२१

विश्वास-प्रस्तुतिः

एतेन ह वा ऐन्द्रेण महाभिषेकेण तुरः कावषेयो जनमेजयं पारिक्षितमभिषिषेच ।

Haug

(What Kings had the Mahâbhiṣeka Ceremony Performed; their Conquest of the Whole Earth, and the Horse Sacrifices. Stanzas on Janamejaya, Viśvakarmâ and Marutta.)

Tura, the son of Kavaṣa, inaugurated with this great inauguration ceremony of Indra, Janamejaya, the son of Parikṣit.

मूलम्

एतेन ह वा ऐन्द्रेण महाभिषेकेण तुरः कावषेयो जनमेजयं पारिक्षितमभिषिषेच ।

विश्वास-प्रस्तुतिः

तस्मादु जनमेजयः पारिक्षितः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे ।

Haug

Thence Janamejaya went everywhere conquering the earth, up to its ends, and sacrificed the sacrificial horse.

मूलम्

तस्मादु जनमेजयः पारिक्षितः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे ।

विश्वास-प्रस्तुतिः

तदेषा ऽभि यज्ञगाथा गीयते आसन्दीवति धान्यादं रुक्मिणं हरितस्रजम् अश्वं बबन्ध सारङ्गं देवेभ्यो जनमेजय इति ।

Haug

To this fact refers the following Gāthā (stanza), which is sung: “In the land where the throne-seat was erected, Janamejaya bound a horse, which was eating grain, adorned with a mark on its forehead (rukmin), and with yellow flower garlands, which was walking over the best (fields full of fodder), for the gods.”

मूलम्

तदेषा ऽभि यज्ञगाथा गीयते आसन्दीवति धान्यादं रुक्मिणं हरितस्रजम् अश्वं बबन्ध सारङ्गं देवेभ्यो जनमेजय इति ।

विश्वास-प्रस्तुतिः

एतेन ह वा ऐन्द्रेण महाभिषेकेण च्यवनो भार्गवः शार्यातं मानवमभिषिषेच ।

Haug

With this ceremony, Śāryāta, the son of Manu, was inaugurated by Chyavana, the son of Bhṛigu.

मूलम्

एतेन ह वा ऐन्द्रेण महाभिषेकेण च्यवनो भार्गवः शार्यातं मानवमभिषिषेच ।

विश्वास-प्रस्तुतिः

तस्मादु शार्यातो मानवः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे देवानां हापि सत्रे गृहपतिरास ।

Haug

Thence Śārayāta went conquering all over the earth, and sacrificed the sacrificial horse, and was even, at the sacrificial session held by the gods, the house-father.

मूलम्

तस्मादु शार्यातो मानवः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे देवानां हापि सत्रे गृहपतिरास ।

विश्वास-प्रस्तुतिः

एतेन ह वा ऐन्द्रेण महाभिषेकेण सोमशुष्मा वाजरत्नायनः शतानीकं सात्राजितमभिषिषेच ।

Haug

With this ceremony, Somaśuṣmā, the son of Vājaratna, inaugurated Śatānīka, the son Satrājit.

मूलम्

एतेन ह वा ऐन्द्रेण महाभिषेकेण सोमशुष्मा वाजरत्नायनः शतानीकं सात्राजितमभिषिषेच ।

विश्वास-प्रस्तुतिः

तस्मादु शतानीकः सात्राजितः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे ।

Haug

Thence Śatānīka went conquering everywhere over the whole earth, up to its ends, and sacrificed the sacrificial horse.

मूलम्

तस्मादु शतानीकः सात्राजितः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे ।

विश्वास-प्रस्तुतिः

एतेन ह वा ऐन्द्रेण महाभिषेकेण पर्वतनारदावाम्बाष्ठ्यमभिषिषिचतुः ।

Haug

With this ceremony, Parvata and Nârada inaugurated Ambaṣṭya.

मूलम्

एतेन ह वा ऐन्द्रेण महाभिषेकेण पर्वतनारदावाम्बाष्ठ्यमभिषिषिचतुः ।

विश्वास-प्रस्तुतिः

तस्माद्वाम्बाष्ठ्यः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे ।

Haug

Thence Ambaṣṭya went conquering everywhere over the whole earth, up to its ends, and sacrificed the sacrificial horse.

मूलम्

तस्माद्वाम्बाष्ठ्यः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे ।

विश्वास-प्रस्तुतिः

एतेन ह वा ऐन्द्रेण महाभिषेकेण पर्वतनारदौ युधांश्रौष्टिमौग्रसैन्यमभिषिषिचतुः ।

Haug

With this ceremony Parvata and Nârada inaugurated Yudhâṁśrauṣṭi, the son of Ugrasena.

