रं षोडशभिः परैः ।
ऋषिस्त्वामिति तुष्टाव सूक्तैरेति तु गौतमः ॥ १२७॥

स भ्रातरमिति त्वासु तिसृष्वग्निर्निपातभाक् ।
वरुणेनाभिसंस्तौति आहुरन्ये निपातिनम् ॥१२८ ॥

लिङ्गोक्तदैवते सूक्ते एके प्रत्यग्निरेव तु ।
ऋषिर्बोधदिति द्वाभ्यां स्तौति सोमकमेव तु ॥ १ २९॥

तस्यैव चायुषोऽर्थाय पराभ्यामश्विनौ स्तुतौ ।
अञ्जसा न जनिष्येऽहं ब्रुवाणं गर्भमेव तु ॥ १३० ॥

अन्वशाददितिः पुत्रम् इन्द्रमात्महितैषिणी । स जातमात्रो युद्धाय ऋषिमेवाजुहाव तु ॥ १३१
विश्वास-प्रस्तुतिः

गोधयन्वामदेवस्तं कृत्वात्मनि बलं तथा ।
दिनानि दश रात्रीश्च विजिग्ये चैनमोजसा ॥ १३२ ॥

स तं क इममित्यस्यां विक्रीणन्नृषिसंसदि ।
स्वयं तेनामितुष्टाव नकिरिन्द्रेति गौतमः ॥ १३२ ॥

किमादुतासीति चास्यां मन्युमर्धे पराणुदत् ।
अथास्य रूपवीर्याणि धैर्यकार्याणि तान्यृषिः ॥ १३४ ॥

विविधानि च कर्माणि शशंसादितये तथा ।
अहमित्यात्मसंस्तावस् तृचे स्तुतिरिवास्य हि ॥ १३५ ॥

प्र सु ष विभ्यो नवभिर् ऋग्भिः श्येनस्य संस्तवः ।
पराभिस्त्वेति पञ्चर्चे सोमेनेन्द्र स्तुतः सह ॥ १३६ ॥

सोमप्रधानामैतां तु क्रौष्टुकिर्मन्यते स्तुतिम् ।
दिवश्चिदिति चैतेन तृचेनेन्द्रेण संस्तुताम् ॥१३७॥

उषसं मध्यमां मेने आचार्यः शाकटायनः ।
वाममृचि स्तुताश्चात्र भगः पूषेति चार्यमा ॥ १ ३८॥।

करूळतीति पूषोक्तोऽदन्तकः स इति श्रुतेः ।
अस्माकमुत्तमं सूर्यं स्तौतित्याहाश्वलायनः ॥ १३ ९॥

इन्द्रस्य हरयो ह्यश्वा अग्नेरश्वास्तु रोहितः ।
सूर्यस्य हरितश्चैव वायोर्नियुत एव च ॥ १४० ॥

रासभः सहितोऽश्विभ्याम् अजाः पूष्णश्च वाजिनः ।
पृषत्योऽश्वास्तु मरुतां गावोऽरुण्यस्तथोषसाम् ॥ १४१ ॥

सवितुर्वाजिनः श्यावा विश्वरूपा बृहस्पतेः ।
सहैते देवताभिस्तु स्तूयन्तेऽप्यल्पशोऽन्यथा ॥ १४२ ॥

आयुषं वाहनं चापि स्तुतौ यस्येह दृश्यते ।
तमेव तु स्तुतं विद्यात् तस्यात्मा बहुधा हि सः ॥ १४३ ॥

कनीनका तूक्तशेषो हर्यो स्तुतिरिहोच्यते ।
चात्वार्यतश्च विज्ञेयान्यू अप्रगृह्याणि विद्रधे ॥ १४४ ॥

॥ इति बृहद्देवतायां चतुर्थोऽध्यायः ॥