१६

अथ ततो ब्रूयच् चतुष्टयानि वानस्पत्यानि सम्भरत नैयग्रोधान्यौदुम्बरा-ण्याश्वत्थानि प्लाक्षाणीति क्षत्रं वा एतद्वनस्पतीनां यन्न्यग्रोधो यन्नैयग्रोधानि सम्भरन्ति क्षत्रमेवास्मिंस्तद्दधाति भौज्यं वा एतद्वनस्पतीनां यदुदुम्बरो यदौ-दुम्बराणि सम्भरन्ति भौज्यमेवास्मिंस्तद्दधाति साम्राज्यं वा एतद्वनस्पतीनां यदश्वत्थो यदाश्वत्थानि सम्भरन्ति साम्राज्यमेवास्मिंस्तद्दधाति स्वाराज्यं च ह वा एतद्वैराज्यं च वनस्पतीनां यत्प्लक्षो यत्प्लाक्षाणि सम्भरन्ति स्वाराज्य-वैराज्ये एवास्मिंस्तद्दधात्यथ ततो ब्रूयाच् चतुष्टयान्यौषधानि सम्भरत तोक्म-कृतानि व्रीहीणाम्महाव्रीहीणाम्प्रियंगूनां यवानामिति क्षत्रं वा एतदोषधीनां यद्व्रीहयो यद्व्रीहीणां तोक्म सम्भरन्ति क्षत्रमेवास्मिंस्तद्दधाति साम्राज्यं वा एतदोषधीनां यन्महाव्रीहयो यन्माहाव्रीहीणां तोक्म सम्भरन्ति साम्राज्यमेवा-स्मिंस्तद्दधाति भौज्यं वा एतदोषधीनां यत्प्रियंगवो यत्प्रियंगूनां तोक्म सम्भरन्ति भौज्यमेवास्मिंस्तद्दधाति सैनान्यं वा एतदोषधीनां यद्यवा यद्यवानां तोक्म

सम्भरन्ति सैनान्यमेवास्मिंस्तद्दधाति १६