विश्वास-प्रस्तुतिः
तदप्येतदृषिणोक्तं स इद्राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभि वीर्येणेति ।
Haug
(The Importance of the Office of a Purohita Proved from Three Verses of a Vedic Hymn).
To this power of the Purohita, a Riṣi alludes in the the following verses: sa id rājā pratijanyâni, &c. (4, 50, 7), i.e., the king defeated by his prowess and bravery all his adversaries.
मूलम्
तदप्येतदृषिणोक्तं स इद्राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभि वीर्येणेति ।
विश्वास-प्रस्तुतिः
सपत्ना वै द्विषन्तो भ्रातृव्या जन्यानि ।
Haug
By janyâni are enemies and adversaries to be understood;
मूलम्
सपत्ना वै द्विषन्तो भ्रातृव्या जन्यानि ।
विश्वास-प्रस्तुतिः
तानेव तच्छुष्मेण वीर्येणाधितिष्ठति ।
Haug
he conquers them by means of his prowess and bravery.
मूलम्
तानेव तच्छुष्मेण वीर्येणाधितिष्ठति ।
विश्वास-प्रस्तुतिः
बृहस्पतिं यः सुभृतं बिभर्तीति ।
Haug
(The other half of this verse is as follows) Bṛihaspatim yaḥ subhṛitam bibharti, i. e., “who (the king) supports Bṛihaspati who is well to be supported.”
मूलम्
बृहस्पतिं यः सुभृतं बिभर्तीति ।
विश्वास-प्रस्तुतिः
बृहस्पतिर्ह वै देवानां पुरोहितः ।
Haug
For Bṛihaspati is the Purohita of the gods
मूलम्
बृहस्पतिर्ह वै देवानां पुरोहितः ।
विश्वास-प्रस्तुतिः
तमन्वन्ये मनुष्यराज्ञां पुरोहिताः ।
Haug
and him follow the Purohitas of the human kings.
मूलम्
तमन्वन्ये मनुष्यराज्ञां पुरोहिताः ।
विश्वास-प्रस्तुतिः
बृहस्पतिं यः सुभृतं बिभर्तीति यदाह पुरोहितं यः सुभृतं बिभर्तीत्येव तदाह ।
Haug
The words, “who supports Bṛihaspati who is well to be supported,” therefore mean, who (what king) supports the Purohita who is well to be supported.
मूलम्
बृहस्पतिं यः सुभृतं बिभर्तीति यदाह पुरोहितं यः सुभृतं बिभर्तीत्येव तदाह ।
विश्वास-प्रस्तुतिः
वल्गूयति वन्दते पूर्वभाजमिति ।
Haug
By the words (the last quarter of the verse above mentioned) valgûyati vandate pûrvabhajam, i.e., he honours and salutes him who has the precedence of enjoyment (i.e., the Purohita),
मूलम्
वल्गूयति वन्दते पूर्वभाजमिति ।
विश्वास-प्रस्तुतिः
अपचितिमेवास्मा एतदाह ।
Haug
he recommends his (the Purohita’s) distinction.
मूलम्
अपचितिमेवास्मा एतदाह ।
विश्वास-प्रस्तुतिः
स इत्क्षेति सुधित ओकसि स्व इति ।
Haug
(In the first half of the following verse), sa ît kṣetti sudhita okasi sve (4, 50, 8.; the idea is expressed, that he (the Purohita) lives in his own premises;
मूलम्
स इत्क्षेति सुधित ओकसि स्व इति ।
विश्वास-प्रस्तुतिः
गृहा वा ओकः स्वेष्वेव तद्गृहेषु सुहितो वसति ।
Haug
the word okas means gṛiha, i. e., house, and the word sudhita is the same as suhita, i e., well-disposed, pleased.
मूलम्
गृहा वा ओकः स्वेष्वेव तद्गृहेषु सुहितो वसति ।
विश्वास-प्रस्तुतिः
तस्मा इळा पिन्वते विश्वदानीमिति ।
Haug
(The second half of the verse) tasmā iḷā pinvate viśvadânîm, i. e., food grows for him (the king who keeps a Purohita) at all times.
