विश्वास-प्रस्तुतिः
अथातः पुरोधाया एव ।
Haug
(On the Office of the Purohita, or House-priest. The Brahmaṇaḥ Parimara, i.e., Dying Around the Brahma.)
(The Necessity for a King to Appoint a House-priest. In what Way the King Keeps the Sacred Fires. How to Appease the Five Destructive Powers of Agni).
Now, about the office of a Purohita (house-priest).
मूलम्
अथातः पुरोधाया एव ।
विश्वास-प्रस्तुतिः
न ह वा अपुरोहितस्य रज्ञो देवा अन्नमदन्ति ।
Haug
The gods do not eat the food offered by a king who has no house-priest (Purohita).
मूलम्
न ह वा अपुरोहितस्य रज्ञो देवा अन्नमदन्ति ।
विश्वास-प्रस्तुतिः
तस्माद्राजा यक्ष्यमाणो ब्राह्मणं पुरो दधीत देवा मे ऽन्नमदन्निति ।
Haug
Thence the king even when (not) intending to bring a sacrifice, should appoint a Brahman to the office of house-priest.
मूलम्
तस्माद्राजा यक्ष्यमाणो ब्राह्मणं पुरो दधीत देवा मे ऽन्नमदन्निति ।
विश्वास-प्रस्तुतिः
अग्नीन्वा एष स्वर्ग्यान्राजोद्धरते यत्पुरोहितम् ।
Haug
The king who (wishes) that the gods might eat his food, has, after having appointed a Purohita, however, the use of the (sacred) fires (without having actually established them) which lead to heaven;
मूलम्
अग्नीन्वा एष स्वर्ग्यान्राजोद्धरते यत्पुरोहितम् ।
विश्वास-प्रस्तुतिः
तस्य पुरोहित एवा ऽऽहवनीयो भवति जाया गार्हपत्यः पुत्रो ऽन्वाहार्यपचनः ।
Haug
for the Purohita is his Ahavanîya fire, his wife the Gârhapatya, and his son the Dakṣiṇa fire.
मूलम्
तस्य पुरोहित एवा ऽऽहवनीयो भवति जाया गार्हपत्यः पुत्रो ऽन्वाहार्यपचनः ।
विश्वास-प्रस्तुतिः
स यत्पुरोहिताय करोत्याहवनीय एव तज्जुहोति ।
Haug
When he does (anything) for the Purohita, then he sacrifices in the Ahavanîya fire (for the Purohita represents this fire).
मूलम्
स यत्पुरोहिताय करोत्याहवनीय एव तज्जुहोति ।
विश्वास-प्रस्तुतिः
अथ यज्जायायै करोति गार्हपत्य एव तज्जुहोति ।
Haug
When he does (anything) for his wife, then he verily sacrifices in the Gârhapatya fire.
मूलम्
अथ यज्जायायै करोति गार्हपत्य एव तज्जुहोति ।
विश्वास-प्रस्तुतिः
अथ यत्पुत्राय करोत्यन्वाहार्यपचन एव तज्जुहोति ।
Haug
When he does (anything) for his son, then he verily sacrifices in the Dakṣiṇa fire.
मूलम्
अथ यत्पुत्राय करोत्यन्वाहार्यपचन एव तज्जुहोति ।
विश्वास-प्रस्तुतिः
त एनं शान्ततनवो ऽभिहुता अभिप्रीताः स्वर्गं लोकमभिवहन्ति क्षत्त्रं च बलं च राष्ट्रं च विशं च।
Haug
These fires (which are led by the Purohita) which are thus freed from their destructive power[1] (for the Kṣattriya, i.e., they do not burn him), carry, pleased by the wish for sacrificing,[2] the Kṣattriya to the heaven-world, and (make him obtain) the royal dignity, bravery, a kingdom, and subjects to rule over.
Haug - Notes
[1]Literally, the bodies of which are appeased.
[2]The king manifests his wish by appointing a Purohita.
मूलम्
त एनं शान्ततनवो ऽभिहुता अभिप्रीताः स्वर्गं लोकमभिवहन्ति क्षत्त्रं च बलं च राष्ट्रं च विशं च।
विश्वास-प्रस्तुतिः
त एवैनमशान्ततनवो ऽनभिहुता अनभिप्रीताः स्वर्गाल्लोकान्नुदन्ते क्षत्त्राच्च बलाच्च राष्ट्राच्च विशश्च ।
Haug
But, if the Kṣattriya has no wish for sacrificing (by not appointing a Purohita), then the fires get displeased with him, and being not freed from their destructive power, throw him out of the heaven-world (and deprive him) of the royal dignity, bravery, his kingdom, and subjects over whom he rules.
मूलम्
त एवैनमशान्ततनवो ऽनभिहुता अनभिप्रीताः स्वर्गाल्लोकान्नुदन्ते क्षत्त्राच्च बलाच्च राष्ट्राच्च विशश्च ।
विश्वास-प्रस्तुतिः
अग्निर्वा एष वैश्वानरः पञ्चमेनिर्यत्पुरोहितः ।
Haug
This Agni Vaiśvānara, which is the Purohita, is possessed of five destructive powers;[3]
Haug - Notes
[3]They are called meni. Sây. explains paropadravakârinî krodharûpâ śaktir. Agni, or his representative, the Purohita, is here treated as a guest.
