२२

एतेन ह वा ऐन्द्रे ण महाभिषेकेणोदमय आत्रेयोऽङ्गमभिषिषेच तस्माद्वाङ्गः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे स होवाचालोपाङ्गो दश नागसहस्राणि दश दासीसहस्राणि ददामि ते ब्राह्मणोप मास्मिन्यज्ञे ह्वयस्वेति तदप्येते श्लोका अभिगीताः याभिर्गोभिरुदमयम्प्रैयमेधा अयाजयन्द्वेद्वे सहस्रे बद्वानामात्रेयो मध्यतोऽददातष्टाशीतिसहस्राणि श्वेतान्वैरोचनो हयान्प्रष्टी-न्निश्चृत्य प्रायछद्यजमाने पुरोहिते देशाद्देशात्समोळ्हानां सर्वासामा-ढ्यदुहि-तृणां दशाददात्सहस्राण्यात्रेयो निष्ककण्ठ्यः दश नागसहस्राणि दत्त्वात्रे-योऽवचत्नुके श्रान्तः पारिकुटान्प्रैप्सद्दानेनाङ्गस्य ब्राह्मणः शतं तुभ्यं शतं तुभ्यमिति स्मैव प्रताम्यति सहास्रं तुभ्यमित्युक्त्वा प्राणान्स्म प्रतिपद्यत इति २२