एतेन ह वा ऐन्द्रे ण महाभिषेकेण दीर्घतमा मामतेयो भरतं दौःषन्तिमभिषिषेच तस्मादु भरतो दौःषन्तिः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वैरु च मेध्यैरीजे तदप्येते श्लोका अभिगीताः हिरण्येन पारिवृतान्कृष्णाञ्छुक्लदतो मृगान्मष्णारे भरतोऽददाच्छतम्बद्वानि सप्त च भरतस्यैष दौःषन्तेरग्निः साचीगुणे चितः यस्मिन्सहस्रम्ब्राह्मणा बद्वशो गा विभेजिरे अष्टासप्ततिम्भरतो दौःषन्ति-र्यमुनामनु गङ्गायां वृत्रघ्नेऽबध्नात्पञ्चपञ्चाशतं हयान्त्रयस्त्रिंशच्छतं राजाश्वा-न्बद्ध्वाय मेध्यान्दौःषन्तिरत्यगाद्रा ज्ञोऽमायान्मायवत्तरः महाकर्म भरतस्य न पूर्वे नापरे जनाः दिवम्मर्त्य इव हस्ताभ्यां नोदापुः पञ्च मानवा इत्येतं ह वा ऐन्द्र म्महाभिषेकम्बृहदुक्थ ऋषिर्दुर्मुखाय पाञ्चालाय प्रोवाच तस्मादु दुर्मुखः पाञ्चालो राजा सन्विद्यया समन्तं सर्वतः पृथिवीं जयन्परीयायैतं ह वा ऐन्द्र म्महाभिषेकं वासिष्ठः सात्यहव्योऽत्यरातये जानंतपये प्रोवाच तस्माद्वत्य-त्रातिर्जानंतपिरराजा सन्विद्यया समन्तं सर्वतः पृथिवीं जयन्परीयाय स होवाच वासिष्ठः सात्यहव्यो ऽजैषीर्वै समन्तं सर्वतः पृथिवीम्महन्मा गमयेति स होवाचात्यरातिर्जानंतपिर्यदा ब्राह्मणोत्तरकुरूञ्जयेयमथ त्वमु हैव पृथिव्यै राजा स्याः सेनापतिरेव तेऽहं स्यामिति स होवाच वासिष्ठः सात्यहव्यो देवक्षेत्रं वै तन्न वै तन्मर्त्यो जेतुमर्हत्यद्रुक्षो वै म आत इदं दद इति ततो हात्यरातिं जानंतपिमात्तवीर्यं निःशुक्रममित्रतपनः शुष्मिणः शैब्यो राजा जघान तस्मादेवं विदुषे ब्राह्मणायैवं चक्रुषे न क्षत्रियो द्रुह्येन्नेद्रा ष्ट्रदवपद्येय नेद्वा मा प्राणो जहदि
ति जहदिति २३
४