१६

विश्वास-प्रस्तुतिः

अथ ततो ब्रूयाच्चतुष्टयानि वानस्पत्यानि सम्भरत नैयग्रोधान्यौदुम्बराण्याश्वत्थानि प्लाक्षाणीति ।

Haug

(The Woods and Grains Required for the Performance of Mahâbhiṣeka.)

The priest then shall say (to his attendants), “Bring four kinds of wood: Nyagrodha, Udumbara, Aśvattha, and Plakṣa.”

मूलम्

अथ ततो ब्रूयाच्चतुष्टयानि वानस्पत्यानि सम्भरत नैयग्रोधान्यौदुम्बराण्याश्वत्थानि प्लाक्षाणीति ।

विश्वास-प्रस्तुतिः

क्षत्त्रं वा एतद्वनस्पतीनां यन्न्यग्रोधः ।

Haug

Among the trees, the Nyagrodha is the Kṣattra.

मूलम्

क्षत्त्रं वा एतद्वनस्पतीनां यन्न्यग्रोधः ।

विश्वास-प्रस्तुतिः

यन्नैयग्रोधानि सम्भरन्ति क्षत्त्रमेवास्मिंस्तद्दधाति ।

Haug

Thus, by bringing Nyagrodha wood, he places in the king the Kṣattram,

मूलम्

यन्नैयग्रोधानि सम्भरन्ति क्षत्त्रमेवास्मिंस्तद्दधाति ।

विश्वास-प्रस्तुतिः

भौज्यं वा एतद्वनस्पतीनां यदुदुम्बरः यदौदुम्बराणि सम्भरन्ति भौज्यमेवास्मिंस्तद्दधाति ।

Haug

the Udumbara representing the enjoyment,

मूलम्

भौज्यं वा एतद्वनस्पतीनां यदुदुम्बरः यदौदुम्बराणि सम्भरन्ति भौज्यमेवास्मिंस्तद्दधाति ।

विश्वास-प्रस्तुतिः

साम्राज्यं वा एतद्वनस्पतीनां यदश्वत्थः यदाश्वत्थानि सम्भरन्ति साम्राज्यमेवास्मिंस्तद्दधाति ।

Haug

the Aśvattha universal sovereignty,

मूलम्

साम्राज्यं वा एतद्वनस्पतीनां यदश्वत्थः यदाश्वत्थानि सम्भरन्ति साम्राज्यमेवास्मिंस्तद्दधाति ।

विश्वास-प्रस्तुतिः

स्वाराज्यं च ह वा एतद्वैराज्यं च वनस्पतीनां यत्प्लक्षः ।

Haug

the Plakṣa independence and freedom of the rule of another king.

मूलम्

स्वाराज्यं च ह वा एतद्वैराज्यं च वनस्पतीनां यत्प्लक्षः ।

विश्वास-प्रस्तुतिः

यत्प्लाक्षाणि सम्भरन्ति स्वाराज्यवैराज्ये एवास्मिंस्तद्दधाति ।

Haug

The priest, by having these woods brought to the spot, thus makes the king participate in all these qualities (universal sovereignty, &c., &c.).

मूलम्

यत्प्लाक्षाणि सम्भरन्ति स्वाराज्यवैराज्ये एवास्मिंस्तद्दधाति ।

विश्वास-प्रस्तुतिः

अथ ततो ब्रूयाच्चतुष्टयान्यौषधानि सम्भरत तोक्मकृतानि व्रीहीणां महाव्रीहीणां प्रियङ्गूनां यवानामिति ।

Haug

Next he shall order to bring four kinds of grain from vegetables (auṣadha tokmakṛita), viz., rice with small grains, rice with large grains, Priyaṅgu, and barley.

मूलम्

अथ ततो ब्रूयाच्चतुष्टयान्यौषधानि सम्भरत तोक्मकृतानि व्रीहीणां महाव्रीहीणां प्रियङ्गूनां यवानामिति ।

विश्वास-प्रस्तुतिः

क्षत्त्रं वा एतदोषधीनां यद्व्रीहयः ।

Haug

For, amongst herbs, rice with small grains represents the Kṣattra.

मूलम्

क्षत्त्रं वा एतदोषधीनां यद्व्रीहयः ।

विश्वास-प्रस्तुतिः

यद्व्रीहीणां तोक्म सम्भरन्ति क्षत्त्रमेवास्मिंस्तद्दधाति ।

Haug

Thus, by bringing sprouts of such grains, he places the Kṣattra in him.

मूलम्

यद्व्रीहीणां तोक्म सम्भरन्ति क्षत्त्रमेवास्मिंस्तद्दधाति ।

विश्वास-प्रस्तुतिः

साम्राज्यं वा एतदोषधीनां यन्महाव्रीहयः ।

Haug

Rice with large grains represents universal sovereignty.

मूलम्

साम्राज्यं वा एतदोषधीनां यन्महाव्रीहयः ।

विश्वास-प्रस्तुतिः

यन्माहाव्रीहीणां तोक्म सम्भरन्ति साम्राज्यमेवास्मिंस्तद्दधाति ।

Haug

Therefore, by bringing sprouts of such grains (to the spot), he places universal sovereignty in him.

मूलम्

यन्माहाव्रीहीणां तोक्म सम्भरन्ति साम्राज्यमेवास्मिंस्तद्दधाति ।

विश्वास-प्रस्तुतिः

भौज्यं वा एतदोषधीनां यत्प्रियङ्गवः ।

Haug

The Priyaṅgus, among herbs, represent enjoyment of pleasures.

मूलम्

भौज्यं वा एतदोषधीनां यत्प्रियङ्गवः ।

विश्वास-प्रस्तुतिः

यत्प्रियङ्गूनां तोक्म सम्भरन्ति भौज्यमेवास्मिंस्तद्दधाति ।

Haug

By bringing their sprouts, he places the enjoyment of pleasures in him.

मूलम्

यत्प्रियङ्गूनां तोक्म सम्भरन्ति भौज्यमेवास्मिंस्तद्दधाति ।

विश्वास-प्रस्तुतिः

सैनान्यं वा एतदोषधीनां यद्यवाः ।

Haug

Barley represents the skill as military commander.

मूलम्

सैनान्यं वा एतदोषधीनां यद्यवाः ।

विश्वास-प्रस्तुतिः

यद्यवानां तोक्म सम्भरन्ति सैनान्यमेवास्मिंस्तद्दधाति ।

Haug

By bringing their sprouts, he places such a skill in him (the king).

मूलम्

यद्यवानां तोक्म सम्भरन्ति सैनान्यमेवास्मिंस्तद्दधाति ।