ऐतरेयोपनिषद्-ब्राह्मणम्

[[ऐतरेयोपनिषद्-ब्राह्मणम् Source: EB]]

[

ऐतरेयोपनिषत्- ब्राह्मणम्

प्रथमः प्रघट्टकः

एष पन्था एतत् कर्मैतद् ब्रह्मैतत् सत्यं तस्मान्न प्रमाद्येत् तं नातीयान्न ह्यत्यायन् पूर्वे येऽत्यायंस्ते पराबभूवुः ॥ 1 ॥
तदुक्तमृषिणा प्रजा ह तिस्रो अत्यायमीयुर्न्याअन्या अर्कमभितो विविश्रे । बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेशेति ॥ 2 ॥
प्रजा ह तिस्रो अत्यायमीयुरिति या वै ता इमाः प्रजास्तिस्रो अत्यायमायंस्तानीमानि वयांसि वङ्गावगधाश्चेरपादा न्यन्या अर्कमभितो विविश्र इति ॥ 3 ॥
ता इमाः प्रजा अर्कमभितो निविष्टा इयमेवाग्निं बृहद्ध तस्थौ भुवनेष्वन्तरित्यद उ एष बृहद् भुवनेष्वन्तरसावादित्यः पवमानो हरित आ विवेशेति ॥ 4 ॥
वायुरेव पवमानो दिशो हरित आविष्टः ॥ 5 ॥
॥ इति प्रथमं ब्राह्मणम् ॥
उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थमियमेव पृथिवीतो हीदं सर्वमुत्तिष्ठति यदिदं किञ्च तस्याग्निरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते अन्तरिक्षमेवोक्थमन्तरिक्षं वा अनु पतन्त्यन्तरिक्षमनु धावयन्ति ॥ 1 ॥
तस्य वायुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुतेऽसावेव द्यौरुक्थममुतः प्रदानाद्धीदं सर्वमुत्तिष्ठति यदिदं किञ्च ॥ 2 ॥
तस्यासावादित्योऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुत इत्यधिदैवतमथाध्यात्मम् ॥ 3 ॥
पुरुष एवोक्थमयमेव महान् प्रजापतिरहमुक्थमस्मीति विद्यात् तस्य मुखमेवोक्थं यथा पृथिवी तथा तस्य वागर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते ॥ 4 ॥
नासिके एवोक्थं यथाऽन्तरिक्षं तथा तस्य प्राणोऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते तदेतद् ब्रध्नस्य विष्टपं यदेतन्नासिकायै विनतमिव ललाटमेवोक्थम् ॥ 5 ॥
॥ इति द्वितीयं ब्राह्मणम् ॥
यथा द्यौस्तथा तस्य चक्षुरन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते ॥ 1 ॥
समानमशीतयोऽध्यात्मं चैवाधिदैवतं चान्नमेवान्नेन हीमानि सर्वाणि भूतानि समनन्ती3 ॥ 2 ॥
अन्नेनेमं लोकं जयत्यन्नेनामुं तस्मात् समानमशीतयोऽध्यात्मं चाधिदैवतं चान्नमेव तदिदमन्नमन्नादमियमेव पृथिवीतो हीदं सर्वमुत्तिष्ठति यदिदं किञ्च ॥ 3 ॥
यद्ध किञ्चेदं प्रेता3ह ॥ 4 ॥
तदसौ सर्वमत्ति यदु किञ्चातः प्रैती3 तदियं सर्वमत्ति सेयमित्याद्याऽत्त्रूयत्ता हवा आद्यो भवति न तस्येशे यं नाद्याद् यद्वैनं नाद्युः ॥ 5 ॥
अथातो रेतसः सृष्टिः प्रजापते रेतो देवा देवानां रेतो वर्षं वर्षस्य रेत ओषधय ओषधीनां रेतोऽन्नमन्नस्य रेतो रेतो रेतसो रेतः प्रजाः प्रजानां रेतो हृदयं हृदयस्य रेतो मनो मनसो रेतो वाग् वाचो रेतः कर्म ॥ 6 ॥
तदिदं कर्मकृतमयं पुरुषो ब्रह्मणो लोकः स इरामयो यद्धीरामयास्तस्माद्धिरण्मयो हिरण्मयो हवा अमुष्मिन् लोके सम्भवति हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं यत् प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं तस्मात् प्रपदे तस्मात् प्रपदे इत्याचक्षते ॥ 7 ॥
शफाः खुरा इत्यन्येषां पशूनां तदूर्ध्वमुदसर्पत् तावूरु अभवतामुरु गृणीहीत्यब्रवीत् तदुदरमभवदुर्वेव मे कुर्वित्यब्रवीत् तदुरोऽभवदुदरं ब्रह्मेति शार्कराक्ष्या उपासते हृदयं ब्रह्मेत्यारुणयो ब्रह्मा हैव ता3ह ॥ 8 ॥
॥ इति तृतीयं ब्राह्मणम् ॥
ऊर्ध्वं त्वेवोदसर्पत् तच्छिरोऽश्रयत यच्छिरोऽश्रयत तच्छिरोऽभवत् तच्छिरसः शिरस्त्वम् ॥ 1 ॥
ता एताः शीर्षञ्छ्रि2यः श्रिताश्चक्षुः श्रोत्रं मनो वाक् प्राणः श्रयन्तेऽस्मिञ्छ्रि2यो य एवमेतच्छिरसः शिरस्त्वं वेद ॥ 2 ॥
ता अहिंसन्ताहमुक्थमस्म्यहमुक्थमस्मीति ता अब्रुवन् हन्तास्माच्छरीरादुत्क्रामाम तद् यस्मिन् न उत्क्रान्त इदं शरीरं पत्स्यति तदुक्थं भविष्यतीति ॥ 3 ॥
वागुदक्रामदवदन्नश्नन् पिबन्नास्तैव चक्षुरुदक्रामदपश्यन्नश्नन् पिबन्नास्तैव श्रोत्रमुदक्रामदशृण्वन्नश्नन् पिबन्नास्तैव ॥ 4 ॥
मन उदक्रामन्मीलित इवाश्नन् पिबन्नास्तैव ॥ 5 ॥
प्राण उदक्रामत् तत् प्राण उत्क्रान्तेऽपद्यत तदशीर्यताशारीती3 ॥ 6 ॥
तच्छरीरमभवत् तच्छरीरस्य शरीरत्वं शीर्यते हवा अस्य द्विषन् पाप्मा भ्रातृव्यः पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद ॥ 7 ॥
ता अहिंसन्तैवाहमुक्थमस्म्यहमुक्थमस्मीति ता अब्रुवन् हन्तेदं पुनः शरीरं प्रविशाम तद् यस्मिन् नः प्रपन्न इदं शरीरमुत्थास्यति तदुक्थं भविष्यतीति वाक् प्राविशदशयदेव चक्षुः प्राविशदशयदेव श्रोत्रं प्राविशदशयदेव मनः प्राविशदशयदेव ॥ 8 ॥
प्राणः प्राविशत् तत् प्राणे प्रपन्न उदतिष्ठत् तदुक्थमभवत् तदेतदुक्थं प्राण एव प्राण उक्थमित्येव विद्यात् तं देवा अब्रुवन् त्वमुक्थमसि त्वमिदं सर्वमसि ॥ 9 ॥
तव वयं स्मस्त्वमस्माकमसीति तदप्येतदृषिणोक्तं त्वमस्माकं तव स्मसीति ॥ 10 ॥
तं देवाः प्राणयन्त स प्रणीतः प्रातायत प्रातायीती3 तत् प्रातरभवत् समागादिती3 तत् सायमभवदहरेव प्राणो रात्रिरपानो वागग्निश्चक्षुरसावादित्यश्चन्द्रमा मनो दिशः श्रोत्रं स एष प्रहितां संयोगोऽध्यात्ममिमा देवता अद उ आविरधिदैवतमित्येतत् तदुक्तं भवत्येतद्ध स्मवै तद्धि द्वानाह हिरण्यदन् बैदो न तस्येशे यं मह्यं न दद्युरिति ॥ 11 ॥
प्रहितां वा अहमध्यात्मं संयोगं निविष्टं वेदैतद्ध तदनीशानानि हवा अस्मै भूतानि बलिं हरन्ति य एवं वेद ॥ 12 ॥
तत् सत्यं सदिति प्राणस्तीत्यन्नं यमित्यसावादित्यस्तदेतत् त्रिवृत् त्रिवृदिव वै चक्षुः शुक्ल्ं कृष्णं कनीनिकेति स यदि हवा अपि मृषा वदति सत्यं हैवास्योदितं भवति य एवमेतत् सत्यस्य सत्यत्वं वेद ॥ 13 ॥
तस्य वाक् तन्तिर्नामानि दामानि तदस्येदं वाचा तन्त्या नामभिर्दामभिः सर्वं सितं सर्वं हीदं नामानी3 ॥ 14 ॥
सर्वं वाचाऽभिवदति वहन्ति हवा एनं तन्तिसम्बद्धा य एवं वेद ॥ 15 ॥
