१७

विश्वास-प्रस्तुतिः

अथास्मा औदुम्बरीमासन्दीं सम्भरन्ति ।

Haug

(The Implements for Making Mahâbhiṣeka.)

Now they bring for him a throne-seat made of Udumbara wood,

मूलम्

अथास्मा औदुम्बरीमासन्दीं सम्भरन्ति ।

विश्वास-प्रस्तुतिः

तस्या उक्तं ब्राह्मणम् ।

Haug

of which the Brâhmaṇam has been already told (see 8, 8).

मूलम्

तस्या उक्तं ब्राह्मणम् ।

विश्वास-प्रस्तुतिः

औदुम्बरश्चमसो वा पात्री वोदुम्बरशाखा ।

Haug

The ladle of Udumbara wood is here optional; instead of it, a vessel of the same wood (pâtrî) may be taken. Besides, they bring an Udumbara branch.

मूलम्

औदुम्बरश्चमसो वा पात्री वोदुम्बरशाखा ।

विश्वास-प्रस्तुतिः

तानेतान्सम्भारान्सम्भृत्यौदुम्बर्यां पात्र्यां वा चमसे वा समावपेयुः ।

Haug

Then they mix those four kinds of fruit and grain in a vessel,

मूलम्

तानेतान्सम्भारान्सम्भृत्यौदुम्बर्यां पात्र्यां वा चमसे वा समावपेयुः ।

विश्वास-प्रस्तुतिः

तेषु समोप्तेषु दधि मधु सर्पिरातपवर्ष्या आपो ऽभ्यानीय प्रतिष्ठाप्यैतमासन्दीमभिमन्त्रयेत ।

Haug

and, after having poured over them curds, honey, clarified butter, and rain-water fallen during sunshine, put it down.

मूलम्

तेषु समोप्तेषु दधि मधु सर्पिरातपवर्ष्या आपो ऽभ्यानीय प्रतिष्ठाप्यैतमासन्दीमभिमन्त्रयेत ।

विश्वास-प्रस्तुतिः

बृहच्च ते रथन्तरं च पूर्वौ पादौ भवतां वैरूपं च वैराजं चापरौ शाक्वररैवते शीर्षण्ये नौधसं च कालेयं चानूच्ये ऋचः प्राचीनातानाःसामानि तिरश्चीनवाया यजूंष्यतीकाशा यश आस्तरणं श्रीरुपबर्हणम् ।

Haug

He (the priest) should then consecrate the throne-seat in the following way: “thy two forelegs are the Brihat and Rathantaram Sāmans, etc. (just as above, see 8, 12).

सविता च ते बृहस्पतिश्च पूर्वौ पादौ धारयतां वायुश्च पूषा चापरौ मित्रावरुणौ शीर्षण्ये अश्विनावनूच्ये इति ।

अथैनमेतामासन्दीमारोहयेत् वसवस्त्वा गायत्रेण च्छन्दसा त्रिवृता स्तोमेन रथन्तरेण साम्ना ऽऽरोहन्तु तानन्वारोह साम्राज्याय ।

Haug

Then let him cause him to mount this throne, saying, ‘May the Vasus mount thee with the Gāyatrī metre, with the Trivṛt Stoma, with the Rathantara Sāman; them I mount after for universal sovereignty.

मूलम्

अथैनमेतामासन्दीमारोहयेत् वसवस्त्वा गायत्रेण च्छन्दसा त्रिवृता स्तोमेन रथन्तरेण साम्ना ऽऽरोहन्तु तानन्वारोह साम्राज्याय ।

विश्वास-प्रस्तुतिः

रुद्रास्त्वा त्रैष्टुभेन च्छन्दसा पञ्चदशेन स्तोमेन बृहता साम्ना ऽऽरोहन्तु तानन्वारोह भौज्याय ।

Haug

‘May the Rudras mount thee with the Triṣṭubh metre, with the fifteen-fold Stoma, with the Bṛhat Sāman; them I mount after for enjoyment.

मूलम्

रुद्रास्त्वा त्रैष्टुभेन च्छन्दसा पञ्चदशेन स्तोमेन बृहता साम्ना ऽऽरोहन्तु तानन्वारोह भौज्याय ।

विश्वास-प्रस्तुतिः

आदित्यास्त्वा जागतेन च्छन्दसा सप्तदशेन स्तोमेन वैरूपेण साम्ना ऽऽरोहन्तु तानन्वारोह स्वाराज्याय ।

Haug

May the Adityas mount thee with the Jagatī metre, with the seventeen-fold Stoma, with the Vairūpa Sāman; them I mount after for self-rule.

मूलम्

आदित्यास्त्वा जागतेन च्छन्दसा सप्तदशेन स्तोमेन वैरूपेण साम्ना ऽऽरोहन्तु तानन्वारोह स्वाराज्याय ।

विश्वास-प्रस्तुतिः

विश्वे त्वा देवा आनुष्टुभेन च्छन्दसैकविंशेन स्तोमेन वैराजेन साम्ना ऽऽरोहन्तु तानन्वारोह वैराज्याय ।

Haug

May the All-gods mount thee with the Anuṣṭubh metre, with the twenty-one-fold Stoma, with the Vairāja Sāman; them I mount after for wide rule.

