एतेन ह वा ऐन्द्रे न महाभिषेकेण तुरः कावषेयो जनमेजयम्पारिक्षितमभिषिषेच तस्मादु जनमेजयः पारिक्षितः समन्तं सर्वतः पृथिवीन्जयन्परीयायाश्वेन च मेध्येनेजे तदेषाभि यज्ञगाथा गीयते आसन्दीवति धान्यादं रुक्मिणं हरित-स्रजमश्वम्बहन्ध सारङ्गं देवेभ्यो जनमेजय इत्येतेन ह वा अनिद्रे ण महाभिषेकेण च्यवनो भार्गवः शार्यातम्मानवमभिषिषेच तस्मादु शार्यातो मानवः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे देवानां हापि सत्रे गृहपतिरासैतेन ह वा ऐन्द्रे ण महाभिषेकेण सोमशुष्मा वाजरत्नायनः शतानीकं सात्राजितम-भिषिषेच तस्मादु शतनीकः सात्राजितः समन्तं सर्वतः पृथिवीं जयन्परी-यायाश्वेन च मेध्येनेज एतेन ह वा ऐन्द्रे ण महाभिषेकेण पर्वतनारदा-वाम्बाष्ठ्यमभिषिषिचतुस्तस्माद्वाम्बाष्ठ्यः समन्तं सर्वतः पृथिवीं जयन्परीया-याश्वेन च मेध्येनेज एतेन ह वा ऐन्द्रे ण महाभिषेकेण पर्वतनारदौ युधां-श्रौष्टिमर्ङ्ग्रसैन्यमभिषिषिचतुस्तस्मादु युधांश्रौष्टिरौग्रसैन्यः समन्तं सर्वतः पृथि-वीं जयन्परीयायाश्वेन च मेध्येनेज एतेन ह वा ऐन्द्रे णा महाभिषेकेणा कश्यपो विश्वकर्माणम्भौवनमभिषिषेच तस्मादु विश्वकर्मा भौवनः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे भूमिर्ह जगावित्युदाहरन्ति न मा मर्त्यः कश्चन दातुमर्हति विश्वकर्मन्भौवन मां दिदासिथ निमङ्क्ष्येऽहं सलिलस्य मध्ये मोघस्त एष कश्यपायास संगर इत्येतेन ह वा ऐन्द्रे ण महाभिषेकेण वसिष्ठह् सुदासम्पैजवनमभिषिषेच तस्मादु सुदाः पैजवनः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेज एतेन ह वा ऐन्द्रे ण महाभिषेकेण संवर्त आङ्गिरसो मरुत्तमविक्षितमभिषिषेच तस्मादु मरोत्त आविक्षितः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो
मरुत्तस्यावसन्गृहे आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति २१