२८

विश्वास-प्रस्तुतिः

अथातो ब्रह्मणः परिमरः ।

Haug

(Spell to be Spoken and Applied by a King to Kill his Enemies. Who First Communicated it.)

Now follows the ceremony called, “dying round the Brahma” (Brahmaṇaḥ parimara).

मूलम्

अथातो ब्रह्मणः परिमरः ।

विश्वास-प्रस्तुतिः

यो ह वै ब्रह्मणः परिमरं वेद पर्येनं द्विषन्तो भ्रातृव्याः परि सपत्ना म्रियन्ते ।

Haug

All enemies and foes of him who knows this ceremony, die round about him.

मूलम्

यो ह वै ब्रह्मणः परिमरं वेद पर्येनं द्विषन्तो भ्रातृव्याः परि सपत्ना म्रियन्ते ।

विश्वास-प्रस्तुतिः

अयं वै ब्रह्म यो ऽयं पवते ।

Haug

This Brahma is he who sweeps (in the air, i.e., Vāyu).

मूलम्

अयं वै ब्रह्म यो ऽयं पवते ।

विश्वास-प्रस्तुतिः

तमेताः पञ्च देवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्यो ऽग्निः ।

Haug

Round him five deities are dying, viz., lightning, rain, moon, sun, fire.

मूलम्

तमेताः पञ्च देवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्यो ऽग्निः ।

विश्वास-प्रस्तुतिः

विद्युद्वै विद्युत्य वृष्टिमनुप्रविशति सा ऽन्तर्धीयते तां न निर्जानन्ति ।

Haug

Lightning is absorbed by lightning when it does not rain, and is consequently hidden (to our eyes). They do not perceive such a flash of lightning

मूलम्

विद्युद्वै विद्युत्य वृष्टिमनुप्रविशति सा ऽन्तर्धीयते तां न निर्जानन्ति ।

विश्वास-प्रस्तुतिः

यदा वै म्रियते ऽथान्तर्धीयते ऽथैनां न निर्जानन्ति ।

Haug

when it dies, and consequently disappears.

मूलम्

यदा वै म्रियते ऽथान्तर्धीयते ऽथैनां न निर्जानन्ति ।

विश्वास-प्रस्तुतिः

स ब्रूयाद्विद्युतो मरणे द्विषन्मे म्रियतां सो ऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति ।

Haug

When they do not see him (the enemy), he (the king) shall say, “With the death of lightning my enemy shall die, and disappear! May they never get aware of him!”

मूलम्

स ब्रूयाद्विद्युतो मरणे द्विषन्मे म्रियतां सो ऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति ।

विश्वास-प्रस्तुतिः

क्षिप्रं हैवैनं न निर्जानन्ति ।

Haug

Instantly, then, they do not perceive him (the enemy), for he will be killed.

मूलम्

क्षिप्रं हैवैनं न निर्जानन्ति ।

विश्वास-प्रस्तुतिः

वृष्टिर्वै वृष्ट्वा चन्द्रमसमनुप्रविशति सा ऽन्तर्धीयते तां न निर्जानन्ति ।

Haug

The rain when fallen is absorbed by the moon which disappears;

मूलम्

वृष्टिर्वै वृष्ट्वा चन्द्रमसमनुप्रविशति सा ऽन्तर्धीयते तां न निर्जानन्ति ।

विश्वास-प्रस्तुतिः

यदा वै म्रियते ऽथान्तर्धीयते ऽथैनं न निर्जानन्ति ।

Haug

they do not perceive it, when it dies and disappears.

मूलम्

यदा वै म्रियते ऽथान्तर्धीयते ऽथैनं न निर्जानन्ति ।

विश्वास-प्रस्तुतिः

स ब्रूयाद्वृष्टेर्मरणे द्विषन्मे म्रियतां सो ऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति ।

Haug

Then, when they do not perceive him (the enemy), then he (the king) should say, “With the death of the rain, my enemy die and disappear. May they never get aware of him!”

मूलम्

स ब्रूयाद्वृष्टेर्मरणे द्विषन्मे म्रियतां सो ऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति ।

विश्वास-प्रस्तुतिः

क्षिप्रं हैवैनं न निर्जानन्ति ।

Haug

Instantly, then, they do not perceive him (the enemy), for he will be killed.

