२७

विश्वास-प्रस्तुतिः

यो न वै त्रीन्पुरोहितांस्त्रीन्पुरोधातॄन्वेद स ब्राह्मणः पुरोहितः ।

Haug

(The Three Divine Purohitas. Who is Fit for the Office of a Purohita. By Repeating of What Mantra and Performance, of What Ceremony the King has to Engage him.)

The Brahman who knows the (following) three (divine) Purohitas, as well as the three appointers to this office, should be nominated to such a post.

मूलम्

यो न वै त्रीन्पुरोहितांस्त्रीन्पुरोधातॄन्वेद स ब्राह्मणः पुरोहितः ।

विश्वास-प्रस्तुतिः

स वदेत पुरोधाया अग्निर्वाव पुरोहितः पृथिवी पुरोधाता वायुर्वाव पुरोहितो ऽन्तरिक्षं पुरोधाता ऽऽदित्यो वाव पुरोहितो द्यौः पुरोधाता ।

Haug

Agni is one of these (three) Purohitas; his appointer is the earth; the (other) Purohita is Vāyu, his appointer is the air; the (third) Purohita is Āditya, his appointer is the sky.

मूलम्

स वदेत पुरोधाया अग्निर्वाव पुरोहितः पृथिवी पुरोधाता वायुर्वाव पुरोहितो ऽन्तरिक्षं पुरोधाता ऽऽदित्यो वाव पुरोहितो द्यौः पुरोधाता ।

विश्वास-प्रस्तुतिः

एष ह वै पुरोहितो य एवं वेद ।

Haug

Who knows this is (fit for the office of a) Purohita;

मूलम्

एष ह वै पुरोहितो य एवं वेद ।

विश्वास-प्रस्तुतिः

अथ स तिरोहितो य एवं न वेद ।

Haug

but he who does not know it, is unworthy of holding such an office.

मूलम्

अथ स तिरोहितो य एवं न वेद ।

विश्वास-प्रस्तुतिः

तस्य राजा मित्रं भवति द्विषन्तमपबाधते यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः ।

Haug

That king who appoints a Brāhmaṇa who has this knowledge to be his Purohita and protector of his kingdom, succeeds in making (another) king his friend, and conquers his enemy.

मूलम्

तस्य राजा मित्रं भवति द्विषन्तमपबाधते यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः ।

विश्वास-प्रस्तुतिः

क्षत्त्रेण क्षत्त्रं जयति बलेन बलमश्नुते यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः ।

Haug

The king who does so, obtains by means of (his own) royal dignity that (for another), and by means of (his) bravery that for another (i. e., he defeats him).

मूलम्

क्षत्त्रेण क्षत्त्रं जयति बलेन बलमश्नुते यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः ।

विश्वास-प्रस्तुतिः

तस्मै विशः सञ्जानते सम्मुखा एकमनसो यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः ।

Haug

The subjects of such a king obey him unanimously and undivided.

मूलम्

तस्मै विशः सञ्जानते सम्मुखा एकमनसो यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः ।

विश्वास-प्रस्तुतिः

भूर्भुवः स्वरोममो ऽहमस्मि स त्वं स त्वमस्यमो ऽहं द्यौरहं पृथिवी त्वं सामाहमृक्त्वम् ।

Haug

(None Follows the Mantra for Appointing the Purohita).

“Bhûr, Bhuvaḥ, Svar, Om! I am that one, thou art this one; thou art this one, I am that one; I am heaven, thou art the earth; I am the Sāman, thou art the Ṛik.

मूलम्

भूर्भुवः स्वरोममो ऽहमस्मि स त्वं स त्वमस्यमो ऽहं द्यौरहं पृथिवी त्वं सामाहमृक्त्वम् ।

विश्वास-प्रस्तुतिः

तावेह संवहावहै पुराण्यस्मात्महाभयात् ।

Haug

Let us both find here our livelihood (support). Save us from great danger (just as was done) in former times;

मूलम्

तावेह संवहावहै पुराण्यस्मात्महाभयात् ।

विश्वास-प्रस्तुतिः

तनूरसि तन्वं मे पाहि ।

Haug

thou art (my) body, protect mine.

मूलम्

तनूरसि तन्वं मे पाहि ।

विश्वास-प्रस्तुतिः

या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः ता मह्यमस्मिन्नासने ऽच्छिद्रं शर्म यच्छत ।

Haug

All ye many herbs, of a hundred kinds, over which the king Soma rules, grant me (sitting) on this seat, uninterrupted happiness.

मूलम्

या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः ता मह्यमस्मिन्नासने ऽच्छिद्रं शर्म यच्छत ।

विश्वास-प्रस्तुतिः

या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु ता मह्यमस्मिन्नासने ऽच्छिद्रं शर्म यच्छत ।

Haug

All ye herbs ruled by Soma the king, which are spread over the earth, grant me (sitting) on this seat, uninterrupted happiness.

मूलम्

या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु ता मह्यमस्मिन्नासने ऽच्छिद्रं शर्म यच्छत ।

विश्वास-प्रस्तुतिः

अस्मिन्राष्ट्रे श्रियमावेशयामि ।

Haug

I cause to sit in the kingdom this goddess of fortune.

मूलम्

अस्मिन्राष्ट्रे श्रियमावेशयामि ।

विश्वास-प्रस्तुतिः

अतो देवीः प्रतिपश्याम्यापः ।

Haug

Thence I look upon the divine waters (with which the king is washing the feet of the Purohita).”

मूलम्

अतो देवीः प्रतिपश्याम्यापः ।

विश्वास-प्रस्तुतिः

दक्षिणं पादमवनेनिजे ऽस्मिन्राष्ट्र इन्द्रियं दधामि ।

Haug

“By washing his (the Purohita’s) right foot, I introduce wealth obtained by sharpness of senses into the kingdom;

मूलम्

दक्षिणं पादमवनेनिजे ऽस्मिन्राष्ट्र इन्द्रियं दधामि ।

विश्वास-प्रस्तुतिः

सव्यं पादमवनेनिजे ऽस्मिन्राष्ट्र इन्द्रियं वर्धयामि ।

Haug

by washing his left foot, I make that sharpness of senses increase.

मूलम्

सव्यं पादमवनेनिजे ऽस्मिन्राष्ट्र इन्द्रियं वर्धयामि ।

विश्वास-प्रस्तुतिः

पूर्वमन्यमपरमन्यं पादाववनेनिजे देवा राष्ट्रस्य गुप्त्या अभयस्यावरुद्ध्यै ।

Haug

I wash, O gods! the first (right) and second (left) foot for protecting my empire and obtaining safety for it.

मूलम्

पूर्वमन्यमपरमन्यं पादाववनेनिजे देवा राष्ट्रस्य गुप्त्या अभयस्यावरुद्ध्यै ।

विश्वास-प्रस्तुतिः

आपः पादावनेजनीर्द्विषन्तं निर्दहन्तु मे ।

Haug

May the waters which served for washing the feet (of the Purohita) destroy my enemy!”

मूलम्

आपः पादावनेजनीर्द्विषन्तं निर्दहन्तु मे ।