अथातो ब्रह्मणः परिमरो यो ह वै ब्रह्मणः परिमरं वेद पर्येनं द्विषन्तो भ्रातृव्याः परि सपत्ना म्रियन्तेऽयं वै ब्रह्म योऽयम्पवते तमेताः पञ्च देवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्र मा आदित्योऽग्निर्विद्युद्वै विद्युत्य वृष्टिमनुप्रविशति सान्तर्धीयते तां न निर्जानन्ति यदा वै म्रियतेऽथान्तर्धीयतेऽथैनां न निर्जानन्ति स ब्रूयाद्विद्युतो मरणे द्विषन्मे म्रियतां सोऽन्तर्धीयतां तम्मा निर्ज्ञसिषुरिति क्षिप्रं हैवैनं न निर्जानन्ति वृष्टिर्वै वृष्ट्वा चन्द्र मसमनुप्रविशति सान्तर्धीयते तां न निर्जानन्ति यदा वै म्रियतेऽथान्तर्धीयतेऽथैनं न निर्जानन्ति स ब्रूयाद्वृष्टेर्मरणे द्विषन्मे म्रियतां सोऽन्तर्धीयतां तम्मा निर्ज्ञासिषुरिति क्षिप्रं हैवैनं न निर्जानन्ति चन्द्र मा वा अमावास्यायामादित्यमनुप्रविशति सोऽन्तर्धीयतां तं न निर्जानन्ति यदा वै म्रियतेऽथान्तर्धीयतेऽथैनं न निर्जानन्ति स ब्रूयाच्चन्द्र मसो मरणे द्विषन्मे म्रियतां सोऽन्तर्धीयतां तम्मा निर्ज्ञासिषुरिति क्षिप्रं हैवैनं न निर्जानन्त्यादित्यो वा अस्तं यन्नग्निमनुप्रविशति सोऽन्तर्धीयते तं न निर्जानन्ति यदा वै म्रियतेऽथान्त-र्धीयतेऽथैनाम्न निर्जानन्ति स ब्रूयादादित्यस्य मरणे द्विषन्मे म्रियतां सोऽन्त-र्धीयतां तम्मा निर्ज्ञासिषुरिति क्षिप्रं हैवैनं ना निर्जानन्त्याग्निर्वा उद्वान्वायुमनुप्रविशति सोऽन्तर्धियते तं न निर्जानन्ति यदा वै म्रियतेऽथान्तर्धीयतेऽथैनं न निर्जानन्ति स ब्रूयादग्नेर्मराणे द्विषन्मे म्रियतां सोऽन्तर्धीयतां तम्मा निर्ज्ञासि-षुरिति क्षिप्रं हैवैनं न निर्जानन्ति ता वा एता देवता अत एव पुनर्जायन्ते वायोरग्निर्जायते प्राणाद्धि बलान्मथ्यमानोऽधिजायते तं दृष्ट्वा ब्रूयादग्निर्जा-यताम्मा मे द्विषञ्जन्यत एव पराङ्प्रजिघ्यत्विति अतो हैव पराङ्प्रजिघ्यत्यग्नेर्वा आदित्यो जायते तं दृष्ट्वा ब्रूयादादित्यो जायताम्मा मे द्विषञ्जन्यत एव पराङ्प्रजिघ्यत्वित्यतो हैव पराङ्प्रजिघ्यत्यादित्याद्वै चन्द्र मा जायते तं दृष्ट्वा ब्रूयाच् चन्द्र मा जायताम्मा मे द्विषञ्जन्यत एव पराङ्प्रजिघ्यत्विति अतो हैव पराङ्प्रजिघ्यति चन्द्र मसो वै वृष्टिर्जायते तां दृष्ट्वा ब्रूयाद्वृष्टिर्जायताम्मा मे द्विषञ्जन्यत एव पराङ्प्रजिघ्यत्वित्यतो हैव पराङ्प्रजिघ्यति वृष्टेर्वै विद्युज्जायते तां दृष्ट्वा ब्रूयाद्विद्युज्जायताम्मा मे द्विषञ्जन्यत एव पराङ्प्रजिघ्यत्वित्यतो बैव परान्प्रजिघ्यति स एष ब्रह्मणः परिमरस्तमेतम्ब्रह्मणः परिमरम्मैत्रेयः कौषारवः सुत्वने कैरिशये भार्गायणाय राज्ञे प्रोवाच तं ब पञ्च राजानः परिमम्रुस्ततः सुत्वा महज्जगाम तस्य व्रतं न द्विषतः पूर्व उपविशेद्यदि तिष्ठन्तम्मन्येत तिष्ठेतैव न द्विषतः पूर्वः संविशेद्यद्यासीनम्मन्येतासीतैव न द्विषतः पूर्वः प्रस्वप्याद्यदि जाग्रतम्मन्येत जागृयादेवापि ह यद्यस्याश्ममूर्धा द्विषन्भवति क्षिप्रं हैवैनं स्तृणुते
स्तृणुते २८
५
इत्यष्टमपञ्चिका समाप्ता शुभं भवतु