२०

इन्द्रि यं वा एतदस्मिँ ल्लोके यद्दधि यद्दध्नाभिषिञ्चतीन्द्रि यमेवास्मिंस्तद्दधाति रसो वा एष ओषधिवनस्पतिषु यन्मधु यन्मध्वाभिषिञ्चति रसमेवा-स्मिंस्तद्दधाति तेजो वा एतत्पशूनां यद्घृतं यद्घृतेनाभिषिञ्चति तेज एवास्मिंस्त-द्दधात्यमृतं वा एतदस्मिँ ल्लोके यदापो यदद्भिरभिषिञ्चत्यमृतत्वमेवास्मिं-स्तद्दधाति सोऽभिषिक्तोऽभिषेक्त्रे ब्राह्मणाय हिरण्यं दद्यात्सहस्रं दद्यात्क्षेत्रं चतुष्पाद्दद्यादथाप्याहुरसंख्यातमेवापरिमितं दद्यादपरिमितो वै क्षत्रियोऽपरि-मितस्यावरुद्ध्या इत्यथास्मै सुराकंसं हस्त आदधाति स्वादिष्ठया मदिष्ठया पवस्व सोम धारया इन्द्रा य पातवे सुत इति ताम्पिबेद्यदत्र शिष्टं रसिनः सुतस्य यदिन्द्रो अपिबच्छचीभिः इदं तदस्य मनसा शिवेन सोमं राजानमिह भक्षायमि अभि त्वा वृषभा सुते सुतं सृजामि पीतये तृम्प व्यश्नुही मदमिति यो ह वाव सोमपीथः सुरायाम्प्रविष्टः स हैव तेनैन्द्रे ण महाभिषेकेणाभिषिक्तस्य क्षत्रियस्य भक्षितो भवति न सुरा ताम्पीत्वाभिमन्त्रयेतपाम सोमं शं नो भवेति तद्यथैवादः प्रियः पुत्रः पितरम्प्रिया वा जाया पतिं सुखं शिवमुपस्पृशत्या विस्रस एवं हैवैतेनैन्द्रे ण महाभिषेकेणाभिषिक्तस्य क्षत्रियस्य सुरा वा सोमो वान्यद्वान्नाद्यं

सुखं शिवमुपस्पृशत्या विस्रसः २०