तस्योष्णिग् लोमानि त्वग् गायत्री त्रिष्टुप् मांसमनुष्टुप् स्नावान्यस्थि जगती पङ्क्तिर्मज्जा प्राणो बृहती स च्छन्दोभिश्छन्नो यच्छन्दोभिश्छन्नस्तस्माच्छन्दांसीत्याचक्षते च्छादयन्ति हवा एनं छन्दांसि पापात् कर्मणो यस्यां कस्यञ्चिद् दिशि कामयते य एवमेतच्छन्दसां छन्दस्त्वं वेद ॥16॥
तदुक्तमृषिणा । अपश्यं गोपामित्येष वै गोपा एष हीदं सर्वं गोपायत्यनिपद्यमानमिति नह्येष कदाचन संविशत्या च परा च पथिभिश्चरन्तमित्या च ह्येष परा च पथिभिश्चरति ॥17॥
स सध्रीचीः स विषूचीर्वसान इति सध्रीचीश्च ह्येष विषूचीश्च वत्स इमा एव दिश अवरीवर्ति भुवनेष्वन्तरित्येष ह्यन्तर्भुवनेष्वावरीवर्त्यथो आवृतासोऽवतासो न कतृर्भिरिति ॥ 18 ॥
सर्वं हीदं प्राणेनाऽवृतं सोऽयमाकाशः प्राणेन बृहत्या विष्टब्धस्तद्यथाऽयमाकाशः प्राणेन बृहत्या विष्टब्ध एवं सर्वाणि भूतान्या पिपीलिकाभ्यः प्राणेन बृहत्या विष्टब्धानीत्येव विद्याम् ॥ 19 ॥
॥ इति चतुर्थं ब्राह्मणम् ॥
अथातो विभूतयोऽस्य पुरुषस्य वाचा सृष्टौ पृथिवी चाग्निश्चास्यामोषधयो जायन्तेऽग्निरेनाः स्वदयतीदमाहरतेदमाहरतेत्येवमेतौ वाचं पितरं परिचरतः पृथिवी चाग्निश्च यावदनु पृथिवी यावदन्वग्निस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यते पृथिव्याश्चाग्नेश्च य एवमेतां वाचो विभूतिं वेद प्राणेन सृष्टावन्तरिक्षं च वायुश्चान्तरिक्षं वा अनु चरन्त्यन्तरिक्षमनु शृण्वन्ति वायुरस्मै पुण्यं गन्धमावहत्येवमेतौ प्राणं पितरं परिचरतोऽन्तरिक्षं च वायुश्च यावदन्वन्तरिक्षं यावदनु वायुस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यतेऽन्तरिक्षस्य च वायोश्च य एवमेतां प्राणस्य विभूतिं वेद ॥ 1 ॥
चक्षुषा सृष्टौ द्यौश्चाऽदित्यश्च द्यौर्हास्मै वृष्टिमन्नाद्यं सम्प्रयच्छत्यादित्योऽस्य ज्योतिःप्रकाशं करोत्येवमेतौ चक्षुः पितरं परिचरतो द्यौश्चाऽदित्यश्च यावदनु द्यौर्यावदन्वादित्यस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते ॥ 2 ॥
यावदेतयोर्न जीर्यते दिवश्चाऽदित्यस्य च य एवमेतां चक्षुषो विभूतिं वेद ॥ 3 ॥
श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्च दिग्भ्यो हैनमायन्ती3 ॥4॥
दिग्भ्यो विशृणोति चन्द्रमा अस्मै पूर्वपक्षापरपक्षान् विचिनोति पुण्याय कर्मण एवमेते श्रोत्रं पितरं परिचरन्ति दिशश्च चन्द्रमाश्च यावदनु दिशो यावदनु चन्द्रमास्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतेषां न जीर्यते दिशां च चन्द्रमसश्च य एवमेतां श्रोत्रस्य विभूतिं वेद ॥5॥
मनसा सृष्टा आपश्च वरुणश्चाऽपो हास्मै श्रद्धां सन्नमन्ते पुण्याय कर्मणे वरुणोऽस्य प्रजां धर्मेण दाधरैवमेते मनः पितरं परिचरन्त्यापश्च वरुणश्च यावदन्वापो यावदनु वरुणस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतेषां न जीर्यतेऽपां च वरुणस्य च य एवमेतां मनसो विभूतिं वेद ॥ 6 ॥
॥ इति पञ्चमं ब्राह्मणम् ॥
आपा इत्याप इति तदिदमाप एवेदं वै मूलमदस्तूलमयं पितैते पुत्रा यत्र ह क्वचन पुत्रस्य तत् पितुर्यत्र वा पितुमान् पुत्रस्येत्येतत् तदुक्तं भवत्येतद्ध स्मवैतद् विद्वानाह महिदास ऐतरेय आऽहं मां देवेभ्यो वेदा ओ मद् देवान् वेदेतः प्रदाना ह्येत इतः सम्भृता इति स एष गिरिश्चक्षुः श्रोत्रं मनो वाक् प्राणस्तं ब्रह्मगिरिरित्याचक्षते गिरति हवै द्विषन्तं पाप्मानं भ्रातृव्यं पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद ॥1॥
स एषोऽसुः स एष प्राणः स एष भूतिश्चाभूतिश्च तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह परा बभूवुर्भवत्यात्मना पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद ॥ 2 ॥
स एष मृत्युश्चैवामृतं च तदुक्तमृषिणा । अपाङ् प्राङेति स्वधया गृभीत इत्यपानेन ह्ययं यतः प्राणो न पराङ् भवत्यमर्त्यो मर्त्येना सयोनिरित्येतेन हीदं सर्वं सयोनि मर्त्यानि हीमानि शरीराणी3 ॥ 3 ॥
अमृतैषा देवता ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न निचिक्युरन्यमिति निचिन्वन्ति हैवेमानि शरीराणी3 ॥ 4 ॥
अमृतैवैषा देवताऽमृतो हवा अमुष्मिन् लोके सम्भवत्यमृतः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद य एवं वेद ॥ 5 ॥

॥ इति श्रीमहैतरेयोपनिषदि प्रथमप्रघट्टके षष्ठोऽध्यायः ॥
॥ इति प्रथमः प्रघट्टकः ॥

****************************************************************************

द्वितीयः प्रघट्टकः

एष इमं लोकमभ्यार्चत् पुरुषरूपेण य एष तपति प्राणो वाव तदभ्यार्चत् प्राणो ह्येष य एष तपति तं शतं वर्षाण्यभ्यार्चत् तसमाच्छतं वर्षाणि पुरुषायुषो भवन्ति तं यच्छतं वर्षार्ण्यभ्यार्चत् तस्माच्छतर्चिनस्तस्माच्छतर्चिनइत्याचक्षत एतमेव सन्तम् ॥ 1 ॥
स इदं सर्वं मध्यतो ददे यदिदं किञ्च स इदं सर्वं मध्यतो दधे यदिदं किञ्च तसमान्मध्यमास्तस्मान्मध्यमा इत्याचक्षत एतमेव सन्तम् ॥ 2 ॥
प्राणो वै गृत्सोऽपानो मदः स यत् प्राणो गृत्सोऽपानो मदस्तस्माद् गृत्समदस्तस्माद् गृत्समद इत्याचक्षत एतमेव सन्तम् ॥ 3 ॥
तस्येदं विश्वं मित्रमासीद् यदिदं किञ्च तद् यदस्येदं विश्वं मित्रमासीद् यदिदं किञ्च तस्माद् विश्वामित्रस्तस्माद् विश्वामित्र इत्याचक्षत एतमेव सन्तम् ॥ 4 ॥
तं देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तस्माद् वामदेवस्तस्माद् वामदेव इत्याचक्षत एतमेव सन्तम् ॥ 5 ॥
स इदं सर्वं पाप्मनोऽत्रायत यदिदं किञ्च स यदिदं सर्वं पाप्मनोऽत्रायत यदिदं किञ्च तस्मादत्रयस्तस्मादत्रय इत्याचक्षत एतमेव सन्तम् ॥ 6 ॥
॥ इति प्रथमं ब्राह्मणम् ॥
एव उ एव विभ्रद्वाजः प्रजा वै वाजस्ता एष बिभर्ति यद् बिभर्ति तस्माद् भारद्वाजस्तस्माद् भारद्वाज इत्याचक्षत एतमेव सन्तम् ॥ 1 ॥
तं देवा अब्रुवन्नयं वै नः सर्वेषां वशिष्ठ इति तं यद् देवा अब्रुवन्नयं वै नः सर्वेषां वशिष्ठ इति तस्माद् वसिष्ठस्तस्माद् वसिष्ठ इत्याचक्षत एतमेव सन्तम् ॥ 2 ॥
