१७

अथास्मा औदुम्बरीमासन्दीं सम्भरन्ति तस्या उक्तम्ब्राह्मणमौदुम्बरश्चमसो वा पात्री वोदुम्बरशाखा तानेतान्सम्भारान्सम्भृत्यौदुम्बर्याम्पात्र्यां वा चमसे वा समावपेयुस्तेषु समोप्तेषु दधि मधु सर्पिरातपवर्ष्या आपोऽभ्यानीय प्रति-ष्ठाप्यैतमासन्दीमभिमन्त्रयेत बृहच्च ते रथंतरं च पूर्वौ पादौ भवतां वैरूपं च वैराजं चापरौ शाक्वररैवते शीर्षण्ये नौधसं च कालेयं चानूच्ये ऋचः प्राची-नातानाःसामानि तिरश्चीनवाया यजूंष्यतीकाशा यश आस्तरणं श्रीरुपबर्हणं सविता च ते बृहस्पतिश्च पूर्वौ पादौ धारयतां वायुश्च पूषा चापरौ मित्रावरुणौ शीर्षण्ये अश्विनावनूच्ये इत्यथैनं एतामासन्दीमारोहयेद्वसवस्त्वा गायत्रेण छन्दसा त्रिवृता स्तोमेन रथंतरेण साम्नारोहन्तु तानन्वारोह साम्राज्याय रुद्रा स्त्वा त्रैष्टुभेन छन्दसा पञ्चदशेन स्तोमेन बृहता साम्नारोहन्तु तानन्वारोह भौज्याया दित्यास्त्वा जागतेन छन्दसा सप्तदशेन स्तोमेन वैरूपेण साम्नारोहन्तु तानन्वारोह स्वाराज्याय विश्वे त्वा देवा आनुष्टुभेन छन्दसैकविंशेन स्तोमेन वैराजेन साम्नारोहन्तु तानन्वारोह वैराज्याय मरुतश्च त्वाङ्गिरसश्च देवा अतिछन्दसा छन्दसा त्रयस्त्रिंशेन स्तोमेन रैवतेन साम्नारोहन्तु तानन्वारोह पारमेष्ठ्याय साध्याश्च त्वाप्त्याश्च देवाः पाङ्क्तेन छन्दसा त्रिणवेन स्तोमेन शाक्वरेण साम्नारोहन्तु तानन्वारोह राज्याय माहाराज्यायाधिपत्याय स्वावश्यायातिष्ठायारोहेत्येतामासन्दीमारोहयेत्तमेतस्यामासन्द्यामासीनं राजकर्तारो ब्रूयुर्न वा अनभ्युत्क्रुष्टः क्षत्रियो वीर्यं कर्तुमर्हत्यभ्येनमुत्क्रोशामेति तथेति तं राजकर्तारोऽभ्युत्क्रोशन्तीमं जना अभ्युत्क्रोशत सम्राजं साम्राज्यम्भो-जम्भोजपितरं स्वराजं स्वाराज्यं विराजं वैराज्यम्परमेष्ठिनम्पारमेष्ठ्यं राजानां राजपितरं क्षत्रमजनि क्षत्रियोऽजनि विश्वस्य भूतस्याधिपतिरजनि विशामत्ता-जन्यमित्राणां हन्ताजनि ब्राह्मणानाङ्गोप्ताजनि धर्मस्य गोप्ताजनीति तमभ्युत्क्रुष्टमेवंविदभिषेक्ष्यन्नेतयर्चाभिमन्त्रयेत १७