यो न वै त्रीन्पुरोहितांस्त्रीन्पुरोधातॄन्वेद स ब्राह्मणः पुरोहितः स वदेत पुरोधाया अग्निर्वाव पुरोहितः पृथिवी पुरोधाता वायुर्वाव पुरोहितोऽन्तरिक्षम्पुरो-धातादित्यो वाव पुरोहितो द्यौः पुरोधातैष ह वै पुरोहितो य एवं वेदाथ स तिरोहितो य एवं न वेद तस्य राजा मित्रम्भवति द्विषन्तमपबाधते यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः क्षत्रेण क्षत्रं जयति बलेन बलमश्नुते यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितस्तस्मै विशः संजानते सम्मुखा एकमनसो यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितो भूर्भुवः स्वरोममोऽहमस्मि स त्वं स त्वं अस्यमोऽहं द्यौरहम्पृथिवी त्वं सामाहमृक्त्वं तावेह संवहावहै पुरा अण्यस्मात्महाभयात् तनूरसि तन्वम्मे पाहि या ओषधिः सोमराज्ञीर्बह्वीः शतविचक्षणाः ता मह्यमस्मिन्नासनेऽछिद्रं शर्म यछत या ओषधीः सोमराज्ञी-र्विष्ठिताः पृथिवीमनु ता मह्यमस्मिन्नासनेऽछिद्रं शर्म यछत अस्मिन्राष्ट्रे श्रियमा वेशयाम्यतो देवीः प्रति पश्याम्यापः दक्षिणम्पादमव नेनिजेऽस्मिन्राष्ट्र इन्द्रि यं दधामि सव्यम्पादमव नेनिजेऽस्मि राष्ट्र इन्द्रि यं वर्धयामि पूर्वमन्यमपरम-न्यम्पादावव नेनिजे देवा राष्ट्रस्य गुप्त्या अभयस्यावरुद्ध्यै आपः पादावनेजनीर्द्विषन्तं निर्दहन्तु मे २७