स इदं सर्वमभि प्रागाद् यदिदं किञ्च स यदिदं सर्वमभि प्रागाद् यदिदं किञ्च तस्मात् प्रगाथास्तस्मात् प्रगाथा इत्याचक्षत एतमेव सन्तम् ॥ 3 ॥
स इदं सर्वमभ्यपवयत यदिदं किञ्च स यदिदं सर्वमभ्यपवयत यदिदं किञ्च तस्मात् पावमान्यस्तस्मात् पावमान्य इत्याचक्षत एतमेव सन्तम् ॥ 4 ॥
सोऽब्रवीदहमिदं सर्वमसानि यच्च क्षुद्रं यच्च महदिति ॥5॥
ते क्षुद्रसूक्ताश्चाभवन् महासूक्तश्च तस्मात् क्षुद्रसूक्तास्तस्मात् क्षुद्रसूक्ता इत्याचक्षत एतमेव सन्तम् ॥ 6 ॥
सूक्तं बतावोचतेति तत् सूक्तमभवत् तस्मात् सूक्तं तस्मात् सूक्तमित्याचक्षत एतमेव सन्तम् ॥ 7 ॥
एष वा ऋगेष ह्येभ्यः सर्वेभ्यो भूतेभ्योऽर्चत स यदेभ्यः सर्वेभ्यो भूतेभ्योऽर्चत तस्मादृक् तस्मादृगित्याचक्षत एतमेव सन्तम् ॥ 8 ॥
एष वा अर्धर्च एष ह्येभ्यः सर्वेभ्योऽर्धेभ्योऽर्चत स यदेभ्यः सर्वेभ्योऽर्धेभ्योऽर्चत तस्मादर्धर्चस्तस्मादर्धर्च इत्याचक्षत एतमेव सन्तम् ॥ 9 ॥
एष वै पदमेष हीमानि सर्वाणि भूतानि पादि स यदिमानि सर्वाणि भूतानि पादि तस्मात् पदं तस्मात् पदमित्याचक्षत एतमेव सन्तम् ॥ 10 ॥
एष वा अक्षरमेष ह्येभ्यः सर्वेभ्यो भूतेभ्यः क्षरति नचैनमति क्षरन्ति स यदेभ्यः सर्वेभ्यो भूतेभ्यः क्षरति नचैनमति क्षरन्ति तस्मादक्षरं तस्मादक्षरमित्याचक्षत एतमेव तथा सन्तम् ॥ 11 ॥
ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव प्राण ऋच इत्येव विद्यात् ॥ 12 ॥
विश्वामित्रं ह्येतदहः शंसिप्यन्तमिन्द्र उपनिषसाद स हान्नमित्यभिव्याहृत्य बृहतीसहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय तमिन्द्र उवाच ॥ 13 ॥
ऋषे प्रियं वै मे धामोपागाः स वा ऋषे द्वितीयं शंसेति स हान्नमित्येवाभिव्याहृत्य बृहतीसहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागाः स वा ऋषे तृतीयं शंसेति सहान्नमित्येवाभिव्याहृत्य बृहतीसहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय तमिन्द्र उवाच ॥ 14 ॥
ऋषे प्रियं वै मे धामोपागा वरं ते ददामीति स होवाच त्वामेव जानीयामिति तमिन्द्र उवाच प्राणो वा अहमस्म्यृषे प्राणस्त्वं प्राणः सर्वाणि भूतानि प्राणो ह्येष य एष तपति स एतेन रूपेण सर्वा दिशो विष्टोऽस्मि ॥ 15 ॥
तस्य मेऽन्नं मित्रं दक्षिणं तद् वैश्वामित्रमेष तपन्नेवास्मीति होवाच ॥ 16 ॥
॥ इति द्वितीयं ब्राह्मणम् ॥
तद्धा इदं बृहतीसहस्रं सम्पन्नं तस्य यानि व्यञ्जनानि तच्छरीरं यो घोषः स आत्मा य ऊष्माणः स प्राण एतद्ध स्म वै तद् विद्वान् वसिष्ठो वसिष्ठो बभूव तत एतन्नामधेयं लेभ एतदु हैवेन्द्रो विश्वामित्राय प्रोवाचैतदु हैवेन्द्रो भारद्वाजाय प्रोवाच तस्मात् स तेन बन्धुना यज्ञेषु हूयते ॥ 1 ॥
तद् वा इदं बृहतीसहस्रं सम्पन्नं तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य षट्त्रिंशतमक्षराणां सहस्राणि भवन्ति तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति व्यञ्जनैरेव रात्रीराप्नुवन्ति स्वरैरहानि तद् वा इदं बृहतीसहस्रं सम्पन्नं तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य परस्तात् प्रज्ञामयो देवतामयोऽमृतमयः सम्भूय देवता अप्येति य एवं वेद तद् योऽहं सोऽसौ योऽसौ सोऽहम् । तदुक्तमृषिणा ॥ 2 ॥
सूर्य आत्मा जगतस्तस्थुषश्चेत्येतदु हैवोपेक्षेतोपेक्षेत ॥ 3 ॥
॥ इति तृतीयं ब्राह्मणम् ॥
॥ इति श्रीमहैतरयोपनिषदि द्वितीयप्रघट्टके प्रथमोऽध्यायः ॥

यो हवा आत्मानं पञ्चविधमुक्थं वेद यस्माद्धीदं सर्वमुत्तिष्ठति स सम्प्रतिवित् पृथिवी वायुराकाश आपो ज्योतींषीत्येष वा आत्मोक्थं पञ्चविधमेतस्माद्धीदं सर्वमुत्तिष्ठत्येतमेवाप्येत्ययनं हवै समानानां भवति य एवं वेद ॥ 1 ॥
तस्मिन् योऽन्नं चान्नादं च वेदा हास्मिन्नन्नादो जायते भवत्यस्यान्नमापश्च तस्मिन् योऽन्नं चान्नादं च वेदा हास्मिन्नन्नादो जायते भवत्यस्यान्नमापश्च पृथिवी चान्नमेतन्मयानि ह्यन्नानि भवन्ति ॥ 2 ॥
ज्योतिश्च वायुश्चान्नादमेताभ्यां हीदं सर्वमन्नमत्त्यावपनमाकाश आकाशे हीदं सर्वं समोप्यत आवपनं हवै समानानां भवति य एवं वेद ॥ 3 ॥
तस्मिन् योऽन्नं चान्नादं च वेदा हास्मिन्नन्नादो जायते भवत्यस्यान्नमोषधिवनस्पतयोऽन्नम् ॥ 4 ॥
प्राणभृतोऽन्नादमोषधिवनस्पतीन् हि प्राणभृतोऽदन्ति तेषां य उभयतोदन्ताः पुरुषस्यानुविधां विहितास्तेऽन्नादा अन्नमितरे पशवस्तस्मात् त इतरान् पशूनधीव चरन्त्यधीव ह्यन्नेऽन्नादो भवत्यधीव समानानां जायते य एवं वेद ॥ 5 ॥
॥ इति प्रथमं ब्राह्मणम् ॥
तस्य य आत्मानमविस्तरां वेदाश्नुते हाऽविर्भूय ओषधिवनस्पतयो यच्च किञ्च प्राणभृत् स आत्मानमाविस्तरां वेदौषधिवनस्पतिषु हि रसो दृश्यते ॥ 1 ॥
चित्तं प्राणभृत्सु प्राणभृत्सु त्वेवाऽविस्तरामात्मा तेषु हि रसोऽपि दृश्यते न चित्तमितरेषु ॥ 2 ॥
पुरुषे त्वेवाऽविस्तरामात्मा स हि प्रज्ञानेन सम्पन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ ॥ 3 ॥
मर्त्येनाभृतमीप्सत्येवं सम्पन्नोऽथैतरेषां पशूनामशनापिपास एवाभिविज्ञानं न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न विदुः श्वस्तनं न लोकालोकौ त एतावन्तो भवन्ति यथाप्रज्ञं हि सम्भवाः ॥ 4 ॥
॥ इति द्वितीयं ब्राह्मणम् ॥
स एष पुरुषः समुद्रः सर्वं लोकमति यद्ध किञ्चाश्नुतेऽत्येनं मन्यते यद्यन्तरिक्षलोकमश्नुतेऽत्येनं मन्यते यद्यमुं लोकमश्नुवीतात्येवैनं मन्येत ॥ 1 ॥
स एष पुरुषः पञ्चविधस्तस्य यदुष्णं तज्ज्योतिर्यानि खानि स आकाशोऽथ यल्लोहितं श्लेष्मा रेतसा आपो यच्छरीरं सा पृथिवी यः प्राणः स वायुः स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानस्ता एता देवताः प्राणापानयोरेव निविष्टाश्चक्षुः श्रोत्रं मनो वागिति प्राणस्य ह्यन्वपायमेता अपियन्ति ॥ 2 ॥