मूलम्

क्षिप्रं हैवैनं न निर्जानन्ति ।

विश्वास-प्रस्तुतिः

चन्द्रमा वा अमावास्यायामादित्यमनुप्रविशति सो ऽन्तर्धीयते तं न निर्जानन्ति ।

Haug

The moon at the time of the new moon, is absorbed by the sun, &c.

मूलम्

चन्द्रमा वा अमावास्यायामादित्यमनुप्रविशति सो ऽन्तर्धीयते तं न निर्जानन्ति ।

विश्वास-प्रस्तुतिः

यदा वै म्रियते ऽथान्तर्धीयते ऽथैनं न निर्जानन्ति ।

Haug

they do not perceive it, when it dies and disappears.

मूलम्

यदा वै म्रियते ऽथान्तर्धीयते ऽथैनं न निर्जानन्ति ।

विश्वास-प्रस्तुतिः

स ब्रूयाच्चन्द्रमसो मरणे द्विषन्मे म्रियतां सो ऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति ।

Haug

When they do not perceive him (the enemy) then (the king) shall say, “With the death of the moon, my enemy shall die, and disappear. May they never get aware of him!”

मूलम्

स ब्रूयाच्चन्द्रमसो मरणे द्विषन्मे म्रियतां सो ऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति ।

विश्वास-प्रस्तुतिः

क्षिप्रं हैवैनं न निर्जानन्ति ।

Haug

Instantly, then, they do not perceive him (the enemy), for he will be killed.

मूलम्

क्षिप्रं हैवैनं न निर्जानन्ति ।

विश्वास-प्रस्तुतिः

आदित्यो वा अस्तं यन्नग्निमनुप्रविशति सो ऽन्तर्धीयते तं न निर्जानन्ति ।

Haug

The sun, when setting, is absorbed by Agni (fire), etc.

मूलम्

आदित्यो वा अस्तं यन्नग्निमनुप्रविशति सो ऽन्तर्धीयते तं न निर्जानन्ति ।

विश्वास-प्रस्तुतिः

यदा वै म्रियते ऽथान्तर्धीयते ऽथैनं न निर्जानन्ति ।

Haug

The sun, when setting, is absorbed by Agni (fire), &c.

मूलम्

यदा वै म्रियते ऽथान्तर्धीयते ऽथैनं न निर्जानन्ति ।

विश्वास-प्रस्तुतिः

स ब्रूयादादित्यस्य मरणे द्विषन्मे म्रियतां सो ऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति ।

Haug

The king then shall say, “With the death of the sun, my enemy shall die, and disappear! may they never get aware of him!”

मूलम्

स ब्रूयादादित्यस्य मरणे द्विषन्मे म्रियतां सो ऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति ।

विश्वास-प्रस्तुतिः

क्षिप्रं हैवैनं न निर्जानन्ति ।

Haug

Instanly, then, they do not perceive him (the enemy), for he will be killed.

मूलम्

क्षिप्रं हैवैनं न निर्जानन्ति ।

विश्वास-प्रस्तुतिः

अग्निर्वा उद्वान्वायुमनुप्रविशति सो ऽन्तर्धीयते तं न निर्जानन्ति ।

Haug

The fire when extinguishing, is absorbed by Vāyu, &c.

मूलम्

अग्निर्वा उद्वान्वायुमनुप्रविशति सो ऽन्तर्धीयते तं न निर्जानन्ति ।

विश्वास-प्रस्तुतिः

यदा वै म्रियते ऽथान्तर्धीयते ऽथैनं न निर्जानन्ति ।

Haug

The fire when extinguishing, is absorbed by Vāyu, etc.

मूलम्

यदा वै म्रियते ऽथान्तर्धीयते ऽथैनं न निर्जानन्ति ।

विश्वास-प्रस्तुतिः

स ब्रूयादग्नेर्मरणे द्विषन्मे म्रियतां सो ऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति ।

Haug

The king then shall say, “With the death of the fire, my enemy shall die and disappear! may they never get aware of him!”

मूलम्

स ब्रूयादग्नेर्मरणे द्विषन्मे म्रियतां सो ऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति ।

विश्वास-प्रस्तुतिः

क्षिप्रं हैवैनं न निर्जानन्ति ।

Haug

Instantly, then, they do not perceive him (the enemy), for he will be killed.

मूलम्

क्षिप्रं हैवैनं न निर्जानन्ति ।

विश्वास-प्रस्तुतिः

ता वा एता देवता अत एव पुनर्जायन्ते ।

Haug

These (five) deities are then born again.