मूलम्
अग्निर्वा एष वैश्वानरः पञ्चमेनिर्यत्पुरोहितः ।
विश्वास-प्रस्तुतिः
तस्य वाच्येवैका मेनिर्भवति पादयोरेका त्वच्येका हृदय एकोपस्थ एका ।
Haug
one of them is in his speech, one in his feet, one in his skin, one in his heart, and one in the organ of generation.
मूलम्
तस्य वाच्येवैका मेनिर्भवति पादयोरेका त्वच्येका हृदय एकोपस्थ एका ।
विश्वास-प्रस्तुतिः
ताभिर्ज्वलन्तीभिर्दीप्यमानाभिरुपोदेति राजानम् ।
Haug
With these (five) powers, which are burning and blazing, he (Agni) attacks the king.
मूलम्
ताभिर्ज्वलन्तीभिर्दीप्यमानाभिरुपोदेति राजानम् ।
विश्वास-प्रस्तुतिः
स यदाह क्व भगवो ऽवात्सीस्तृणान्यस्मा आहरतेति तेनास्य तां शमयति या ऽस्य वाचि मेनिर्भवति ।
Haug
By saying, “Where,[4] O master, hast thou been residing (for so long a time)? Servants, bring (kuśa) grass for him,” the king propitiates the destructive power which is in Agni’s speech.
Haug - Notes
[4]The production of fire by means of friction is very fatiguing, as I can assure the reader, from having tried it once with the proper apparatus, used at the sacrifices for this purpose.
मूलम्
स यदाह क्व भगवो ऽवात्सीस्तृणान्यस्मा आहरतेति तेनास्य तां शमयति या ऽस्य वाचि मेनिर्भवति ।
विश्वास-प्रस्तुतिः
अथ यदस्मा उदकमानयन्ति पाद्यं तेनास्य तां शमयति या ऽस्य पादयोर्मेनिर्भवति ।
Haug
When they bring water for washing the feet, then the king propitiates the destructive power which is in Agni’s feet.
मूलम्
अथ यदस्मा उदकमानयन्ति पाद्यं तेनास्य तां शमयति या ऽस्य पादयोर्मेनिर्भवति ।
विश्वास-प्रस्तुतिः
अथ यदेनमलं कुर्वन्ति तेनास्य तां शमयति या ऽस्य त्वचि मेनिर्भवति ।
Haug
When they adorn him, then he propitiates by it the destructive power which is in Agni’s skin.
मूलम्
अथ यदेनमलं कुर्वन्ति तेनास्य तां शमयति या ऽस्य त्वचि मेनिर्भवति ।
विश्वास-प्रस्तुतिः
अथ यदेनं तर्पयन्ति तेनास्य तां शमयति या ऽस्य हृदये मेनिर्भवति ।
Haug
When they satiate him (with food), then the king propitiates the destructive power which is in Agni’s heart.
मूलम्
अथ यदेनं तर्पयन्ति तेनास्य तां शमयति या ऽस्य हृदये मेनिर्भवति ।
विश्वास-प्रस्तुतिः
अथ यदस्यानारुद्धो वेश्मसु वसति तेनास्य तां शमयति या ऽस्योपस्थे मेनिर्भवति ।
Haug
When Agni lives unrestrained (at ease) in the king’s premises, then he propitiates the destructive power which is in Agni’s organ of generation.
मूलम्
अथ यदस्यानारुद्धो वेश्मसु वसति तेनास्य तां शमयति या ऽस्योपस्थे मेनिर्भवति ।
विश्वास-प्रस्तुतिः
स एनं शान्ततनुरभिहुतो ऽभिप्रीतः स्वर्गं लोकमभिवहति क्षत्त्रं च बलं च राष्ट्रं च विशं च ।
Haug
Agni, then, if all the destructive powers which are in his body have been propitiated, and he is pleased by the king’s wish for sacrificing, conveys him to the heaven-worlds and (grants him) royal dignity, bravery, a kingdom, and subjects over whom he might rule.
मूलम्
स एनं शान्ततनुरभिहुतो ऽभिप्रीतः स्वर्गं लोकमभिवहति क्षत्त्रं च बलं च राष्ट्रं च विशं च ।
विश्वास-प्रस्तुतिः
स एवैनमशान्ततनुरनभिहुतो ऽनभिप्रीतः स्वार्गल्लोकान्नुदते क्षत्त्राच्च बलाच्च राष्ट्राच्च विशश्च ।
Haug
But should the king not do so, he will be deprived of all these gifts.
मूलम्
स एवैनमशान्ततनुरनभिहुतो ऽनभिप्रीतः स्वार्गल्लोकान्नुदते क्षत्त्राच्च बलाच्च राष्ट्राच्च विशश्च ।