स एष वाचश्चित्तस्योत्तरोत्तरिक्रमो यद् यज्ञः स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमः स एष यज्ञानां सम्पन्नतमो यत् सोम एतस्मिन् ह्येताः पञ्चविधा अधिगम्यन्ते यत् प्राक् सवनेभ्यः सैका विधा त्रीणि सवनानि यदूर्ध्वं सा पञ्चमी ॥ 3 ॥
॥ इति तृतीयं ब्राह्मणम् ॥
यो हवै यज्ञे यज्ञं वेदाहन्यहर्देवेषु देवमध्यूल्हं स सम्प्रतिविदेष वै यज्ञे यज्ञोऽहन्यहर्देवेषु देवोऽध्यूल्हो यदेतन्महदुक्थं तदेतत् पञ्चविधं त्रिवृत् पञ्चदशं सप्तदशमेकविंशं पञ्चविंशमिति स्तोमतो गायत्त्रं रथन्तरं बृहद् भद्रं राजानमिति सामतो गात्त्र्युष्णिग् बृहती त्रिष्टुप् द्विपदेति च्छन्दस्तः शिरो दक्षिणः पक्ष उत्तरः पक्षः पुच्छमात्मेत्याख्यानम् ॥ 1 ॥
पञ्चकृत्वः प्रस्तौति पञ्चकृत्व उद्गायति पञ्चकृत्वः प्रतिहरति पञ्चकृत्व उपद्रवति पञ्चकृत्वो निधनमुपयान्ति ॥ 2 ॥
तत् स्तोभसहस्रं भवत्येवं ह्येताः पञ्चविधा अनुशस्यन्ते यत् प्राक् तृचाशीतिभ्यः सैका विधा तिस्रस्तृचाशीतयो यदूर्ध्वं सा पञ्चमी ॥ 3 ॥
तदेतत् सहस्रं तत् सर्वं तानि दश दशेति वै सर्वमेतावती हि सङ्ख्या दश दशतस्तच्छतं दश शतानि ॥ 4 ॥
तत् सहस्रं तत् सर्वं तानि त्रीणि च्छन्दांसि भवन्ति त्रेधा विहितं वा इदमन्नमशनं पानं खादस्तदेतैराप्नोति ॥ 5 ॥
॥ इति चतुर्थं ब्राह्मणम् ॥
तद् वा इदं बृहतीसहस्रं सम्पन्नं तद्धैतदेके नानाच्छन्दसां सहस्रं प्रतिजानते किमन्यत् सदन्यद् ब्रूयामेति त्रिष्टुप्सहस्रमेके जगतीसहस्रमेकेऽनुष्टुप्सहस्रमेके ॥ 1 ॥
तदुक्तमृषिणा । अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषेति ॥ 2 ॥
वाचि वै तदैन्द्रं प्राणं न्यचायन्नित्येतत् तदुक्तं भवति स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोरीश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह स्माऽहा ॥ 3 ॥
कृत्स्नो ह्येष आत्मा यद् वागभि हि प्राणेन मनसेस्यमानो वाचा नानुभवति बृहतीमभिसम्पादयेदेष वै कृत्स्न आत्मा यद् बृहती ॥ 4 ॥
सोऽयमात्मा सर्वतः शरीरैः परिवृतस्तद् यथाऽयमात्मा सर्वतः शरीरैः परिवृत एवमेव बृहती सर्वतश्छन्दोभिः परिवृता मध्यं ह्येषामङ्गानामात्मा मध्यं छन्दसां बृहती सहेश्वरो यशस्वी कल्याणकीर्तिर्भवितोरीश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह स्माऽह कृत्स्नो ह्येष आत्मा यद् बृहती तस्माद् बृहतीमेवाभिसम्पादयेत् ॥ 5 ॥
॥ इति पञ्चमं ब्राह्मणम् ॥
तद् वा इदं बृहतीसहस्रं सम्पन्नं तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्यैकादशानुष्टुभां शतानि भवन्ति ॥1॥
पञ्चविंशतिश्चानुष्टुभ आत्तं वै भूयसा कनीयः । तदुक्तमृषिणा ॥ 2 ॥
वाचमष्टापदीमहमित्यष्टौ हि चतुरक्षराणि भवन्ति नवस्रक्तिमिति बृहती सम्पद्यमाना नवस्रक्त्यृतस्पृशमिति सत्यं वै वागृचा स्पृष्टेन्द्रात् परि तन्वं मम इति ॥ 3 ॥
तद् यदेवैतद् बृहतीसहस्रमनुष्टुप्सम्पन्नं भवति तस्मात् तदैन्द्रात् प्राणाद् बृहत्यै वाचमनुष्टुभं तन्वं संनिर्मिमीते ॥4॥
स वा एष वाचः विकारो यदेतन्महदुक्थं तदेतत् पञ्चविधं मितममितं स्वरः सत्यानृते इत्यृग् गाथा कुम्व्या तन्मितम् ॥5॥
यजुर्निगदो वृथा वाक् तदमितं सामाथो यः कश्च गेष्णः स स्वर ओमिति सत्यं नेत्यनृतं तदेतत् पुष्पं फलं वाचो यत् सत्यं स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोः पुष्पं हि फलं वाचः सत्यं वदत्यथैतन्मूलं वाचो यदनृतम् ॥ 6 ॥
तद् यथा वृक्ष आविर्मूलः शुष्यति स उद्वर्तत एवमेवानृतं वदन्नाविर्मूलमात्मानं करोति स शुष्यति स उद्वर्तते तस्मादनृतं न वदेद् दयेत त्वेनेन पराग् वा एतद् रिक्तमक्षरं यदेतदोमिति ॥ 7 ॥
तद् यत्किञ्चोमित्याहात्रैवास्मै तद् रिच्यते स यत् सर्वमोङ्कुर्याद् रिच्यादात्मानं स कामेभ्यो नालं स्यादर्थैतत् पूर्णमभ्यात्मं यन्नेति ॥ 8 ॥
स यत् सर्वं नेति ब्रूयात् पापिकाऽस्य कीर्तिर्जायेत सैनं तत्रैव हन्यात् तस्मात् काल एव दद्यात् काले न दद्यात् तत् सत्यानृते मिथुनीकरोति तयोर्मिथुनात् प्र जायते भूयान् भवति ॥ 9 ॥
यो वै तां वाचं वेद यस्या एष विकारः स सम्प्रतिविदकारो वै सर्वा वाक् सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति ॥ 10 ॥
तस्यै यदुपांशु स प्राणोऽथ यदुच्चैस्तच्छरीरं तस्मात् तत् तिर इव तिर इव ह्यशरीरमशरीरो हि प्राणोऽथ यदुच्चैस्तच्छरीरं तस्मात् तदाविराविर्हि शरीरम् ॥ 11 ॥
तद् वा इदं बृहतीसहस्रं सम्पन्नं तद्यशः स इन्द्रः स भूतानामधिपतिः स य एवमेतमिद्रं भूतानामधिपतिं वेद विस्रसा हैवास्माल्लोकात् प्रैतीति ह स्माऽह महिदास ऐतरेयः ॥ 12 ॥
प्रेत्येन्द्रो भूत्वैषु लोकेषु राजति तदाहुर्यदनेन रूपेणामुं लोकमभिसम्भववती3 ॥ 13 ॥
अथ केन रूपेणेमं लोकमा भवती3 तद् यदेतत् स्त्रियां लोहितं भवत्यग्नेस्तद् रूपम् ॥ 14 ॥
तस्मात् तस्मान्न बीभत्सेताथ यदेतत् पुरुषे रेतो भवत्यादित्यस्य तद्रूपं तस्मात् तस्मान्न बीभत्सेत सोऽयमात्मेममात्मानममुष्मा आत्मने सम्प्रयच्छत्यसावात्माऽमुमात्मानमस्मा आत्मने सम्प्रयच्छति तावन्योन्यमभिसम्भवतोऽनेना ह रूपेणामुं लोकमभिसम्भवत्यमुना रूपेणेमं लोकमा भवति ॥ 15 ॥
॥ इति षष्ठं ब्राह्मणम् ॥
तत्रैते श्लोकाः यदक्षरं पञ्चविधं समेति युजो युक्ता अभि यत् सं वहन्ति । सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति ॥ 1 ॥
यदक्षरादक्षरमेति युक्तं युजो युक्ता अभि यत् सं वहन्ति । सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति ॥ 2 ॥
यद् वाच ओमिति यच्च नेति यच्चास्याः क्रूरं यदु चोल्पविष्णु । तद् वियूया कवयोऽन्वविन्दन् नामयत्ता समतृप्यञ्छृतेऽधि । यस्मिन्नामा समतृप्यञ्छृतेऽधि तत्र देवाः सर्वयुजो भवन्ति ॥ 3 ॥
तेन पाप्मानमपहत्य ब्रह्मणा स्वग लोकमप्येति विद्वान् । नैनं वाचा स्त्रियं ब्रुवन् नैनमस्त्रीपुमान् ब्रुवन् ॥ 4 ॥
पुमांसं न ब्रुवन्नेनं वदन् वदति कश्चन । अः इति ब्रह्म तत्राऽगतमहमिति तद्वा इदं बृहतीसहस्रं सम्पन्नं तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य षट्त्रिंशतमक्षराणां सहस्राणि भवन्ति तावन्ति पुरुषायुषोऽह्नां सहस्राणि भवन्ति ॥ 5 ॥
