२६

तदप्येतदृषिणोक्तं स इद्रा जा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभि वीर्येणेति सपत्ना वै द्विषन्तो भ्रातृव्या जन्यानि तानेव तच्छुष्मेण वीर्येणाधितिष्ठति बृहस्पतिं यः सुभृतम्बिभर्तीति बृथस्पतिर्ह वै देवानाम्पुरोहितस्तमन्वन्ये मनुष्यराज्ञाम्पुरोहिता बृहस्पतिं यः सुभृतम्बिभर्तीति यदाह पुरोहितं यः सुभृतं बिभर्तीत्येव तदाह वल्गूयति वन्दते पूर्वभाजमित्यपचितिमेवास्मा एतदाह स इत्क्षेति सुधित ओकसि स्व इति गृहा वा ओकः स्वेष्वेव तद्गृहेषु सुहितो वसति तस्मा इळा पिन्वते विश्वदानीमित्यन्नं वा इळान्नमेवास्मा एतदूर्जस्वच्छ-श्वद्भवति तस्मै विशः स्वयमेवा नमन्त इति राष्ट्राणि वै विशो राष्ट्राण्येवैनं तत्स्वयमुपनमन्ति यस्मिन्ब्रह्मा राजनि पूर्व एतीति पुरोहितमेवैतदाहाप्रतीतो जयति सं धनानीति राष्ट्राणि वै धनानि तान्यप्रतीतो जयति प्रतिजन्यान्युत या सजन्येति सपत्ना वै द्विषन्तो भ्रातृव्या जन्यानि तानप्रतीतो जयत्यवस्यवे यो वरिवः कृणोतीति यदाहावसीयसे यो वसीयः करोतीत्येव तदाह ब्रह्मणे राजा

तमवन्ति देवा इति पुरोहितमेवैतदभिवदति २६