प्राच्यां त्वा दिशि वसवो देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः साम्राज्याय दक्षिणस्यां त्वा दिशि रुद्रा देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिर्भौज्याय प्रतीच्यां त्वा दिश्यादित्या देवाः षड्भिश्चैव पञ्चविंशै-रहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः स्वाराज्या-योदीच्यां त्वा दिशि विश्वे देवाः षड्भिश्चैव पञ्चविन्शैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेना च यजुषैताभिश्चा व्याहृतिभिर्वैराज्यायोर्ध्वायां त्वा दिशि मरुतश्चाङ्गिरासश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याह्बृतिभिः पारमेष्ठ्यायास्यां त्वा ध्रुवायां मध्यमाया-म्प्रतिष्ठायां दिशि साध्याश्चाप्त्याश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभि-षिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभी राज्याय माहारा-ज्याधिपत्याय स्वावश्यायाधिष्ठायेति स परमेष्ठी प्राजापत्यो भवति स एतेनैन्द्रे न महाभिषेकेणाभिषिक्तः क्षत्रियः सर्वा जितीर्जयति सर्वांल्लोका-न्विन्दति सर्वेषां राज्ञां श्रैष्ठ्यमतिष्ठाम्परमतां गछति साम्राज्यम्भौज्यं स्वा-राज्यम्पारमेष्ठ्यं राज्यम्माहाराज्यमाधिपत्यं जित्वास्मिँ ल्लोके स्वयम्भूः स्वराळमृतोऽमुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वामृतः सम्भवति यमेतेननिद्रे न
महाभिषेकेण क्षत्रियं शापयित्वा भिषिञ्चति १९