जीवाक्षरेणैव जीवाहराप्नोति जीवह्ना जीवाक्षरमित्यनकाममारोऽथ देवरथस्तस्य वागुद्धिः श्रोत्रे पक्षसी चक्षुषी युक्ते मनः सङ्ग्रहीता तदयं प्राणोऽधितिष्ठति । तदुक्तमृषिणा ॥ 6 ॥
आ तेन यातं मनसो जवीयसा निमिषश्चिज्जवीयसेति जवीयसेति ॥ 7 ॥
॥ इति सप्तमं ब्राह्मणम् ॥
॥ इति श्रीमहैतरेयोपनिषदि द्वितीयप्रघट्टके द्वितीयोऽध्यायः ॥
आत्मा वा इदमेक एवाग्र आसीन्नान्यत् किञ्चन मिषत्स ईक्षतेमान् लोकान्नु सृजा इति स इमान् लोकानसृजताम्भो मरीचीर्मरमापोऽदोऽम्भः परेणदिवं द्यौः प्रतिष्ठाऽन्तरिक्षं मरीचयः पृथिवी मरो या अधस्तात् ता आपः स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति ॥ 1 ॥
सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्छयत् तमभ्यतपन् तस्याभितप्तस्य मुखं निरभिद्यत यथाऽण्डं मुखाद् वाग् वाचोऽग्निर्नासिके निरभिद्येताम् ॥ 2 ॥
नासिकाभ्यां प्राणः प्राणाद् वायुरक्षिणी निरभिद्येतामक्षिभ्यां चक्षुश्चक्षुष आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद् दिशस्त्वङ्निरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः शिश्नं निरभिद्यत शिश्नात् रेतो रेतस आपः ॥ 3 ॥
॥ इति प्रथमं ब्राह्मणम् ॥
ता एता देवताः सृष्टा अस्मिन् महत्यर्णवे प्रापतंस्तमशनापिपासाभ्यामन्ववार्जत् ता एनमब्रुववन्नायतनं नः प्रजानीहि ॥ 1 ॥
यस्मिन् प्रतिष्ठिता अन्नमदामेति ताभ्यो गामानयत् ता अब्रुवन् नवै नोऽयमलमिति ताभ्योऽश्वमानयत् ता अब्रुवन् नवै नोऽयमलमिति ताभ्यः पुरुषमानयत् ता अब्रुवन् सुकृतं बतेति पुरुषो वाव सुकृतं ता अब्रवीद् यथायतनं प्रविशतेत्यग्निर्वाग् भूत्वा मुखं प्राविशद् वायुः प्राणो भूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशद् दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशंश्चन्द्रमा मनो भूत्वा हृदयं प्राविशत् ॥ 2 ॥
मृत्युरपानो भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्राविशंस्तमशनापिपासे अब्रूतामावाभ्यमभिप्रजानीहीति ते अब्रवीदेतास्वेव वां देवतास्वाभजाम्येतासु भगिन्यौ करोमीति ॥ 3 ॥
तस्माद् यस्यै कस्यै च देवतायै हविगृर्ह्यते भागिन्यावेवास्यामशनापिपासे भवतः ॥ 4 ॥
॥ इति द्वितीयं ब्राह्मणम् ॥
स ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा इति ॥1॥
सोऽपोऽभ्यतपत् ताभ्योऽभितप्ताभ्यो मूर्तिरजायत या वै सा मूर्तिरजायतान्नं वै तत् तदेतत् पराङत्यजिघांसत् तद् वाचाऽजिघृक्षत् तन्नाशक्नोद् वाचा गृहीतुं स यद्धैनद् वाचाऽग्रहैष्यदभिव्याहृत्य हैवान्नमत्रप्स्यत् तत् प्राणेनाजिघृक्षत् तन्नाशक्रोत् प्राणेन ग्रहीतुं स यद्धैनत् प्राणेनाग्रहैष्यदभिप्राण्य हैवान्नमत्रप्स्यत् तच्चक्षुषाऽजिघृक्षत् तन्नाशक्नोच्चक्षुषा ग्रहीतुम् ॥ 2 ॥
स यद्धैनच्चक्षुषाऽग्रहैष्यद् दृष्द्वा हैवान्नमत्रप्स्यत् तच्छ्र2ोत्रेणाजिघृक्षत् तन्नाशक्नोच्छ्र2ोत्रेण ग्रहीतुम् ॥ 3 ॥
स यद्धैनच्छ्र2ोत्रेणाग्रहैष्यच्छत्वा हैवान्नमत्रप्स्यत् तत् त्वचाऽजिघृक्षत् तन्नाशक्नोत् त्वचा ग्रहीतुम् ॥ 4॥
स यद्धैनत् त्वचाऽग्रहैष्यत् स्पृष्द्वा हैवान्नमत्रप्स्यत् तन्मसाऽजिघृक्षत् तन्नाशक्नोन्मनसा ग्रहीतुम् ॥ 5॥
स यद्धैनन्मनसाऽग्रहैष्यद् ध्यात्वा हैवान्नमत्रप्स्यत् तच्छिश्नेनाजिघृक्षत् तन्नाशक्नोच्छिश्नेन ग्रहीतुं स यद्धैनच्छिश्नेनाग्रहैष्यद् विसृज्य हैवान्नमत्रप्स्यत् तदपानेनाजिघृक्षत् तदावयत् सैषोऽन्नस्य ग्रहो यद् विसृज्य हैवान्नमत्रप्स्यत् तदपानेनाजिघृक्षत् तदावयत् सैषोऽन्नस्य ग्रहो यद् वायुरन्नायुर्वा एष यद् वायुः ॥ 6 ॥
स ईक्षत कथं न्विदं मदृते स्यादिति ईक्षत कतरेण प्रपद्या इति ॥ 7 ॥
इ ईक्षत यदि वाचाऽभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानितम् ॥ 8 ॥
यदि शिश्नेन विसृष्टमथ कोऽहमिति स एतमेव सीमानं विदर्यैतया द्वारा प्रापद्यत सैषा विदृतिर्नाम द्वास्तदेतन्नान्दनं तस्य त्रय आवसथास्त्रयः स्वप्ना अयमावसथोऽयमावसथोऽयमावसथ इति ॥ 9 ॥
स जातो भूतान्यभिव्यैख्यत् किमिहान्यं वावदिषदिति स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शमिती3 ॥ 10 ॥
तस्मादिन्द्रो नामेदन्द्रो हवै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥ 11 ॥
॥ इति तृतीयं ब्राह्मणम् ॥
॥ इति श्रीमहैतरेयोपनिषदि द्वितीयप्रघट्टके तृतीयोऽध्यायः ॥
ॐ॥ (अपक्रामन्तु गर्भिण्यः) पुरुषो हवा अयमादितो गर्भो भवति यदेतद् रेतस्तदेतत् सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतमात्मन्येवाऽत्मानं बिभर्ति तद् यदा स्त्रियां सिञ्चत्यथैनञ्जयति ॥ 1 ॥
तदस्य प्रथमं जन्म तत् स्त्रिया आत्मभूयं गच्छति ॥ 2 ॥
यथा स्वमङ्गं तथा तस्मादेनां न हिनस्ति साऽस्यैतमात्मानमत्रगततं भावयति सा भावयित्री सा भावयितव्या भवति ॥ 3 ॥
तं स्त्रीगर्भं भिमर्ति सोऽग्र एव कुमारं जन्मनोऽग्रेऽधिभावयति स यत् कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद् भावयत्येषां लोकानां सन्तत्या एवं सन्तता हीमे लोकास्तदस्य द्वितीयं जन्म ॥ 4 ॥
सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रति धीयते तथाऽस्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म ॥ 5 ॥
तदुक्तमृषिणा गर्भे तु सन्नन्वेषामवेदमहं देवानां जनिमाने विश्वा ॥ 6 ॥
शतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निरदीयमिति ॥ 7 ॥
गर्भ एवैतच्छयानो वामदेव एवमुवाच स एवं विद्वानस्माच्छरीरभेदादूर्ध्वं उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवन् समभवत् ॥ 8 ॥ (यथास्थानं गर्भिण्यः)
॥ इति श्रीमहैतरेयोपनिषदि द्वितीयप्रघट्टके चतुर्थोऽध्यायः ॥
ॐ॥ कोऽयमात्मेति वयमुपास्महे ॥ 1 ॥