मूलम्

विश्वे त्वा देवा आनुष्टुभेन च्छन्दसैकविंशेन स्तोमेन वैराजेन साम्ना ऽऽरोहन्तु तानन्वारोह वैराज्याय ।

विश्वास-प्रस्तुतिः

मरुतश्च त्वा ऽङ्गिरसश्च देवा अतिच्छन्दसा छन्दसा त्रयस्त्रिंशेन स्तोमेन रैवतेन साम्ना ऽऽरोहन्तु तानन्वारोह पारमेष्ठ्याय ।

Haug

May the Maruts and the Aṅgirases, the gods, mount thee with the Atichandas metre, with the thirty-three-fold Stoma, with the Raivata Sāman; them I mount after for the supreme station.

मूलम्

मरुतश्च त्वा ऽङ्गिरसश्च देवा अतिच्छन्दसा छन्दसा त्रयस्त्रिंशेन स्तोमेन रैवतेन साम्ना ऽऽरोहन्तु तानन्वारोह पारमेष्ठ्याय ।

विश्वास-प्रस्तुतिः

साध्याश्च त्वा ऽऽप्त्याश्च देवाः पाङ्क्तेन च्छन्दसा त्रिणवेन स्तोमेन शाक्वरेण साम्ना ऽऽरोहन्तु तानन्वारोह राज्याय माहाराज्याया ऽऽधिपत्याय स्वावश्याया ऽऽतिष्ठाया ऽऽरोहेत्येतामासन्दीमारोहयेत् ।

Haug

May the Sādhyas and the Āptyas, the gods, mount thee with the Paṅkti metre, with the Triṇava Stoma, with the Śākvara Sāman; them I mount after for kingship, for great kingship, for lordship, for independence, for abiding, with these words let him cause him to mount this throne.

मूलम्

साध्याश्च त्वा ऽऽप्त्याश्च देवाः पाङ्क्तेन च्छन्दसा त्रिणवेन स्तोमेन शाक्वरेण साम्ना ऽऽरोहन्तु तानन्वारोह राज्याय माहाराज्याया ऽऽधिपत्याय स्वावश्याया ऽऽतिष्ठाया ऽऽरोहेत्येतामासन्दीमारोहयेत् ।

विश्वास-प्रस्तुतिः

तमेतस्यामासन्द्यामासीनं राजकर्तारो ब्रूयुः ।

Haug

Him sitting on this throne the king-makers should address.

मूलम्

तमेतस्यामासन्द्यामासीनं राजकर्तारो ब्रूयुः ।

विश्वास-प्रस्तुतिः

न वा अनभ्युत्क्रुष्टः क्षत्त्रियो वीर्यं कर्तुमर्हति ।

Haug

A Kshatriya not proclaimed cannot perform a deed of valour.

मूलम्

न वा अनभ्युत्क्रुष्टः क्षत्त्रियो वीर्यं कर्तुमर्हति ।

विश्वास-प्रस्तुतिः

अभ्येनमुत्क्रोशामेति तथेति ।

Haug

Let us proclaim him. ‘So be it.’

मूलम्

अभ्येनमुत्क्रोशामेति तथेति ।

विश्वास-प्रस्तुतिः

तं राजकर्तारो ऽभ्युत्क्रोशन्तीमं जना अभ्युत्क्रोशत सम्राजं साम्राज्यं भोजं भोजपितरं स्वराजं स्वाराज्यं विराजं वैराज्यं परमेष्ठिनं पारमेष्ठ्यं राजानां राजपितरम् ।

Haug

Him the king-makers proclaim, ‘Proclaim this man, O people, as emperor for empire, as enjoyer, as father of enjoyers, as self-ruler, for self-rule, as wide-ruler for wide-rule, as supreme ruler, for the supreme station, as king, as father of kings.’

मूलम्

तं राजकर्तारो ऽभ्युत्क्रोशन्तीमं जना अभ्युत्क्रोशत सम्राजं साम्राज्यं भोजं भोजपितरं स्वराजं स्वाराज्यं विराजं वैराज्यं परमेष्ठिनं पारमेष्ठ्यं राजानां राजपितरम् ।

विश्वास-प्रस्तुतिः

क्षत्त्रमजनि क्षत्त्रियो ऽजनि विश्वस्य भूतस्याधिपतिरजनि विशामत्ता ऽजन्यमित्राणां हन्ता ऽजनि ब्राह्मणानां गोप्ता ऽजनि धर्मस्य गोप्ता ऽजनीति ।

Haug

‘Power is born, the Kshatriya is born, the lord of all beings is born, the eater of the people is born, the slayer of enemies is born, the protector of the Brahmans is born, the protector of the law is born.’

मूलम्

क्षत्त्रमजनि क्षत्त्रियो ऽजनि विश्वस्य भूतस्याधिपतिरजनि विशामत्ता ऽजन्यमित्राणां हन्ता ऽजनि ब्राह्मणानां गोप्ता ऽजनि धर्मस्य गोप्ता ऽजनीति ।

विश्वास-प्रस्तुतिः

तमभ्युत्क्रुष्टमेवंविदभिषेक्ष्यन्नेतयर्चा ऽभिमन्त्रयेत ।

Haug

Him thus proclaimed, one who knows thus, being about to consecrate, should address with this verse.

मूलम्

तमभ्युत्क्रुष्टमेवंविदभिषेक्ष्यन्नेतयर्चा ऽभिमन्त्रयेत ।