मूलम्

ता वा एता देवता अत एव पुनर्जायन्ते ।

विश्वास-प्रस्तुतिः

वायोरग्निर्जायते प्राणाद्धि बलान्मथ्यमानो ऽधिजायते ।

Haug

The fire is born out of Vāyu (wind). For it is produced by friction practised with (great) force, and restraining the breath.)[5]

Haug - Notes

[5]The production of fire by means of friction is very fatiguing, as I can assure the reader, from having tried it once with the proper apparatus, used at the sacrifices for this purpose.

मूलम्

वायोरग्निर्जायते प्राणाद्धि बलान्मथ्यमानो ऽधिजायते ।

विश्वास-प्रस्तुतिः

तं दृष्ट्वा ब्रूयादग्निर्जायतां मा मे द्विषञ्जनि ।

Haug

After having seen the fire new born, the king shall say, “May Agni be born, but may my enemy not be born (again);

मूलम्

तं दृष्ट्वा ब्रूयादग्निर्जायतां मा मे द्विषञ्जनि ।

विश्वास-प्रस्तुतिः

अत एव पराङ्प्रजिघ्यत्विति ।

Haug

may he go far off!”

मूलम्

अत एव पराङ्प्रजिघ्यत्विति ।

विश्वास-प्रस्तुतिः

अतो हैव पराङ्प्रजिघ्यति ।

Haug

Then he goes far off.

मूलम्

अतो हैव पराङ्प्रजिघ्यति ।

विश्वास-प्रस्तुतिः

अग्नेर्वा आदित्यो जायते ।

Haug

Out of fire the sun is born.

मूलम्

अग्नेर्वा आदित्यो जायते ।

विश्वास-प्रस्तुतिः

तं दृष्ट्वा ब्रूयादादित्यो जायता मा मे द्विषञ्जनि ।

Haug

Having seen him, the king shall say, “May the sun be born, but may my enemy not be born;

मूलम्

तं दृष्ट्वा ब्रूयादादित्यो जायता मा मे द्विषञ्जनि ।

विश्वास-प्रस्तुतिः

अत एव पराङ्प्रजिघ्यत्विति ।

Haug

may he go far off!”

मूलम्

अत एव पराङ्प्रजिघ्यत्विति ।

विश्वास-प्रस्तुतिः

अतो हैव पराङ्प्रजिघ्यति ।

Haug

Then he goes far off.

मूलम्

अतो हैव पराङ्प्रजिघ्यति ।

विश्वास-प्रस्तुतिः

आदित्याद्वै चन्द्रमा जायते ।

Haug

From the sun the moon is born.

मूलम्

आदित्याद्वै चन्द्रमा जायते ।

विश्वास-प्रस्तुतिः

तं दृष्ट्वा ब्रूयाच्चन्द्रमा जायतां मा मे द्विषञ्जनि ।

Haug

Having seen it, the king shall say, “May the moon be born, but not my enemy,

मूलम्

तं दृष्ट्वा ब्रूयाच्चन्द्रमा जायतां मा मे द्विषञ्जनि ।

विश्वास-प्रस्तुतिः

अत एव पराङ्प्रजिघ्यत्विति ।

Haug

may he be far off!”

मूलम्

अत एव पराङ्प्रजिघ्यत्विति ।

विश्वास-प्रस्तुतिः

अतो हैव पराङ्प्रजिघ्यति ।

Haug

Then he goes far off.

मूलम्

अतो हैव पराङ्प्रजिघ्यति ।

विश्वास-प्रस्तुतिः

चन्द्रमसो वै वृष्टिर्जायते ।

Haug

From the moon the rain is born.

मूलम्

चन्द्रमसो वै वृष्टिर्जायते ।

विश्वास-प्रस्तुतिः

तां दृष्ट्वा ब्रूयाद्वृष्टिर्जायतां मा मे द्विषञ्जनि ।

Haug

Having seen it, the king shall say, “May the rain be born, but not my enemy;

मूलम्

तां दृष्ट्वा ब्रूयाद्वृष्टिर्जायतां मा मे द्विषञ्जनि ।

विश्वास-प्रस्तुतिः

अत एव पराङ्प्रजिघ्यत्विति ।

Haug

may he be far off.”