कतरः स आत्मा येन वा पश्यति येन वा शृणोति येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति यदेतद्धृदयं मनश्चैतत् सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं भेधा दृष्टिधृतिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामोऽवश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ 2 ॥
एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्चमहाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि च क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिजानि चाश्वा गावः पुरुषा हस्तिनो यत् किञ्चेदं प्राणिजङ्गमं च पतत्त्रि च यच्च स्थावरं सर्वं तत् प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रोऽलोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ॥ 3 ॥
स एतेन प्रज्ञेनाऽत्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवन् समभवत् ॥ 4 ॥
॥ इति श्रीमहैतरेयोपनिषदि द्वितीयप्रघट्टके पञ्चमोऽध्यायः ॥
ॐ॥ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि वेदस्य म आणीस्थ श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान् सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद् वक्तारमवतु । अवतु माम् अवतु वक्तारम् ॥ 1 ॥
॥ इति प्रथमं ब्राह्मणम् ॥
॥ इति श्रीमहैतरेयोपनिषदि द्वितीयप्रघट्टके षष्ठोऽध्यायः ॥
ॐ॥ अथातः संहिताया उपनिषत् ॥ 1 ॥
पृथिवी पूर्वरूपं द्यौरुत्तररूपं वायुः संहितेति माण्डूकेय आकाशः संहितेत्यस्य माक्षव्यो वेदयाञ्चक्रे ॥2॥
स हा विपरिहृतो मेने न मेऽस्य पुत्रेण समगादिति समाने वै तत्परिहृतो मेन इत्यागस्त्यः ॥ 3 ॥
समानं ह्येतद् भवति वायुश्चाऽकाशश्चेत्धिदैवतमथाध्यात्मम् ॥ 4 ॥
वाक् पूर्वरूपं मन उत्तररूपं प्राणः संहितेति शूरवीरो माण्डूकेयोऽथ हास्य पुत्र आह ज्येष्ठो मनः पूर्वरूपं वागुत्तररूपं मनसा वा अग्रे सङ्कल्पयत्यथ वाचा व्याहरति तस्मान्मन एव पूर्वरूपं वागुत्तररूपं प्राणस्त्वेव संहितेति समानमेनयोरत्र पितुश्च पुत्रस्य च ॥ 5 ॥
स एषोऽश्वरथः प्रष्टिवाहनो मनोवाक्प्राणसंहतः ॥ 6 ॥
स य एवमेतां संहितां वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन ॥ 7 ॥
सर्वमायुरेतीति नु माण्डूकेयानाम् ॥ 8 ॥
॥ इति प्रथमं ब्राह्मणम् ॥
अथ शाकल्यस्य पृथिवी पूर्वरूपं द्यौरुत्तररूपं वृष्टिः सन्धिः पर्जन्यः सन्धाता तदुतापि यत्रैतद् बलवदनूद्गृह्णन् सन्दधदहोरात्रे वर्षति ॥ 1 ॥
द्यावापृथिव्यौ समधातामित्युताप्याहुरिती न्वधिदैवतमथाध्यात्मम् ॥ 2 ॥
पुरुषो हवा अयं सर्व आनन्दं द्वे विदले भवत इत्याहुस्तस्येदमेव पृथिव्या रूपमिदं दिवस्तत्रायमन्तरेणाऽकाशो यथाऽसौ द्यावापृथिव्यावन्तरेणाऽकाशस्तस्मिन् हास्मिन्नाकाशे प्राण आयत्तो यथाऽमुष्मिन्नाकाशे वायुरायत्तो यथाऽमूनि त्रीणि ज्योतींषीत्येवमिमानि पुरुषे त्रीणि ज्योतींषि यथाऽसौ दिव्यादित्य एवमिदं शिरसि चक्षुर्यथाऽसावन्तरिक्षे विद्युदेवमिदमात्मनि हृदयं यथाऽयमग्निः ॥ 3 ॥
पृथिव्यामेवमिदमुपस्थे रेत एवमु हस्म सर्वलोकमात्मानमनु विधायाऽहेदमेव पृथिव्यारूपमिदं दिवः स य एवमेतां संहितां वेद ॥ 4 ॥
सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति ॥ 5 ॥
॥ इति द्वितीयं ब्राह्मणम् ॥
अथातो निर्भुजप्रवादाः ॥ 1 ॥
पृथिव्यायतनं निर्भुजं दिव्यायतनं प्रतृण्णमन्तरिक्षायतनमुभयमन्तरेणाथ यद्येनं निर्भुजं ब्रुवन्तमुपवदेदच्योष्ठा अवराभ्यां स्थानाभ्यामित्येनं ब्रूयादथ यद्येनं प्रतृण्णं ब्रुवन्तमुपवदेदच्योष्ठा उत्तराभ्यां स्थानाभ्यामित्येनं ब्रूयाद् यस्त्वेवोभयमन्तरेणाऽह तस्य नास्त्युपवादो यद्धि सन्धिं विवर्तयति तन्निर्भुजस्य रूपमथ यच्छ्र2ुद्धे अक्षरे अभिव्याहरति तत् प्रतृण्णस्याग्र उ प्रतृण्णमुभयकाम उभयमन्तरेणाथ यद्येनं निर्भुजं ब्रुवन्तं पर उपवदेत् पृथिवीं देवतामारः पृथिवी त्वा देवता रिष्यतीत्येनं ब्रूयादथ यद्येनं प्रतृण्णं बु्रवन्तं पर उपवदेद् दिवं देवतामारो द्यौस्त्वा देवता रिष्यतीत्येनं ब्रूयादथ यद्येनमुभयमन्तरेण ब्रुवन्तं पर उपवदेदन्तरिक्षं देवतामारोऽन्तरिक्षं त्वा देवता रिष्यतीत्येनं ब्रूयाद् यथातुकथाच ब्रुवन् वा ब्रुवन्तं वा ब्रूयादभ्याशमेव यत् तथा स्यान्न त्वेवान्यत् कुशलाद् ब्राह्मणं ब्रूयादिद्युम्न एव ब्राह्मणं ब्रूयान्नातिद्युम्ने चन ब्राह्मणं ब्रूयान्नमो अस्तु ब्राह्मणेभ्य इति ह स्माऽह शूरवीरो माण्डूकेयः ॥
॥ इति तृतीयं ब्राह्मणम् ॥
अथातोऽनुव्याहाराः । प्राणो वंश इति विद्यात् स य एनं प्राणं वंशमुपवदेच्छक्नुवन्तं चेन्मन्येत प्राणं वंशं समधा3ँ ॥ 1 ॥
प्राणं मां वंशं सन्दधतं न शक्नोषीत्याह प्राणस्त्वा वंशो हास्यतीत्येनं ब्रूयादथ चेदशक्नुवन्तं मन्येत प्राणं वंशं समधित्सिषन्तं नाशकः सन्धातुं प्राणस्त्वा वंशो हास्यतीत्येनं ब्रूयाद् यथातुकथाच ब्रुवन् वा ब्रुवन्तं वा ब्रूयादभ्याशमेव यत् तथा स्यान्नत्वेवान्यत्कुशलाद् ब्राह्मणं ब्रूयादतिद्युम्न एव ब्राह्मणं ब्रूयान्नातिद्युम्ने चन ब्राह्मणं ब्रूयान्नमो अस्तु ब्राह्मणेभ्य इति ह स्माऽह शूरवीरो माण्डूकेयः ॥ 2 ॥
॥ इति चतुर्थं ब्राह्मणम् ॥
अथ खल्वाहुर्निर्भुजवक्त्राः पूर्वमक्षरं पूर्वरूपमुत्तररूपं योऽवकाशः पूर्वरूपोत्तररूपे अन्तरेण सा संहितेति ॥ 1 ॥
स य एवमेतां संहितां वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेत्यथ वयं ब्रूमो निर्भुजवक्त्रा इति ह स्माऽह ह्वस्वो माण्डूकेयः ॥ 2 ॥
पूर्वमेवाक्षरं पूर्वरूपमुत्तरमुत्तररूपं योऽवकाशः पूर्वरूपोत्तररूपे अन्तरेण येन सन्धिं विवर्तयति येन स्वरास्वरं विजानाति येन मात्रामात्रां यिभजते सा संहितेति ॥ 3 ॥
स य एवमेतां संहितां वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेत्यथ हास्य पुत्र आह मध्यमः प्रातीबोधीपुत्रोऽक्षरे खल्विमे अविकर्षन्ननेकीकुर्वन् यथावर्णमाह ॥ 4 ॥
