विश्वास-प्रस्तुतिः
स य इच्छेदेवंवित्क्षत्त्रियमयं सर्वा जितीर्जयेतायं सर्वाँल्लोकान्विन्देतायं सर्वेषां राज्ञां श्रैष्ठ्यमतिष्ठां परमतां गच्छेत साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्सार्वभौमः सार्वायुष आ ऽन्तादा परार्धात्पृथिव्यै समुद्रपर्यन्ताया एकराळिति ।
Haug
(The Mahâbhiṣeka Ceremony Performed on a King. What Riṣis Performed it, and for what Kings they Performed it.)
The priest who, with this knowledge (about the Mahâbhiṣeka ceremony), wishes that a Kṣattriya should conquer in all the various ways of conquest, to subjugate all people, and that he should attain to leadership, precedence, and supremacy over all kings, and attain everywhere and at all times to universal sovereignty, enjoyment (of pleasures), independence, distinguished distinction as king, the fulfilment of the highest desires, the position of a king, of a great king, and supreme mastership, that he might cross (with his arms) the universe, and become the ruler of the whole earth during all his life, which may last for an infinitely long time, that he might be the sole king of the earth up to its shores bordering on the ocean;
मूलम्
स य इच्छेदेवंवित्क्षत्त्रियमयं सर्वा जितीर्जयेतायं सर्वाँल्लोकान्विन्देतायं सर्वेषां राज्ञां श्रैष्ठ्यमतिष्ठां परमतां गच्छेत साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्सार्वभौमः सार्वायुष आ ऽन्तादा परार्धात्पृथिव्यै समुद्रपर्यन्ताया एकराळिति ।
विश्वास-प्रस्तुतिः
तमेतेनैन्द्रेण महाभिषेकेण क्षत्त्रियं शापयित्वा ऽभिषिञ्चेत् ।
Haug
such a priest should inaugurate the Kṣattriya with Indra’s great inauguration ceremony. But, before doing so, the priest must make the king take the following oath :
मूलम्
तमेतेनैन्द्रेण महाभिषेकेण क्षत्त्रियं शापयित्वा ऽभिषिञ्चेत् ।
विश्वास-प्रस्तुतिः
यां च रात्रीमजायेथा यां च प्रेतासि तदुभयमन्तरेणेष्टापूर्तं ते लोकं सुकृतमायुः प्रजां वृञ्जीयं यदि मे द्रुह्येरिति ।
Haug
“Whatever pious works thou mightest have done during the time which may elapse from the day[1] of thy birth to the day of thy death, all these, together with the position, thy good deeds, thy life, thy children, I would wrest from thee, shouldest thou do me any harm.”
Haug - Notes
[1]In the original, râtri, night. The day commenced at evening, as it appears.
मूलम्
यां च रात्रीमजायेथा यां च प्रेतासि तदुभयमन्तरेणेष्टापूर्तं ते लोकं सुकृतमायुः प्रजां वृञ्जीयं यदि मे द्रुह्येरिति ।
विश्वास-प्रस्तुतिः
स य इच्छेदेवंवित्क्षत्त्रियो ऽहं सर्वा जितीर्जयेयमहं सर्वाँल्लोकान्विन्देयमहं सर्वेषां राज्ञां श्रैष्ठ्यमतिष्ठां परमतां गच्छेयं साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमहं समन्तपर्यायी स्यां सार्वभौमः सार्वायुष आ ऽन्तादा परार्धात्पृथिव्यै समुद्रपर्यन्ताया एकराळिति स न विचिकित्सेत् ।
Haug
The Kṣattriya, then, who wishes to attain to all this, should well consider
मूलम्
स य इच्छेदेवंवित्क्षत्त्रियो ऽहं सर्वा जितीर्जयेयमहं सर्वाँल्लोकान्विन्देयमहं सर्वेषां राज्ञां श्रैष्ठ्यमतिष्ठां परमतां गच्छेयं साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमहं समन्तपर्यायी स्यां सार्वभौमः सार्वायुष आ ऽन्तादा परार्धात्पृथिव्यै समुद्रपर्यन्ताया एकराळिति स न विचिकित्सेत् ।
विश्वास-प्रस्तुतिः
स ब्रूयात्सह श्रद्धया यां च रात्रीमजाये ऽहं यां च प्रेता ऽस्मि तदुभयमन्तरेणेष्टापूर्तं मे लोकं सुकृतमायुः प्रजां वृञ्जीथा यदि ते द्रुह्येयमिति ।
Haug
and say in good faith all that is above-mentioned (thou mayest wrest from me, &c., &c.)
मूलम्
स ब्रूयात्सह श्रद्धया यां च रात्रीमजाये ऽहं यां च प्रेता ऽस्मि तदुभयमन्तरेणेष्टापूर्तं मे लोकं सुकृतमायुः प्रजां वृञ्जीथा यदि ते द्रुह्येयमिति ।