२२

विश्वास-प्रस्तुतिः

एतेन ह वा ऐन्द्रेण महाभिषेकेणोदमय आत्रेयो ऽङ्गमभिषिषेच ।

Haug

(Continuation of the Preceding. Stanzas on the Liberality of Aṅga, Udamaya, and Virochana.)

With this ceremony, Udamaya, the son of Atri, inaugurated Aṅga.

मूलम्

एतेन ह वा ऐन्द्रेण महाभिषेकेणोदमय आत्रेयो ऽङ्गमभिषिषेच ।

विश्वास-प्रस्तुतिः

तस्माद्वङ्गः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे ।

Haug

Thence Aṅga went conquering everywhere over the whole earth, up to its ends, and sacrificed the sacrificial horse.

मूलम्

तस्माद्वङ्गः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे ।

विश्वास-प्रस्तुतिः

स होवाचालोपाङ्गो दश नागसहस्राणि दश दासीसहस्राणि ददामि ते ब्राह्मणोप मा ऽस्मिन्यज्ञे ह्वयस्वेति ।

Haug

This Aṅga, who was not defective in any respect (thence called alopâṅga), had once said, “I give thee, O Brahman, ten thousand elephants, and ten thousand slave girls, if you call me to this (thy) sacrifice.”[5]

Haug - Notes

[5]Udamaya, the son of Atri, was at this time himself the sacrificer. The Priyamedhas were his officiating priests.

मूलम्

स होवाचालोपाङ्गो दश नागसहस्राणि दश दासीसहस्राणि ददामि ते ब्राह्मणोप मा ऽस्मिन्यज्ञे ह्वयस्वेति ।

विश्वास-प्रस्तुतिः

तदप्येते श्लोका अभिगीताः याभिर्गोभिरुदमयं प्रैयमेधा अयाजयन् द्वे द्वे सहस्रे बद्वानामात्रेयो मध्यतो ऽददात् ।

Haug

Regarding them, the following (five) stanzas (ślokas) were sung:- (1) “Whatever cows the sons of Priyamedhas had ordered (Udamaya to give (in the midst of the sacrifice at the midday libation), the Atri son (Udamaya) at each time presented two thousand Badvas.[6]

Haug - Notes

[6]A Badva is, according to Sâyaṇa, 100 kotis, i.e., a billion. But I doubt very much whether this is the original meaning of badva. It is perhaps related to the Zend baévare, which means “ten thousand.”

मूलम्

तदप्येते श्लोका अभिगीताः याभिर्गोभिरुदमयं प्रैयमेधा अयाजयन् द्वे द्वे सहस्रे बद्वानामात्रेयो मध्यतो ऽददात् ।

विश्वास-प्रस्तुतिः

अष्टाशीतिः सहस्राणि श्वेतान्वैरोचनो हयान् प्रष्टीन्निश्चृत्य प्रायच्छद्यजमाने पुरोहिते ।

Haug

(2) “The son of Virochana loosened eighty-eight thousand white horses from their strings, and presented those, which were fit for drawing a carriage, to the sacrificing Purohita.”[7]

Haug - Notes

[7]This Śloka does not refer to king Aṅga.

मूलम्

अष्टाशीतिः सहस्राणि श्वेतान्वैरोचनो हयान् प्रष्टीन्निश्चृत्य प्रायच्छद्यजमाने पुरोहिते ।

विश्वास-प्रस्तुतिः

देशाद्देशात्समोह्ळानां सर्वासामाढ्यदुहितृणां दशाददात्सहस्राण्यात्रेयो निष्ककण्ठ्यः ।

Haug

(3) “The son of Atri presented ten thousand girls, well endowed with ornaments on their necks, who had been gathered from all quarters.”

मूलम्

देशाद्देशात्समोह्ळानां सर्वासामाढ्यदुहितृणां दशाददात्सहस्राण्यात्रेयो निष्ककण्ठ्यः ।

विश्वास-प्रस्तुतिः

दश नागसहस्राणि दत्त्वा ऽऽत्रेयो ऽवचत्नुके श्रान्तः पारिकुटान्प्रैप्सद्दानेनाङ्गस्य ब्राह्मणः ।

Haug

(4) The son of Atri, having given ten thousand elephants in the country Avachatnuka, the Brahman (Atri’s son) being tired, desired his servants (to take charge) of Aṅga’s gift.”

मूलम्

दश नागसहस्राणि दत्त्वा ऽऽत्रेयो ऽवचत्नुके श्रान्तः पारिकुटान्प्रैप्सद्दानेनाङ्गस्य ब्राह्मणः ।

विश्वास-प्रस्तुतिः

शतं तुभ्यं शतं तुभ्यमिति स्मैव प्रताम्यति ।

Haug

(5) “(From saying) I give thee a hundred (only), I give thee a hundred, he got tired;

मूलम्

शतं तुभ्यं शतं तुभ्यमिति स्मैव प्रताम्यति ।

विश्वास-प्रस्तुतिः

सहस्रं तुभ्यमित्युक्त्वा प्राणान्स्म प्रतिपद्यत इति ।

Haug

(thence) he said, I give thee a thousand, and stopped often in order to breathe, for there were too many thousands to be given”.

मूलम्

सहस्रं तुभ्यमित्युक्त्वा प्राणान्स्म प्रतिपद्यत इति ।