तद् याऽसौ मात्रा पूर्वरूपोत्तररूपे अन्तरेण सन्धिविज्ञपनी साम तद् भवति सामैवाहं संहितां मन्य इति ॥ 5 ॥
तदप्येतदृषिणोक्तं बृहस्पते न परः साम्नो विदुरिति ॥ 6 ॥
स य एवमेतां संहितां वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सवमायुरेति ॥ 7 ॥
॥ इति पञ्चमं ब्राह्मणम् ॥
बृहद्रथन्तयो रूपेण संहिता सन्धीयत इति ताक्र्ष्यो वाग् वै रथन्तरस्य रूपं प्राणो बृहत उभाभ्यामु खलु संहिता सन्धीयते वाचा च प्राणेन चैतस्यां हस्मोपनिषदि संवत्सरं गा रक्षयते ताक्र्ष्य एतस्यां ह स्म मात्रायां संवत्सरं गा रक्षयते ताक्र्ष्य ॥ 1 ॥
तदप्येतदृषिणोक्तं रथन्तरमाजभारा वसिष्ठः । भरद्वाजो बृहदा चक्रे अग्नेरिति स य एवमेतां संहितां वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति वाक् प्राणेन संहितेति कौण्ठरव्यः ॥ 2 ॥
प्राणः पवमानेन पवमानो विश्वैर्देवैर्विश्वे देवाः स्वर्गेण लोकेन स्वर्गाे लोको ब्रह्मणा सैषाऽवरपरा संहिता स यो हैतामवरपरां संहितां वेदैवं हैव स प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सन्धीयते ॥ 3 ॥
यथैषा संहिता स यदि परेण वोपसृतः स्वेन वाऽर्थेनाभिव्याहरेदभिव्याहार्षन्नेव विद्याद् दिवं संहिताऽगमद् विदुषां देवानामेवं भविष्यतीति शश्वत् तथा स्यात् स य एवमेतां संहितां वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवचसेन स्वर्गेण लोकेन सर्वमायुरेति वाक् संहितेति पञ्चालचण्डो वाचा वै वेदाः सन्धीयन्ते वाचा च्छन्दांसि वाचा मित्राणि सन्दधति ॥ 4 ॥
वाचा सर्वाणि भूतान्यथो वागेवेदं सर्वमिति ॥ 5 ॥
तद् यत्रैतदधीते वा भाषते वा वाचि तदा प्राणो भवति वाक् तदा प्राणं रेल्ह्यथ तूष्णीं वा भवति स्वपिति वा प्राणे तदा वाग् भवति प्राणस्तदा वाचं रेल्हि तावन्योन्यं रील्हो वाग् वै माता प्राणः पुत्रस्तदप्येतदृषिणोक्तम् ॥ 6 ॥
एकः सुपर्णः स समुद्रमा विवेश स इदं विश्वं भुवनं वि चष्टे । तं पाकेन मनसाऽपश्यमन्तितस्तं माता रेल्हि स उ रेल्हि मातरमिति ॥ 7 ॥
स य एवमेतां संहितां वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति ॥ 8 ॥
अथातः प्रजापतिसंहिता जाया पूर्वरूपं पतिरूत्तररूपं पुत्रः सन्धिः प्रजननं सन्धानं सैषाऽदितिः संहिताऽदितिर्हीदं सर्वं यदिदं किञ्च ॥ 9 ॥
पिता च माता च पुत्रश्च प्रजननं च तदप्येतदृषिणोक्तम् ॥ 10 ॥
अदितिर्माता स पिता स पुत्र इति स य एवमेतां संहितां वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति सर्वमायुरेति ॥ 11 ॥
॥ इति षष्ठं ब्राह्मणम् ॥
॥ इति श्रीमहैतरेययोपनिषदि द्वितीयप्रघट्टके सप्तमोऽध्यायः ॥
ॐ॥ प्राणो वंश इति स्थविरः शाकल्यस्तद्यथा शालावंशे सर्वेऽन्ये वंशाः समाहिताः स्युरेवमस्मिन् प्राणे चक्षुः श्रोत्रं मनो वागिन्द्रियाणि शरीरं सर्व आत्मा समाहितस्तस्यैतस्याऽत्मनः प्राण ऊष्मरूपमस्थीनि स्पर्शरूपं मञ्जानः स्वररूपं मांसं लोहितमित्येतदन्यच्चतुर्थमन्तस्थारूपमिति ह स्माऽह ह्वस्वो माण्डूकेयः ॥ 1 ॥
त्रयं त्वेव न एतत् प्रोक्तं तस्यैतस्य त्रयस्यास्थ्नां मज्ज्ञां पर्वणामिति त्रीणीतः षष्टिशतानि त्रीणीतस्तानि सप्तविंशतिशतानि भवन्ति ॥ 2 ॥
सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्राः स एषोऽहःसंमानश्चक्षुर्मयः श्रोत्रमयश्छन्दोमयो मनोमयो वाङ्मय आत्मा स य एवमतेमहःसंमानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वाङ्मयमात्मानं वेदाह्नां सायुज्यं सरूपतां सलोकतामश्नुते पुत्री पशुमान् भवति सर्वमायुरेति ॥ 3 ॥
॥ इति प्रथमं ब्राह्मणम् ॥
अथ कौण्डरव्यस्त्रीणि षष्टिशतान्यक्षराणां त्रीणि षष्टिशतान्यूष्मणां त्रीणि षष्टिशतानि सन्धीनाम् ॥1॥
यान्यक्षराण्यवोचामाहानि तानि यानूष्मणोऽवोचाम रात्रयस्ता यान् सन्धीनवोचामाहोरात्राणां ते सन्धय इत्यधिदैवतमथाध्यात्मम् ॥ 2 ॥
यान्यक्षराण्यधिदैवतमवोचामास्थीनि तान्यध्यात्मम् ॥ 3 ॥
यानूष्मणोऽधिदैवतमवोचाम मञ्जानस्तेऽध्यात्ममेष हैव सम्प्रति प्राणो यन्मज्जैतद्रेतो न हवा ऋते प्राणाद् रेतः सिच्यते यद् वा ऋते प्राणाद् रेतः सिच्येत ॥ 4 ॥
पूयेन्न सम्भवेद् यान् सन्धीनधिदैवतमवोचाम पर्वाणि तान्यध्यात्मम् ॥ 5 ॥
तस्यैतस्य त्रयस्यास्थ्नां मज्ज्ञां पर्वणामिति ॥ 6 ॥
पञ्चेतश्चत्वारिंशच्छतानि पञ्चेतस्तदशीतिसहस्रं भवत्यशीतिसहस्रं वा अर्कलिनो बृहतीहरभिसम्पादयन्ति ॥ 7 ॥
स एषोऽक्षरसम्मानश्चक्षुर्मयः श्रोत्रमयश्छन्दोमयो मनोमयो वाङ्मय आत्मा स य एवमेतमक्षरसम्मानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वाङ्मयमात्मानं वेदाक्षराणां सायुज्यं सरूपतां सलोकतामश्नुते पुत्री पशुमान् भवति सर्वमायुरेति ॥ 8 ॥
॥ इति द्वितीयं ब्राह्मणम् ॥
चत्वारः पुरुषा इति बाध्वः शरीरपुरुषश्छन्दःपुरुषो वेदपुरुषो महापुरुष इति शरीरपुरुष इति ॥ 1 ॥
यमवोचाम स एवायं दैहिक आत्मा तस्य योऽयमशरीरः प्रज्ञात्मा स रसश्छन्दःपुरुष इति यमवोचामाक्षरसमाम्नाय एव तस्यैतस्याकारो रसो वेदपुरुष इति यमवोचाम येन वेदान् वेद ॥ 2 ॥
ऋग्वेदं यजुर्वेदं सामवेदं तस्यैतस्य ब्रह्मा रसस्तस्माद् ब्रह्माणं ब्रह्मिष्ठ कुर्वीत ॥ 3 ॥
यो यज्ञस्योल्बणं पश्येन्महापुरुष इति यमवोचाम संवत्सर एव प्रध्वंसयन्नन्यानि भूतान्यैवक्याभावयन्नन्यानि तस्यैतस्यासावादित्यो रसः ॥ 4 ॥
स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदिति विद्यात् तस्मात् पुरुषं पुरुषं प्रत्यादित्यो भवति ॥ 5 ॥
तदप्येतदृषिणोक्तं चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ॥ 6 ॥
आ प्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्चेत्येतामनुविधां संहितां सन्धीयमानां मन्य इति बाध्व एतां ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाब्रते च्छन्दोगा एतमस्यामेतं दिव्येतं वायावेतमाकाश एतमप्स्वेतमोषधीष्वेतं चन्द्रमस्येतं नक्षत्रेष्वेतं सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते ॥ 7 ॥