मूलम्

एतेन ह वा ऐन्द्रेण महाभिषेकेण पर्वतनारदौ युधांश्रौष्टिमौग्रसैन्यमभिषिषिचतुः ।

विश्वास-प्रस्तुतिः

तस्मादु युधांश्रौष्टिरौग्रसैन्यः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे ।

Haug

Thence Yudhâṁśrauṣṭi went conquering everywhere over the whole earth, up to its ends, and sacrificed the sacrificial horse.

मूलम्

तस्मादु युधांश्रौष्टिरौग्रसैन्यः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे ।

विश्वास-प्रस्तुतिः

एतेन ह वा ऐन्द्रेण महाभिषेकेण कश्यपो विश्वकर्माणं भौवनमभिषिषेच ।

Haug

With this inauguration ceremony, Kaśyapa inaugurated Viśvakarmā, the son of Bhuvana.

मूलम्

एतेन ह वा ऐन्द्रेण महाभिषेकेण कश्यपो विश्वकर्माणं भौवनमभिषिषेच ।

विश्वास-प्रस्तुतिः

तस्मादु विश्वकर्मा भौवनः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे ।

Haug

Thence Viśvakarmā went conquering everywhere over the whole earth, up to its enls, and sacrificed the sacrificial horse.

मूलम्

तस्मादु विश्वकर्मा भौवनः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे ।

विश्वास-प्रस्तुतिः

भूमिर्ह जगावित्युदाहरन्ति ।

Haug

They say that the earth sang to Viśvakarmā the following stanza:

मूलम्

भूमिर्ह जगावित्युदाहरन्ति ।

विश्वास-प्रस्तुतिः

न मा मर्त्यः कश्चन दातुमर्हति विश्वकर्मन्भौवन मां दिदासिथ निमङ्क्ष्ये ऽहं सलिलस्य मध्ये मोघस्त एष कश्यपाया ऽऽस सङ्गर इति ।

Haug

“No mortal is allowed to give me away (as donation),[4] O Viśvakarmā, thou hast given me, (therefore) I shall plunge into the midst of the sea. In vain was thy promise made to Kaśyapa.”

Haug - Notes

[4]The king had promised the whole earth as gift to his officiating priest.

मूलम्

न मा मर्त्यः कश्चन दातुमर्हति विश्वकर्मन्भौवन मां दिदासिथ निमङ्क्ष्ये ऽहं सलिलस्य मध्ये मोघस्त एष कश्यपाया ऽऽस सङ्गर इति ।

विश्वास-प्रस्तुतिः

एतेन ह वा ऐन्द्रेण महाभिषेकेण वसिष्ठः सुदासं पैजवनमभिषिषेच ।

Haug

With this ceremony Vasiṣṭha inaugurated Sudâs, the son of Pijavana.

मूलम्

एतेन ह वा ऐन्द्रेण महाभिषेकेण वसिष्ठः सुदासं पैजवनमभिषिषेच ।

विश्वास-प्रस्तुतिः

तस्मादु सुदाः पैजवनः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे ।

Haug

Thence Sudâs went conquering everywhere over the whole earth, up to its ends, and sacrificed the sacrificial horse.

मूलम्

तस्मादु सुदाः पैजवनः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे ।

विश्वास-प्रस्तुतिः

एतेन ह वा ऐन्द्रेण महाभिषेकेण संवर्त आङ्गिरसो मरुत्तमाविक्षितमभिषिषेच ।

Haug

With this inauguration ceremony Saṁvarta, the son of Aṅgiras, inaugurated Marutta, the son of Avikshit.

मूलम्

एतेन ह वा ऐन्द्रेण महाभिषेकेण संवर्त आङ्गिरसो मरुत्तमाविक्षितमभिषिषेच ।

विश्वास-प्रस्तुतिः

तस्मादु मरुत्त आविक्षितः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे ।

Haug

Thence Marutta went conquering everywhere over the whole earth, up to its ends, and sacrificed the sacrificial horse.

मूलम्

तस्मादु मरुत्त आविक्षितः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे ।

विश्वास-प्रस्तुतिः

तदप्येष श्लोको ऽभिगीतः मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ।

Haug

Regarding this event, there is the following Stotra chanted: “The Maruts resided as distributors of food in the house of Marutta, the son of Avikṣit, who had fulfilled all his desires; all the gods were present at the gathering.”

मूलम्

तदप्येष श्लोको ऽभिगीतः मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ।