स य इछेदेवंवित्क्षत्रियमायं सर्वा जितीर्जयेतायं सर्वाँ ल्लोकान्विन्देतायं सर्वेषां राज्ञां श्रैष्ठ्यमतिष्ठाम्परमतां गछेत साम्राज्यम्भौज्यं स्वाराज्यं वैराज्य-म्पारमेष्ठ्यं राज्यम्माहाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्सार्वभौमः सा-र्वायुष आन्तादा पररार्धात्पृथिव्यै समुद्र पर्यन्ताया एकराळ् इति तं एतेनैन्द्रे ण महाभिषेकेण क्षत्रियं शापयित्वाऽभिषिञ्चेद्यां च रात्रीमजायथा यां च प्रेतासि तदुभयमन्तरेणेष्टापूर्तं ते लोकं सुकृतमायुः प्रजां वृञ्जीय यदि मे द्रुह्येरिति स य इछेदेवंवित्क्षत्रियो ऽहं सर्वा जितीर्जयेयमहं सर्वांल्लोकान्विन्देयमहं सर्वेषां राज्ञां श्रैष्ठ्यमतिष्ठाम्परमतां गछेयं साम्राज्यम्भौज्यं स्वाराज्यम्वैराज्यम्पारमेष्ठ्यं राज्यम्माहाराज्यमाधिपत्यमहं समन्तपर्यायी स्यां सार्वभौमः सार्वायुष आन्तादा परार्धत्पृथिव्यै समुद्र पर्यन्ताया एकराळिति स न विचिकित्सेत्स ब्रूयत्सह श्रद्धया यां च रात्रीमजायेऽहं यां च प्रेतास्मि तदुभयमन्तरेणेष्टापूर्तम्मे
लोकं सुकृतमायुः प्रजां वृञ्जीथा यदि ते द्रुह्येयमिति १५