स एष संवत्सरसम्मानश्चक्षुर्मयः श्रोत्रमयश्छन्दोमयो मनोमयो वाङ्मय आत्मा स य एवमेतं संवत्सरसम्मानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वाङ्मयमात्मानं परस्मै शंसति ॥ 8 ॥
॥ इति तृतीयं ब्राह्मणम् ॥
दुग्धदोहा अस्य वेदा भवन्ति न तस्यानूक्ते भागोऽस्ति न वेद सुकृतस्य पन्थानमिति तदप्येतदृषिणोक्तम् ॥ 1 ॥
यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागो अस्ति । यदीं शृणोत्यलकं शृणोति नहि प्र वेद सुकृतस्य पन्थानमिति ॥ 2 ॥
न तस्यानूक्ते भागोऽस्ति न वेद सुकृतस्य पन्थानमित्येतत् तदुक्तं भवति ॥ 3 ॥
तस्मादेवं विद्वान् न परस्मा अग्निं चिनुयान्न परस्मै महाव्रतेन स्तुवीत न परस्मा एतदहः शंसेत् कामं पित्रे वाऽऽचार्याय वा शंसेदात्मन एवास्य तत् कृतं भवति ॥ 4 ॥
स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदित्यवोचाम ॥ 5 ॥
तौ यत्र विहीयेते चन्द्रमा इवाऽदित्यो दृश्यते न रश्मयः प्रादुर्भवन्ति लोहिनी द्यौर्भवति यथा मञ्जिष्ठा व्यस्तः पायुः काककुलायगन्धिकमस्य शिरो वायति ॥ 6 ॥
सम्परेतोऽस्याऽत्मा न चिरमिव जीविष्यतीति विद्यात् स यत् करणीयं मन्येत तत् कुर्वीत ॥ 7 ॥
यदन्ति यच्च दूरक इति जपेदादित् प्रत्नास्य रेतस इत्येका ॥ 8 ॥
यत्र ब्रह्मा पवमानेति षलुद्वयं तमसस्परीत्येकाऽथापि यत्र च्छिद्र इवाऽदित्यो दृश्यते रथनाभिरिवाभिख्यायेत ॥ 8 ॥
छिद्रां वा च्छायां पश्येत् तदप्येवमेव विद्यादथाप्यादर्शे वोदके वा जिह्मशिरसं वाऽऽशिरसं वाऽऽत्मानं पश्येद् विपर्यस्ते वा कन्याके जिह्वे नवा दृश्येयातां तदप्येवमेव विद्यादथाप्यपिधायाक्षिणी उपेक्षेत तद् यथा ॐटरकाणि सम्पतन्तीव दृश्यन्ते ॥ 10 ॥
तानि यदा न पश्येत् तदप्येवमेव विद्यादथाप्यपिधाय कर्णावुपशृणुयात् स एषोऽग्नेरिव प्रज्वलतो रथस्येवोपब्दिस्तं यदा न शृणुयात् तदप्येवमेव विद्यादथापि यत्र नील इवाग्निदृर्श्यते यथा मयूरग्रीवा ॥11॥
मेघे वा विद्युतं पश्येन्मेघे वा विद्युतं न पश्येन्महामेघे वा मरीचीरिव पश्येत तदप्येवमेव विद्यादथापि यत्र भूमिं ज्वलन्तीमिव पश्येत तदप्येवमेव विद्यादिति प्रत्यक्षदर्शनानि अथ स्वप्नाः ॥ 12 ॥
पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति वराह एनं हन्ति मर्कट एनमास्कन्दयत्याशु वायुरेनं प्रवहति सुवर्णं स्वादित्वाऽपगिरति मध्वश्नाति विसानि भक्षयति पुण्डरीकं धारयति ॥ 13 ॥
खरैर्वराहैर्युक्तैर्याति कृष्णां धेनुं कृष्णवत्सां नलदमाली दक्षिणामुखो व्राजयति ॥ 14 ॥ स यद्येतेषां किञ्चित् पश्येदुपोष्य पायसं स्थालीपाकं श्रपयित्वा रात्रिसूक्तेन प्रत्यृचं हुत्वाऽन्येनान्नेन ब्राह्मणान् भोजयित्वा चरुं स्वयं प्राश्नीयात् स योऽतोऽश्रुतोऽगतोऽमतोऽनतोऽदृष्टोऽविज्ञातोऽनादिष्टः ॥ 15 ॥
श्रोता मन्ता द्रष्टाऽऽदेष्टा घोष्टा विज्ञाता प्रज्ञाता सर्वेषां भूतानामन्तरपुरुषः सम आत्मेति विद्यात् ॥16॥
॥ इति चतुर्थं ब्राह्मणम् ॥
अथ खल्विदं सर्वस्यै वाच उपनिषत् सर्वा ह्येवेमाः सर्वस्यै वाच उपनिषद इमां त्वेवाऽचक्षते ॥ 1 ॥
पृथिव्या रूपं स्पर्शा अन्तरिक्षस्योष्माणो दिवः स्वरा अग्ने रूपं स्पर्शा वायोरूष्माण आदित्यस्य स्वरा ऋग्वेदस्य रूपं स्पर्शा यजुर्वेदस्योेष्माणः सामवेदस्य स्वराश्चक्षुषो रूपं स्पर्शाः ॥ 2 ॥
श्रोत्रस्योष्माणो मनसः स्वराः प्राणस्य रूपं स्पर्शा अपानस्योष्माणो व्यानस्य स्वराः ॥ 3 ॥
॥ इति पञ्चमं ब्राह्मणम् ॥
अथ खल्वियं दैवी वीणा भवति तदनुकृतिरसौ मानुषी वीणा भवति ॥ 1 ॥
यथाऽस्याः शिर एवममुष्याः शिरो यथाऽस्या उदरमेवममुष्या अम्भणं यथाऽस्यै जिह्वैवममुष्यै वादनम् ॥ 2 ॥
यथाऽस्यास्तन्त्रय एवममुष्या अङ्गुलयो यथाऽस्या स्वरा एवममुष्याः स्वरा यथाऽस्याः स्पर्शा एवममुष्याः स्पर्शा यथा ह्येवेयं शब्दवती तदम्र्वत्येवमसौ शब्दवती तदम्र्वती ॥ 3 ॥
यथा ह्येवेयं लोमशेन चर्मणा पिहिता भवत्येवमसौ लोमशेन चर्मणा पिहिता लोमशेन ह स्मवै चर्मणा पुरा वीणा अपिदधति स यो हैतां दैवीं वीणां वेद ॥ 4 ॥
श्रुतवदनो भवति भूमिप्राऽस्य कीर्तिर्भवति यत्र क्व चाऽर्या वाचो भाषन्ते विदुरेनं तत्राथातो वाग् रसो यस्यां संसद्यधीयमानो वा भाषमाणो वा न विरुरुचुषेत ॥ 5 ॥
तत्रैतामृचं जपेत् ओष्ठा पिधाना न कुली दन्तैः परि वृता पविः ॥ 6 ॥
सर्वस्यै वाच ईशाना चारु मामिह वादयेत् इति वाग्रसः ॥ 7 ॥
॥ इति षष्ठं ब्राह्मणम् ॥
अथ हस्मा एतत् कृष्णहारीतो वाग्ब्राह्मणमिवोपोदाहरति ॥ 1 ॥
प्रजापतिः प्रजाः सृष्द्वा व्यस्रंसत संवत्सरः स च्छन्दोभिरात्मानं समदधात् यच्छन्दोभिरात्मानं समदधात् तस्मात् संहिता ॥ 2 ॥
तस्यैव वा एतस्यै संहितायै णकारो बलं षकारः प्राण आत्मा स यो हैतौ णकारषकारावनुसंहितमृचो वेद ॥ 3 ॥
सबलां सप्राणां संहितां वेदाऽयुष्यमिति विद्यात् स यदि विचिकित्सेत् सणकारं ब्रवाणी3?? ॥ 4 ॥
अणकारा3?? इति सणकारमेव ब्रूयात् सषकारं ब्रवाणी3?? अषकारा3?? इति ॥ 5 ॥
सषकारमेव ब्रूयात् ते यद् वयमनुसंहितमृचोऽधीमहे ॥ 6 ॥
यच्च माण्डूकेयीयमध्यायं प्रब्रूमस्तेन नो णकारषकारावुपाप्ताविति ह स्माऽह ह्वस्वो माण्डूकेयोऽथ यद् वयमनुसंहितमृचोऽधीमहे यच्च माण्डूकेयीयमध्यायं प्रब्रूमस्तेन नो णकारषकारावुपाप्ताविति ह स्माऽह स्थविरः शाकल्य एतद्ध स्मवै तद् विद्वांस अहुऋर्षयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे ॥ 7 ॥ वाचि हि प्राणं जुहुमः । प्राणे वाचं यो ह्येव प्रभवः स एवाप्ययस्ता एताः संहिता नानन्तेवासिने प्रब्रूयान्नासंवत्सरवासिने नाप्रवक्त्र इत्याचार्या आचार्याः ॥ 8 ॥

॥ इति सप्तमं ब्राह्मणम् ॥
॥ इति श्रीमहैतयोपनिषदि द्वितीयप्रघट्टकेऽष्टमोऽध्यायः ॥
॥ इति द्वितीयः प्रघट्टकः समाप्तः ॥

*****************************************************************************

]