मूलम्

अत एव पराङ्प्रजिघ्यत्विति ।

विश्वास-प्रस्तुतिः

अतो हैव पराङ्प्रजिघ्यति ।

Haug

Then he goes far off.

मूलम्

अतो हैव पराङ्प्रजिघ्यति ।

विश्वास-प्रस्तुतिः

वृष्टेर्वै विद्युज्जायते ।

Haug

From rain lightning is born.

मूलम्

वृष्टेर्वै विद्युज्जायते ।

विश्वास-प्रस्तुतिः

तां दृष्ट्वा ब्रूयाद्विद्युज्जायतां मा मे द्विषञ्जनि ।

Haug

Having seen it, the king shall say, “May lightning be born, but not my enemy.

मूलम्

तां दृष्ट्वा ब्रूयाद्विद्युज्जायतां मा मे द्विषञ्जनि ।

विश्वास-प्रस्तुतिः

अत एव पराङ्प्रजिघ्यत्विति ।

Haug

May he be far off.

मूलम्

अत एव पराङ्प्रजिघ्यत्विति ।

विश्वास-प्रस्तुतिः

अतो हैव पराङ्प्रजिघ्यति ।

Haug

Then he goes far off.

मूलम्

अतो हैव पराङ्प्रजिघ्यति ।

विश्वास-प्रस्तुतिः

स एष ब्रह्मणः परिमरः ।

Haug

This is the Brahmaṇaḥ parimaraḥ (dying around the Brahma).

मूलम्

स एष ब्रह्मणः परिमरः ।

विश्वास-प्रस्तुतिः

तमेतं ब्रह्मणः परिमरं मैत्रेयः कौषारवः सुत्वने कैरिशये भार्गायणाय राज्ञे प्रोवाच ।

Haug

Maitreya, the son of Kuṣâru, told it to Satvan, the son of Kirîśi, a king of the Bharga Gotra.

मूलम्

तमेतं ब्रह्मणः परिमरं मैत्रेयः कौषारवः सुत्वने कैरिशये भार्गायणाय राज्ञे प्रोवाच ।

विश्वास-प्रस्तुतिः

तं ह पञ्च राजानः परिमम्रुस्ततः सुत्वा महज्जगाम ।

Haug

Five kings (who were his enemies) died round him; thence he attained to greatness.

मूलम्

तं ह पञ्च राजानः परिमम्रुस्ततः सुत्वा महज्जगाम ।

विश्वास-प्रस्तुतिः

तस्य व्रतं न द्विषतः पूर्व उपविशेत् ।

Haug

He who uses this spell, has to observe the following rules: He never shall sit before his enemy has taken his seat.

मूलम्

तस्य व्रतं न द्विषतः पूर्व उपविशेत् ।

विश्वास-प्रस्तुतिः

यदि तिष्ठन्तं मन्येत तिष्ठेतैव ।

Haug

When he believes him to be standing, then he shall stand.

मूलम्

यदि तिष्ठन्तं मन्येत तिष्ठेतैव ।

विश्वास-प्रस्तुतिः

न द्विषतः पूर्वः संविशेत् ।

Haug

He shall not lie down, before also his enemy has done so.

मूलम्

न द्विषतः पूर्वः संविशेत् ।

विश्वास-प्रस्तुतिः

यद्यासीनं मन्येता ऽऽसीतैव ।

Haug

When he thinks him sitting, then he shall sit himself.

मूलम्

यद्यासीनं मन्येता ऽऽसीतैव ।

विश्वास-प्रस्तुतिः

न द्विषतः पूर्वः प्रस्वप्यात् ।

Haug

He never shall sleep before his enemy has fallen asleep.

मूलम्

न द्विषतः पूर्वः प्रस्वप्यात् ।

विश्वास-प्रस्तुतिः

यदि जाग्रतं मन्येत जाग्रियादेव ।

Haug

When he believes him to be awake, then he shall also be awake.

मूलम्

यदि जाग्रतं मन्येत जाग्रियादेव ।

विश्वास-प्रस्तुतिः

अपि ह यद्यस्याश्ममूर्धा द्विषन्भवति क्षिप्रं हैवैनं स्तृणुते स्तृणुते ।

Haug

In this way, he puts his enemy down, even if he wears a stone-helmet (is well armed).

मूलम्

अपि ह यद्यस्याश्ममूर्धा द्विषन्भवति क्षिप्रं हैवैनं स्तृणुते स्तृणुते ।