मूलम्
तस्मा इळा पिन्वते विश्वदानीमिति ।
विश्वास-प्रस्तुतिः
अन्नं वा इळा ।
Haug
Iḷâ here means anna, i e., food;
मूलम्
अन्नं वा इळा ।
विश्वास-प्रस्तुतिः
अन्नमेवास्मा एतदूर्जस्वच्छश्वद्भवति ।
Haug
such one (such a king) is always possessed of essential juice (for keeping the life again);
मूलम्
अन्नमेवास्मा एतदूर्जस्वच्छश्वद्भवति ।
विश्वास-प्रस्तुतिः
तस्मै विशः स्वयमेवा ऽऽनमन्त इति ।
Haug
his subjects bow before him.
मूलम्
तस्मै विशः स्वयमेवा ऽऽनमन्त इति ।
विश्वास-प्रस्तुतिः
राष्ट्राणि वै विशो राष्ट्राण्येवैनं तत्स्वयमुपनमन्ति ।
Haug
The subjects (the tribes) form kingdoms; kingdoms by themselves bow before such a king
मूलम्
राष्ट्राणि वै विशो राष्ट्राण्येवैनं तत्स्वयमुपनमन्ति ।
विश्वास-प्रस्तुतिः
यस्मिन्ब्रह्मा राजनि पूर्व एतीति पुरोहितमेवैतदाह ।
Haug
who is preceded (pûrva eti) by a Brahma. Thus one calls him (such a Brāhmaṇa) a Purohita.
मूलम्
यस्मिन्ब्रह्मा राजनि पूर्व एतीति पुरोहितमेवैतदाह ।
विश्वास-प्रस्तुतिः
अप्रतीतो जयति सं धनानीति ।
Haug
(The first quarter of the third verse 4, 50, 9 is as follows) apratîto jayati saṁ dhanâni, i. e., he (such a king) conquers realms without being opposed by enemies.
मूलम्
अप्रतीतो जयति सं धनानीति ।
विश्वास-प्रस्तुतिः
राष्ट्राणि वै धनानि ।
Haug
By dhanâni kingdoms are to be understood;
मूलम्
राष्ट्राणि वै धनानि ।
विश्वास-प्रस्तुतिः
तान्यप्रतीतो जयति ।
Haug
he conquers them without meeting any opposition.
मूलम्
तान्यप्रतीतो जयति ।
विश्वास-प्रस्तुतिः
प्रतिजन्यान्युत या सजन्येति ।
Haug
The second quarter of the verse is as follows) prati janyâni uta yâ sajanyā.
मूलम्
प्रतिजन्यान्युत या सजन्येति ।
विश्वास-प्रस्तुतिः
सपत्ना वै द्विषन्तो भ्रातृव्या जन्यानि तानप्रतीतो जयति ।
Haug
By janyâni are enemies and adversaries to be understood; he conquers them without meeting any opposition.
मूलम्
सपत्ना वै द्विषन्तो भ्रातृव्या जन्यानि तानप्रतीतो जयति ।
विश्वास-प्रस्तुतिः
अवस्यवे यो वरिवः कृणोतीति यदाहावसीयसे यो ऽवसीयः करोतीत्येव तदाह ।
Haug
(In the third quarter) avasyave yo varivaḥ karoti, there is said, “who (what king) not being possessed of any wealth renders service (varivaḥ) to a very indigent (Purohita).”
मूलम्
अवस्यवे यो वरिवः कृणोतीति यदाहावसीयसे यो ऽवसीयः करोतीत्येव तदाह ।
विश्वास-प्रस्तुतिः
ब्रह्मणे राजा तमवन्ति देवा इति पुरोहितमेवैतदभिवदति ।
Haug
(In the last quarter of the verse) brahmaṇe rājā tam avanti devāḥ, i.e., “if the king is for the Brahman (if he support him), then the gods protect him (the king)” he speaks about the Purohita.
मूलम्
ब्रह्मणे राजा तमवन्ति देवा इति पुरोहितमेवैतदभिवदति ।